श्रीरस्तु
श्रीमते रामानुजाय नमः
श्रीवत्सकुलतिलकैः वरदाचार्यैः समनुगृहीतः
तत्त्वसारः
रम्यजामातृरूपेण योऽवतीर्णो यतीशिता।
विना तस्य पदाब्जाते न मेऽस्ति शरणं क्वचित् ॥
वंदेऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानाद्यः संजीवयति मामपि ।।
(मंगलाचरणम्)
श्रीविष्णुचित्तपदपंकजसंगमाय
चेतो मम स्पृहयते किमतः परेण ।
नो चेन्ममापि यतिशेखरभारतीनां
भावः कथं भवितुमर्हति वाग्विधेयः ॥२॥
(स्वाहंकारखण्डनम्)
क्व पथि विदुषामेषा प्रौढिः श्रियःप्रभुणा शपे
मशकशकनं मन्ये मादृक्प्रभावनिदर्शनम् ।
यतिवरवचस्तेजः प्रत्यार्थिवर्गनिरर्गल
क्षपणनिपुणं नित्यं जागर्ति कीर्तिकरं मयि ॥२॥
न खलु कवितामानः का जः क्षतिः पथि गौतमे
न च परिचयः काणादे वा कुमारिलदर्शने।
अपि गुरुमते शास्त्रेष्वन्येष्वपीह तथापि नः
फलति विजयं सर्वत्र श्रीयतीश्चरगी:श्रमः ॥३॥
यः करोति यतिराजभारतीचित्तवृत्तिषु चिरं परिश्रमम् ।
नम्य वैदिकसदश्शिखामणेरग्रतः क्य परवादिसंभवः ॥४॥
(जिज्ञासाधिकरणपूर्वपक्षः)
अन्यत्र व्यवहारतो न भवति व्युत्पत्तिरन्यत्र वा
कश्चित्कार्यधियं कथं व्यवहरेदित्थं च निश्चीयते ।
शब्दाः कार्यपरा इति श्रतिरतस्तत्रैव मानं पुनः
प्रामाण्यं कथमश्नुवीत परिनिष्पन्ने परे ब्रह्मणि ॥ ५।।
(अत्रोत्तरं सिद्धे व्युत्पत्तिसमर्थनम् )
यः प्राबोधि परैरिहापवरके दण्डः स्थितो बोध्यतां
चैत्रायेति स तस्य बोधनसमद्यक्तो यदृचे वचः ।
पतञ्चेष्टितमेदवित्तदितरो मूको यथाऽऽकर्णयन्
बालः खल्विदमस्य बोधकमिति व्युत्पत्तिमभ्यस्यति ।।६।।
अंगुल्या निर्दिशद्भिर्घटमुखमखिलं वस्तु तत्र ब्रुवद्भि
स्तच्छब्दांस्तद्विभक्तीरपि च तदुचिते गोचरे पूर्ववृद्धैः ।
पित्राद्यैः शिक्ष्यमाणाः शिशव इह मुहुस्स्वात्मनां तत्तदर्थ
ज्ञानं तच्छन्दमात्रश्रवणत उदितं प्रेक्ष्य जानंति शक्तिम् ॥७॥
(अथ जन्माद्यधिकरणे)
भूतानीति पदेन वस्त्ववगतौ सत्यामिमानीति य
द्गायंत्यामखिलेश्वरं गिरि जगज्जन्मादिभिर्लक्षणैः ।
तेनादर्शि विचित्रतैव जगतस्सृज्यस्य तेनापि त
त्स्रष्टुर्ब्रह्मण उज्ज्वला गुणगणा जिज्ञास्यताहेतवः ॥८॥
(अचिन्त्येत्यादिभाष्यार्थः)
अस्येत्युद्दिश्य सौत्रं पदमथ तदचिन्त्यादिभाष्यं विवव्रे
तत्तन्मानप्रसिद्धं जगदभिदधती तद्विचित्रत्वमाह ।
श्रौती सौत्रीदमुक्तिस्त्विति हृदि निदधत्तत्र चाचेतनानां
वैचित्रीमाह पूर्वं पदमथ नियतेत्यादिकं चेतनानाम् ॥९॥
(अथ शास्त्रयोनित्वाधिकरणे)
कार्यत्वाद्घटवत्सकर्तृ विमतं क्षित्यादि कार्यं च त
त्सर्वं सावयवत्वतः स भगवानाधारसिद्धान्ततः ।
इत्येतन्न घटेत विश्वजनने यत्कर्तृकालैक्ययोः
कार्यत्वं व्यभिचारि भेदगणनाद्धेतोर्विशेषोऽथवा ॥१०॥
(आनुमानिकेश्वरवादे कर्त्रेकत्वासिद्धिः)
यत्कल्पनालधिमलालसमानसानां
कर्त्रैक्यसिध्दिरिति नादरणीयमेतत् ।
तह्याप्तिमेव हि रुणद्धि, सकर्तृकत्वं
किं कल्प्यते लघिमसंपदमीप्समानैः ॥११॥
(किंबहुना ईश्वरस्यैवासिद्धिः)
क्ष्मादावंशिनि कारणांतरगणे यत्नेऽप्यदृष्टे तनौ
पक्षे दृष्टविरूपताऽस्त्वपरथा कल्प्या न कर्तर्यपि ।
