[highlight_content]

वेदान्तदीप: Ady 02 Pada 03

वेदान्तदीप:

अथ द्वितीयाध्याये तृतीय: पाद:

२१७।  वियदश्रुते: – वियदुत्पद्यते, नेति संशय:। नोत्पद्यत इति पूर्व: पक्ष:।  निरवयवस्य सर्वगतस्यात्मन इवोत्पत्यसंभवात्। असंभावनीयस्य श्रवणं च न संभवति। अत उत्पत्तिश्रुतिर्गौणीति। राद्धान्तस्तु वियदुत्पद्यत एव, उत्पत्तिश्रुते:। अतीन्द्रीयार्थविषयया श्रुत्याऽभिहितेऽर्थे निरवयवत्वादिहेतुकं नानुत्पत्त्यनुमानमुदेतुमलम्। आत्मनोऽप्यनुत्पत्तिश्रुतेरेव नित्यत्वम्, न निरवयवत्वादिना। सूत्रार्थस्तु न वियदश्रुते:, वियन्नोत्पद्यते। कुत:? अश्रुते:। अश्रवणात्, असंभावनीयस्य श्रवणासंभवात्॥१॥

            २१८। अस्ति तु – अस्ति तु वियत उत्पत्ति:, आत्मन आकाशस्संभूत: इति श्रुते:। अतीन्द्रियार्थविषयया श्रुत्या प्रमाणान्तराप्रतिपन्नवियदुत्पत्तिप्रतिपादनं संभवत्येव। अग्निना सिञ्चेत् इतिवदयोग्यमित्यर्थ:॥२॥

            २१९। गौण्यसंभवाच्छब्दाच्चतत्तेजोऽसृजत इति प्रतिपन्नतेज:प्राथम्यविरोधान्मध्ये वियदुत्पत्तिर्नसंभवतीत्युत्पत्तिश्रुतिर्गौणी, वायुश्चान्तरिक्षं चैतदमृतमित्यमृतत्वश्रवणाच्च॥३॥

२२०। स्याच्चैकस्य ब्रह्मशब्दवत्आकाशस्संभूत:, आकाशाद्वायु:, वायोरग्निः इत्यादिषु सर्वत्रानुषक्तस्यैकस्य संभूतशब्दस्य आकाशे गौणत्वं, वाय्वादिषु मुख्यत्वं च संभवति, ब्रह्मशब्दवत् – यथैकस्य ब्रह्मशब्दस्यैकप्रकरणे श्रूयमाणस्य तस्मादेतद्ब्रह्म नामरूपमन्नं च जायत इति प्रधाने गौणत्वं तपसा चीयते ब्रह्म इति ब्रह्मणि मुख्यत्वं च। श्रवणावृत्ताविवानुषङ्गेऽप्यभिधानावृत्तेः अनुषङ्गोऽपि तत्तुल्य इत्यभिप्राय:॥४॥

परिहरति –

२२१।  प्रतिज्ञाऽहानिरव्यतिरेकात्येनाश्रुतं श्रुतम् इति ब्रह्मविज्ञानेनाकाशादिसर्वविज्ञान प्रतिज्ञाया अहानिराकाशस्यापि ब्रह्मण उत्पत्त्या तदव्यतिरेकादेव भवति॥५॥

२२२।  शब्देभ्य: – इतश्च, सदेव सोम्येदमग्र आसीत्, ऐतदात्म्यमिदं सर्वम् इत्यादिभ्यो ब्रह्मण: प्राक्सृष्टेरेकत्वावधारणसर्वात्मकत्वादिवादिभ्यश्शब्देभ्यश्च वियदुत्पत्ति: प्रतीयते। तत्तेजोऽसृजत इत्येतस्मिन्वाक्ये आकाशोत्पत्त्यवचनात् प्रतीयमानं तेज: प्राथम्यं समानप्रकरणस्थै: प्रकरणान्तरस्थैश्च शब्दै: प्रतीयमानां वियदुत्पत्तिं न निवारयतीत्यभिप्राय:॥६॥

