वेदान्तदीप:
॥अथ द्वितीयाध्याये प्रथम: पाद:॥
२–१–१
१३९। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृतनवकाशदोषप्रसङ्गात् – वेदान्तानां समस्तचिदचिद्वस्तुविलक्षणास्पृष्टहेयगन्धसर्वज्ञताद्यनन्तकल्याणगुणाकरब्रह्मैकपरत्वं प्रतिपादितं। कपिलस्मृतिविरोधेन चालयितुं शक्यम्, उत नेति संशय:। शक्यमिति पूर्व: पक्ष:, श्रुतिविरुद्धाया: स्मृतेरनादरणीयत्वे स्थितेऽपि वेदान्तवेद्यार्थस्य दुर्ग्रहत्वेन अल्पश्रुतैर्मन्दमतिभिराप्तप्रणीतस्मृत्युपबृंहणेन विना तेषां निश्चयो नोपपद्यते। कपिलस्मृति: केवलतत्त्वपरेति तयैव ह्युपबृंहणं न्याय्यम्। अन्यथा आप्तप्रणीताया: केवलतत्त्वपरायास्तस्या अनवकाशप्रसङ्ग इति वेदान्तवेद्यं जगत्कारणं प्रधानम्। राद्धान्तस्तु – वेदान्तस्य उबृंहणापेक्षत्वेऽपि आप्ततममन्वादिस्मृतिभिर्वेदान्ताविरोधिनीभिः एवोपबृंहणं न्याय्यम्, अन्यथा तासां बह्वीनामनवकाशप्रसङ्गो महानयं दोषस्स्यात्। न च तासां धर्मप्रतिपादनांशोपबृंहणत्वेन सावकाशत्वम्, यतो धर्माणामपि स्वरूपं परब्रह्मभूतपरमपुरुषाराधनत्वम्। इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभि:, तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा:, यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत इत्यादिश्रुतिस्मृतिभि: । सूत्रमपि व्याख्यातम्॥१॥
अतीन्द्रियार्थसाक्षात्कार समर्थस्य कपिलस्य वेदान्तानां ब्रह्मपरत्वानुपलब्धे: प्रधानपरत्वमेव आश्रयणीयमित्यत उत्तरं पठति –
१४०। इतरेषां चानुपलब्धे: – इतरेषां मन्वादीनां वेदविदग्रेसराणां सर्वातीन्द्रियार्थसाक्षात्कार-समर्थानां प्रधानपरत्वानुपलब्धेर्ब्रह्मपरत्वोपलब्धेश्च ब्रह्मपरत्वमेवाश्रयणीयम्; वेदान्तप्रतिपन्नार्थ-विरुद्धायास्तु कपिलोपलब्धेर्भ्रान्तिमूलत्वं कल्पयितव्यम्॥२॥ इति स्मृत्यधिकरणम् ॥ १ ॥
२–१–२
१४१। एतेन योग: प्रत्युक्त: – किं वेदान्तानां योगस्मृत्योपबृंहणं न्याय्यम्, उत नेति संशय:। न्याय्यमिति पूर्व: पक्ष:, कृत्स्नवेदप्रवर्तनाधिकृतहिरण्यगर्भप्रणीतत्वाद्योगस्य, ईश्वरसद्भाव-अभ्युपगमाच्च। अतो योगस्मृत्योपबृंहितत्वेन वेदान्तानामब्रह्मात्मकप्रधानोपादान-प्रतिपादनपरत्वम्। राद्धान्तस्तु – कपिलस्मृतिवद्वेदविरुद्धत्वाविशेषादनादरणीयैव योगस्मृति:; हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रमसंभवात् योगस्मृतेरपि भ्रान्तिमूलकत्वम्। सूत्रमपि व्याख्यातम्॥३॥ इति योगप्रत्युक्त्यधिकरणम्॥ २ ॥
२–१–३
