वेदान्तदीप:
॥अथ द्वितीयाध्याये द्वितीय: पाद:॥
२–२–१
१७५। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – साङ्ख्यतन्त्रसिद्ध: प्रधानकरणवाद: किं समीचीनयुक्तिमूल:, उत नेति संशय:। समीचीनयुक्तिमूल इति पूर्व: पक्ष:। घटादिवद्विचित्रसन्निवेशं जगत्कार्यम् तद्वदेव स्वसरूपकारणविशेषारब्धम्। सुखदु:खमोहाद्यात्म-कतया सत्त्वाद्यात्मकं जगत्सत्त्वरजस्तमोमूलकम्। तत्र महदादिपृथिव्यन्तानां घटादिवत् परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगदुत्पत्तौ कारणकाष्ठा न भवन्ति। तेषां परिमितत्वेन अपरिमितजगदुत्पादनाशक्ते:। अन्यूनानतिरिक्तानि साम्यावस्थान्यपरिमितानि सत्त्वरजस्तमांसि अव्यक्तप्रधानादिशब्दाभिधेयानि जगत्कारणम्। राद्धान्तस्तु – रथप्रासादादिहेतुभूतदार्वादिवदचेतनं प्रधानं स्वस्वभावाद्यभिज्ञचेतनानधिष्ठितं विचित्रजगद्रचनासमर्थमिति न केवलं प्रधानं कारणम्। सूत्रार्थस्तु – रचनानुपपत्तेश्च नानुमानम् – अनुमीयत इत्यनुमानम् – प्रधानम्; तस्याचेतनस्य प्राज्ञानधिष्ठितस्य विचित्रसन्निवेशजगद्रचनानुपपत्ते: तन्न कारणम्। चकारात्सत्त्वादीनां द्रव्य-गुणत्वेन शौक्ल्यादेरिवोपादानकारणत्वासंभवं समुच्चिनोति। सत्त्वादयो हि कार्यगतलाघव-प्रकशादिहेतुभूता: कारणभूतपृथिव्यादिगतास्तत्स्वभावविशेषा:। प्रवृत्तेश्च – अनुपपत्तेरिति वर्तते; प्राज्ञानधिष्ठितस्य प्रधानस्य विचित्रजगद्रचनानुगुणाद्यपरिस्पन्दरूपप्रवृत्त्यनुपपत्तेश्च न प्रधानं कारणम्॥१॥
१७६। पयोम्बुवच्चेत्तत्रापि – पयसोऽम्बुनश्च यथा प्राज्ञानधिष्ठितस्यैव दधिभावेन नारिकेलचूतादिविचित्ररसरूपेण च परिणामो दृश्यते, तद्वत्प्रधानस्यापि केवलस्यैव जगदाकारेण परिणाम उपपद्यत इति चेत्, परिहरति – तत्रापीति। तदपि पक्षीकृतमित्यर्थ:। यत्र रथादिष्वचेतनस्य प्राज्ञाधिष्ठितत्वं दृष्टम्, तद्व्यतिरिक्तं हि सर्वं पक्षीकृतमेव। योऽप्सु तिष्ठिन् इत्यादि श्रुते: तदपि प्राज्ञाधिष्ठितम्॥२॥
१७७। व्यतिरेकानवस्थितेश्चानपेक्षत्वात् – सर्गव्यतिरेकेण प्रतिसर्गावस्थायाऽनवस्थिति-प्रसङ्गाच्च केवलं प्रधानं न कारणम्। अन्यानपेक्षत्वात्प्रधानस्य सर्वदैव हि सृष्टि: प्रसज्यते॥३॥
१७८। अन्यत्राभावाच्च न तृणादिवत् – धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराकारेण परिणमते, तद्वत्प्रधानमपीति च वक्तुं न शक्यते; धेन्वादिनोपयुक्तस्यापि तृणादे: क्षीराकारेण परिणाम: प्राज्ञाधिष्ठितत्वादेव भवतीत्यभ्युपेतव्यम्; कुत:? अन्यत्राभावात् – अनडुहाद्युपयुक्तस्य प्रहीणस्य वा तृणादे: क्षीराकारेण परिणामाभावात्॥४॥