२२३।  यावद्विकारं तु विभागो लोकवत् – यद्यपिच्छान्दोग्ये   तत्तेजोऽसृजत इतिवत् आकाशोत्पत्तिः स्वरूपेण नाभिधीयते;  तथाऽपि तस्मिन्नेव  ऐतदात्यमिदं सर्वं इत्यादिना आकाशादेस्सर्वस्य वस्तुनो ब्रह्मविकारत्ववचनात् यावद्विकारं विभाग: – उत्पत्तिरुक्तैवेति गम्यते। लोकवत् – यथा लोके सर्व एते देवदत्तपुत्रा इत्यभिधाय तेषां केषांचिद्देवदत्तादुत्पत्तिवचनं सर्वेषां तत उत्पत्तिप्रतिपादनार्थमिति गम्यते। आकाशस्यामृतत्ववचनं सुरादिवच्चिरकालस्थायित्वविषयमिति अभिप्राय:॥७॥

२२४।  एतेन मातरिश्वा व्याख्यात: – अनेनैव न्यायेन मातरिश्वनोऽप्युत्पत्तिरुक्ता। नायं न्यायातिदेश:, अधिकाशङ्काभावात्।  तेजोऽतस्तथा ह्याह इति वायोस्तेजस उत्पत्तिं वक्तुं पृथगुपादानम्॥८॥

२२५। असंभवस्तु सतोऽनुपपत्ते: – तुशब्दोऽवधारणार्थ:। सत: परमकारणस्य परस्यैव ब्रह्मण: असंभव: – उत्पत्त्यसंभव:। तद्व्यतिरिक्तस्य कृत्स्नस्यैव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाद्यनुपपत्ते: संभव उक्त इत्यभिप्राय:॥९॥ इति वियदधिकरणम्

२२६।  तेजोऽतस्तथा ह्याहआकाशाद्वायु: इत्यादिव्यवहितकार्याणि किं स्वानन्तराकाशादे: केवलादुत्पद्यन्ते, उत तत्तच्छरीरात्परस्माद्ब्रह्मण: इति संशय:। स्वानन्तरादेवेति पूर्व: पक्ष: –  आकाशाद्वायु:, वायोरग्नि:  इति तस्मात्केवलादेवोत्पत्तिश्रवणात्।  एतस्माज्जायते प्राण: इति परस्माद्ब्रह्मणस्सर्वस्योत्पत्तिवाद:, परम्परयाप्युपपद्यते। राद्धान्तस्तु – तत्तेज ऐक्षत, बहु स्याम्, ता आप ऐक्षन्त इति बहुभवनसंकल्पपूर्वकसृष्ट्युपदेशात्, केवलस्य त्वीदृशसङ्कल्पानुपपत्ते:  यस्तेजसि तिष्ठन्, यस्य तेजश्शरीरम्, यस्याकाशश्शरीरम् इति सर्वेषां परब्रह्मशरीरत्वश्रवणाच्च तत्तच्छब्दवाच्यात्परस्माद्ब्रह्मण एव साक्षात्तेज: प्रभृतीनामपि सृष्टि:। सूत्रार्थस्तुतेजोऽतस्तथाह्याह – अत: – वायोरेव केवलादुत्पद्यते तेज:, तथा ह्याह श्रुति: – वायोरग्नि: इति॥१०॥

२२७।  आप: – अतस्तथा ह्याहेत्यनुवर्तते। अत: – तेजस एव केवलादाप उत्पद्यन्ते,  – अग्नेराप: , तदपोऽसृजत  इति ह्याह॥११॥

२२८।  पृथिवी – एवं पृथिव्यपि उत्पद्यते,  अद्भ्य: पृथिवी ता अन्नमसृजन्तेति ह्याह॥१२॥                      अन्नशब्देन कथं पृथिव्यभिधीयत इत्यवगम्यते? तत्राह-

२२९।  अधिकाररूपशब्दान्तरेभ्य: – अन्नशब्देन पृथिव्युच्यते, महाभूतसृष्ट्यधिकारात् पश्चादपि महाभूतरूपसंकीर्तने यत्कृष्णं तदन्नस्य इति रूपकीर्तनात्, समानप्रकरणे  अद्भ्य: पृथिवीति पृथिवीशब्दश्रवणाच्च॥१३॥