१४२। न विलक्षणत्वादस्य तथात्वं च शब्दात् – किं वेदान्तानां जगत्कारणतया प्रधानपरत्वम्, उत ब्रह्मपरत्वमिति संशय:। प्रधानपरत्वमिति पूर्व: पक्ष:, अज्ञत्वादिना जगतो ब्रह्मविलक्षणत्वेन ब्रह्मकार्यत्वप्रतिपादनासंभवात्, सालक्षण्येन प्रधानकार्यत्वप्रतिपादनपरत्वस्य च संभवात्। राद्धान्तस्तु – माक्षिकादिभ्य: क्रिम्यादीनां विलक्षणानामुत्पत्तिदर्शनात् ब्रह्मविलक्षणस्य जगत: तत्कार्यत्वं संभवत्येवेति। सूत्रार्थस्तु – अज्ञत्वेनासुखत्वेन चोपलब्धस्य चास्य चिदचिन्मिश्रस्य जगत: सर्वज्ञाद्धेयप्रत्यनीकात् निरतिशयानन्दाद्ब्रह्मणो विलक्षणत्वेन जगतो ब्रह्मकार्यत्वप्रतिपादनं वेदान्तानां न संभवति। तथात्वं – विलक्षणत्वं च शब्दादवगम्यते, न केवलं प्रत्यक्षाद्युपलब्ध्या, विज्ञानं चाविज्ञानं च, अनीशया शोचति मुह्यमान:, अनीशश्चात्मा बध्यते भोक्तृभावात् इत्त्यादे:॥४॥
आपो वा अकामयन्त तं पृथिव्यब्रवीत् इत्यादौ पृथिव्यादेरपि ज्ञानकार्यं व्यपदिश्यते; तस्मात्, अविज्ञानञ्चेत्येतदन्यपरमित्यत उत्तरं पठति –
१४३। अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् – तुशब्दश्चोद्यं व्यावर्तयति। पृथिव्याद्यभिमानिदेवतानामयं व्यपदेश:। कुतोऽवगम्यते? विशेषानुगतिभ्याम् – विशेष: – विशेषणम्। हन्ताहमिमास्तिस्रो देवता: इति पृथिव्यादेर्देवताशब्देन विशेषणं दृश्यते, सर्वा ह वै देवता अहं श्रेयसे विवदमाना: इति च वागादिप्राणपर्यन्तस्य च तथा अनुगति: – अनुप्रवेश:, अग्न्यादीनां वागाद्यनुप्रवेशो दृश्यते, अग्निर्वाग्भूत्वा मुखं प्राविशत्, आदित्यश्चक्षुर्भूत्वाऽक्षीणी प्राविशत्, वायु: प्राणो भूत्वा नासिके प्राविशत् इत्यादौ॥५॥
१४४। दृश्यते तु – तु शब्द: पक्षं व्यावर्तयति, माक्षिकादिभ्यो विलक्षणानां क्रिम्यादीनां उत्पत्तिर्दृश्यते; अतो ब्रह्मविलक्षणस्यापि जगतस्तत्कार्यत्वं संभवति॥६॥
१४५। असदिति चेन्न प्रतिषेधमात्रत्वात् – यदि कार्यस्य कारणाद्विलक्षणद्रव्यत्वं अभ्युपगम्यते, तर्हि कारणे कार्यं न सद्भवतीत्यसत्कार्यवादोऽभ्युगतस्स्यात्। तथा सति सर्वं खल्विदं ब्रह्म इति सामानाधिकरण्यव्यपदेशो न घटत इति चेत्; तन्न, कार्यकारणयोस्सालक्षण्यनियम-प्रतिषेधमात्रत्वादस्माभि: पूर्वमभिहितस्य । कार्यकारणयोरेकद्रव्यत्वं स्वीकृतमेव, एकमेव कारणावस्थं द्रव्यं कार्यावस्थां भजमानं सलक्षणावस्थामपि सलक्षणावस्थामपि भजते, विलक्षणा-वस्थामपि इत्यर्थ: ॥७॥
१४६। अपीतौ तद्वत्प्रसङ्गादसमञ्जनम् – यदि ब्रह्मैव सर्वज्ञं सत्यसङ्कल्पं निरतिशयानन्दं अपहतपाप्मत्वादिस्वरूपं तद्विपरीतजगदवस्थां भजते; तर्हि पिण्डत्वघटत्वावस्थमृद्द्रव्यवत् सर्वज्ञत्वमपहतपाप्मत्वमज्ञत्वं कर्मवश्यत्वं च ब्रह्मण: प्रसज्यत इति विरुद्धार्थाभिधानात् वेदान्तवाक्यमसमञ्जसं स्यात्। अपीताविति सृष्ट्यादे: प्रदर्शनार्थम्। जगतो ब्रह्मण्यपीतौ, ब्रह्मण उत्पत्तावपीत्यर्थ:। अपीति: – अप्यय:॥८॥