सेयं न्यायपथप्रहीणयुगपत्सर्गक्षयौ नेक्षितौ
सर्वस्यैव न कल्पना परिकरस्तन्नानुमेयः परः ॥१२॥
(संक्षिप्योक्तस्य विस्तरः)
नित्यं क्षित्यादि सांशं भवदपि घटतां कारणानां परेषां
व्यापारः कर्त्रपेक्षाविधुर इह भवत्वस्य कर्तुः प्रयत्ने ।
नापेक्ष्ये धीचिकीर्षे तनुभृत इह चादृष्टमीष्टे विधातुं
कार्यं देही दवीयानपि सृजतु जगद्वर्ष्म दृश्येतरद्वा ॥१३।।
दृष्टानुगुण्यविरहादिह कल्पनाना-
मासामसिद्धिरिति चेदपि कर्तरि स्यात् ।
जन्म क्रमेण ददृशे जगतः क्षयोऽपि
क्लृप्तिश्च दर्शनवशादनयोस्तथा स्यात् ॥१४॥
(समन्वयाधिकरणे)
धिक्कौमारिलदर्शनव्यसनिनः प्राभाकरप्रक्रिया-
विक्रांतानपि हंत नाथविधुरं विश्वं जगज्जल्पतः ।
दूरे कारणदोषबाधकधियौ नाथे पुमर्थे स्वतः-
प्रामाण्यं न कथं भजंति विधिवन्मन्त्रार्थवादोक्तयः ॥
(ईक्षत्यधिकरणे आदेशशब्दार्थः)
छान्दोग्ये केचिदाहुर्दिशतिरुततमादेशमप्राक्ष्य इत्य-
त्राङ्पूर्वस्तूपदेशं प्रकटयति सतो न प्रशास्तिं घञन्तः ।
नो कर्तर्यस्ति कर्मण्यगणि घञिह सत्कर्तृ शास्तौ न कर्म
स्यात्स्यात्कर्मोपदेशे तदिदमुदितमादेशवाचोपदेश्यम् ॥१६॥
(अत्रोत्तरम्)
अत्र ब्रूमः प्रशास्तिं वदति दिशिरसावाङ्मुखो नोपदेशं
शास्तौ सोऽतिप्रसिद्धो न हि पर इह चापेक्षितार्थप्रसंगः ।
युक्तोऽसाधारणोक्त्या घञगणि करणेऽप्यत्र वैवक्षिकत्वं
शाब्दोक्तं कारकाणां ननु करणतया कर्तरि स्याद्विवक्षा ॥१७॥
(आनंदमयाधिकरणे पुच्छब्रह्मवादपूर्वपक्षः)
षष्ठ्यान्यत्वमवेदि नैनमवदत्श्लोको न चाज्ञातता
ज्ञातस्यास्य तथापि नावयविता तस्यान्य आत्मा श्रुतः ॥
शोध्यत्वं च विकारवाचकवचस्तद्ब्रह्म पुच्छं भवे
न्नत्वानन्दमयस्स चान्नमयवत्कोशो बहिः कथ्यते ॥१८॥
(तन्निराकरणम् )
पुंलिंगान्तप्रधानप्रकृतपरवचोरूपणं चाप्यनन्यैः
श्लोकाः पुच्छं न चाहुः स्वरसमपि च नस्सूत्रमन्योऽन्तरो न॥
षष्ठ्यादिश्वांशभावान्निरवधिकतया रूपणादानुरुप्यात्
पर्यायत्वादनन्यात्मकवचनतया पुच्छहेतुः परास्तः ॥१९॥
(अन्तरधिकरणे कप्यासश्रुत्यर्थनिरूपणम् )
कपिस्त्वादित्यः कं पिबति किरणैरित्यपि कपि
र्बभस्तीत्याम्नातस्स कपिरमुनाऽस्तं यदिह तत् ।
प्रतीमः कप्यासं दिवसकरतेजोविकसितं
सुपद्मं श्रीमत्त्वादगणि भगवच्चक्षुरुपमा ॥२०॥
नाळं कपिर्भवति के पिबतीति तस्मिन्
कप्यास आसनमुशन्ति मनीषिणस्तत् ।
कप्यासमुज्ज्वलमुदारमिदं सरोजं
चक्षुर्निदर्शनमुदीरितमीश्वरस्य ॥२१॥
कमुदकमिह प्यासो यस्यासनं यदिवोद्भवः
कविभिरुदितं कप्यासं तद्गंभीरजलोदयात् ।
शिशिरमधुरं श्रीमद्दामोदराक्षिनिदर्शनं
भवति नळिनं लुप्ताकारस्त्वपिः पिहितादिवत् ॥२२॥
कप्यासं भानुबिंबं हरिभजनपदं हृत्सरोजं च यद्वत्
तद्वच्चोपासकाक्षिद्वयमिति तु न सत्तत्र यत्पुण्डरीकम् ।
गौणं तस्याक्षिणी इत्युभयपदनिराकांक्षतानादरेणा
प्यध्याहारस्समानाधिकृतपदगतित्यक्तिरूर्ध्वं तदुक्तिः ॥२३॥
कश्चिज्जल्पति मर्कटस्य जघनं कप्यासमक्ष्णोरयं
दृष्टान्तः कथमिष्यते भगवतः सत्येव गत्यन्तरे ।
सामानाधिकरण्यमत्र पदयोः प्राप्तं कुतस्त्यज्यते