२३०।  तदभिध्यानादेव तु तल्लिङ्गात्स: – तु शब्द: पक्षव्यावृत्त्यर्थ: न तेज: प्रभृतय: केवला: स्वानन्तराणां कारणानि; अपि तु तत्तच्छरीरस्स: – परमात्मैव तेषां कारणम्; कुत:? परमात्मसृष्टिलिङ्गात्तथाविधाभिध्यानात्। यथैव हि  तदैक्षत,  बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत, इति  तत्तेज ऐक्षत, तथैव बहु स्यां प्रजायेय इति बहुभवनसङ्कल्परूपाभिध्यानं दृश्यते; ईदृशमभिध्यानं परमात्मन एव हि संभवति॥१४॥

२३१।  विपर्ययेण तु क्रमोऽत उपपद्यते च – आकाशाद्वायु:, वायोरग्नि: इति  पारम्पर्यक्रमात् विपर्ययेण  एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि , खं वायुर्ज्योतिराप: पृथिवी इति सर्वेषां ब्रह्मानन्तर्यरूपो य: क्रम:, स चात एव तत्तच्छरीराद्ब्रह्मणस्सृष्टेरुपपद्यते॥१५॥

२३२। अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् – विज्ञानसाधनत्वात् इन्द्रियाणि प्राणश्च विज्ञानमित्युच्यते एतस्माज्जायते प्राण इत्येतद्वाक्यमाकाशतन्मात्र-पञ्चकयोरन्तराले विज्ञानमनसी क्रमणोत्पद्येते इत्येतत्परम्। विज्ञानमनसी इति प्राणस्यापि प्रदर्शनार्थम्,  पृथिव्यप्सु प्रलीयते इत्यारभ्य  वायुराकाशे लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते  इति प्रलयक्रमप्रत्यभिज्ञानात्तल्लिङ्गात्। अतो न श्रुत्यन्तरविरुद्धत्वात्साक्षाद्ब्रह्मणस्सर्वेषां सृष्टिपरमिदं वाक्यम्। अपि तु श्रुत्यन्तरसिद्धपारंपर्यक्रमपरमिति चेत्; परिहरति नाविशेषात् – भूततन्मात्रान्तराले विज्ञानमनसोः उत्पत्तावपि तत्तच्छरीरकब्रह्माभिदायित्वाद्भूतेन्द्रियमन: प्राणशब्दानां सर्वेषां साक्षादुत्पत्त्यविशेषात् तत्परमेवेदं वाक्यम्॥१६॥

लोके तत्तद्वस्तुवाचितया सिद्धस्य शब्दजातस्य ब्रह्मणि वृत्तिरमुख्येत्याशङ्क्याह –

२३३। चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोऽभाक्तस्तद्भावभावित्वात् – तुशब्दः शङ्कानिवृत्त्यर्थ:। स्थावरजङ्गमवस्तुव्यपाश्रयस्तद्व्यपदेश: – तद्वाचिशब्दो ब्रह्मण्यभाक्त: – मुख्य एव। कुत:? तद्भावभावित्वात् – तेज: प्रभृतिषु आत्मतया ब्रह्मभावभावित्वेन सर्वस्य वस्तुनस्तच्छरीरतया तत्प्रकारत्वात्तत्तद्वाचिनां शब्दानां तत्रैव पर्यवसानात् प्रकारवाचिनां शब्दानां प्रकारिपर्यवसायित्वेनाभाक्तत्वं गवादिशब्देषु सिद्धम्॥१७॥ इति तेजोऽधिकरणम्

२३४।  नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: – किमात्मोत्पद्यते, नवेति संशय:। उत्पद्यत इति पूर्व: पक्ष:, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादे: तोयेन जीवान्व्यससर्ज भूम्याम्, प्रजापति: प्रजा असृजत इत्यादि सृष्टिवचनाच्च। नित्यतादिश्रुतिराकाशाद्यमृतत्ववचनवन्नेया। राद्धान्तस्तु – नात्मोत्पद्यते, अनुत्पत्तिश्रुते:। जायते म्रियते वा विपश्चित् इति जीवोत्पत्तिर्निषिध्यते; अजो नित्य:, नित्यो नित्यानाम् इत्यादिश्रुतिभ्यो नित्यत्वावगमात्। जीवोत्पत्तिपक्षे अकृताभ्यागम-कृतविप्रणाशादिप्रसङ्गात्, वैषम्यनैर्घृण्यप्रसङ्गाच्च, जीवस्य सृष्टिवचनं भोक्तृत्वानुगुण-ज्ञानविकासाभिप्रायम्। प्राक्सृष्टेरेकत्वावधारणादविभागवचनं नामरूपविभागाभावाभिप्रायम्। सूत्रमपि व्याख्यातम् ॥१८॥  इति आत्माधिकरणम्