१४७। न तु दृष्टान्तभावात् – न ब्रह्मण्यज्ञत्वादय: प्रसज्येरन्, अत एव न वेदान्तानां असामञ्जस्यम्। तु शब्द: प्रसक्तस्यासंभावनीयतां द्योतयति। एकस्यैवावस्थाद्वयान्वयेऽपि गुणदोषव्यवस्थायां दृष्टान्तसद्भावात्। यथा मनुष्यो जातो बालो युवा स्थविरो भवतीत्यत्र मनुष्यशरीरकस्य चेतनस्यैव सर्वावस्थान्वयेऽपि जन्मबालत्वयुवत्वस्थविरत्वादीनि नात्मनि सङ्गच्छन्ते; तथा ज्ञानसुखदु:खादयश्च न शरीरे, एवं चिदचिद्वस्तुशरीरकस्य परस्य ब्रह्मण:, कार्यकारणोभयावस्थान्वयेऽपि कर्मवश्यत्वाज्ञत्वादय: शरीरभूतचिदचिद्वस्तुगता:। अपहतपाप्मत्व-सर्वज्ञत्वादय: परमात्मन्यात्मभूतेऽवतिष्ठन्ते । सर्वावस्थस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वम्, ब्रह्मणश्च तदात्मत्वम्, यस्य पृथिवी शरीरम् इत्याद्यन्तर्यामिब्राह्मणादिषु अवगतमिति न कश्चिद्विरोध:॥९॥
१४८। स्वपक्षदोषाच्च – न केवलं ब्रह्मकारणवादस्य निर्दोषतया तत्समाश्रयणम्, प्रधानकारणवादे दोषाच्चैतत्परित्यज्य स एव समाश्रयणीय:। प्रधानकारणवादे हि निर्विकारस्य चिन्मात्रस्य पुरुषस्य प्रकृतिसन्निधानकृततद्धर्माध्यासमूला जगत्प्रवृत्तिरभ्युपगम्यते। तत्र प्रकृतिसद्भावमात्रे सन्निधाने सति मुक्तस्यापि तद्धर्माध्यासप्रसङ्ग:; विकारविशेषे सति सन्निधाने कृत्स्नस्य विकारस्याध्यासपूर्वकत्वात् नाध्यासस्य विकारो हेतुरिति विरुद्धार्थाभिधानात् असामञ्जस्यदोष इति न तत्पक्षसंभवगन्ध:॥१०॥
१४९। तर्काप्रतिष्ठानादपि – कापिलतन्त्रस्य तर्कमूलत्वेन शाक्यादितर्कप्रतिहततयाऽस्य तर्कस्याप्रतिष्ठितत्वाच्च न तत्पक्षसंभव:॥११॥
१५०। अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्ग: – इत: पूर्वं विद्यमानैस्तर्कैरप्रतिहतत्वं यथा संभवति, तथा प्रधानकारणवादमनुमन्यामह इति चेत्; तथापि तर्काप्रतिष्ठानदोषात् अनिर्मोक्षप्रसङ्गो दुर्वार:, त्वदधिककुतर्ककुशलसद्भावसंभवात्॥१२॥इति विलक्षणत्वाधिकरणम्॥३॥
२–१–४
१५१। एतेन शिष्टापरिग्रहा अपि व्याख्याता: – न परिगृह्यन्ते वैदिकैरित्यपरिग्रहा:; शिष्टाश्च ते अपरिग्रहाश्च शिष्टापरिग्रहा:। एतेन – तर्काप्रतिष्ठानलक्षणकापिलस्मृतिनिरसनहेतुना परिशिष्टा: कणभक्षादिस्मृतयोऽपि निरस्ता व्याख्याता:। परमाणुकारणवादस्सर्वसंमत इति न तेषां तर्कस्याप्रतिष्ठितत्वमित्यधिकाशङ्का। तर्कमूलत्वाविशेषात्परमाणूनां शून्यत्वाद्रव्यत्वादिविवादाच्च तर्कस्याप्रतिष्ठितत्वमेवेति परिहार:॥१३॥ इति शिष्टापरिग्रहाधिकरणम् ॥ ४ ॥
२–१–५
१५२। – भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् – सर्वात्मभूतस्य परस्य ब्रह्मण: स्वशरीरभूतात् जीवान्निरतिशयानन्दस्वभावतया यो विभाग उक्त:, स किं विभागस्संभवति, उत नेति संशय:। न संभवतीति पूर्व: पक्ष:। सर्वचिदचिद्वस्तुशरीरतया सशरीरत्वाद्ब्रह्मण:, सशरीरस्य च सुखदु:खयो: भोक्तृत्वापत्ते:। तदापत्तिश्च न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति अशरीरं वावसन्तं न प्रियाप्रिये स्पृशत इति श्रुते:। राद्धान्तस्तु – स्यादेव विभागो जीवात्परस्याकर्मवश्यतया। न सशरीरित्वप्रयुक्तस्सुखदु:खयोग:; अपि तु शास्त्रवश्यतया तदतिवृत्तिकृत:; स एकधा भवति त्रिधा भवति इत्यादिनाऽवगतशरीरस्य मुक्तस्य सशरीरस्याप्यशास्त्रवश्यतया निरस्तनिखिलदु:खत्व-दर्शनात्। यथा लोके राजशासनवश्यानां तच्छासनातिवृत्तिनिमित्तदु:खान्वय:। विभाग: – वैलक्षण्यम्। सूत्रमपि व्याख्यातम्॥१४॥ इति भोक्त्रापत्त्यधिकरणम् ॥ ५ ॥