पद्मं चेद्विशिनष्टि तत्सदृशि तच्छब्दस्तु गौणस्तव ॥२४॥
दरविकसितं कश्चित्कप्यासमाह गतिस्त्वियं
भवतु भगवच्चक्षुर्दृष्टांतपंकजसंगता ।
तदपि च न सत्तस्मिन्नर्थे यतो न तु कुत्रचित्
तदवयवशस्संहत्या वा पदं व्युदपाद्यत ॥२५॥
पदस्वर्थेषु समीरितेषु चतुराः कप्यासवाचस्त्रयो
गंभीरांभ इति प्रकृत्य भगवद्रामानुजांगीकृताः ।
तत्स्वीकारबहिष्कृतास्तदितरे हेयास्त्रयस्तद्विदा
श्लोकैष्षड्भिरमीभिरित्थमुदितस्सोऽयं विभागो मया ॥२६॥
(ज्योतिरधिकरणे)
गायत्री नाम सामश्रति शिरसि परं ज्योतिरध्यायि सिध्य-
च्चातुप्पद्यं तु भूतक्षितितनुहृदयैः षड्विधं तद्विधाभिः ।
गानत्राणादिकाभिः श्रतिगतवचनव्यक्तिभेदात्तु सिद्धा
वाक्याणोक्तिः परार्था स्वरसनिगमनश्रुत्यधीनं तदेतत् ॥२७॥
(अन्तर्याम्यधिकरणे)
तमो नाम द्रव्यं बहळविरळं मेचकचलं
प्रतीतं केनापि क्वचिदपि न बाधश्च ददृशे ।
अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते
निरालोकं चक्षुः प्रथयति हि तदर्शनवशात् ॥२८॥
(भूमाधिकरणे)
भूमाख्यः पुरुषोत्तमो यदधिकं ब्रह्मेहि सत्याव्हयं
प्राणाख्यादवरात्मनस्तु बलतस्तज्ज्ञाधिकस्सत्यवित् ।
यस्सत्यं वदतीति वाग्गमयितुं नह्यग्निहोत्र्यन्तरं
शक्नोति प्रकृताग्निहोत्र्यवगमाद्भंगस्तु शब्दश्रियः ॥२९॥
(दहराधिकरणे)
अस्वारस्यचतुष्टयं परमते यच्छब्दलिंगव्यथा
तस्मिन्नित्यनपेक्षया व्यवहिते हृत्पुण्डरीकेऽन्वयः ।
अप्याकांक्षितकामवेदनविधिक्षेपः स्वपक्षे द्वयं
यच्छब्दस्य यदैकशेष्यमपि या तत्रैकवद्भाविता ॥३०॥
(देवताधिकरणे)
पटुतरविग्रहादिकवतां भवतापवतां
भगवदुपासनं दिविषदामपि संभवति ।
ननु शतमर्थवादवचसामपि मंत्रगिरां
विधिवदिह प्रमाणमपदोषमपुंप्रभवम् ॥३१॥
स्तुतिपरमाद्यमत्र निजसाध्यविधेयरुचि
प्रजननसिद्धये स्ववचनीयगुणादरवत् ।
तदितरथा न सिध्यति विधिष्विव तत्त्वविदां
कथमसता गुणेन कथितेन नुतिर्भवति ॥३२॥
अथ मनवो विधेयपरिबोधनकार्यमुखा-
द्विधिमुपकुर्वते हि दिविषद्वपुरादिधियम् ।
उपजनयन्त एनमुपकर्तुमलं खलु ते
कथमिव देवता धियमुपैति वपुर्विधुरा ॥३३॥
अथ सुरनरतिर्यक्रस्थावरात्मप्रपंच
प्रजननगणनासु छन्दसामन्तभागे ।
प्रकटतरमधीता विग्रहा देवताना
मवकलय गतिं चोपासनप्रक्रियासु ॥३४॥
निगमशतनिदानैर्देवताविग्रहादि
स्फुटतरमितिहासैर्धर्मशास्त्रैः पुराणैः ।
अपि गदितमनन्तोपासने साधिकार
स्तदयममरवर्गस्तत्फलार्थी समर्थः ॥३५॥
(तत्रैव समाननामरूपत्वादित्यत्र)
संस्थानं कलयाकृतिं त्वनुगतं तावत्प्रतीमो हि त-
द्ब्रूमश्चापरमप्यदर्शि न तथा पक्षान्तरे जातिषु ।
यद्वद्गोत्वपुरस्सरीषु धिषणा बव्हीषु साधारणी
जातिर्जातिरितीदृशी फणितिरप्येवं मदीये पथि । ३६॥
एका व्यक्तिषु भूयसीष्वनुगता पूर्णा प्रतिव्यक्ति या
संस्थानादपरा निरादिनिधना सा जातिरास्थीयताम् ।
गौर्गौरित्यनुवृत्तबुद्धिवचसी नो चेद् घटेते कथं
व्युत्पत्तिश्च कथं गवादिवचसां व्यक्तिप्वसंख्यासु नः ॥३७॥
अत्र ब्रूमः प्रतीमः किमपि किमपरं वस्तु सास्नादिमत्वा-
द्गोत्वं नामानुवृत्तव्यवहृतिविषयं तद्धि तादृक्षमैक्षि।