२३५।  ज्ञोऽत एव – किं जीव: चैतन्यमात्रवपु:, उत जडस्वरूप एवागन्तुकचैतन्यगुण:, अथ  ज्ञातृत्वैकस्वरूप इति संशय:। चैतन्यमात्रवपुरिति प्रथम: पक्ष:, विज्ञानं यज्ञं तनुते, यो विज्ञाने तिष्ठन्, ज्ञानस्वरूपमत्यन्तनिर्मलम् इत्यादिश्रुतिस्मृतिभ्य:। द्वितीयस्तु – सुषुप्तिमूर्च्छादिषु सतोऽप्यात्मनश्चैतन्यानुपलब्धे:, जाग्रतोऽपीन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वाच्चैतन्यस्य, प्रेत्य संज्ञाऽस्ति इति मुक्तस्य चैतन्यप्रतिषेधाच्च, पाषाणकल्प एवागन्तुकचैतन्यगुण:। सर्वत्र कार्योपलब्धे: सर्वत्र सन्निधानात् शरीरगमनेनैव कार्यसंभवे गतिकल्पनायोगात्, सर्वगतश्चेति। राद्धान्तस्तु अथ यो वेदेदं जिघ्राणीति आत्मा, मनसैतान्कामान्पश्यन् रमते, पश्यो मृत्युं पश्यति, सर्वं पश्य: पश्यति, द्रष्टा श्रोता घ्राता रसयिता इत्यादिश्रुतिभ्यो बद्धमुक्तोभयावस्थो ज्ञातैवात्मा। ज्ञानमात्रव्यपदेशस्तु ज्ञानस्य प्रधानगुणत्वात्, स्वरूपानुबन्धित्वेन स्वरूपनिरूपक-गुणत्वात्, आत्मस्वरूपस्य ज्ञानवत्स्वप्रकाशत्वाद्वोपपद्यते। सुषुप्तिमूर्च्छादौ सदेव ज्ञानं कर्मणा संकुचितमनभिव्यक्तमपि जागरादौ विकसितमभिव्यज्यत इति न विरोध: – प्रेत्य संज्ञाऽस्ति इति सांसारिकदेहाद्यस्मरणविषयम्, नोपजनं स्मरन्निदं शरीरम् इत्यादिनैकार्थ्यात् सर्वगतत्वं चाणुत्वगत्यादिश्रुतिविरुद्धम्। सूत्रार्थस्तु  ज्ञोऽत एव। अत: – श्रुते:, ज्ञातैव॥१९॥

२३६।  उत्क्रान्तिगत्यागतीनाम् – श्रुतेरिति वर्तते। तेन प्रद्योतेनैष आत्मा निष्क्रामति, ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति, तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इत्याद्युत्क्रान्तिगत्यागतीनां श्रवणादणुर्जीव:॥२०॥

२३७।  स्वात्मना चोत्तरयो: – चशब्दोऽवधारणार्थ:। यद्यप्युत्क्रान्तौ स्थितस्य शरीरविश्लेषेण कथंचित्संपाद्यत्वमस्ति। उत्तरयो: गमनागमनयोस्तु स्वात्मनैव संपाद्यत्वमवश्याभ्युपेयम्॥२१॥

            २३८।  नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात –  योऽयं विज्ञानमय इति जीवं प्रस्तुत्य स वा एष महानज आत्मा इति महत्त्वश्रुतेर्नाणुर्जीव इति चेन्न; इतराधिकारात् – जीवेतरपरमात्माधिकारात् यस्यानुवित्त: प्रतिबुद्ध आत्मा इति हि मध्ये परमात्मा प्रस्तुत:॥२२॥

            २३९।  स्वशब्दोन्मानाभ्यां एषोऽणुरात्मा चेतसा वेदितव्य:, यस्मिन्प्राण: पञ्चधा संविवेश इति साक्षादणुशब्दादणुरेवायम्। उन्मानाच्चाणुरेव। उन्मानम् – उद्धृत्य मानम्। आराग्रमात्रो ह्यवरोऽपि दृष्ट: इत्याराग्रमुद्धृत्य तन्मानत्वं हि जीवस्य श्रूयते॥२३॥