१७९। पुरुषाश्मवदिति चेत्तथाऽपि – प्राज्ञानधिष्ठितमपि प्रधानं चैतन्यमात्रवपुर्निष्क्रिय: पुरुष: स्वसन्निधिमात्रेण सर्गादौ प्रवर्तयति। यथा दृक्छक्तियुक्तो गमनशक्तिविकल: पङ्गु: पुरुषोऽन्धं दृक्छक्तिविकलं प्रवृत्तिशक्तियुक्तं पुरषं स्वसन्निधानात्प्रवर्तयति; यथा चायस्कान्ताश्मा स्वसन्निधानात् अय: प्रवर्तयति, तद्वदिति चेत् , परिहरति – तथापीति। तद्वदपि प्रधानस्य प्रवृत्तिर्नोपपद्यते। तत्र हि पङ्गो: पुरुषस्य गमनशक्तिविकलस्यापि मार्गोपदेशादिव्यापार: कादाचित्को दृश्यते। अन्धस्य चाक्षुषव्यापारविरहेऽपि पङ्गूपदेशग्रहणादिश्चेतनधर्मोऽस्ति। अयस्कान्तमणेरप्यय: प्रवृत्तौ कादाचित्कं अयस्सन्निधानं विद्यते। इह तु सन्निधिमात्रातिरेकी तादृश: कश्चिद्विशेष: उभयत्रापि न विद्यते। पुरुषसन्निधानस्य नित्यत्वेन नित्यसर्गप्रसक्ति:। तथा सति प्रतिसर्गाभावोऽपवर्गाभावप्रसङ्गश्च॥५॥
इतश्च-
१८०। अङ्गित्वानुपपत्तेश्च – गुणानामुत्कर्षापकर्षरूपाङ्गाङ्गिभावेन जगत्प्रवृत्ति: प्रतिसर्गावस्थायां साम्यावस्थानामेकस्योत्कर्षरूपाङ्गित्वानुपपत्तेश्च न संभवति। तत्राऽप्युत्कर्षोऽस्ति चेत्, सर्वदा सर्गप्रसङ्ग:॥६॥
१८१। अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् – उक्तप्रकाराद्व्यतिरिक्तप्रकारेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगाद्रचनानुपपत्त्यादयो दोषा: तदवस्था:॥७॥
१८२। अभ्युपगमेऽप्यर्थाभावात् – प्रधानाभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान्न तदनुमेयम्। पुरुषस्य भोगापवर्गार्थतया हि प्रधानप्रवृत्तेस्सप्रयोजनत्वम्। चैतन्यमात्रवपुषो निष्क्रियस्य नित्यनिर्विकारस्य पुरुषस्य इतरेतराध्यासकृतप्रकृतिदर्शनरूपभोग:, तद्विवेचनरूपापवर्गश्च न संभवति। निर्विकारस्यैव, प्रकृतिसन्निधानेन भोगस्संभवति चेत्, उभयोर्नित्यत्वेन सर्वगतत्वेन च सन्निधानस्य नित्यत्वादपवर्गासिद्धि:। तथाविधसन्निधेरेवापवर्गहेतुत्वे भोगासिद्धिश्च॥८॥
१८३। विप्रतिषेधाच्चासमञ्जसम् – विप्रतिषिद्धं चेदं साङ्ख्यदर्शनम् प्रकृते: परार्थतया पुरुषो द्रष्टा भोक्ता अधिष्ठातेत्याहु:; प्रकृतेश्च पुरुषस्य भोगापवर्गार्थतया सप्रयोजनत्वं च, प्रकृत्यैव साधनभूतया पुरुषो भोगमपवर्गं चाश्नुत इति चोक्ते:। स च पुरुषश्चैतन्यमात्रवपुर्नित्यो निर्विकारो न द्रष्टा न भोक्ता न कर्तेति च; अत एव पुरुषो न बध्यते, न च मोक्षसाधनमनुतिष्ठति, न च मुच्यत इति च वदन्ति। प्रकृतिरचेतनभूतैव पुरुषसन्निधानात्पुरुषमनुधर्मं चैतन्यं स्वस्मिन् स्वधर्मं कर्तृत्वं पुरुषे चानुसन्धाय बध्यते, मोक्षसाधनमनुतिष्ठति, मुच्यत इति चाहु:। अध्यासनरूपमनुसन्धानं हि चेतनधर्म:। तथा प्रकृतिरनुपकारिण: पुरुषस्य भोगापवर्गस्वरूपं प्रयोजनं साधयतीत्युपकारिणीति चाहु:। अध्यासरूपबन्धादय: पुरुषस्य न सन्तीति चेत्, कस्तस्योपकार:? एवमाद्यन्योन्यविरुद्ध-भाषणादसमञ्जसम्॥९॥ इति रचनानुपपत्त्यधिकरणम्॥ १ ॥
२–२–२
१८४। महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् – किं काणादाभ्युपगत: परमाणुकारणवाद: समीचीनयुक्तिमूल:, उत नेति संशय: समीचीनयुक्तिमूल इति पूर्व: पक्ष:, अवयवसंयोगात् अवयव्युत्पत्तेः दर्शनात्, अवयवाल्पत्वप्राचुर्याभ्यां सर्षपमहीधरवैषम्यदर्शनाच्च अवयवाल्पत्वकाष्ठा अवश्याभ्युपगमनीया इति परमाणुसिद्धि:। ते चतुर्विधा: परमाणवो विपाकदशापन्नक्षेत्रज्ञ- अदृष्टसचिवा: परमेश्वराधिष्ठिता: द्व्यणुकादिक्रमेण जगदारम्भका इति। राद्धान्तस्तु – अवयवाः