गोत्वाजत्वाश्वतादिष्वनुगतमपरं वस्तु जातिष्वनेका-
स्वेकं जात्यादिशब्दव्यवहृतिघटकं जातिवादे किमूचे ॥३८।।
अन्यस्यादर्शनेन व्यवहृतिविषयस्यान्यथैवोपपत्त्या
कल्प्यत्वासंभवेनाप्युभयसमयसंगीतसंस्थावलंबी।
युक्तो जात्यादिशब्दः सुसदृगिह मिथस्सा ह्यनुस्यूतधीवा-
ग्व्युत्पत्त्यर्हैव यादृक्परसमयमतामाकृतिं सा व्यनक्ति ॥३९॥
(आरंभणाधिकरणे)
अभावस्याभावो भवति खलु भावः परमते
घटादेरप्येवं कथय किमभावो न भवति ।
घटस्य प्रध्वंसो भवति हि कपालत्वमपर-
स्त्वभावः पिण्डत्वं किमिह ददृशे किंचिदपरम् ॥४०॥
संसर्गाभावमेवं विदुरिह सुधियो भावमेव त्वभावं
मन्वानाः कुंभवद्भूतलत इतरभूभागभेदस्त्वभावः ।
यस्तत्तत्कालभेदव्यतिकरितगृहप्रांगणादिप्रदेशः
कुंभाभावाश्रयोऽन्यैरगणि स इह नः क्वाधिकस्योपलंभः ॥४१।।
(तेजोऽधिकरणे)
सञ्च त्यञ्चेति सृष्टवा विशसि चिदचितौ तेन चोक्तोऽसि विश्वं
त्वज्जत्वात्त्वल्ल्यनत्वात्त्वमिति च निखिलं त्वच्छरीरं किलेति ।
तेस्तैश्शास्त्रैरभेदव्यवहृतिहृदयं विस्तृणानैर्निरस्ताः
भेदाभेदावभेदं भ्रममपि भगवन् कारणं कल्पयन्तः ॥४२॥
उन्नीतं गुरुणारुणाधिकरणे न ह्येकहायन्यगा
दारुण्यान्वयमाभिधानिकमपित्वाक्षेपतः प्रापितम् ।
यद्ब्रूतेऽरुणयेति केवलगुणं वाग्द्रव्यनिर्देशव
द्वाक्यस्था न गिरस्तु कारकविभक्त्यन्ता मिथस्संगताः ॥४३॥
अरुणाधिकरणसरणि-
स्समगणि रामानुजार्यमुनिभिर्या ।
उचितेयमनुचिताऽन्या
परिपदि विदुषां स्फुटीभवति ॥४४॥
उपात्तेऽपि द्रव्ये विसदृशविभक्तिव्यपगमात्
प्रकृत्या वैशिष्ट्यं परिणमति खल्वाकृतिनयात् ।
विभक्तिस्त्वर्थैक्यं प्रथयति समानैव पदयोः
त्रिरूपा सा संख्यान्वयमिव दिशेत्कारकधियम् ॥४५॥
(परायत्ताधिकरणे)
आदावीश्वरदत्तयैव पुरुषः स्वातंत्र्यशक्त्या स्वयं
तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते ।
तत्रोपेक्ष्य ततोऽनुमत्य विदधत्तन्निग्रहानुग्रहौ
तत्तत्कर्मफलं प्रयच्छति पुनः सर्वस्य पुंसो हरिः ॥४६॥
दुष्कर्मस्वनिवर्तनानुमनने पुंसः करोत्यच्युतः
स्वातंत्र्येण निरंकुशेन स गुणः श्रुत्या न दोषो हरेः ।
दृष्टश्चारिषु निग्रहो गुणतया लोके न दोषात्मना
न म्यादाश्रयसिद्धिरौपनिषदं नो चेत्प्रमाणं वचः ॥४७॥
दुष्कर्मव्यवसायतस्तु विरतो यस्तस्य पुंसः पुरा
भूयोजन्मसमार्जितान्यगणितान्यागांस्यनादृत्य यत् ।
तस्यानंतसुस्वाप्तये च यतते लक्ष्मीसहायः स्वयं
तत्कारुण्यपुरस्सरो गुणगणस्तस्यायमुज्जृंभते ।।४८।।
(अंशाधिकरणे)
आदौ भेदश्रुतीनामनृतविषयता लक्षणा चैक्यवाचां
दूरे तावत्प्रहाणं तदुभयघटनातत्पराणां च वाचाम् ।
प्रत्यक्षादिप्रमाणस्वरसगतिहतिस्तर्कबाधश्च भूयान्
मायावादे, तदेतत्सकलमितरथा लक्ष्मणाचार्यपक्षे ॥४९॥
न द्वैतं प्रतिपादयंत्युपनिषद्वाचः प्रसिद्धं हि तत्
किंत्वद्वैतमनन्यगोचरतया तद्वेद्यमास्थीयताम् ।
अप्राप्ते खलु शास्त्रमर्थवदिति व्यर्थः प्रयासो यतः
प्रख्यातादपरस्तु शास्त्रविषयो भेदस्त्वदद्वैतवत् ॥५०॥
यच्छ्वेताश्वतरश्रुतिर्नृबहुतामेको बहूनामिति
