श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम्॥२॥
(अधिकरणस्यार्थः – अर्चिरादिपथगत वायु-देवलोक शब्दयोरेकार्थता, अतः तत्र गच्छतां आदित्यतः पूर्वं वायोरेव प्राप्तिः)
५१०. वायुमब्दादविशेषविशेषाभ्याम् ॥४–३–२॥
(विचारणीयविषयोपस्थापनम् तदर्थं विषयशोधनं च)
अर्चिरादिनैव गच्छन्ति विद्वांस इत्युक्तम्; तत्रार्चिरादिके मार्गे छन्दोगा: मासादित्ययोरन्तराले संवत्सरमधीयते, मासेभ्य: संवत्सरं संवत्सरादादित्यम् (छा.४.१५.५) इति। वाजसनेयिनस्तु तयोरेवान्तराले देवलोकं मासेभ्यो देवलोकं देवलोकादादित्यम् (बृ.८.२.१५) इति। उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोपसंहार्यौ। तत्र मासादूर्ध्वमभिहितयोस्संवत्सरदेवलोकयो: पञ्चम्याऽभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान् (छां.४.१५.५) इत्यधिककालानां न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशदर्शनात्संवत्सरस्यैव मासादनन्तरं बुद्धौ विपरिवृत्ते: संवत्सर एव मासादूर्ध्वं निवेशयितव्य इति तत ऊर्ध्वं देवलोक इति निश्चीयते । अन्यत्र वाजसनेयिन: यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति (बृ.७.१०.१) इत्यादित्यात्पूर्वं वायुमधीयते। कौषीतकिनस्तु स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकम् (कौ.१.३) इत्यग्निलोकशब्दनिर्दिष्टादर्चिष: परं वायुमधीयते । तत्र कौषीतकिनां पाठक्रमेणार्चिष: परत्वेन प्राप्तस्य वायोर्वाजसनेयिनां तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति (बृ.७.१०.१) इत्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्बलीयसा आदित्यात्पूर्वं प्रवेशो निश्चीयते । अत आदित्यात्पूर्वं संवत्सरादूर्ध्वं देवलोको वायुश्च प्राप्तौ।
(निर्णयौपयिकः संशयः)
तत्रेदं चिन्त्यते – किं देवलोको वायुश्चार्थान्तरभूतौ यथेष्टक्रमेण विद्वानभिगच्छेत्, उतानर्थान्तरत्वेन संवत्सरादूर्ध्वं देवलोकं सन्तं वायुमभिगच्छेत् इति ।
(युक्त्या पूर्वः पक्षः)
किं युक्तम्? भिन्नार्थत्वम्, प्रसिद्धे:। भिन्नार्थत्वे चोर्ध्वशब्देन पञ्चम्या चोभयोस्संवत्सरादित्यान्तराले श्रुतिक्रमेण प्राप्तत्वात्, विशेषाभावाच्च यथेष्टम् –
(सिद्धान्तः)
इति प्राप्ते उच्यते – वायुमब्दात् – इति । वायुं संवत्सरादूर्ध्वमभिगच्छेत्। कुत:? अविशेषविशेषाभ्यां वायोरेव निर्दिष्टत्वात् । देवलोकशब्दो हि अविशेषेण – सामान्येन देवानां लोक इत्यनेन रूपेण वायुमभिधत्ते । स वायुमागच्छति तस्मै स तत्र (बृ.७.१०.१) इति वायुशब्दो विशेषेण वायुमभिधत्ते । अतो देवलोकवायुशब्दाभ्याम् अविशेषविशेषाभ्यां वायुरेवाभिधीयत इति संवत्सरादूर्ध्वं वायुमेवाभिगच्छेत् । कौषीतकिनां वायुलोकशब्दश्चाग्निलोकशब्दवत् वायुश्चासौ लोकश्चेति व्युत्पत्त्या वायुमेवाभिधत्ते । वायुश्च देवानामावासभूत इत्यन्यत्र श्रूयते योऽयं पवत एष देवानां गृहा: इति ॥२॥
इति श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम्॥ २॥