स्वकीयैष्षड्भि: पार्श्वैस्संयुज्यमानास्स्वस्मात् महान्तमवयविनमुत्पादयन्तीति परमाणुष्वपि तथैवोत्पादकत्वमभ्युपेतव्यम्। तथा सति परमाणवोऽपि सांशास्स्वकीयैरवयवैस्ते च स्वकीयैरिति न क्वचित्कारणत्वस्य तस्य व्यवस्थिति:। सूत्रार्थस्तु – महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्, असमञ्जसमिति वर्तते। वा शब्दश्चार्थे ह्रस्वपरिमण्डलाभ्यां – द्व्यणुकपरमाणुभ्याम्, महद्दीर्घवत् – त्र्यणुकद्व्यणुकोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसम्॥१०॥
द्व्यणुकादिक्रमेणारम्भकत्वं कारणानवस्थितेरसमञ्जसम्। किमत्रान्यदसमञ्जसमित्यत्राह –
१८५। उभयथाऽपि न कर्मातस्तदभाव: – परमाणूनामाद्यं कर्म अदृष्टकारितं इत्यभ्युपगम्यते। तददृष्टं किमणुगतमुत क्षेत्रज्ञगतम्? उभयथाऽप्यदृष्टस्या कादाचित्कत्वेन सदोत्पादकत्वप्रसङ्गात्कादाचित्कं कर्म न संभवति। अत: कर्मणा परमाणु संयोगाभाव:। विपाकापेक्षत्वेऽपि नानाविधानन्तादृष्टानामेकदैवैकरूपविपाकश्च न संभवति। आनुमानिक-ईश्वरासिद्धेश्वरेच्छयाऽपि नियमो न संभवति॥११॥
१८६। समवायाभ्युपगमाच्च साम्यादनवस्थिते: – समवायाभ्युपगमाच्चासमञ्जसम्; समवायो हि जातिगुणादीनां द्रव्यविशेषापृथक्सिद्धिहेतुतयाऽभ्युपगम्यते; समवायस्यापि तथाभावे हेत्वपेक्षासाम्यादनवस्थिते:। समवायस्य तथाभावस्स्वाभाविक इति चेत्, जातिगुणादीनामेवैष स्वभाव इति युक्तम्॥१२॥
इतश्च-
१८७। नित्यमेव च भावात् – समवायसंबन्धस्य नित्यत्वाभ्युपगमात्संबन्धिनित्यत्वमन्तरेण तदनुपपत्तेरवयवावयविनोरुभयोरपि नित्यमेवभावात् कार्यकारणभाव एव न सिद्ध्यति। ।१३॥
१८८। रूपादिमत्वाच्च विपर्ययो दर्शनात् – परमाणूनां नित्यत्वनिरवयवत्वादिविपर्ययश्च स्यात्, रूपादिमत्त्वात्तेषाम्, घटादिषु रूपादिमत्सु तथा दर्शनात्; दर्शनादेव हि त्वदभिमतं परिकल्प्यते॥१४॥
१८९। उभयथा च दोषात् – अनित्यत्वादिभयात्परमाणूनां रूपादिशून्यत्वे कार्यगुणस्य कारणगुणपूर्वकत्वासिद्धि:, तत्सिद्धये रूपादिमत्त्वे चानित्यत्वादिदोषप्रसक्तिरित्युभयथा च दोषादसमञ्जसमेव॥१५॥
१९०। अपरिग्रहाच्चात्यन्तमनपेक्षा – कापिलपक्षे हि श्रुतिन्यायविरुद्धेऽपि सत्कार्यवादादि किञ्चिद्वैदिकै: परिगृह्यते। काणादे तु कस्यचिदप्यंशस्य वैदिकै: परिग्रहाभावादनुपपन्नत्वाच्च नि:श्रेयसार्थिभिरत्यन्तमनपेक्षा कार्या॥१६॥ इति महद्दीर्घाधिकरणम् ॥ २ ॥
२–२–३
१९१। समुदाय उभय हेतुकेऽपि तदप्राप्ति: – सौगताश्चतुर्विधा: प्रत्यक्षसिद्धस्थूलद्रव्यवादिन: केचिद्वैभाषिका:; अन्ये विज्ञानानुमेयस्थूलद्रव्यवादिन:। ते च सौत्रान्तिका:। अपरे निरालम्बनविज्ञानमात्रसद्भावं वदन्ति योगाचारा:। त्रयोऽप्येते स्वाभ्युपगतवस्तुन: क्षणिकत्वं वदन्ति। अन्ये तु सर्वशून्यवादिनो माध्यमिका:। तत्राद्ययोर्बाह्यसद्भावमभ्युपगच्छतो: जगदुत्पत्तिप्रकारो लोकव्यवहारश्च सूपपाद:; उत दुरुपपाद इति संशय:। सूपपाद इति पूर्व: पक्ष:। तथा हि – पार्थिवाप्यतैजसवायवीया गन्धादियुक्ता: परमाणवो हि पृथिव्यादिरूपेण संहता भवन्ति; भूतेभ्यश्च