ब्रूते तत्र विधिर्विशिष्टविषयस्त्वष्टाकपालादिवत् ।
नित्यत्वात्मबहुत्वमत्र निगमादन्यत्र विद्मः कथं
प्रत्यक्त्वेन पराक्तया स्वपरयोर्मुक्तौ च भेदः स्फुटः॥५१॥
सामानाधिकरण्यभागिषु पदस्तोमेषु सर्वेषु किं
प्रत्याय्यं व्यतिरिच्यते प्रतिपदं वक्तव्यमद्वैतिना ।
यद्वा नेति न चेदनर्थकतया नैकातिरिक्तं पदं
पठ्येत प्रतिवादिनस्त्वितरथा युक्तिस्समासीदति ॥५२॥
दृश्यत्वादनृतं विगीतमिति यदृष्टांतयन्तो जगुः
शुक्त्यारोपितरूप्यमत्र कतिचित्तत्रेदमाचक्ष्महे ।
धर्मिग्राहकमानबाधितमिदं सोपाधिकत्वं पुनः
सौत्रं व्यक्तमभंगुरं व्यभिचरल्लिंगं च भंगाय वः ॥५३॥
मिथ्यात्वं भ्रांतिसिद्धं यदि खलु जगतः साध्यते सिद्धसाध्यो
हेतुस्सत्यः प्रपंचो भवति च यदि वा सत्यमद्वैतहानिः ।
साध्यं ब्रह्मस्वरूपं यदि भवति तदा सिद्धसाध्यत्वमेव
स्यादेवं च प्रपंचव्युदसनसरणिर्दूरतस्ते निरस्ता ॥५४॥
चिन्मात्रव्यतिरेकि वस्तु सकलं मिथ्येति जोघुष्यते
योगाचारमते यदौपनिषदीकर्तुं तदाकृष्यते ।
मायावादिभिरप्रतीतनिगमन्यायप्रमाणांतर-
प्रस्थानैरपहस्तयंति हि सह न्यायैः प्रमाणानि तत् ॥५५॥
नानात्वक्षणिकत्वयोरुपगतेरेकत्वनित्यत्वयो-
रप्येकत्र मते परत्र च धियो वैषम्यमस्तीतिचेत् ।
मायावादिमतस्य सौगतमतादेतन्न यत्तात्त्विको
धर्मस्तत्र मतद्वयेऽपि न धियः कश्चित्स्वरूपादृते ॥५६॥
स्वरूपानादित्वस्वपरघटने दुर्घटनता
प्रवाहानादित्वं पुनरिति चतस्रो हि गतयः ।
असत्याविद्याया गदितुमनवस्थापरिहृतौ
मतास्त्वेतास्तुल्याः स्फुटमसदधिष्ठानसरणौ ॥५७॥
रेरे खण्डनकार खण्डय भवत्पक्षः प्रतिक्षिप्यते
तर्कैस्त्वत्कथितैस्ततः किमितिचेदस्मन्मतं तिष्ठति ।
यद्वन्माध्यमिकोक्तचिह्युदसनप्रत्यासतस्त्वन्मतं
तिष्ठत्येव यथा च बाधकहतौ लोके स्वरूपस्थितिः ॥५८॥
अचित्त्वं वेद्यत्वे प्रसजति धियः कुंभवदिति
स्वसिद्धिस्सा चित्त्वादिति यदिह कोऽप्याह तदसत् ।
स्वसिद्धिस्स्वाधारं प्रति हि न परं प्रत्यपि नरं
परज्ञेया सेयं तदपि न मतित्वं विघटते ॥५९।।
तथाहि प्रत्यक्षप्रभृतिमितिवर्गप्रकटितः
स्वभावो भावानामपसरति वेद्यास्त इति किम् ।
स्वभावव्यत्यासो यदि भवति वेद्यत्ववशतः
पटस्य ज्ञेयत्वे घटवदपटत्वं प्रसजति ॥६०॥
प्रकाशः कुंभादौ जडिमवति तद्गोचरमिति-
स्तिरोधिश्चैतस्या विरतिरजडे ब्रह्मणि पुनः ।
स्वरूपं चिन्मात्रस्फुरणमपिधिश्च स्वनिधनं
जडं वा ब्रह्म स्यादपिधिविधुरं वाऽप्यपरधा ॥६१॥
पुरोवर्तिद्रव्यस्फुरणमिह रूप्यभ्रमसहं
न शुक्तित्वस्फूर्तिर्भ्रमविहतये या प्रभवति ।
यदि ब्रह्म प्राग्वन्न खलु जगदध्यासविरतिः
क्व सिध्येदध्यासो यदि भवति शुक्तित्वसदृशम् ॥६२॥
इदं मायावादे विविधमुदितं दूषणमिह
स्वयंज्योतिर्ब्रह्म व्यपगतविशेषं यदि कथम् ।
मते तस्मिन्नस्मादृशि तु सविशेषः पुरुष इ-
त्यतद्रूपारोपस्तदुपरतिरित्यादि घटते ॥६३॥
अधिष्ठाने पुंसि स्वयमहमिति स्फूर्जति वपुः
प्रकाराध्यारोपः पशुरहमहं मानुष इति ।
अणुत्वादी देहव्यतिकरविदूरे च विहिते
तिरोधिस्संकोचो ननु भवति तद्गोचरधियः ॥६४||
अहंत्वज्ञातृत्वे ननु पुरुषधर्मो न तु वपु-
