श्रीशारीरकमीमांसाभाष्ये संकल्पाधिकरणम्॥४॥
(अधिकरणार्थः – मुक्तात्मनोऽपि ज्ञात्यादिरूपेष्टार्थसम्पत्तिः)
५३१. संकल्पादेव तच्छ्रुते: ॥ ४–४–८॥
(अवान्तरसङ्गतिः – विचारणीयो विषयश्च)
मुक्त: परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आविर्भवतीत्युक्तम्; तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहारा: श्रूयन्ते स तत्र पर्येति जक्षत्क्रीडन्रममाण: स्त्रीभिर्वायानैर्वा ज्ञातिभिर्वा (छां.८.१२.३) इति ।
(विचारोपयोगी संशयः)
किमस्य ज्ञात्यादिप्राप्ति: प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विशये;
(युक्तितः पूर्वः पक्षः)
लोके राजादीनां सत्यसंकल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा –
(सूत्रतः सिद्धान्तः)
इति प्राप्त उच्यते -सङ्कल्पादेव – इति । कुत:? तच्छ्रुते: – स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति (छा.८.२.१) इति हि सङ्कल्पादेव पित्रादीनां समुत्थानं श्रूयते। न च प्रयत्नान्तरसापेक्षत्वाभिधायि श्रुत्यन्तरं दृश्यते; येनास्य सङ्कल्पादेव इत्यवधारणस्य विज्ञानघन एव (बृ.४.४.१२) इतिवद्व्यवस्थापनं क्रियते॥८॥
(मुक्तस्याकर्मवश्यताया अनेनैव सिद्धिः)
५३२. अत एव चानन्याधिपति: ॥ ४–४–९ ॥
यतो मुक्तस्सत्यसङ्कल्प:; अत एवानन्याधिपतिश्च। अन्याधिपतित्वं हि विधिनिषेधयोग्यत्वम्। विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत् । अतस्सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वं च सिद्धम् । अत एव स स्वराड्भवति (छा.७.२५.२) इत्युच्यते ॥९॥
इति श्रीशारीरकमीमांसाभाष्ये सङ्कल्पाधिकरणम्॥४॥