२–१–६
१५३। तदनन्यत्वमारम्भणशब्दादिभ्य: – किं ब्रह्मकार्यं जगद्ब्रह्मणोऽन्यत्, उतानन्यदिति संशय: अन्यदिति पूर्व: पक्ष:, तथोपलब्धे:। न हि बुद्धिशब्दान्तरादय: कारणात्कार्यस्यानन्यत्वे कथंचिदुपपद्यन्ते; कारकव्यापारवैयर्थ्यं चानन्यत्वे। अतो वस्तुविरोधादनन्यत्वश्रुतय: लक्षणया नेया:। राद्धान्तस्तु – वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्। सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत, ऐतदात्म्यमिदं सर्वं, तत्सत्यं स आत्मा, तत्त्वमसि श्वेतकेतो, सर्वं खल्विदं ब्रह्म तज्जलान् इति तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत। इत्यादिश्रुतिशतसिद्धं कार्यस्य जगत: कारणाद्ब्रह्मणोऽनन्यत्वम्। न चात्र वस्तुविरोधगन्ध:। कारणीभूतमृदादिद्रव्यस्यैव पृथुबुध्नोदरादि अवस्थान्तरापत्त्या बुद्धिशब्दान्तरादयोऽप्युपपद्यन्ते। तत एव कारकव्यापाराद्यर्थवत्त्वं च। एवं कारणस्यैव कार्यावस्थायामपि प्रत्यभिज्ञायमानस्यावस्थान्तरापत्त्यैव सर्वेषूपपन्नेषु अनुपलब्ध-द्रव्यान्तरकल्पना न संभवति। तस्माद्ब्रह्मकार्यं जगद्ब्रहमणोऽनन्यदेव। सूत्रार्थस्तु – तस्माद्ब्रह्मण: अनन्यत्वं कार्यस्य जगत: आरम्भणशब्दादिभ्यो वाक्येभ्यस्तदुपपादयद्भ्योऽवगम्यते। आरम्भणं इति शब्द आदिर्येषां पूर्वोक्तानां वाक्यानां तान्यारम्भणशब्दादीनि, तान्यनन्यत्वमुपपादयन्ति॥१५।।
१५४। भावे चोपलब्धे: – घटादिकार्यभावे च तदेवेदं मृद्द्रव्यमित्थमवस्थितमिति कारणस्योपलब्धेश्च कारणादनन्यत्वं कार्यस्य, यथा देवदत्तस्य बालत्वयुवत्वाद्यवस्थाविशिष्टस्य नान्यत्वम्॥१६॥
१५५। सत्त्वाच्चापरस्य – अपरस्य कार्यस्य, कारणे सत्त्वाच्च कारणादनन्यत्कार्यम्। सर्वमिदं घटशरावादिकार्यं पूर्वाह्णे मृदेवासीदिति हि कारणे कार्यमुपलभ्यते। घटशरावादिसंस्थानसंस्थितमेव मृद्द्रव्यं पूर्वकाले पिण्डाकारमुपलब्धमित्यर्थ:॥१७॥
१५६। असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च – असदेवेदमग्र आसीत्, इदं वा अग्रे नैव किञ्चनासीत् इत्यादिषु कारणावस्थायां कार्यस्यासत्त्वव्यपदेशात्कारणे कार्यं सदित्येतन्नोपपद्यत इति चेन्न, सदिति व्यपदेशहेतुभूतनामरूपावस्थाविरोधिसूक्ष्मावस्थाख्य-धर्मान्तरेण योगादसदिति व्यपदिश्यते। कथमिदमवगम्यते? वाक्यशेषाद्युक्तेश्शब्दान्तराच्च। वाक्यशेषस्तावत् – तदसदेव सन्मनोऽकुरुत स्यामिति। असदिति व्यपदिष्टस्यैव मनस्कार-प्रतिपादनेन असद्व्यपदेशो धर्मान्तरयोगादित्यवगम्यते। युक्तिश्च धर्मान्तरयोगमेवासद्व्यपदेश-हेतुमवगमयति – घटोऽस्ति घटो नास्तीति सदसद्व्यपदेशयो: घटत्वकपालत्वयो: परस्परविरोधि-धर्मयोरेव हेतुत्वे सिद्धे तदतिरिक्तानुपलब्धतुच्छत्वस्य हेतुत्वकल्पनानुपपत्ते:। तथा शब्दान्तरं च सदेव सोम्येदमग्र आसीत् इति समानप्रकरणस्थमसच्छब्दं धर्मान्तरयोगनिमित्तमवगमयति॥१८॥