शरीरेन्द्रियविषयलक्षणसङ्घाता:, तत्रान्तर: विज्ञानसन्तानो ग्राहकाभिमानारूढ आत्मत्वेन अवतिष्ठते। एषु क्षणिकेष्वपि स्थिरत्वादिगोचर बुद्ध्याख्याविद्यया सर्वमुपपद्यत इति जगदुत्पत्तिर्लोकव्यवहारश्च युज्यते। राद्धान्तस्तु – क्षणध्वंसिन: परमाणव: कदा संहतौ व्याप्रियन्ते? कदा संहन्यन्ते? संहतौ व्यापृता: तस्मिन्नेव क्षणे विनष्टाश्चेत्, के पुनस्संहन्यन्ते? कश्च विज्ञानात्मा कदा कं विषयं स्पृशति? कश्च कदा कं जानाति? कश्च कदा कमर्थमुपादत्ते? स्प्रष्टा नष्ट:, स्पृष्टं च नष्टं, वेदिता नष्ट:, वेद्यं च नष्टम्। कथमन्येन स्पृष्टमन्यो विजानाति? कथं वाऽन्येन विदितमन्य उपादत्ते? सन्तानैकत्वे सिद्धेऽपि सन्तानिभ्यस्सन्तानस्य परमार्थतो वस्त्वन्तरत्वानभ्युपगमात् सन्तानैक्यमपारमार्थिकमकिञ्चित्करम्। स्थिरत्वाद्यविद्ययाऽपि सङ्घातोत्पत्तिर्न संभवति। न हि शुक्तिकादिषु रजताविद्यया रजताद्युत्पत्तिसंभव:। विदुषश्च पूर्वस्य नष्टत्वेनोत्तरेणाविदुषा पूर्वविनष्टेन विदुषाऽनुसंहितार्थोपादानं न संभवति। संस्काराश्रयत्वेन चैकोऽर्थ: स्थिरो नाभ्युपगम्यते। अतो जगदुत्पत्तिर्लोकव्यवहारश्च दुरुपपाद एव। सूत्रार्थस्तु – समुदाय उभयहेतुकेऽपि तदप्राप्ति: – उभयहेतुकेऽपि समुदाये समुदायत्वाप्राप्ति:; परमाणुहेतुक: पृथिव्यादि-समुदाय:, पृथिव्यादि हेतुकश्शरीरेन्द्रियसमुदाय इत्युभयहेतुकोऽपि समुदाय: क्षणिकत्वाभ्युपगमात् उक्तेन न्यायेन न सिद्ध्यतीत्यर्थ:॥१७॥
१९२। इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् – यद्यपि क्षणिकास्सर्वे भावा:, तथाप्यविद्यादीनामितरेतरहेतुकत्वादुपपन्नं लोकव्यवहारादिकम्। अस्थिरेषु स्थिरत्वबुद्धिरूपया अविद्यया तत्र तत्र रागद्वेषादयो जायन्ते। इत्येवमादि परम्परया पुनरप्यविद्येति चक्रवत्परिवर्तत इति चेत्, नैतदुपपद्यते, सङ्घातभावानिमित्तत्वादविद्याया:। यद्यप्यविद्याख्या विपरीतबुद्धि: क्षणिकं स्थिरत्वेन विषयीकरोति, तथापि तन्न वस्तुत: स्थिरं भवतीति वस्तुतस्स्थिरकार्यं न करोति, अतस्सङ्घातभावो न सिद्ध्यतीत्यर्थ:। अस्थिरे स्थिरत्वबुद्धियुक्तस्य विज्ञानात्मनस्तदैव नष्टत्वात्कस्य रागद्वेषादयो जायन्त इति, रागद्वेषादिपरम्परा च न सिध्यतीत्यभिप्राय:॥१८॥ इतश्च-
१९३। उत्तरोत्पादे च पूर्वनिरोधात् – उत्तरघटक्षणोत्पत्तिवेलायां पूर्वस्य विनष्टत्वादभावस्यैव हेतुत्वेनाविशेषात्सर्वेषां सर्वदोत्पत्ति: प्रसज्यते। पूर्वक्षणवर्तिनो हेतुत्वोपगमेऽपि देशादेर्विशेषकस्य स्थिरस्यैकस्थानभ्युपगमादविशेषेणोत्तरक्षणवर्तिनस्सर्वस्य हेतुस्स्यात्॥१९॥
१९४। असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा – असति उत्पत्तौ प्रतिज्ञानिरोधश्च भवताम्; अधिपतिसहकार्यादीनां विज्ञानोत्पत्तिहेतुत्वप्रतिज्ञानात्। अथैतत्परिजिहीर्षया पूर्वो घटक्षणस्तिष्ठति इत्युच्येत, तदा युगपद्घटक्षणद्वयोपलब्धिप्रसङ्ग:। न चोपलभ्यते। उपरोध: – विरोध:॥२०॥
अतो निरन्वयविनाशोऽपि न संभवतीत्याह-