आत्मनोऽणुपरिमाणत्वे सकलदेहव्यापि सुखाद्यनुभव: कथमित्यत्र मतान्तरेण परिहारमाह-

२४०।  अविरोधश्चन्दनवत् – यथा हरिचन्दनबिन्दु: देहैकदेशवर्त्यपि सकलदेहवर्तिनमाह्लादं जनयति, तद्वदविरोध:॥२४॥

२४१। अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि – चन्दनबिन्दोर्देहैकदेशविशेष-स्थित्यपेक्ष: तथाभाव:; आत्मनस्तु न तथेति चेन्न, आत्मनोऽपि तथाभावाभ्युपगमात्। हृदि ह्ययमात्मा स्थित इति श्रूयते – योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योतिः इत्यादौ ॥२५॥

स्वमतेनाह-

२४२।  गुणाद्वाऽलोकवत् – वाशब्दो मतान्तरव्यावृत्त्यर्थ:। आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थित:; यथा द्युमणिमणिप्रभृतीनामेकदेशवर्तिनामालोक: तद्गुणोऽनेकदेशव्यापी दृश्यते॥२६॥ विज्ञानं यज्ञं तनुत इत्यादौ विज्ञानमेवात्मेति व्यपदिश्यत इति चेत्; तत्राह-

२४३।  व्यतिरेको गन्धवत्तथा दर्शयति – जानामीत्यात्मगुणत्वेन प्रतीते: व्यतिरेकोऽभ्युप गमनीय:। यथा गन्धवती पृथिवीत्युपलब्धौ गन्धस्तद्गुणस्तद्व्यतिरिक्त:। दर्शयति च श्रुति: – जानात्येवायं पुरुष इति॥२७॥

२४४।  पृथगुपदेशात् – न केवलं जानामीति पृथगुपलब्धिमात्रम्, आत्मन: पृथक्त्वेनोपदिश्यते च ज्ञानम्, हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यत इति॥२८॥

विज्ञानमात्मेति व्यपदेश: कथमुपपद्यत इत्यत्राह-

२४५।  तद्गुणसारत्वात्तु तद्व्यपदेश: प्राज्ञवत् – ज्ञानगुणसारत्वादात्मनो ज्ञानमिति व्यपदेश: – यथा प्राज्ञ:, ब्रह्मणा विपश्चिता, यस्सर्वज्ञस्सर्ववित् इति सर्वज्ञ एव  ज्ञानगुणसारत्वात् सत्यं ज्ञान इति व्यपदिश्यते॥२९॥

२४६।  यावदात्मभावित्वाच्च दोषस्तद्दर्शनात् – ज्ञानस्य यावदात्मस्वरूपभावित्वाच्च तेन तद्व्यपदेशो न दोष:, खण्डादिषु तथा दर्शनात्। खण्डादिषु हि यावत्स्वरूपभाविधर्मत्वेन गोत्वस्य गौरिति व्यपदेशो दृश्यते। चकारादात्मन: स्वप्रकाशत्वेन ज्ञानमिति व्यपदेशो(शे)न दोष इत्युच्यते॥३०॥

सुषुप्त्यादिषु ज्ञानस्यानुपलब्धेर्न यावदात्मभावित्वमित्याशङ्क्याह –

२४७।पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् – तुशब्दश्शङ्कानिवृत्त्यर्थ:; सुषुप्त्यादिष्वपि सतो ज्ञानस्यानभिव्यक्तस्य जागर्यादिष्वभिव्यक्तिसंभवात् यावदात्मभाव्येव ज्ञानम्। पुंस्त्वादिवत् – पुंस्त्वमिति पुरुषासाधारणधातुरुच्यते। यथा सप्तधातुमयत्वेन शरीरस्य पुंस्त्वस्य बाल्येऽपि सतोऽनभिव्यक्तस्य सप्तमधातो: युवत्वेऽभिव्यक्ति:॥३१॥