१५७। पटवच्च – यथा तन्तव एव व्यतिषङ्गविशेषभाज: पट इति नामरूपाभ्यां कार्यान्तारादिकं भजन्ते, तद्वद्ब्रह्मापि॥१९॥
१५८। यथा च प्राणादि: – यथा च वायुरेक एव शरीरेवृत्तिविशेषं भजमान: प्राणापानादिनाम- रूपकार्यान्तराणि भजते, तद्वद्ब्रह्मापीति तदनन्यत्वं जगतस्सिद्धम्॥२०॥ इति आरम्भणाधिकरणम्॥६॥
२–१–७
१५९। इतरव्यपदेशाद्धिताकरणादि दोषप्रसक्ति: – ब्रह्मणो जगत्कारणत्वं संभवति, नेति संशय:। न संभवतीति पूर्वः पक्ष:, अयमात्मा ब्रह्म, तत्त्वमसि इति सामानाधिकरण्येन जीवो ब्रह्मेत्यवगमात्, जगत्सर्गस्य च जीवदु:खहेतुत्वादात्महिताकरणा (हितकरणा) दिदोषप्रसक्तेस्सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मणो जगत्कारणत्वानुपपत्ते:। जीवपरयोर्भेदवादिन्यः श्रुतयो जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ता:, भेदे सत्यनन्यत्वासिद्धे:। औपाधिकभेदविषया भेदश्रुतय:, स्वाभाविकाभेदविषया अभेदश्रुतय: इति चेत्; तत्रेदं वक्तव्यम्, स्वभावत: स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति, न वा? न जानाति चेत्, सर्वज्ञत्वहानि:। जानाति चेत्, स्वस्मादभिन्नस्य जीवस्य दु:खं स्वदु:खमिति जानतो ब्रह्मण: हिताकरणाहितकरणादिदोषप्रसक्तिरनिवार्या। जीवब्रह्मणोरज्ञानकृतो भेद:, तद्विषया भेदश्रुतिरिति चेत्; तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो दोषस्तत्फलं च तदवस्थमेव। ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मण: अज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न संभवति। अज्ञानेन प्रकाशस्तिरोहितश्चेत्, तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषा भाष्ये प्रपञ्चिताः॥२१॥
राद्धान्तस्तु – अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्ध:, तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्नो अभिचाकशीति, प्रधानक्षेत्रज्ञपतिर्गुणेश:, पृथगात्मानं प्रेरितारं च मत्वा इत्यादिभि: प्रत्यगात्मनोऽर्थान्तरभूतं ब्रह्मेत्यवगमात्। जीवकर्मानुगुणतया जगत्सर्गस्य च ब्रह्मणो लीलाप्रयोजनत्वाज्जगत्कारणत्वं संभवत्येव। तत्त्वमस्यादिसामानाधिकरण्यनिर्देश: यस्यात्मा शरीरम् इत्यादिश्रुतेर्जीवस्य ब्रह्म शरीरत्वात्तच्छरीरतया जीवप्रकारकब्रह्मप्रतिपादनपर:। सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणावस्थं, स्थूलचिदचिद्वस्तु शरीरं ब्रह्मैव कार्यावस्थमिति कार्यकारणयोरन्यत्वम्। एवमपि शरीरभूतयोश्चिदचिद्वस्तुनो: शरीरिणो ब्रह्मणश्च दु:खित्वपरिणामित्वहेयप्रत्यनीकत्वकल्याणगुणाकरत्वस्वभावा: स्वरूपविवेकविषयश्रुतिसिद्धा: तथैव व्यवस्थिता इति ब्रह्मणो जगत्कारणत्वं संभवत्येव। सूत्रार्थस्तु – इतरव्यपदेशात् हिताकरणादिदोषप्रसक्ति: – ब्रह्मण इतर: – जीव:। ब्रह्मणो जीवतया व्यपदेशात्, जीवस्य च दु:खित्वात् हितरूपजगदकरणं अहितरूपजगत्करणमित्यादिदोषप्रसक्तिर्ब्रह्मण:। अतो ब्रह्मणो जगत्कारणत्वं न संभवतीति॥२१॥ अत उत्तरं पठति –
