श्रीशारीरकमीमांसाभाष्ये भूताधिकरणम्॥४॥
(अधिकरणार्थः – प्राणसंयुक्तस्य जीवस्य संहतेषु सर्वेषु भूतेष्वेव सम्पत्तिः, न केवले तेजसि)
४९३. भूतेषु तच्छ्रुते: ॥ ४–२–५॥
(विचारणीयो विषयः ससंशयः)
प्राणस्तेजसि (छा.६.८.६) इति जीवसंयुक्तस्य प्राणस्य तेजसि सम्पत्तिरुक्ता, सा सम्पत्ति: किं तेजोमात्रे, उत संहतेषु सर्वेषु भूतेष्विति विशये
(पूर्वपक्षार्थः)
तेजोमात्रश्रवणात्तेजसि
(सूत्रेण सिद्धान्तार्थः)
इति प्राप्त उच्यते – भूतेषु – इति। भूतेषु- सम्पद्यते। कुत:? तच्छ्रुते: – पृथिवीमय आपोमय: …… तेजोमय: (बृ.६.४.५) इति जीवस्य सञ्चरतस्सर्वभूतमयत्वश्रुते:॥५॥
(एकैकस्य भूतस्य सृष्ट्यनौपयिकता)
ननु तेज: प्रभृतिष्वेकैकस्मिन् क्रमेण सम्पत्तावपि पृथिवीमय: (बृ.६.४.५) इत्यादिका श्रुतिरुपपद्यते, अत आह –
४९४. नैकस्मिन् दर्शयतो हि ॥ ४–२–६ ॥
नैकस्मिन्, एकैकस्य कार्याक्षमत्वात्। दर्शयतो ह्यक्षमत्वं श्रुतिस्मृती अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा.६.३.२) इति नामरूपव्याकरणयोग्यत्वाय त्रिवृत्करणमुपदिश्यते। नानावीर्या: पृथग्भूता: ततस्ते संहतिं विना। नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नश:। समेत्यान्योन्यसंयोगं परस्परसमाश्रया:। महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते (वि.पु.१.२.५२,५३) इति। अत: प्राणस्तेजसि (छा.६.८.६) इति तेजश्शब्देन भूतान्तरसंसृष्टमेव तेजोऽभिधीयते। अतो भूतेष्वेव सम्पत्ति: ॥६॥
इति श्रीशारीरकमीमांसाभाष्ये भूताधिकरणम्॥ ४॥