श्री शारीरकमीमांसाभाष्ये कार्याधिकरणम्॥६॥
(अधिकरणार्थः – अर्चिरादिरातिवाहिको गणः ब्रह्मात्मकं प्रकृतिवियुक्तात्मानं च उपासीनानेव ब्रह्मपदं नयति, न तु कार्यं हिरण्यगर्भादिकमुपासीनान्)
५१४. कार्यं बादरिरस्य गत्युपपत्ते: ॥ ४–३–६ ॥
(अवान्तरसङ्गतिप्रदर्शनम्)
अर्चिरादिनैव गच्छति विद्वान्; अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्युक्तम्।
(प्रकृताधिकरणार्था चिन्ता)
इदमिदानीं चिन्त्यते । किमयमर्चिरादिको गण: कार्यं हिरण्यगर्भमुपासीनान्नयति, उत परमेव ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्च – इति विशये –
(सूत्रार्थतः बादरिमतप्रदर्शनम्)
कार्यमुपासीनानेव गमयतीति बादरिराचार्यो मन्यते। कुत:? अस्य – हिरण्यगर्भमुपासीनस्यैव गत्युपपत्ते:; न हि परिपूर्णं सर्वज्ञं सर्वगतं सर्वात्मभूतं परं ब्रह्मोपासीनस्य तत्प्राप्तये देशान्तरगतिरुपपद्यते, प्राप्तत्वादेव ॥
(उपासनवैयर्थ्यपरिहारः)
नित्यप्राप्तपरब्रह्मविषयाविद्यानिवृत्तिमात्रमेव हि परविद्याकार्यम्। कार्यं तु हिरण्यगर्भरूपं ब्रह्मोपासीनस्य परिच्छिन्नदेशवर्तिप्राप्यप्राप्त्यर्थं गमनमुपपद्यते। अतोऽर्चिरादिरातिवाहिकगणः तमेव नयति ॥६॥
(उक्तबातरिमताभ्युच्चायकश्रुतिः)
५१५. विशेषितत्वाच्च ॥ ४–३–७ ॥
पुरुषोऽमानव एत्य ब्रह्मलोकान्गमयति (बृ.८.२.१५) इति लोकशब्देन बहुवचनेन च लौकिकविशेषवर्तिनं हिरण्यगर्भमुपासीनमेवामानवो गमयतीति विशेष्यते। किञ्च प्रजापतेस्सभां वेश्म प्रपद्ये (छां.८.१४.१) इति कार्यस्य हिरण्यगर्भस्य समीपगमनमर्चिरादिना गत: प्रत्यभिसन्धत्ते ॥७॥
(उक्तपक्षे ब्रह्म गमयतीति निर्देशौचित्यम्)
नन्वेवं तत्पुरुषोऽमानव: (छा.४.१५.५) स एनान् ब्रह्म गमयति (छां.४.१४.६) इत्ययं निर्देशो नोपपद्यते; हिरण्यगर्भनयने हि स एनान् ब्रह्माणं गमयति इति निर्देष्टव्यं स्यात्; अत आह-
५१६. सामीप्यात्तु तद्व्यपदेश: ॥ ४–३–८ ॥
यो ब्रह्माणं विदधाति (श्वे.६.१८) इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यात्तस्य ब्रह्मशब्देन व्यपदेश इति गत्यनुपपत्तिविशेषणादिभिरुक्तैर्हेातुभिर्निश्चीयत इत्यर्थ: ॥८॥
(कार्यब्रह्मपरत्वेऽपि अमृतत्वाद्युक्तिनिर्वाहः)
अथ स्यात् – अर्चिरादिना हिरण्यगर्भप्राप्तौ एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा.४.१५.६) तयोर्ध्वमायन्नमृतत्वमेति (कठ.२.६.१६) इत्यमृतत्वप्राप्त्यपुनरावृत्तिव्यपदेशो नोपपद्यते, हिरण्यगर्भस्य कार्यभूतस्य द्विपरार्धकालावसाने विनाशशास्त्रात्, आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन (भ.गी.८.१६) इति वचनाद्धिरण्यगर्भं प्राप्तस्य पुनरावृतेरवर्जनीयत्वादिति; अत्राह –
५१७. कार्यात्यये तदध्यक्षेण सहात: परमभिधानात् ॥ ४–३–९ ॥
