श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम् ॥६॥
(अधिकरणार्थः – विदुषि जीवे परिष्वक्तानि भूतसूक्ष्माणि परमात्मन्येव सम्पद्यन्ते)
५०२. तानि परे तथाह्याह ॥ ४–२–१४ ॥
(अवान्तरसङ्गतिः)
सकरणग्राम: सप्राण: करणाध्यक्ष: प्रत्यगात्मा उत्क्रान्तिवेलायां तेज: प्रभृतिभूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्; सैषा सम्पत्तिर्विदुषो न विद्यत इत्याशङ्क्य परिहृतम् ॥
(विचारौपयिकः संशयः)
तानि पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्यं च स्वकार्याय गच्छन्ति, उत परमात्मनि सम्पद्यन्त इति विशये –
(पूर्वः पक्षः)
मध्ये परमात्मसम्पत्तौ सुखदु:खोपभोगरूपकार्यदर्शनात्, तदुपभोगानुगुण्येन यथाकर्म यथाविद्यं च गच्छन्ति ।
(सूत्रतः सिद्धान्तः)
इति प्राप्ते उच्यते – तानि परे – इति । तानि परस्मिन्नात्मनि सम्पद्यन्ते; कुत:? तथाह्याह श्रुति: – तेज: परस्यां देवतायाम् (छा.६-८-६) इति । यथाह – श्रुतिस्तदनुगुणं कार्यं कल्प्यमित्यर्थ: । सुषुप्तिप्रलययोर्यथा परमात्मसम्पत्त्या सुखदु:खोपभोगायासविश्रम:; तद्वदिहापि॥१४॥
इति श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम्॥६॥