१९५।प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात्- प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोध-अप्राप्ति: स्थूलसूक्ष्मविनाशयोरप्राप्तिरित्यर्थ:। स्थूलविनाश: मुद्गराभिघाताद्यनन्तर-भाव्युपलब्धियोग्य:। सूक्ष्मस्तु – प्रतिक्षणभाव्युपलब्ध्यनर्हा:। तौ निरन्वयौ न भवत:, उत्पत्तिविनाश-धर्मभागिनो द्रव्यस्याविच्छेदात्। तदनन्यत्वमिति सत्कार्यवादस्योपपादितत्वादित्यभिप्राय:। घटादौ कपालादिरूपावस्थया निरन्वयविनाशादर्शनात्, प्रदीपनिर्वाणेऽपि सूक्ष्मावस्थाप्राप्तिरित्यविरोध:॥२१॥
१९६। उभयथा च दोषात् – उत्पन्नस्य तुच्छतापत्तौ, तुच्छादुत्पत्तौ चेत्युभयप्रकारे च दोषापत्तेस्ते न संभवत:। उत्पन्नस्य तुच्छतापत्तौ हि पश्चात्तुच्छादुत्पद्यमानं जगत्तुच्छात्मकमेव स्यात्; मृत्सुवर्णादे: उत्पद्यमानमृत्सुवर्णाद्यात्मकघटमकुटादिवत्। अतस्तुच्छादुत्पत्तिस्तुच्छता-पत्तिश्च न संभवत:॥२२॥
१९७। आकाशे चाविशेषात् – आकाशे तुच्छस्वरूपता न संभवति, अबाधितप्रतीतिसिद्धपृथिव्यादि वदाकाशेऽप्यबाधितप्रतीतेरविशेषात्। प्रतीयते ह्याकाशोऽत्र श्येनः पतत्यत्र गृध्र इति श्येनादे: पतनदेशत्वेन॥२३॥
१९८। अनुस्मृतेश्च – प्रत्यभिज्ञानाच्च न घटादे: क्षणिकत्वम्। तदेवेदमिति हि प्रत्यभिज्ञायते। प्रत्यभिज्ञानं हि नाम – अतीतवर्तमानकालवर्त्येकवस्तुविषयमेकं प्रत्यक्षज्ञानम्। तस्य कालद्वयसंबन्ध-विशिष्टमेव वस्तु विषय:। न च तदित्यंशस्मरणम्। इदमित्यंशश्च ग्रहणम्, अतीतकालसंबन्धिन इन्द्रियसंप्रयोगाभावादिति वाच्यम्, तदिदमिति सामानाधिकरण्येन ग्रहणस्यैकत्वस्फुरणात्। पूर्वकालानुभवजनितसंस्कारसहकृतेन्द्रियसंप्रयोगयुक्तस्य पुरुषस्य तथा ग्रहणमुपपद्यत एव। अन्वयव्यतिरेकाधीनं हि सर्वत्र सामाग्री परिकल्पनम्। न च ज्वालादिवत् सादृश्यनिबन्धना प्रत्यभिज्ञेति त्वया वक्तुं शक्यम्। कालद्वयवर्तिनोर्द्वयोस्सादृश्यस्यानुसन्धातु: ज्ञातुरेकस्यानभ्युपगमात्॥२४॥ पृथिव्यादिविज्ञानानुमेयार्थवादिनं प्रत्याह। स हि ज्ञाने नील-पीतादिविचित्राकारं दृष्टा ज्ञानात्पूर्वक्षणवर्तिनि ज्ञाने स्वाकारं समर्प्य विनष्टमर्थमनुमिनोति। तत्रोत्तरम् —
१९९। नासतोऽदृष्टत्वात् – असतो धर्मिणो धर्मस्यान्यत्र संक्रमणं न संभवति, कुत:? अदृष्टत्वात् – न हि धर्मिणि विनष्टे तद्धर्मस्यान्यत्र संक्रमणं क्वचिद्दृष्टम्॥२५॥
२००। उदासीनानामपि चैवं सिद्धि: – वैभाषिकसौत्रान्तिकयोर्द्वयोरपि साधारणमिदं दूषणम्। एवं – सर्वभावानां क्षणिकत्वाभ्युपगमे सति उदासीनानां – निष्प्रयत्नानामप्यैहिकामुष्मिक-सर्वार्थसिद्धिस्स्यात्, प्रयत्नाद्यनुतिष्ठतस्तदानीमेव विनष्टत्वात्, तत्तत्संस्कारादेरपि कस्यचित्स्थिरस्य अनुवर्तमानस्य अनभ्युपगमाच्च, पश्चादागता सिद्धिरहैतुकीति निष्प्रयत्नानामप्यैहिकामुष्मिक-सर्वार्थसिद्धिस्स्यात् ॥२६॥ इति समुदायाधिकरणम्॥ ३ ॥
२–२–४
