श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवर्जाधिकरणम् ॥६॥
(अधिकरणार्थः – मुक्तात्मनां ब्रह्मणा परमसाम्यं भगवदसाधारणान् धर्मान्विहायैव)
५४०. जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ ४–४–१७ ॥
(विचारोपयोगी संशयः)
किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशय:।
(युक्त्या पूर्वः पक्षः)
किं युक्तम् ? जगदीश्वरत्वमपीति। कुत:? निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति परमपुरुषेण परमसाम्यापत्तिश्रुते: सत्यसङ्कल्पत्वश्रुतेश्च।
(मुक्तैश्वर्यस्य जगन्नियमनाविनाभावशङ्का)
न हि परमसाम्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमनेन विनोपपद्येते । अतस्सत्यसङ्कल्पत्वपरमसाम्योपपत्तये समस्तजगन्नियमनरूपमपि मुक्तस्यैश्वर्यमिति ॥
(सिद्धान्तः सूत्रार्थतः)
एवं प्राप्ते प्रचक्ष्महे – जगद्व्यापारवर्जम् इति । जगद्व्यापार: – निखिलचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदनियमनम् । तद्वर्जं निरस्तनिखिलतिरोधानस्य निर्व्याजब्रह्मानुभवरूपं मुक्तस्यैश्वर्यम् । कुत:? प्रकरणात् – निखिलजगन्नियमनं हि परं ब्रह्म प्रकृत्याऽम्नायते – यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म (तै.भृगु.१) इति। यद्येतन्निखिलजगन्नियमनं मुक्तानामपि साधारणं स्यात्, ततश्चेदं जगदीश्वरत्वरूपं ब्रह्मलक्षणं न सङ्गच्छते; असाधारणस्य हि लक्षणत्वम् । तथा सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.१) ब्रह्म वा इदमेकमेवाग्र आसीत् तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवक्षत्राणि इन्द्रो वरुणस्सोमो रुद्र: पर्जन्यो यमो मृत्युरीशान इति (बृ.३.४.११) आत्मा वा इदमेकएवाग्र आसीत् नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत (ऐत.१.१) एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी, क्षत्राणि नापो नाग्निर्न सोमो न सूर्य: स एकाकी न रमेत तस्य ध्यानान्तस्थस्यैका कन्या दशेन्द्रियाणि (महोपनिषत्.१.१) इत्यदिषु । य: पृथिव्यां तिष्ठन् पृथिव्या अन्तर: (बृ.५.७.३) इत्यारभ्य य आत्मनि तिष्ठन् (शतपथ.१४.५.३०) इत्यादिषु च निखिलजगन्नियमनं परमपुरुषं प्रकृत्यैव श्रूयते । असन्निहितत्वाच्च – नचैतेषु निखिलजगन्नियमनप्रसङ्गेषु मुक्तस्य सन्निधानमस्ति; येन जगद्व्यापारस्तस्यापि स्यात् ॥
(मुक्ते जगद्व्यापारस्य श्रीतत्वशङ्कापरिहारौ)
५४१. प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्ते: ॥ ४–४–१८ ॥
स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७.२५.२) इमान् लोकान् कामान्नी कामरूप्यनुसंचरन् (तै.भृगु,१०.५) इति प्रत्यक्षेण – श्रुत्या मुक्तस्य जगद्व्यापार उपदिश्यते; अतो न जगद्व्यापारवर्जमिति चेत् तन्न, आधिकारिकमण्डलस्थोक्ते:; आधिकारिका: अधिकारेषु नियुक्ता हिरण्यगर्भादय:; मण्डलानि तेषां लोका:; तत्स्था: भोगा: मुक्तस्याकर्मवश्यस्य भवन्तीत्ययमर्थ: तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७.२५.२) इत्यादिनोच्यते । अकर्मप्रतिहतज्ञानो मुक्तो विकारलोकान् ब्रह्मविभूतिभूताननुभूय यथाकामं तृप्यतीत्यर्थ: । तदेवं विकारान्तर्वर्तिन: आधिकारिकमण्डलस्थान् सर्वान् भोगान् ब्रह्मविभूतिभूताननुभवतीत्यनेन वाक्येनोच्यते; न जगद्व्यापार: ॥१८॥