कार्यस्य ब्रह्मलोकस्यात्यये तदध्यक्षेण – हिरण्यगर्भेणाधिकारिकेणावसिताधिकारेण विदुषा सह स्वयमपि तत्राधिगतविद्य:; अत: कार्याद्ब्रह्मलोकात् परं ब्रह्म प्राप्नोतीत्यर्चिरादिना गतस्यामृतत्वप्राप्त्यपुनरावृत्त्यभिधानात् ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे (तै.ना.१०.२४.५) इति वचनाच्चावगम्यते ॥९॥
(उक्तार्थस्य स्मृतितोऽपि सिद्धिः)
५१८. स्मृतेश्च ॥ ४–३–१० ॥
स्मृतेश्चायमर्थोऽवगम्यते – ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मन: प्रविशन्ति परं पदम् इति । अत: कार्यमुपासीनमेवार्चिरादिको गणो नयतीति बादरेर्मतम्॥१०॥
(ब्रह्मशब्दमुख्यत्वानुगुणं जैमिनिमतम्)
अत्र जैमिनि: पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठते –
५१९. परं जैमिनिर्मुख्यत्वात् ॥ ४–३–११ ॥
परं ब्रह्मोपासीनानर्चिरादिर्नयतीति जैमिनिराचार्यो मन्यते; कुत:? मुख्यत्वात् – तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति इति ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात् । प्रामाणान्तरेण कार्यत्वनिश्चये सत्येव हि लाक्षणिकत्वं युक्तम् ।
(गमनान्यथानुपपत्तेः कार्यब्रह्मगमकतानिरासः)
न च गमनानुपपत्ति: प्रमाणम्, परस्य ब्रह्मणस्सर्वगतत्वेऽपि विदुषो विशिष्टदेशगतस्यैव अविद्यानिवृत्तिशास्त्रात् । यथा हि विद्योत्पत्तिर्वर्णाश्रमधर्मशौचाचारदेशकालाद्यपेक्षा तमेतं वेदानुवचनेन इत्यादिशास्त्रादवगम्यते, तथा निश्शेषाविद्यानिवर्तनरूपविद्यानिष्पत्तिरपि विशिष्टदेशगतिसापेक्षेति गतिशास्त्रादवगम्यते । विदुष उत्क्रान्तिप्रतिषेधादि तु पूर्वमेव परिहृतम् ।
(विशेषितत्वाच्चेति सूत्रोक्तयुक्तिनिरासः)
यत्तु ब्रह्मलोकान् (बृ.८-२-१५) इति लोकशब्दबहुवचनाभ्यां विशेषणात्कार्य- भूतहिरण्यगर्भप्रतीतिरिति; तदयुक्तम्, निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयस्यैव युक्तत्वात्, अर्थस्य चैकत्वे निश्चिते बहुवचनम् अदिति: पाशान् (जै.मी.सू.९.३.५) इतिवदुपपत्ते:; परस्य ब्रह्मण: परिपूर्णस्य सर्वगतस्य सत्यसङ्कल्पस्य स्वेच्छापरिकल्पिता: स्वासाधारणा अप्राकृताश्च लोका नात्यन्ताय न सन्ति, श्रुतिस्मृतीतिहासपुराणप्रामाण्यात्॥११॥
(देहान्निष्क्रममाणस्य श्रौतत्वज्ञापनम्)
५२०. दर्शनाच्च ॥ ४–३–१२ ॥
दर्शयति श्रुति: मूर्धन्यनाड्या निष्क्रम्य देवयानेन गतस्य परब्रह्मप्राप्तिम् एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति॥१२॥
(कार्यब्रह्मप्रत्यभिज्ञापकनिरासः)
यदुक्तं प्रजापतेस्सभां वेश्म प्रपद्ये इत्यर्चिरादिना गतस्य कार्ये प्रत्यभिसन्धिर्दृश्यत इति तत्रोत्तरं –
५२१. न च कार्ये प्रत्यभिसन्धि: ॥ ४–३–१३ ॥
न चायं प्रत्यभिसन्धि: कार्ये हिरण्यगर्भे; अपि तु परस्मिन्नेव ब्रह्मणि, वाक्यशेषे यशोऽहं भवामि ब्राह्मणानाम् (छा.८.१४.१) इति तस्याभिसन्धातुस्सर्वाविद्याविमोकपूर्वकसर्वात्म-भावाभिसन्धानात्, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१३.१) इत्यभिसम्भाव्यस्य ब्रह्मलोकस्याकृतत्वश्रवणात्, सर्वबन्धविनिर्मोकस्य च साक्षाच्छ्रवणात्। अत: परमेव ब्रह्मोपासीनमर्चिरादिरातिवाहिको गणो नयतीति जैमिनेर्मतम् ॥१३॥