एवमात्मनो ज्ञातृत्वमणुत्वं चोक्त्वा पक्षान्तरे दोषमाह-

२४८।नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा – अन्यथा ज्ञानात्मवादे सर्वगतात्मवादे च उपलब्ध्यनुपलब्धी नित्यवत्प्रसज्येयाताम्।  उपलब्ध्यनुपलब्ध्योरन्यतरनियमे वा। ज्ञानात्मपक्षे तावत् ज्ञानस्य प्रकाशस्वभावात्प्रकाशपर्यायोपलब्धेर्नित्यवत्प्रसक्तिरनिवार्या। ज्ञाने विद्यमाने सति हेत्वन्तरेणानुपलब्धिजननायोगात् ज्ञानमेवानुपलब्धेरपि हेतुरित्यास्थेयम्। ज्ञानस्य सर्वदा वर्तमानत्वात्सर्वदोभयप्रसक्ति:। अथ युगपद्विरुद्धकार्यजननायोगात् ज्ञानमुपलब्ध्य-नुपलब्ध्योः अन्यतरहेतु: आस्थीयते, तदाऽन्यतरनियमस्स्यात्। सर्वगतत्वपक्षे यथा ज्ञानात्मवादिनां, तथैव हेतुजन्यज्ञानवादिनोऽपि सर्वेषामात्मनां सर्वगतत्वे सर्वस्यात्ममनस्संयोगादे: हेतोस्सर्वेषां साधारणत्वादुक्तरीत्या तथैव प्रसक्ति:। अदृष्टोत्पत्तिहेतोरपि सर्वस्य साधारणत्वाददृष्टेनापि न व्यवस्था॥३२॥ इति ज्ञाधिकरणम् ॥४॥

            २४९।  कर्ता शास्त्रार्थवत्त्वात् – आत्मनो  ज्ञातृत्ववत्कर्तृत्वमप्यस्ति, नेति संशय:। प्रधानस्यैव कर्तृत्वादात्मनो न कर्तृत्वमस्तीति पूर्व: पक्ष:अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते, नान्यं गुणेभ्य: कर्तारम् इत्यादिषु गुणानामेव कर्तृत्ववचनात्। राद्धान्तस्तु – स्वर्गापवर्गसाधनानुष्ठान-विधानशास्त्राणामर्थवत्त्वाय कर्तैवात्मा, बोद्धुरेव हि शासनम्, नाचेतनस्य प्रधानस्य यजेत, उपासीत इति कर्तरि लकार:। अत: कर्तारमेव बोधयति शास्त्रम्। सूत्रमपि व्याख्यातम्॥३३॥

२५०।  उपादानाद्विहारोपदेशाच्च – उपादानात् – उपदिश्यमानात्, विहारोपदेशाच्च। उपदिश्यते उपादानं, विहारश्च, एवमेवैष एतान्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत इति उपादानविहारयो: कर्तृत्वोपदेशाच्च कर्ता॥३४॥

            २५१। व्यपदेशाच्च क्रियायां चेन्निर्देशविपर्यय:  विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चेति यज्ञादिकर्मस्वात्मन: कर्तृत्वोपदेशाच्च कर्ता। विज्ञानशब्देन नात्मनो व्यपदेश:, अपित्वन्त:- करणरूपबुद्धेरेवेति चेत् – तथा सति विज्ञानेनेति करणविभक्तिनिर्देशस्स्यात्॥३५॥

२५२। उपलब्धिवदनियम: – प्रधानस्य कर्तृत्वेन आत्मनो भोक्तृत्वमिति पक्षे पूर्वोक्तोपलब्ध्यनियम-वत्प्रधानस्य सर्वसाधारणत्वात् भोक्तृत्वानियम: अन्त:करणभेदेऽपि सर्वेषामात्मनां सर्वगतत्वेन साधारण्यमनिवार्यम्॥३६॥

२५३। शक्तिविपर्ययात् – बुद्धे: कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वायोगात् भोक्तृत्वशक्तिरपि बुद्धेरेवेति आत्मनो भोक्तृत्वशक्तिविपर्यय: – हानिरित्यर्थ:॥३७॥

२५४। समाध्यभावाच्च – प्रकृते: कर्तृत्वे मोक्षसाधनभूतसमाध्यभावश्च स्यात्; प्रकृतेरन्योऽस्मीति समाधाने प्रकृते: कर्तृत्वायोगात्॥३८॥

२५५।  यथा तक्षोभयथा – आत्मन: कर्तृत्वे(ऽपि)हि भोगवाञ्छायां करोति, अन्यथा न करोतीत्युभयप्रकारव्यवस्थोपपद्यते। यथा तक्ष: स्वकार्ये इच्छया व्यवस्थित:। बुद्धे: कर्तृत्वे अचेतनत्वेन स्वेच्छाया अभावाद्व्यवस्था न सिध्यतीत्यभिप्राय:॥३९॥ इति कर्त्रधिकरणम्

