श्रीशारीरकमीमांसाभाष्ये तदोकोधिकरणम्॥८॥
(अधिकरणार्थः – परमपुरुषप्रसादात् विदुषः जीवस्य उत्क्रान्तिकाले मूर्धन्यनाडीप्रकाशः तया गतिश्च)
५०४. तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया ॥ ४–२–१६ ॥
(अवान्तरसङ्गतिः)
एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्त:; इदानीं विदुषो विशेष उच्यते।
(विचारणीयो विषयः, विचारार्थः संशयश्च)
तत्रेदमाम्नायते – शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्डन्या उत्क्रमणे भवन्ति (कठ.२.६.१६) इति । अनया नाडीनां शताधिकया मूर्धन्य नाड्यैव विदुषो गमनम्, अन्याभिरेव चाविदुषो गमनमित्ययं नियम उपपद्यते, नेति संशय:।
(युक्तितः पूर्वः पक्षः)
किं युक्तम्? नियमो नोपपद्यत इति । कुत:? नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात्। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्डन्या उत्क्रमणे भवन्ति (कठ.२.६.१६) इति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमिति ॥
(सूत्रतः सिद्धान्तार्थः)
एवं प्राप्ते प्रचक्ष्महे शताधिकया – इति। विद्वान् शताधिकया मूर्धन्ययैव नाड्योत्क्रामति।
न चास्या: विदुषो दुर्विवेचत्वम्; विद्वान् हि, परमपुरुषाराधनभूतात्यर्थप्रियविद्यासामर्थ्यात् विद्याशेषभूततयाऽऽत्मनोऽत्यर्थप्रियगत्यनुस्मरणयोगाच्च प्रसन्नेन हार्देन परमपुरुषेणानुगृहीतो भवति; ततश्च तदोक: – तस्य जीवस्य स्थानं हृदयम्, अग्रज्वलनं भवति अग्रे ज्वलनं प्रकाशनं यस्य, तदिदमग्रज्वलनम्। परमपुरुषप्रसादात्प्रकाशितद्वारो विद्वान् तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यते ॥१६॥
इति श्रीशारीरकमीमांसाभाष्ये तदोकोऽधिकरणम्॥८॥