र्गुणौ वस्तुस्थित्या तदपि न तथात्वं ननु तयोः ।
अनादेरध्यासादवगतमिदानीं श्रुतिनय-
स्वयोगाद्यैरन्यः स्फुरति वपुरादेस्तु पुरुषः ॥६५॥
जीवन्मुक्तिमतं न जीवति यतः शस्त्रेण शास्त्रात्मना
लूनं लोकविरुद्धसिद्धि च यतस्तेनेदमादावपि ।
आपस्तंबनिरस्तमौपनिषदप्रस्थानमातस्थुषा-
माचार्योऽपि निराचकार खलु तद्वैपायनाख्यो मुनिः ॥६६॥
क्व वेदांताः क्वामी निहितमतयः शंकरमते
वदन्तः प्रामाण्यं भ्रमविलसितं वेदवचसाम् ।
अहो यद्वद्बुद्धग्रथितफणितीनामथ च ते
कलिग्राहग्रस्तैरगणिषत वेदान्तिन इति ॥६७॥
(उभयलिंगाधिकरणे)
यत्सामान्यविशेषवर्त्मसु गुणव्यत्यासविध्यात्मसु
त्रय्यन्तेषु जनार्दनप्रणयिषु प्राबल्यदौर्बल्ययोः ।
प्रस्थानं प्रतिपेदिरे कतिचनापच्छेदनीतिच्छला-
न्मीमांसापदवीपरिश्रमकथादूरेषु तच्छोभते ॥६८॥
यद्ब्रह्मणो गुणविकारशरीरभेद
कर्मादिगोचरविधिप्रतिषेधवाचः।
अन्योन्यभिन्नविषया न विरोधगन्ध
मर्हन्ति तन्न विधयः प्रतिषेधबाध्याः ॥६९॥
अग्नीषोमीयहिंसा निजविधिविहिता किं निषिद्धा न हिंस्या-
द्भूतानीत्येतयोक्त्या पशुपदविषयश्छाग एव न्यरूपि ।
छागो वा मंत्रवर्णादिति च तदुभयन्यायतो हेयधर्म
क्षेपार्था निर्गुणोक्तिः श्रुतशुभगुणके निर्मले ब्रह्मणि स्यात् ॥७०।।
(पराधिकरणे)
कस्त्वं, तत्त्वविदस्मि, वस्तु परमं किं तर्हि, विष्णुः, कथं,
तत्त्वेदंपरतैत्तिरीयकमुखत्रय्यन्तसंदर्शनात् ।
अन्यास्तर्हि गिरः कथं, गुणवशात्तत्राह रुद्रः कथं,
तद्दष्ट्या, कथमुद्भवत्यवतरत्यन्यत्कथं, नीयताम् ॥७१॥
य उक्तो याज्ञिक्यामुपनिषदि निस्सीममहिमा
स उक्तः पुंसूक्ते परमपुरुषः कारणतया।
पुनस्सौबालिक्यामुपनिषदि माहोपनिषदी
गतिश्चैवं तद्वत्कलय कठवल्लीप्रमृतयः ॥ ७२॥
व्याजह्रे जगदेककारणतया साकूतमेको ह वा
इत्यारंभवता महोपनिषदुद्घोषेण नारायणः ।
ब्रह्मेशद्युवसुन्धरोडुसलिलस्वाहेशसोमांशुम-
त्पूर्वाशेषजगद्विनाशयति यः काले समुन्मीलति ॥७३॥
अप्राप्तत्वान्महत्यामुपनिषदि जगत्कारणत्वानुवादो
न स्यादेको ह वा इत्ययमुपरि हि देवेभ्य इत्यादिनीया ।
वाक्यस्वारस्यतो हि व्यगणि भगवतः कारणत्वं परेषां
कार्यत्वं चाविरुद्धं तदपि न परमस्त्यत्र किंचिद्विधेयम् ॥७४॥
यत्संज्ञामूर्तिकर्तुः परमपुरुषतः किंचिदाकाशनाम्नो
हृत्पद्मे स्यादुपास्यं श्रुतिशिरसि परं सामगानामगायि ।
तत्र प्रश्नोत्तराभ्यामघविहतिमुखान्सत्यसंकल्पतांता-
नष्टौ शिष्टांस्तदीयाननिदमुदयिनस्तद्गुणानुद्गृणन्ति ॥७५॥
प्रस्तुत्यामृतहेतुमादिपुरुष न्यक्कृत्य मार्गान्तरं
तस्यैतद्घटनाय निष्प्रतिभटामुक्द्घुष्य सार्वैश्वरीम् ।
उक्तिस्तत्र ततो यदुत्तरतरं तन्मुक्तिदायीति या
तच्छ्वेताश्वतरागमे निगमनं प्रोक्तस्य हेतूक्तिमत् ॥७६॥
यच्छ्वेताश्वतरागमो भगवति स्पष्टप्रयोगान्तरं
तस्मिन्निर्दिशति ध्रुवं शिवपदं प्रक्रान्तमुक्तिप्रदे।
सर्वव्यापिनि सर्वतोमुखशिरोग्रीवे स एव प्रभु-
स्सत्त्वस्यैष महान् प्रवर्तक इति व्यक्तः परः पूरुषः ॥७७।।
यच्छ्वेताश्वतरश्रुतिश्शिवपदं वक्ति प्रयुक्तं हरा-