२५६।  परात्तु तच्छ्रुते: –

२५७। कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य: – इदं जीवस्य कर्तृत्वं किं परमात्मायत्तमुत स्वायत्तमिति संशय:। स्वायत्तमिति पूर्व: पक्ष: विधिनिषेधशास्त्रानर्थक्यापत्ते:, यस्स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्त:, स एव हि नियोज्यो निग्रहानुग्रहास्पदं च भवतीति। राद्धान्तस्तु अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा, आत्मानमन्तरो यमयति इत्यादिश्रुते: परमात्मायत्तमेव कर्तृत्वम्; तच्च जीवेन स्वबुद्ध्या कृतं प्रयत्नमपेक्ष्य तदनुमतिदानेनेति विधिनिषेधावैयर्थ्यम्। अत एव निग्रहानुग्रहास्पदं च। सूत्रद्वयमपि व्याख्यातम्॥४०,४१॥  इति परायत्ताधिकरणम्

२५८। अंशो नानाव्यपदेशादन्यथाचापि दाशकितवादित्वमधीयत एके – किं जीव: परमात्मनोऽत्यन्तभिन्न: – उत परमात्मैवाज्ञ:, अथ परमात्मैवोपाधिसंबद्ध:, परमात्मांशो वेति संशय:। अत्यन्तभिन्न इति प्रथम: पक्ष:, पृथगात्मानं प्रेरितारं मत्त्वा, तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति, अनीशश्चात्मा बध्यते भोक्तृभावात्, सर्वस्य वशी सर्वस्येशान इत्यादि भेदश्रुते:, जीवपरमात्मनो: कर्मपरतन्त्रतातद्विपरीतत्वश्रुतेश्च। अभेदश्रुतयो नरपतिरेव सर्वलोक इतिवदौपचारिक्य इति। भेदश्रुतीनामविद्वद्विषयतया वा उपाधिसंबद्धविषयतया वाऽमुख्यवृत्ति-संभवादभेदश्रुतिमुख्यत्वाय अज्ञ: परमात्मा। उपाधिसंबद्धो वा जीव: इति युक्तम्। राद्धान्तस्तु- नानात्त्वैकत्वव्यपदेशात् परमात्मनस्सत्यसङ्कल्पत्वसर्वज्ञत्वनिरवद्यत्वश्रुतेरज्ञत्वोपाधि-संबन्धाद्यनुपपत्ते: जीवशब्दस्य जीवशरीरकपरमात्मवाचित्वेन तत्त्वमसि, अयमात्मा ब्रह्म इति सामानाधिकरण्यस्य मुख्यत्वाच्छरीरशरीरिणोर्विशेषणविशेष्यभूतयो: स्वरूपस्वभावभेदेन च भेदश्रुतेश्च मुख्यत्वाद्विशिष्ट-वस्त्वेकदेशतया च विशेषणस्य परमात्मांशो जीव:। जीवशरीरत्वं च परमात्मन: यस्यात्मा शरीरम् इत्यादिषु सिद्धम्। सूत्रार्थस्तु अंश:- परमात्मांशो जीव:। नानाव्यपदेशात् – भेदव्यपदेशात्। अन्यथा च अभेदव्यपदेशाच्च। उक्तनीत्या उभयमुख्यत्वायेत्यभिप्राय: दाशकितवादित्वमप्यधीयत एके ब्रह्मदाशा ब्रह्मदासा इत्यादिना दाशकितवादित्वमप्यधीयत एके शाखिन:। सर्वजीवव्यापित्वादभेदोपदेशस्य तत्रात्यादर: प्रतीयत इत्यर्थ:॥४२॥

२५९।  मन्त्रवर्णात् – मन्त्रवर्णाच्चांश एव जीव:, पादोऽस्य विश्वा भूतानि इति, पादशब्द: अंशवाची॥४३॥

२६०।  अपि स्मर्यतेममैवांशो जीवलोके जीवभूतस्सनातन: इति जीवस्य परमात्मांशत्वं स्मर्यते च॥४४॥

