श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम्॥३॥
(अधिकरणार्थः – मुक्तौ आत्मस्वरूपाविर्भावः, विज्ञानस्वरूपेण अपहतपाप्मत्वादिना चेति)
५२८. ब्राह्मेण जैमिनिरुपन्यासादिभ्य: ॥ ४–४–५ ॥
(भावान्तरसङ्गतिप्रदर्शनम्)
प्रत्यगात्मन: परं ज्योतिरुपसम्पद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् ।
(विचारणीयो विषयः, प्रकृतः संशयश्च)
तत्र येन स्वरूपेणायमाविर्भवति; तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते। किमपहतपाप्मत्वादिकमेवास्य स्वरूपमिति तेन रूपेणायमाविर्भवति, उत विज्ञानमात्रमेवेति तेन रूपेण, अथोभयोरविरोध इत्युभयरूपेणेति ।
(जैमिनेर्मतानुवादः)
किं तावत्प्राप्तम्? ब्राह्मेणेति जैमिनिराचार्यो मन्यते । ब्राह्मेण – अपहतपाप्मत्वादिनेत्यर्थ:। अपहतपाप्मत्वादयो हि दहरवाक्ये ब्रह्मसम्बन्धितया श्रुता: । ब्राह्मेणेति कुतोऽवगम्यते? उपन्यासादिभ्य:; उपन्यस्यन्ते हि ब्रह्मगुणा: अपहतपाप्मत्वादय: प्रत्यगात्मनोऽपि प्रजापतिवाक्ये य आत्माऽपहतपाप्मा (छा.८.७.१) इत्यादिना सत्यसङ्कल्प: (छां.८.७.२) इत्यन्तेन। आदिशब्देन सत्यसङ्कल्पत्वादिगुणायत्ता जक्षणादय: जक्षत्क्रीडन्रममाण: (छा.८.१२.३) इत्यादिवाक्यावगता व्यवहारा गृह्यन्ते । अत एभ्य उपन्यासादिभ्य: प्रत्यगात्मनो विज्ञानमात्रस्वरूपत्वं न सम्भवतीति जैमिनेर्मतम् ॥५॥
(औडुलोमिमतप्रदर्शनम्)
५२९. चिति तन्मात्रेण तदात्मकत्वादित्यौडुलौमि: ॥ ४–४–६ ॥
चैतन्यमात्रमेवास्य स्वरूपमिति तेन रूपेणाविर्भवतीत्यौडुलोमिराचार्यो मन्यते । कुत:? तदात्मकत्वात् – तावन्मात्रात्मकत्वादस्य प्रत्यगात्मन: । स यथा सैन्धवघनोऽनन्तरोऽबाह्य: कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्य: कृत्स्न: प्रज्ञानघन एव (बृ.६.५.१३) विज्ञानघन एव (बृ.४.४.१२) इत्यवधारणात् विज्ञानमात्रमेवास्य स्वरूपमित्यवगम्यते। अतोऽस्य गुणान्तराभावात् अपहतपाप्मा (छा.८.७.२) इत्यादय: शब्दा: विकारसुखदु:खाद्यविद्यात्मकधर्म-व्यावृत्तिपरा इति चिति तन्मात्ररूपेणाविर्भाव इत्यौडुलोमेर्मतम् ॥६॥
(बादारयणस्य स्वस्य मतेन सिद्धान्तः)
सम्प्रति भगवान् बादरायण: स्वमतेन सिद्धान्तमाह –
५३०. एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायण: ॥ ४–४–७ ॥
एवमपि – विज्ञानमात्रस्वरूपत्वप्रतिपादने सत्यपि, सत्यकामत्वादीनां पूर्वोक्तानां गुणानामविरोधं बादरायण आचार्यो मन्यते । कुत:? उपन्यासात्पूर्वभावात् – औपनिषदात् य आत्माऽपहतपाप्मा (छा.८.७.१) इत्याद्युपन्यासात्प्रमाणात् पूर्वेषाम् – अपहतपाप्मत्व-सत्यकामत्वादीनां अपि भावात् विद्यमानत्वात्। तुल्यप्रमाणकानामितरेतरबाधो न युज्यत इत्यर्थ:।
(उक्तार्थे वस्तुविरोधपरिहारः)
न च वस्तुविरोधादपहतपाप्मत्वादीनां अविद्यापरिकल्पितत्वं न्याय्यम्, विशेषाभावात् विपरीतं कस्मान्न भवति इति न्यायात् । तुल्यबलत्वे ह्यशक्यस्या-वधारणस्यान्यपरत्वमेव न्याय्यम् ।।
(विज्ञानघन एवेत्यस्य तात्पर्यान्तरम्)
एवमप्यविरोध इत्यभ्युपगम्य वदन् ज्ञानमात्रमेवास्य स्वरूपं नान्यत्किञ्चिदस्तीत्ययमर्थ: विज्ञानघन एव (बृ.४.४.१२) इत्यादिभिर्न प्रतिपाद्यत इति मन्यते । कस्तर्हि विज्ञानघन एव (बृ.४.४.१२) इत्यवधारणस्यार्थ:? कृत्स्नोऽप्यात्मा जडव्यावृत्तस्वप्रकाश: नान्यायत्तप्रकाश: स्वल्पोऽपि प्रदेशोऽस्तीत्ययमर्थो वाक्यादेव सुव्यक्त: । स यथा सैन्धवघनोऽनन्तरोऽबाह्य: कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्य: कृत्स्न: प्रज्ञानघन एव (बृ.६.५.१३) इति ।
(अविरोधस्य विशदीकरणम्)
न चैवं प्रत्यगात्मनो धर्मिस्वरूपस्य कृत्स्नस्य विज्ञानघनत्वेऽप्यपहतपाप्मत्व-सत्यसङ्कल्पत्वादिधर्मसम्बन्धो वाक्यान्तरावगतो विरुध्यते; यथा सैन्धवघनस्य कृत्स्नस्य रसघनत्वे रसनेन्द्रियावगते चक्षुराद्यवगता: रूपकाठिन्यादयो न विरुध्यन्ते । इदमत्र वाक्यतात्पर्यं – यथा रसवत्स्वाम्रफलादिषु त्वगादिप्रदेशभेदेन रसभेदे सत्यपि सैन्धवघनस्य सर्वत्रैकरसत्वम्; तथाऽऽत्मनोऽपि सर्वत्र विज्ञानस्वरूपत्वम्; स्वप्रकाश-स्वरूपत्वमित्यर्थ:॥७॥
इति श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम्॥३॥