वग्रे जाग्रति विश्वकारणपरं तत्रैव युक्तं हि तत् ।
साधारव्यविदूरविष्णुभगवन्नारायणाद्याव्हयै-
राहुः कारणमेनमौपनिषदा भागास्तदाकांक्षिणः ॥७८॥
यदग्रे जागर्ति श्रुतशिवपदं ब्रह्म परमं
जगद्धेतुः श्वेताश्वतरनिगमान्ते स भगवान् ।
प्रयुक्तो यत्तस्मिन् यजुषि शिवशब्दः श्रुतिशिर-
स्स्वतस्साधारण्यं न समगणि नारायणगिरः ॥७९॥
यद्देवैरनुयुक्त उत्तरमुशन् रुद्रो विवृत्यात्मनि
व्याजह्रे महतीमधीश्वरधुरामाथर्वणे मूर्धनि ।
स प्रादुर्भवदन्तरात्मभगवद्भूमाऽभणत्सोन्तरा-
दन्तः प्राविशदित्यधीतविधया तद्वामदेवादिवत् ॥८०॥
नान्यः कश्चिन्मत्त इत्युग्रवाक्या-
दूर्ध्वं नेतिस्तत्समाप्तिं ब्रवीति ।
प्राग्वत्पश्चादुग्रवाक्यानुवृत्तेः
सोऽहं नित्योऽनित्य इत्यादिभंग्या ॥८१॥
सोऽतो हेतुं वक्ति यद्वा प्रकारं
प्रहलादोक्तो हेतुरन्तःप्रवेशः ।
प्रहलादोक्तिस्सर्वगत्वादनन्त-
स्येति व्यक्ता वैष्णवाख्ये पुराणे ॥८२॥
अथवेतिपदेन हेतुरत्र
व्यतिरेकोऽगणि नान्य इत्यधीतः ।
अहमेक इतीरितान्वयस्य
प्रतिपत्तुं सुकरः प्रकारपक्षः ॥८३॥
रुद्रस्योक्तिस्सोऽन्तरादित्यतोऽसौ
तस्मादन्यः कोऽपि तस्यान्तरात्मा।
अन्येषां चेत्युच्यते सोऽन्तरादि-
त्युक्त्या रौद्र्या सोऽपि विष्णुः प्रसिद्धः ॥८४||
इत्युक्तिर्वा समाप्तिं वदतु हरगिरस्सोऽन्तरादित्यतोऽसौ
मा भूद्रुद्रोक्तिरित्थं सति न विघटना किंचिदस्मन्मतस्य ।
रुद्रः स्वात्मात्मभूतं हरिममलधिया स प्रविष्टश्चिकीर्षु-
र्मेधावीव स्ववश्यं नरमपरमिति व्यज्यते वेदवाचा ॥८५॥
श्रत्वा रुद्रवचस्तदीयमहिमस्तोत्राय लब्धोद्यमा-
स्सर्वैश्वर्यमथर्वमूर्ध्नि यदपि व्याजहुरस्यामराः ।
अन्तर्यामिसमाधिहेतव इह व्यक्ता हि रुद्रोक्तय-
स्तद्युक्तास्तदनूक्तयस्तु दिविषद्वाकास्तदेकाशयाः ॥८६॥
ओंकारपूर्वकतया प्रतिपादितानि
नामान्तराणि ननु रुद्रपुरस्सराणि ।
आथर्वणे शिरसि तानि तु न प्रसिद्ध
रुद्रेशितृत्वमुपपादयितुं क्षमन्ते ॥८७॥
समाख्याः प्रक्रांतप्रणवविषयिष्य: प्रतिपदं
निरुक्ता रुद्राद्या यदपि हि महादेवशिरसः ।
श्रतेराथर्वण्याश्शिरसि तदिदं तारविभवं
व्यनक्त्योंकारस्स्यादुपरितनविद्यापरिकरः ॥८८।।
पन्थानं बन्धशान्तेः पशुपतिभजनं निर्वहाथर्वमूर्ध्नि
प्रोक्तः प्राच्या तदुक्त्या स्फुरति हरिरिहोपासनीयस्तदात्मा।
यद्वन्मध्वादिविद्यास्वितरसुरतनुस्स्रष्टृसृज्यादिभावः
श्रौतस्त्वत्रापि तुल्यः श्रतमिह भसितं प्रस्तुतोपास्तिशेषः ॥८९।।
प्रस्तुत्य रुद्रवपुषः पुरुषोत्तमस्य
विद्यामथर्वशिरसीरितमंगमस्याः ।
भस्म प्रसक्तिरितरत्र न तस्य यद्व-
सौत्रामणीप्रकरणोक्तसुराग्रहस्य ॥९०॥
आथर्वण्यां शिखायामगणि भगवतो या जनिः कारणैक
ध्येयत्वेदंपरायां जगदुपकृतये सोऽयमिच्छावतारः ।
यद्विष्णोः कारणैकप्रवणफणितिभिः कारणत्वोपदेशः
स्पष्टो दृष्टप्रयोगस्सुखजनकतया शंभुशब्दोऽपि तस्मिन् ॥९१॥
उदितमुपासनद्वयमथर्व शिरश्शिखयोः
स्फुटमपुनर्भवाय पुरवैरिकळेबरिणः ।
कमलदृशः क्वचित्क्वचन कारणतत्त्वपर
श्रुतिविहितस्य हार्दसुषिमध्यजुषां विदुषाम् ॥९२॥
उक्तं केनचिदीश्वरः पुरुष इत्युक्ती शिवश्रीशयो