(बादरायणमतेन सिद्धान्तार्थप्रदर्शनम्)
इदानीं बादरायणस्तु भगवान् स्वमतेन सिद्धान्तमाह –
५२२. अप्रतीकालम्बनान्नयतीति बादरायण उभयधा च दोषात्तत्क्रतुश्च ॥ ४–३–१४ ॥
अप्रतीकालम्बनान् प्रतीकालम्बनव्यतिरिक्तान् नयत्यर्चिरादिरातिवाहिको गण इति भगवान् बादरायणो मन्यते ॥
(आतिवाहिकनीयमानचेतनस्वरूपनिगमनम्)
एतदुक्तं भवति – कार्यमुपासीनान्नयतीति नायं पक्षस्सम्भवति; परमेवोपासीनानित्ययमपि नियमो नास्ति; न च प्रतीकालम्बनानपि नयति; अपि तु ये परं ब्रह्मोपासते, ये चात्मानं प्रकृतिवियुक्तं ब्रह्मात्मकमुपासते; तानुभयविधान्नयति; ये तु ब्रह्मकार्यान्तर्भूतनामादिकं वस्तु देवदत्तादिषु सिंहादिदृष्टिवत् ब्रह्मदृष्ट्या, केवलं वा तत्तद्वस्तूपासते, न तान्नयति। अत: परं ब्रह्मोपसीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनान्नयति इति ।
(उक्तार्थे हेतुप्रदर्शनम्)
कुत:? उभयधा च दोषात्। कार्यमुपासीनान्नयतीति पक्षे अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य इत्यादिका: श्रुतय: प्रकुप्येयु:; परमेवोपासीनानिति नियमे तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति (छा.५.१०.१) इति पञ्चाग्निविदोऽर्चिरादिर्गणो नयतीति श्रुति: प्रकुप्येत्। अत: उभयस्मिन्नपि पक्षे दोषस्स्यात् । तस्मादुभयविधान्नयतीति । तदेतदाह – तत्क्रतुश्च – इति। तत्क्रतु: – तथोपासीनस्तथैव प्राप्नोतीत्यर्थ:, यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेत: प्रेत्य भवति (छा.३.१४.१) तं यथायथोपासते (मुद्ग.उ.३) इति न्यायात् । पञ्चाग्निविदोप्यर्चिरादिना गतिश्श्रवणात्, अर्चिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च । अत एव तत्क्रतुन्यायात्प्रकृतिविनिर्मुक्त-ब्रह्मात्मकात्मा-नुसन्धानं सिद्धम् । नामादिप्राणपर्यन्त-प्रतीकालम्बनानां तु उभयविधश्रुतिसिद्ध-उपासनाभावात्, अचिन्मिश्रोपासने तत्क्रतुन्यायाच्चार्चिरादिना गतिर्ब्रह्मप्राप्तिश्च न विद्यते ॥१४॥
(उक्तस्य विशेषस्य श्रौतत्वप्रदर्शनम्)
तमिमं विशेषं श्रुतिरेव दर्शयतीत्याह –
५२३. विशेषञ्च दर्शयति ॥ ४–३–१५ ॥
यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति (छा.७.१.५) इत्यादिका श्रुति: नामादिप्राणपर्यन्तप्रतीकमुपासीनानां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति, तस्मादचिन्मिश्रं केवलं वा अचिद्वस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते, न तान् नयति, अपि तु परं ब्रह्मोपासीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम्॥
इति श्रीशारीरकमीमांसाभाष्ये कार्याधिकरणम्॥५॥
इति भगवद्रामानुजिवरिचते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य तृतीय:पाद:॥३॥