१६०। अधिकं तु भेदनिर्देशात् – तु शब्द: पक्षव्यावृत्त्यर्थ:। प्रत्यगात्मनोऽधिकम् – अर्थान्तरभूतं ब्रह्म। कुत:? भेदनिर्देशात् – स कारणं करणाधिपाधिप:, प्रधानक्षेत्रज्ञपतिर्गुणेश:, पृथगात्मानं प्रेरितारं च मत्वा इत्यादिभि: प्रत्यगात्मनो जीवाद्ब्रह्मणो हि भेदो निर्दिश्यते॥२२॥
१६१। अश्मादिवच्च तदनुपपत्ति: – अश्मकाष्ठलोष्ठतृणादेरचेतनस्येवानन्तदुःखाकरजीवस्य निरतिशयानन्दसत्यसङ्कल्पब्रह्मभावानुपपत्तिश्च । न केवलं भेदश्रुत्यार्थान्तरत्ववगम्यते, (वस्त्वनुपपत्त्या) वस्तुतोऽभेदानुपपत्त्या चेत्यर्थ:। जीवसामानाधिकरण्यनिर्देश: यस्यात्मा शरीरम् इत्यादिश्रुतिशतसिद्धजीवप्रकारकब्रह्मप्रतिपादनपर इति अवस्थितेरिति काशकृत्स्न इत्यत्रैव प्रतिपादित:॥२३॥ इति इतरव्यपदेशाधिकरणम् ॥ ७ ॥
२–१–८
१६२। उपसंहारदर्शनान्नेति क्षीरवद्धि – ब्रह्मणो जगत्कारणत्वं संभवति, न वेति संशय:। न संभवतीति पूर्व: पक्ष:। लोके कार्यजननसमर्थस्यापि वस्तुन: तत्तत्कार्यजनने अनेककारकोपसंहार-दर्शनात् विचित्रजगज्जननसमर्थस्यापि ब्रह्मणोऽसहायस्य जनयितृत्वानुपपत्ते:। राद्धान्तस्तु – क्षीरस्य दधिभावेऽनन्यापेक्षत्वदर्शनान्नानेककारकोपसंहारनियमो दृश्यत इति ब्रह्मणः अनन्यापेक्षस्यैव कारणत्वं संभवत्येव। सूत्रमपि व्याख्यातम्। क्षीरवद्धीति प्रसिद्धवन्निर्देश: चोद्यमान्द्यपर:॥२4॥
१६३। देवादिवदपि लोके – यथा देवादय: स्वेस्वेलोके स्वापेक्षितानि स्वसङ्कल्पादेव सृजन्ति, तथा ब्रह्मापि। देवादेश्शास्त्रावसेयशक्तितया ब्रह्मतुल्यत्वेऽपि देवादिग्रहणं ब्रह्मणो विचित्रशक्तित्वस्य सुग्रहणायेति मन्तव्यम्॥२५॥ इति उपसंहारदर्शनाधिकरणम् ॥ ८ ॥
२–१–९
१६४। कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा – ब्रह्मणो जगत्कारणत्वं संभवति, नेति संशय:। न संभवतीति पूर्व: पक्ष:, निरवयवस्य ब्रह्मणो जगदुपादानत्वे कृत्स्नस्य ब्रह्मणो जगदाकारेण – उपयोगप्रसङ्गात्। तत्परिजिहीर्षया सावयवत्वाभ्युपगमे सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्यादि: कारणावस्थायां निरवयवत्ववाचिशब्दो बाध्येत। यद्यपि सूक्ष्मचिदचिद्वस्तु शरीरं ब्रह्म कारणं, स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यमित्यभ्युपगम्यते। तथापि शरीर्यंशस्यापि कार्यत्वाभ्युपगमात् कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा। राद्धान्तस्तु – सकलेतरविसजातीयं श्रुत्येकसमधिगम्यं सर्वशक्तियुक्तं ब्रह्मनिरवयवमपि कारणं कार्यं च भवति अन्यच्च भवतीति परिमितशक्तिवस्तुचोद्यं न तत्र प्रसज्यते। यथा जातिवादिनो जातिरेकैवामूर्ता खण्डमुण्डादिष्वत्यन्तविलक्षणेषु अनन्तेष्वपि परिसमाप्यैव वर्तते, न तत्रेतरवस्तुचोद्यमिति। अत: ब्रह्मण: जगत्कारणत्वं सम्भवत्येव । सूत्रार्थस्तु – कृत्स्नप्रसक्ति: निरवयवत्वशब्दकोपो वा – ब्रह्मकारणत्वे कृत्स्नस्य ब्रह्मण: कार्यत्वेन उपयोगप्रसङ्ग: । निरवयवत्वात्। सावयवत्वे निरवयवत्वशब्दकोपो वा – निरवयवत्ववादिशब्दबाधप्रसङ्ग इत्यर्थ: ॥२६॥