२०१। नाभाव उपलब्धे: – योगाचाराभिमतो ज्ञानमात्रसद्भाववाद: किं समीचीनयुक्तिमूल: उत नेति संशय:। समीचीनयुक्तिमूल इति पूर्वपक्ष:। बाह्यार्थसद्भाववादिनाऽपि तत्तदर्थाकारज्ञानस्य प्रकाशमानत्वमवश्याश्रयणीयम्। सर्वस्य वस्तुन: प्रकाशमानस्य स्वासाधारणेनाकारेण प्रकाश इष्यते। तत्र घटपटादिज्ञानस्य घटपटाद्याकार एवाकार:, अन्यथा घटाद्यसाधारण्यं च तत्तज्ज्ञानस्य न संभवति। एकश्चायमाकार उपलभ्यते। स तु ज्ञानस्यैवेति तद्व्यतिरिक्तार्थसद्भाववादोऽनुपपन्न:। तावतैव घटोऽयं ज्ञात इति व्यवहारश्चोपपद्यते। तस्य बहिर्वदवभासो निर्मूलत्वाद्विभ्रमकृत:। राद्धान्तस्तु – घटमहं जानामीति सकर्मकस्य सकर्तृकस्य ज्ञाधात्वर्थस्य च्छेदनादिवत्सर्वलोकसाक्षिकं उपलभ्यमानस्य कर्तृकर्मव्यतिरेकेण केवलस्यैव सद्भावमनुन्मत्त: को ब्रवीति? स्वासाधारणाकारश्च च्छेदनादिवत्तत्तदर्थ-व्यवहारयोग्यतापादनाकारेणोपलभ्यते। एवं छेदनादेरप्याकारो द्विधाभावनादिहेतुतयैव कर्तृगतस्योपलभ्यते। नह्यमूर्तानां क्रियादीनां कर्तृकर्मनिरूपणीयस्वाकाराणां कर्माकारत्वमाश्रीयते। सूत्रार्थस्तु – नाभाव उपलब्धे: – ज्ञानव्यतिरिक्तार्थाभावो न शक्यते वक्तुम्, उपलब्धे: – घटमहं जानामीति जानते: कर्मतया कर्तृतया चोपलब्धे:॥२७॥
२०२। वैधर्म्याच्च न स्वप्नादिवत् – स्वप्नज्ञानादिवच्च जागरितज्ञानानां न मिथ्यार्थत्वम्, तद्वैधर्म्यात्। निद्रादिकारणदोषबाधकप्रत्ययरहितत्वादित्यर्थ:। चकारात्तान्यपि यथार्थानि इत्यभिप्राय:॥२८॥
२०३। न भावोऽनुपलब्धे: – न केवलस्यार्थशून्यस्य ज्ञानस्य भावस्संभवति, क्वचिदप्यनुपलब्धे:। अबाधितप्रतीतिसिद्धस्यासद्भावे सति ज्ञानमात्रस्याप्यसद्भावो न शक्यते वारयितुमित्यभिप्राय:॥२९॥ इति उपलब्ध्यधिकरणम् ॥ ४ ॥
२–२–५
२०४। – सर्वथाऽनुपपत्तेश्च – माध्यमिकोक्तसर्वशून्यवादस्संभवति, नेति संशय:। संभवतीति पूर्व: पक्ष:। विज्ञानं घटादयश्च सर्वे भावा न सन्ति। कुत:? उत्पत्त्यनिरूपणात् घटादिभावानाम्। भावात्तावदुत्पत्तिर्न संभवति, न हि घटादिरुत्पद्यमानोऽसंमृदितेन मृत्पिण्डादिनोत्पद्यते। नाप्यभावात्, पश्चादभावादुत्पद्यमानो घटादिरभावात्मक एव स्यादिति सर्वशून्यत्वमेव युक्तिमत्। राद्धान्तस्तु – लोके भावाभावशब्दयोस्तद्बुद्ध्योश्च प्रमाणेनोपलभ्यमानस्यैव वस्तुनोऽवस्थाविशेष एव भावरूपो विषय:। वर्तमानतयोपलभ्यमानावस्थाविशेषो भावबुद्धिविषय:। तद्विरोध्यवस्था-विशेषोऽभावबुद्धिविषय:। अतो न कुतश्चित्त्वदभिप्रेतं तुच्छत्वं सिद्ध्यति। सूत्रार्थस्तु – सर्वथाऽनुपपत्तेश्च – सर्वशून्यवादी सर्वं सदिति प्रतिज्ञाय स्वाभिप्रेतं साधयति? उतासदिति प्रतिज्ञाय? अथ प्रकारान्तरेण प्रतिज्ञाय? सर्वथापि सर्वशून्यत्वानुपपत्तेस्स्वाभिमतासिद्धि:, सद्भावयोर्विद्यमानवस्तुधर्मतोपपादनात्॥३०॥ इति सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥
२–२–६
