श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम्॥१०॥
(अधिकरणार्थः – विदुषः निशि मृतस्यापि ब्रह्मप्राप्तिः अवश्यम्भाविनी)
५०६. निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ ४–२–१८ ॥
(प्रकृतचिन्तोपयोगिसंशयप्रदर्शनम्)
इदमिदानीं चिन्त्यते – विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, नेति।
(सिद्धान्तिच्छायया शङ्कापूर्वकं पूर्वपक्षस्वीकारः)
यद्यपि निशायां सूर्यरश्मिसम्भवाद्रश्म्यनुसारेण गतिर्निशायामपि सम्भवति; तथापि निशामरणस्य शास्त्रेषु गर्हितत्वात्परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तम्, विपरीतं निशामरणं, दिवा च शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम् (म.भा.अनु.२२-३१) इति। दिवामरणनिशामरणयो: प्रशस्तत्वविपरीतत्वे चोत्तमाधमगतिहेतुत्वेन स्याताम्। अतो निशामरणमधोगतिहेतुत्वान्न ब्रह्मप्राप्तिहेतुरिति चेत् –
(सूत्रोत्तरखण्डविवरणतः सिद्धान्तार्थः)
तन्न, विदुष: कर्मसम्बन्धस्य यावद्देहभावित्वात् । एतदुक्तं भवति – अनारब्धकार्याणामधोगतिहेतुभूतानां कर्मणां विद्यासम्बन्धेनैव विनाशादुत्तरेषां चाश्लेषात्प्रारब्धकार्यस्य च चरमदेहावधित्वाद्बन्धहेत्वभावाद्विदुषो निशामृतस्यापि ब्रह्मप्राप्तिस्सिद्धैव । दर्शयति च श्रुति: तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छां.६.१४.२) इति दिवा च शुक्लपक्षश्च इत्यादिवचनमविद्वद्विषयम् ॥१८॥
इति श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम्॥१०॥