श्रीशारीरकमीमांसाभाष्ये अध्यक्षाधिकरणम्॥३॥
(अधिकरणार्थः – वागादिमनोन्तयुक्तस्य प्राणस्य जीवे सम्पत्तिः)
४९२. सोऽध्यक्षे तदुपगमादिभ्य: ॥ ४–२–४ ॥
(सयुक्तिकः पूर्वः पक्षः)
यथा वाङ्मनसि सम्पद्यते मन: प्राणे (छा.६.८.६) इति वचनानुरोधेन मन: प्राणयोरेव वाङ्मनसयोस्सम्पत्ति:; तथा प्राणस्तेजसि (छा.६.६.६) इति वचनात्तेजस्येव प्राणस्सम्पद्यते –
(सूत्रतः सिद्धान्तार्थः)
इति प्राप्त उच्यते – सोऽध्यक्षे – इति। स: – प्राण:, अध्यक्षे – करणाधिपे जीवे सम्पद्यते। कुत:? तदुपगमादिभ्य: – प्राणस्य जीवोपगमस्तावच्छूयते एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति (बृ.६.३.३८) इति; तथा जीवेन सह प्राणस्योत्क्रान्ति: श्रूयते तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृह.६.४.२) इति; प्रतिष्ठा च जीवेन सह श्रूयते कस्मिन्नुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि (प्र.६.३) इति। एवं जीवेन संयुज्य तेन सह तेजस्सम्पत्तिरिह प्राणस्तेजसि (छा.६.८.६) इत्युच्यते; यथा यमुनाया: गङ्गया संयुज्य सागरगमनेऽपि यमुना सागरं गच्छति इति वचो न विरुध्यते, तद्वत् ॥४॥
इति श्रीशारीरकमीमांसाभाष्ये अध्यक्षाधिकरणम्॥३॥