१६५ । श्रुतेस्तु शब्दमूलत्वात् – तु शब्द: पक्षव्यावृत्त्यर्थ: । श्रुते: – श्रुतिप्रामाण्यात् नैवं प्रसज्यते, शब्दमूलत्वात् – शब्दैकमूलत्वेन सकलेतरविजातीयत्वादित्यर्थ: ॥२७॥
१६६ । आत्मनि चैवं विचित्राश्च हि – आत्मनि चैवं – जीवात्मनि अचेतनधर्माप्रसक्तिश्चैवं – अचेतनविजातीयत्वादेवेत्यर्थ: । विचित्राश्च हि – अचेतनेषु च विसजातीयेषु अग्निजलादिषु विचित्रा हि शक्तयो दृश्यन्ते, एवं परमात्मन: चेतनाचेतनविसजातीयस्य विचित्राश्शक्तय उपपद्यन्ते॥२८॥
१६७ । स्वपक्षदोषाच्च – प्रधानादिकारणपक्षे दोषाच्च ब्रह्मैव जगत्कारणम् – तत्र हि लौकिकवस्तुसजातीयत्वेन प्रधानादे: उक्तदोष: अन्ये च प्रसज्येरन् ॥२९॥
१६८ । सर्वोपेता च तद्दर्शनात् – न केवलं सकलेतरविसजातीयत्वेन सर्वशक्त्युपेता परादेवतेत्युच्यते, तद्दर्शनात् – सर्वशक्तियोगश्रुतेरित्यर्थ: । दर्शयतीति दर्शनं श्रुति: । परास्य शक्तिर्विविधैव श्रूयते इत्यादिका॥३०॥
१६९ । विकरणत्वान्नेति चेत् तदुक्तम् – उक्तस्यार्थस्य द्रढिम्ने चोद्यपूर्कं पूर्वोक्तं स्मारयति – विकरणत्वात् – करणविरहितत्वात् ब्रह्म न कारणमिति चेत्, न तस्य कार्यं करणं च विद्यते इति हि श्रूयते । तदुक्तम् – अत्र यद्वक्तव्यं तत्पूर्वमेवोक्तम् शब्दमूलत्वात् विचित्राश्च हीति । अयमेव परिहार: – शब्दैकमूलत्वेन सकलेतरविसजातीयत्वात् ब्रह्मण:, विसजातीयानां च शक्तिवैचित्र्यस्य लोकदृष्टत्वात् सर्वमुपपन्नमित्यर्थ: ॥३१॥ इति कृत्स्नप्रसक्त्यधिकरणम् ॥ ९ ॥
२–१–१०
१७० । न प्रयोजनवत्त्वात् – ब्रह्मणो जगत्कारणत्वं सम्भवति नेति संशय: । न सम्भवतीति पूर्व: पक्ष: – बुद्धिपूर्वारम्भाणां सप्रयोजनत्वात्, ईश्वरस्य च स्वत एवावाप्तासमस्तकामस्य जगत् सृष्ट्यारम्भे प्रयोजनाभावात् गर्भवासादिदु:खरूपत्वात्सृष्टे: , परानुग्रहेणापि न सप्रयोजनत्वम् इति । राद्धान्तस्तु – परिपूर्णस्यापीश्वरस्य केवललीलाप्रयोजनाय जगत्सृष्ट्यारम्भस्सम्भवति । यथा लोके सप्तद्वीपवतीं मेदिनीमधितिष्ठतो महाराजस्य परिपूर्णस्यापि केवललीलैकफला: कन्दुकारम्भा: दृश्यन्ते, तद्वदीश्वरस्यापि प्रयोजनाय जगत्सृष्ट्यारम्भस्सम्भवति । सूत्रार्थस्तु – न प्रयोजनवत्त्वात् । प्रयोजनवत्त्वात् सृष्टे: ईश्वरस्य स्वत: परिपूर्णस्य प्रयोजनाभावात् न स्रष्टृत्वं ॥३२॥
१७१ । लोकवत्तु लीलाकैवल्यम् – लीलाकैवल्यम् – लीलाया: प्रयोजनत्वे कैवल्यम् सम्भवति – केवलाया: लीलाया: सृष्ट्यारम्भप्रयोजनत्वं सम्भवीत्यर्थ: । लोकवत् – यथा लोके राज्ञ: कन्दुकाद्यारम्भे॥३३॥
