श्रीशारीरकमीमांसाभाष्ये इतरक्षपणाधिकरणम्
(अधिकरणार्थः – विदुषो ब्रह्मसम्पत्तिः, आरब्धकार्यपुण्यपापयोः फलभोगेन क्षपणानन्तरमेव)
४८८. भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ॥ ४–१–१९ ॥
(विचारौपयिकः संशयः)
ययो: पुण्यपापयोरश्लेषविनाशावुक्तौ, ताभ्यामितरे आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने, उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति संशये,
(युक्त्या पूर्वः पक्षः)
तस्य तावदेव चिरं यावन्न विमोक्ष्ये (छा.६.१४.२) इति तच्छरीरविमोक्षावसानत्वश्रवणात् तदवसाने ॥
(सूत्रार्थतः सिद्धान्तः)
इति प्राप्त उच्यते – भोगेन तु इति। तुशब्द: पक्षव्यावृत्त्यर्थ:; इतरे आरब्धकार्ये पुण्यपापे स्वारब्धफलभोगेन क्षपयित्वा तत्फलभोगसमाप्त्यनन्तरं ब्रह्म सम्पद्यते; ते च पुण्यपापे एकशरीरोपभोग्यफले चेत् – तच्छरीरावसाने सम्पद्यते; अनेकशरीरभोग्यफले चेत् – तदवसाने सम्पद्यते, भोगेनैव क्षपयितव्यत्वादारब्धफलयो: कर्मणो: । तस्य तावदेव चिरं यावन्न विमोक्ष्ये (छां.६.१४.२) इति च भोगेन तयो: कर्मणो: विमोक्ष उच्यते, देहावधिनियमाश्रवणात्।
(बहुचर्चितपुण्यपापाश्लेषविनाशविचारनिगमनम्)
तदेवं ब्रह्मविद्याया: प्रागनुष्ठितमभुक्तफलमनारब्धफलं पुण्यपापरूपं कर्मानादिकालसंचितं अनन्तं विद्यामाहात्म्यात् विनश्यति; विद्यारम्भोत्तरकालमनुष्ठितं च न श्लिष्यति; तत्र पुण्यरूपं सर्वं विदुषस्सुहृदो गृह्णन्ति, पापं च द्विषन्त इति निरवद्यम् ॥१९॥
इति श्रीशारीरकमीमांसाभाष्ये इतरक्षपणाधिकरणम्॥११॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य प्रथमः आवृत्तिपाद:॥१॥