२०५। नैकस्मिन्नसंभवात् – जैनमतं युक्तिमत्; उत नेति संशय:। युक्तिमदिति पूर्व: पक्ष:। जीवाजीवशब्दाभिलपनीयभोक्तृभोग्यात्मकस्य जगतस्सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वैः अनैकान्त्यम्; षड्द्रव्यतत्पर्यात्मनाऽवस्थितत्वात् कृत्स्नस्य जगतो द्रव्यात्मना सत्त्वैकत्व-नित्यत्वानि उपपन्नानि, पर्यायात्मना च विपरीतानि। पर्यायाश्च – घटत्वपटत्वादि अवस्थाविशेषा:। द्रव्यस्वरूपस्यैकत्वात् स्थिरत्वात् सद्बुद्धिबोध्यत्वात् तेन रूपेणैकत्वादि युक्तम्; पर्यायशब्दाभिधेयावस्था विशेषाणामनेकत्वादस्थिरत्वात् सद्बुद्धिबोद्ध्यत्वात्तेन रूपेणासत्त्व-अनित्यत्वनानात्वानि युक्तानि। प्रतीतिव्यवस्थाप्यत्वात् सर्वस्य वस्तुन उभयाकारप्रतीतेरुभय-मुपपन्नम्। राद्धान्तस्तु – एकस्यास्तित्वनास्तित्वादिभिरनैकान्तिकत्वमयुक्तम्, एकस्मिन्वस्तुन्यस्तित्वनास्तित्वादेर्विरुद्धस्य च्छायातपवद्युगपदसंभवात्। तथा हि द्रव्यस्य, तद्विशेषणभूतपर्यायस्येत्थं शब्दाभिधेयावस्थाविशेषस्य चेदमित्थमिति प्रतीते: प्रकारप्रकारितया पृथक्पदार्थत्वान्नैकस्मिन्विरुद्धप्रकारभूतसत्त्वासत्त्वरूपधर्मसमावेशो युगपत्संभवति। उत्पत्ति-विनाशाख्यपरिमाणविशेषास्पदत्वं च द्रव्यस्यानित्यत्वं, तद्विपरीतं च नित्यत्वं तस्मिन्कथं समवैति? विरोधिधर्माश्रयत्वं च भिन्नत्वं तद्विपरीतं चाभिन्नत्वं कथं वा तस्मिन्समवैति? यथाऽश्वत्वमहिषत्वयो: युगपदेकस्मिन्नसंभव:। एकस्य पृथिवीद्रव्यस्य घटत्वं शरावत्वं च प्रदेशभेदेन, न त्वेकेन प्रदेशेनोभयाश्रयत्वम्। यथैकस्य देवदत्तस्योत्पत्तिविनाशयोगित्वं कालभेदेन। न ह्येतावता वस्तुनो द्व्यात्मकत्वम्, अपि तु परिमाणमशक्तियोगमात्रम्। अतो न युक्तिमज्जैनमतम्। सूत्रार्थस्तु नैकस्मिन्नसंभवात् – न जैनमतं युक्तम्। कुत:? एकस्मिन् वस्तुन्युक्तरीत्या युगपद्विरुद्धधर्मसमावेशासंभवात्। अतस्सूत्रविरुद्धं वेदान्तवादिभिरपि भेदाभेदसमाश्रयणम्॥३१॥
२०६। एवं चात्माकार्त्स्न्यं – एवमात्माकार्त्स्न्याच्चानुपपन्नम्। शरीरपरिमाणत्वे ह्यात्मनो बृहतश्शरीरादल्पीयसि शरीरे प्रविशतोऽकार्त्स्न्यं – अपरिपूर्णत्वं प्रसज्यते, तदानीमल्पपरिमाणत्वात्।
२०७। न च पर्यायादप्यविरोधो विकारादिभ्य: – तथाविधाल्पत्वावस्थायोगेनाप्यविरोधो न संभवति। घटपटादेरिव विकारतत्प्रयुक्तदोषास्पदत्वप्रसङ्गात्॥३२॥
२०८। अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष: – जीवस्य यदन्त्यं परिमाणं मोक्षावस्थम्, तस्य पश्चादेकरूपेणावस्थितेस्तदेव स्वाभाविकं परिमाणमिति, आत्मनश्च तत्परिमाणस्य चोभयोर्नित्यत्वात्पूर्वमपि न शरीरपरिमाणत्वसिद्धिरिति पूर्वावस्थायां न विशेष:। अतोऽसङ्गतमेव जैनमतम्॥३३॥ इति एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥
२–२–७
२०९। पत्युरसामञ्जस्यात् – पशुपतिमतं निश्श्रेयसार्थिभिरादरणीयमुत नेति संशय:। आदरणीयमिति पूर्व: पक्ष:, परमपुरुषार्थसाधनावबोधित्वेन निखिलवस्तुसाक्षात्कार समर्थपशुपतिप्रणीतत्वात्। राद्धान्तस्तु – अनादिनिधनाविच्छिन्नपाठसंप्रदायनिरस्तप्रमादादि-निखिलदोषगन्धवेदसिद्धपरावरतत्त्वव्यत्ययप्रतिपादनात्, निमित्तोपादानभेदाभिधिनात्, सुराकुम्भस्थापनतत्स्थ-देवतार्चनमुद्रिकाषट्कविज्ञानतद्धारणादिवेदविरुद्धाचारप्रतिपादनपरत्वाच्च असामञ्जस्यादनादरणीयमिति। सूत्रार्थस्तु – पत्युरसामञ्जस्यात् – नैकस्मिन्नसंभवादित्यतो नेत्यवनुर्तते। पत्यु: – पशुपते: मतं नादरणीयम्। कुत? वेदविरुद्धतत्त्वाचारावबोधित्वेन-असामञ्जस्यात् ॥३४॥