(मुक्तभोगस्य अन्तवत्त्वशङ्कायाः परिहारः)
यदि संसारिवन्मुक्तोऽपि विकारान्तर्वर्तिनो भोगान् भुङ्क्ते, तर्हि बद्धस्येव मुक्तस्याप्यन्तवदेव भोग्यजातमल्पं च स्यात्; तत्राह –
५४२. विकारावर्ति च तथा हि स्थितिमाह ॥ ४–४–१९ ॥
विकारे – जन्मादिके न वर्तत इति विकारावर्ति; निर्धूतनिखलविकारं निखिलहेयप्रत्यनीक-कल्याणैकतानं, निरतिशयानन्दं, परं ब्रह्म सविभूतिकं, सकलकल्याणगुणमनुभवति मुक्त: । तद्विभूत्यन्तर्गतत्वेन विकारवर्तिनां लोकनामपि मुक्तभोग्यत्वम् । तथाहि परस्मिन् ब्रह्मणि निर्विकारेऽनवधिकातिशयानन्दे मुक्तस्यानुभवितृत्वेन स्थितिमाह श्रुति: – यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति (तै.अन.७.२.१) रसो वै स: रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति (तै.आन.७-२,१) इत्यादिका । तद्विभूतिभूतं च जगत्तत्रैव वर्तते तस्मिन्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.२.५.८) इति श्रुते:।
(कामचारश्रुतेः जगद्व्यापारपरत्वाभावः)
अतस्सविभूतिकं ब्रह्मानुभवन्विकारान्तर्वर्तिन: आधिकारिकमण्डलस्थानपि भोगान् भुङ्क्त इति सर्वेषु लोकेषु कामचार: (छा.७.२५.२) इत्यादिनोच्यते; न मुक्तस्य जगद्व्यापार:॥१९॥
(श्रुति-स्मृतिभ्यां जगन्नियमनस्य परमात्मासाधारणता)
५४३. दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ ४–४–२० ॥
अस्य प्रत्यगात्मनो मुक्तस्य नियाम्यभूतस्य नियन्तृभूतपरमपुरुषासाधारणं जगद्व्यापाररूपं नियमनं न सम्भवतीत्युक्तम्; निखिलजगन्नियमनरूपो व्यापार: परमपुरुषासाधारण इति दर्शयत: श्रुतिस्मृती – भीषाऽस्माद्वात: पवते भीषोदेति सूर्य: भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम: (तै.आन.८.१) इति, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृ.५.८.९) इत्यादि; तथा एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय (बृ.६.४.२२) इति च श्रुति:। स्मृतिरपि मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते (भ.गी.९.१०) इति, विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (भ.गी.१०.४२) इति च । तथा मुक्तस्य सत्यसङ्कल्पत्वादिपूर्वकस्याप्यानन्दस्य परमपुरुष एव हेतुरिति श्रुतिस्मृती दर्शयत: । एष ह्येवानन्दयाति (तै.आन.७-२१) मां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते। ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च (भ.गी.१४.२६,२७) इति ।
(अन्याधीनत्व-नित्यत्वयोर्विरोधशङ्का-परिहारौ)