र्वर्तेते बहुशो महत्परमवाग्युक्ते वियुक्ते अपि ।
इत्युत्कर्ष निकर्षगोचरपदव्याख्यातयोरेतयो
रुत्कर्षो गिरिशस्य वक्तुमुचितः पुंसः प्रधानादिवत् ॥९३।।
नैतत्साधु समाख्यया हि बलवद्वाक्यादिभग्नार्थया
नोत्कर्षो गिरिशस्य वक्तुमुचितः केनापि देवेन्द्रवत् ।
इंद्रस्स्यात्परमेश्वरस्त्वितरथा तत्तत्समाख्यावशा-
दाख्या हि प्रबलप्रमाणविहता तस्मिन् महावृक्षवत् ॥९४।।
किं जीवः पुरुषोक्तिगोचर इति श्रीशोऽपि तद्गोचरो
जीवस्स्याद्गिरिशो ध्रुवो भवति किं तौ स्थाणुसंज्ञाविति ।
तक्षत्वाय घटेत किं मुखभुवामाचार्यसंशब्दनं
मंडूकत्वमुपैति किं हरिपदस्पर्शेन कण्ठीरवः ॥९५।।
प्राणाकाशमुखैः पदैरुपनिषद्भागेषु जोघुष्यते
किं न ब्रह्म परं परत्वगणना जागर्ति किं तावता ।
प्राणाद्येषु शिवादिशब्दगदितं तच्चेत्परत्वं कुतः
तत्तत्कारणवाक्यसिद्धभगवत्सृज्येषु रुद्रादिषु ॥९६॥
यदुपनिषद्भिरप्रथि परिब्रढिमा परमः
कमलदृशो विशुद्धनयलब्धपरिष्कृतिभि: ।
इतरगिरोऽनुरोद्धुमिदमेव घटन्त इति
स्फुटमुपबृह्मयंति मुनयोऽपि मनुप्रमुखाः ॥९७॥
(पुरुषार्थाधिकरणे)
ऐदंपर्यमपौरुषेयवचसामर्थेषु नैसर्गिकं
साक्षादक्षरराशिपर्यवसितः स्वाध्यायविध्याशयः ।
व्याहंतीति वदंति ये जपविधिन्यायेन संतुष्यता
मायुष्मद्भिरनन्यलभ्यविषये शब्दस्समुज्जृंभते ॥९८॥
यस्स्वार्थेष्वनिदंपराः श्रुतिगिरः स्वाध्यायविध्याशया-
दाचष्टे स विकल्पमर्हति विधिः सार्थः किमास्थीयताम् ।
यद्वानर्थक इत्यनेन वचसा तुल्यत्वमासां गिरा-
माद्ये स्यादितरत्र तत्प्रतिभटः कस्मादकस्माद्विधिः ॥९९।।
यच्छ्रोतुर्गृहमेधिनो गुरुगृहे काष्ठोदकाद्याहृति-
व्यासक्तस्य न संभवत्यवसरस्तत्तत्स्वकर्मक्रमे।
स्याञ्चेद्गुर्वनुवर्तनाद्यनुगुणः कुत्रावकाशो भवे-
दित्युक्तं कतिभिश्च तत्र कुशलैरित्थं समाधीयते ॥१००।।
यद्वेदाक्षरराशिसिद्ध्युपरतः स्वाध्यायविध्याशयः
तत्तन्मूलकशिष्यकृत्यविरतेर्लब्धावकाशाः क्रियाः।
श्रोतुश्श्रावयितुर्यथेत्यवसरश्श्रोतुश्च सिध्येदतः
स्नेहेन स्पृहया च वित्तयशसोः शिष्यं गुरु: श्रावयेत् ॥१०१॥
(आतिवाहिकाधिकरणे)
अर्चिरहस्सितपक्षानुदगयनाब्दमरुदर्केन्दून् ।
अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः ॥१०२॥
(अन्तिमाधिकरणे)
शेषत्वं ननु दुःखमीक्षितमतो मुक्तेषु युक्तं न त-
न्मैवं माधवदास्यमौपनिषदं जागर्ति भूयः प्रियम् ।
धर्मिग्राहकमानधीक्षतमतस्तद्दु: खतासाधनं
यद्वा तद्यतिरिक्तदास्यमसुखं साध्येत सिद्धं हि तत् ॥१०३॥
(कृत्स्नशारीरकार्थसंग्रहः)
सब्रह्मात्मादिशब्दैरभिहितमजडं छागपश्वादिनीत्या
तत्वं नारायणाख्यं निरधिकमसमं सेव्यमेकं मुमुक्षो: ।
आरभ्यैको हवा इत्युपनिषदि महत्यां यतो जायते चे-
त्यंतान्नारायणस्योपनियदि विधिपूर्वान्मस्रष्टृत्वबोधः ॥१०४॥
(निगमनम् )
वरदाव्हयमंडनो मनीषी
यतिबृन्दारकभागिनेयपौत्रः
निगमांतपयोधिकर्णधारो
विदधे विश्वहिताय तत्त्वसारम् ॥१०५॥
इति श्रीवत्सकुलतिलकवरदराजसूरिविरचितं
तत्त्वसाराख्यं वेदांतप्रकरणं समाप्तम्.
।। श्रीमते रामानुजाय नम:।।