२१० । अधिष्ठानानुपपत्तेश्च – अनुमेयेश्वराभ्युपगमेन हि प्रधानस्याधिष्ठानमीश्वरस्योच्यते। सशरीरस्यैव कुलालादेरधिष्ठानदर्शनादशरीरस्येश्वरस्य प्रधानाधिष्ठानानुपपत्तेश्चासामञ्जस्यम्। सशरीरत्वाभ्युपगमेऽपि तच्छरीरस्य सावयवस्य नित्यत्वे अनित्यत्वे च दोष: पूर्वोक्त इत्यभिप्राय:॥३५॥
२११। करणवच्चेन्न भोगादिभ्य: – क्षेत्रज्ञस्य स्वकरणकलेबराद्यधिष्ठानवदुपपद्यत इति चेन्न, पुण्यापुण्यरूपकर्मनिमित्तत्वात् क्षेत्रज्ञाधिष्ठानस्य; ईश्वरस्यापि तद्वत्तया तत्फलभोगादि-निखिलतत्स्वभावप्रसक्ते:॥३६॥
२१२। अन्तवत्त्वमसर्वज्ञता वा – वाशब्दश्चार्थे। पुण्यापुण्यवत्त्वे त्वन्तवत्त्वं – सृष्टिसंहारा स्पदत्वमसर्वज्ञता च प्रसज्यत इत्यसमञ्जसमेवेदम्॥३७॥ इति पशुपत्त्यधिकरणम्॥ ७ ॥
२–२–८
२१३। उत्पत्त्यसंभवात् – साङ्ख्यादितन्त्रवत्पाञ्चरात्रतन्त्रमप्यप्रमाणम्, उत नेति संशय:। अप्रमाणमिति पूर्व: पक्ष:। वासुदेवात्सङ्कर्षणो नाम जीवो जायते इति श्रुतिविरुद्धजीवोत्पत्त्यादि प्रतिपादनात् चतुर्षु वेदेषु पुरुषार्थमलभमान: इति वेदगणानादरवचनाच्च। राद्धान्तस्तु – सङ्कर्षणप्रद्युम्नानिरुद्धानां परब्रह्मभावानाम् अजायमानो बहुधा विजायत इति श्रुतिप्रसिद्ध-स्वेच्छावतारप्रतिपादनान्न क्वचिच्छ्रुतिविरोध:। जीवाहङ्कारमनश्शब्दाश्च तत्तच्छरीराणां संकर्षणादीनामेवाभिधायका:, तत्तेज ऐक्षत इति तेज: प्रभृतिशब्दवत्। चतुर्षु वेदेषु पुरषार्थमलभमान: इति चानुदितहोमनिन्दावत्; यथा ऋग्वेदं भगवोऽध्येमि इत्यारभ्य इतिहासपुराणं पञ्चममित्यादिना सर्वेषु विद्यास्थानेषु चात्मनो वेदनाभाववचनं वक्ष्यमाणप्रशंसार्थम्। तन्त्रेऽस्मिन्वेदान्तोदित ब्रह्मोपासनविधानाद्वेदाविरुद्धतदर्चनादिविधानाच्चावगम्यत इति प्रमाणमेव। सूत्रार्थस्तु – उत्पत्त्यसंभवात् न जायते म्रियते वा इत्यादिश्रुते: जीवस्योत्पत्त्यसंभवाज्जीवोत्पत्तिवचनाच्च न प्रमाणम्॥३८॥
२१४। न च कर्तु: करणम् – संकर्षणात्प्रद्युम्नसंज्ञं मन उत्पद्यते इति मनस: करणस्य कर्तुर्जीवादुत्पत्तिश्च श्रुतिविरुद्धत्वान्न संभवति; एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च इति मनसो ब्रह्मण उत्पत्तिश्श्रूयते॥३९॥
२१५। विज्ञानादिभावे वा तदप्रतिषेध: – वाशब्दात्पक्षो विपरिवर्तते। विज्ञानं चादि च विज्ञानादि ब्रह्म। सङ्कर्षणादीनां ब्रह्मभावे सति अजायमानो बहुधा विजायत इति श्रुति(प्र)सिद्धस्वेच्छावतारस्यैवात्राभिधानात्तदप्रतिषेध: – प्रामाण्याप्रतिषेध:। सङ्कर्षणादीनां जीवादिसमानाधिकरणतया निर्देशस्तेषामधिष्ठातृतयोपपद्यते॥४०॥
२१६। विप्रतिषेधाच्च – अस्मिन्नपि तन्त्रे जीवोत्पत्तिविप्रतिषेधाच्च विरुद्धमिदं तन्त्रम्; व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य (हि) च । सह्यनादिरनन्तश्च परमार्थेन निश्चित: इति हि पुरुषस्योत्पत्ति: प्रतिषिध्यते॥४१॥ इति उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे द्वितीयस्याध्यायस्य द्वितीय: पाद:॥