यद्यप्यपहतपाप्मत्वादि: सत्यसङ्कल्पत्वपर्यन्तो गुणगण: प्रत्यगात्मन: स्वाभाविक एवाविर्भूत: – तथाऽपि तस्य तथाविधत्वमेव परमपुरुषायत्तम्; तस्य नित्यस्थितिश्च तदायत्ता; परमपुरुषस्यैतन्नित्यताया: नित्येष्टत्वान्नित्यतया वर्तत इति न कश्चिद्विरोध: । एवमेव परमपुरुषभोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परमपुरुषस्य नित्येष्टत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते । अतो मुक्तस्य सत्यसङ्कल्पत्वं परमपुरुषसाम्यं च जगद्व्यापारवर्जम्॥२०॥
(मुक्तैश्वर्यस्य जगद्व्यापारवर्जत्वे भोगसाम्यश्रुतिः)
५४४. भोगमात्रसाम्यलिङ्गाच्च ॥ ४–४–२१ ॥
ब्रह्मयाथात्म्यानुभवरूपभोगमात्रे मुक्तस्य ब्रह्मसाम्यप्रतिपादनाच्च लिङ्गाज्जगद्व्यापारवर्जं इत्यवगम्यते सोऽश्नुते सर्वान् कामान् सह ब्रह्मण विपश्चिता (तै.आन.१.२) इति । अतो मुक्तस्य परमपुरुषसाम्यं सत्यसङ्कल्पत्वं च परमपुरुषासाधारणनिखिलजगन्नियमनश्रुत्यानुगुण्येन वर्णनीयमिति जगद्व्यापारवर्जमेव मुक्तैश्वर्यम्॥२१॥
(मुक्तैश्वर्यस्य परमपुरुषायत्तत्वेऽपि न जीवस्य पुनरावृत्तिशङ्का)
यदि परमपुरुषायत्तं मुक्तैश्वर्यम्, तर्हि तस्य स्वतन्त्रत्वेन तत्सङ्कल्पान्मुक्तस्य पुनरावृत्तिसम्भवा शङ्केत्यत्राह –
५४५. अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥ ४–४–२२ ॥
यथा निखिलहेयप्रत्यनीककल्याणैकतानो जगज्जन्मादिकारणं समस्तवस्तुविलक्षण: सर्वज्ञ: सत्यसङ्कल्प; आश्रितवात्सल्यैकजलधि:, परमकारुणिक:, निरस्तसमाभ्यधिकसम्भावन:, परब्रह्माभिधान:, परमपुरुषोऽस्तीति शब्दादवगम्यते; एवमहरहरनुष्ठीयमानवर्णाश्रमधर्मानुगृहीत-तदुपासनरूपतत्समाराधनप्रीत:, उपासीनाननादिकालप्रवृत्तानन्तदुस्तरकर्मसञ्चयरूपाविद्यां विनिवर्त्य स्वयाथात्म्यानुभवरूपानवधिकातिशयानन्दं प्रापय्य पुनर्नावर्तयतीत्यपि शब्दादेवावगम्यते । शब्दश्च स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते (छा.८.१५.१) इत्यादिक: । तथा च भगवता स्वयमेवोक्तं मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्नुवन्ति महात्मानस्संसिद्धिं परमां गता:। आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते (भ.गी.८.१५,१६) इति ।
(पुनरावृत्तिसम्भवशङ्कानिरासः)
न चोच्छिन्नकर्मबन्धस्यासङ्कुचितज्ञानस्य परब्रह्मानुभवैकस्वभावस्य तदेकप्रियस्य अनवधिकातिशयानन्दं ब्रह्मानुभवतोऽन्यापेक्षा तदर्थारम्भाद्यसम्भवात्पुनरावृत्तिशङ्का ।
(भगवत्सङ्कल्पस्य पुनरावृत्त्पादकत्वनिरासः)
न च परमपुरुषस्सत्यासङ्कल्पोऽत्यर्थप्रियं ज्ञानिनं लब्ध्वा कदाचिदावर्तयिष्यति, य एवमाह प्रियो हि ज्ञाननोऽत्यर्थमहं स च मम प्रिय:। उदारास्सर्व एवैते ज्ञानीत्वात्मैव मे मतम्॥ आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम्। बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते॥ वासुदेवस्सर्वमिति स महात्मा सुदुर्लभ: (भ.गी.७.१७,१८,१९) इति। सूत्राभ्यासश्शास्त्रपरिसमाप्तिं द्योतयति इति सर्वं समञ्जसम् ॥२२॥
इति श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवर्जाधिकरणम्॥६॥
————–
इति श्रीभगद्रामानुजिवरिचते शारीरकमीमांसाभाष्ये चतुर्थस्य फलाध्यायस्य चतुर्थः मुक्तिपाद:, समाप्तश्चाध्याय: ॥४॥
शास्त्रं च परिसमाप्तम्॥
—————