देवमनुष्यादिविषमसृष्ट्या पक्षपातप्रसङ्गात् दु:खगर्भत्वेन नैर्घृण्यप्रसङ्गाच्च, परमकारुणिकस्य परमपुरुषस्य परिपूर्णस्य लीलार्थमपि जगत्सर्ग: न सम्भवतीत्याशङ्क्याह –
१७२ । वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति – ईश्वरस्य च विचित्रजगत्सृष्टौ देवादिवैषम्यप्रयुक्तपक्षपात:, दु:खप्रदजगत्सर्गे नैर्घृण्यं च न सम्भवत:, वैषम्यादावीश्वरस्य क्षेत्रज्ञकर्म-सापेक्षत्वात् । क्षेत्रज्ञानां पूर्वपूर्वकर्मपर्यालोच्य तत्तत्कर्मानुगुणं विषमं जगत्सृजतीति तत्कर्मैव वैषम्यादि-हेतुरित्यर्थ: । तथा देवादिदेहयोगं क्षेत्रज्ञानां तत्कर्मसापेक्षं दर्शयति हि श्रुति: । साधुकारी साधुर्भवति पापकारी पापी भवतीति ॥३४॥
१७३ । न कर्माविभागादिति चेत् अनादित्वादुपपद्यते चाप्युपलभ्यते च – सृष्टे: प्राक् कर्म न विद्यते क्षेत्रज्ञाभावात् , तदभावश्च सदेव सोम्येदमित्यवधारणावगतात् अविभागादिति चेत् तन्न – अनादित्वात् क्षेत्रज्ञानां तत्तत्कर्मप्रवाहाणां च । उपपद्यते च क्षेत्रज्ञस्वरूपानादित्वेऽपि नानारूप-विभागाभावात् अविभागश्रुति: । अन्यथा अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । उपलभ्यते च श्रुतिस्मृत्यो: क्षेत्रज्ञानामनादित्वं तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत इति नामरूपव्यारणमात्रश्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम्, ज्ञा ज्ञौ द्वावजावीशनीशौ, नित्यो नित्यानां, प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि इति । अविभागश्रुतिरपि नानारूपविभागादेवोपपद्यत इत्यभिप्राय: ।
अत्र पाठान्तरम् – सृष्टे: प्राक् कर्म न विद्यते क्षेत्रज्ञाभावात् । तदभावश्च सदेव सोम्य इदं इत्यवधारणावगतात् अविभागादिति चेत् तन्न – अनादित्वात् क्षेत्रज्ञानां तत्तत्कर्मप्रवाहाणां च । तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत इति नामरूपव्याकरणमात्रश्रवणात्, क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम् । उपपद्यते क्षेत्रज्ञस्वरूपानादित्वेऽपि नानारूपविभागाभावात् अविभागश्रुति:। अन्यथा अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । उपलभ्यते च श्रुतिस्मृत्यो: क्षेत्रज्ञानामनादित्वं ज्ञा ज्ञौ द्वावजावीशनीशौ, नित्यो नित्यानां, प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि, न जायत इत्यादिभि: ॥३५॥
१७४। सर्वधर्मोपपत्तेश्च । प्रधानपरमाण्वादिष्वनुपपन्नानां स्वपक्षदोषादित्यादिषूक्तानां सर्वेषां धर्माणां कारणत्वोपपादकानां ब्रह्मण्युपपतेश्च ब्रह्मैव कारणम् । प्रधानपरमाण्वादीनां परिमितशक्तिकत्वात् लोकदृष्टवस्तुसजातीयत्वाच्च अनुपपत्तय: सहस्रशस्सन्ति । ब्रह्मण: शास्त्रैकसमधिगम्यतया सकलेतरविसजातीयत्वेन अचिन्त्यशक्तित्वात् सर्वशक्तित्वश्रुतेश्च सर्वमुपपन्नमित्यर्थ: ॥३६॥ इति प्रयोजनवत्त्वाधिकरणम् ॥ १० ॥
इति श्री भगवद्रामानुजविरचिते श्रीवेदान्तदीपे द्वितीयस्याध्यायस्य प्रथम: पाद: ॥