एकद्रव्यैकदेशत्वं ह्यंशत्वम्, अतो जीवस्य ब्रह्मैकदेशत्वेन जीवदोषा ब्रह्मणो दोषा एव इत्याशङ्क्याह-

२६१।  प्रकाशादिवत्तु नैवं पर: – तु शब्दश्शङ्कानिवृत्त्यर्थ:। प्रकाशवतां मणिद्युमणि प्रभृतीनां प्रकाशविशिष्टानां विशेषणभूत: प्रकाश: यथांश:, तद्वज्जीवशरीरतया जीवविशिष्टस्य ब्रह्मणअंशो जीव:। विशिष्टवस्त्वैकदेशतया विशेषणस्य, विशेषणं विशिष्टस्यांश:। आदिशब्दाद्द्रव्य विशेषणतैकस्वभावजातिगुणशरीराणि गृह्यन्ते। विशेषणविशेष्ययो: स्वरूपस्वभावभेदाद्विशेषणभूतो जीव: यत्स्वरूपो यत्स्वभावश्च, नैवं पर: – सर्वज्ञस्सत्यसङ्कल्पो नित्यनिरवद्यश्चेत्यर्थ:॥४५॥

२६२। स्मरन्ति – प्रकाशादिवज्जीवस्यांशत्वं पराशरादयस्स्मरन्ति – एकदेशस्थितस्याग्नेः ज्योत्स्ना विस्तारिणी यथा। परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत् तथा परं प्रति शरीरत्वं च यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज। तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनु: इति॥४६॥

ब्रह्मांशत्वेन च सर्वेषामात्मनां समत्वाद्वेदाध्ययनादौ केषांचिदनुज्ञा, केषांचित्परिहारश्च कथमुपपद्यते? इत्यत्राह –

२६३। अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् – ब्राह्मणादि शुच्यशुचिदेहसंबन्धादनुज्ञा परिहारावुपपद्येते, ज्योतिरादिवत्। ज्योति: – अग्नि:। यथा श्रोत्रियागारादग्निराह्रियते, श्मशानादेस्तु परिह्रियते; यथा चान्नादि: श्रोत्रियादेरनुज्ञायते, अभिशस्तादेश्च परिह्रियते, तद्वत्॥४७॥

२६४। असन्ततेश्चाव्यतिकर: – जीवानां प्रतिशरीरं भिन्नत्वादणुत्वेन तत्रतत्रावच्छिन्नत्वाच्च न भोगव्यतिकरश्च। अज्ञब्रह्मजीववादे चोपहितब्रह्मजीववादे चाज्ञानसंबन्धि चोपाधिसंबन्धि च ब्रह्मैवेति भोगव्यवस्था न सिद्ध्यतीत्यभिप्राय:॥४८॥

२६५। आभासा एव – अज्ञब्रह्मजीववादे सर्वज्ञस्य ब्रह्मणोऽज्ञानकल्पनस्वरूपतिरोधान-कल्पनाहेतव: आभासा एव। चकारान्निरवद्यत्वादिश्रुतिविरोधश्च। पारमार्थिकोपाधिसंबन्धि-ब्रह्मजीववादे अनाद्यदृष्टप्रवाहेणोपाधिप्रवाहानादित्वात्तत्संबन्धिनि ये दोषा:, न ते ब्रह्मणि प्रसज्यन्त इत्यत्राह॥४९॥

२६६।  अदृष्टानियमात् – अदृष्टैस्तत्कृतोपाधिभिश्च ब्रह्मणश्छेदासंभवात्तत्कृता दोषा ब्रह्मण्येव संभवेयु:॥५०॥

२६७।  अभिसन्ध्यादिष्वपि चैवम् – अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युपाधिब्रह्मव्यतिरिक्त- वस्त्वन्तराभावात् पूर्वोपाधियुक्तं ब्रह्मैवेति न कश्चिद्विशेष:॥५१॥

२६८।  प्रदेशभेदादिति चेन्नान्तर्भावात् – उपाधिसंबन्धि ब्रह्मप्रदेशादनुपहित ब्रह्मप्रदेशो भिद्यते, अतोऽव्यवस्थेति चेन्न, उपाधिषु गच्छत्सु पूर्वमनुपहित ब्रह्मप्रदेशस्याप्यन्तर्भावात्॥५२॥ इति अंशाधिकरणम्॥ ७॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे द्वितीयस्याध्यायस्य तृतीय: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.