वेदान्तदीप:
॥अथ तृतीयाध्यायस्य प्रथम पाद:॥
३–१–१
२८८। तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् – देही देहान्तरगमने देहकारणभूतैर्भूतसूक्ष्मैस्संयुक्तो गच्छति, नेति संशय:, न संयुक्तो गच्छतीति पूर्व: पक्ष:, देहारम्भाय तत्र तत्र भूतसूक्ष्माणां सुलभत्वात्, राद्धान्तस्तु – पञ्चाग्निविद्यायां, वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रश्नप्रतिवचने आम्नायेते। देहारम्भिका आपस्त्रिवृत्करणेन भूतान्तरसंसृष्टा: द्युलोकपर्जन्यपृथिवीपुरुषरूपाग्निषु जीवेन सह प्रविष्टा: पञ्चम्यामाहुतौ योषिदग्निप्रवेशवेलायां पुरुषशब्दाभिलपनीया भवन्तीति प्रतीयते, पुरुषाकारतां भजन्त इत्यर्थ:, अतो भूतसूक्ष्मैस्संपरिष्वक्त एव गच्छतीति, सूत्रार्थस्तु – तदन्तरप्रतिपत्तौ – संज्ञामूर्ति- MKप्तिरित्यत्रमूर्तिशब्देन देह: प्रस्तुतस्तच्छब्देन परामृश्यते, देहान्तरप्रतिपत्तौ। रंहति संपरिष्वक्त: — जीवो भूतसूक्ष्मैस्संपरिष्वक्तो गच्छति, कुत: प्रश्ननिरूपणाभ्यां – पञ्चाग्निविद्यान्तर्गतप्रश्नप्रतिवचनाभ्यां तथाऽवगम्यत इत्यर्थ:॥१॥
कथमविशेषेणाप्शब्देन सर्वेषामभिधानमित्याशङ्क्याह —
२८९। त्र्यात्मकत्वात्तु भूयस्त्वात् – तु शब्दश्शङ्कानिवृत्त्यर्थ:, अपां त्रिवृत्करणेन त्र्यात्मकत्वादाप इति भूतान्तरसंसृष्टा आपोऽभिधीयन्ते। अपां भूयस्त्वात् – आधिक्यादप्छब्देनाभिधानम्॥२॥
२९०। प्राणगतेश्च – इतश्च भूतसूक्ष्मैस्संयुक्तो याति, तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणामनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति, इति प्राणानाम् – इन्द्रियाणां जीवेन सह गमनश्रुते: इन्द्रियाणां देहाश्रयत्वेन देहोऽपि भूतसूक्ष्मरूपेण गच्छतीति गम्यते, स्मर्यते च, मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति इत्यादिना॥३॥
२९१। अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् – यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं इति मरणवेलायां वागादीनामग्न्यादिष्वप्ययश्रुतेर्जीवेन सह गमनश्रुतिरन्यथा नेयेति चे(त्त)न्न, भाक्तत्वात् – तत्र वागादिशब्दानाम्, वागाद्यभिमानिदेवतासु हि तत्र वागादयश्शब्दा:, ओषधीर्लोमानि वनस्पतीन्केशा इत्यनपियद्भिर्लोमादिभिस्सह पाठात्॥४॥
२९२। प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते: – प्रथमे – द्युलोकाग्निहोमे अपामश्रवणात् आपो भूतान्तरसंसृष्टा गच्छन्तीति वक्तुं न शक्यते, तत्र हि, तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धां जुह्वति इति श्रद्धैव होम्यत्वेन श्रूयत इति चेन्न, ता: – आप एव हि श्रद्धाशब्देनोच्यन्ते प्रतिवचनस्य प्रश्नानुगुण्योपपत्ते:, वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इत्यपां पुरुषवचस्त्वप्रकारे पृष्टे स एव हि प्रतिवक्तव्य:। अतश्श्रद्धाशब्देन ता आप एवोच्यन्ते, श्रद्धा वा आप: इति श्रूयते॥५॥
२९३। अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते: – आप: पुरुषवचसो भवन्ति। श्रद्धां जुह्वतीति द्युलोकादिष्वाप एव हि गच्छन्तीति श्रूयते न तत्परिष्वक्तो जीव:। अत: प्रश्नप्रतिवचनयो: जीवस्याश्रुतत्वात्तत्परिष्वक्तो जीवो गच्छतीति न शक्यते वक्तुमिति चेत्, तन्न, इष्टादिकारिणां प्रतीते: – उत्तरत्र, अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति, इत्यादौ इष्टादिकारिणां जीवानां द्युलोकादिगमनपुनरावृत्तिप्रकारवचने द्युलोकाग्निसम्बन्धस्याप्छब्द-वाच्यस्य सोममापन्नस्य प्रत्यभिज्ञानादत्राप इति तत्संयुक्तो जीव एवोच्यते॥६॥
आकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति इति धूमादिना गतस्य देवैर्भक्ष्यमाणत्वश्रवणात्, जीवस्याद्मनदनीयत्वाच्च न जीवस्तत्रोक्त इत्याशङ्क्याह –
२९४। भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति– वा शब्दश्शङ्काव्यावृत्त्यर्थ: – तं देवा भक्षयन्ति इति भक्ष्यत्ववचनं भाक्तम् – केवलेष्टादिकारिणामनात्मवित्त्वाद्देवोपकरणत्वाभिप्रायम्, अनात्मविद: केवलेन्द्रादिदेवयाजिनो हि देवान्प्राप्य तदुपकरणं भवन्ति, तथा हि दर्शयति श्रुति:, यथा पशुरेवं स देवानां इति, अतो भूतसूक्ष्मैस्संपरिष्वक्तो जीवो रंहति॥७॥ इति तदन्तरप्रतिपत्त्यधिकरणम्॥
३–१–२
२९५। कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च – धूमादिना गतो निवर्तमानो जीव: सानुशयो निवर्तते, उत नेति संशय:। नेति पूर्व: पक्ष:। अनुशयो हि भुक्तशिष्टं कर्म। याव त्संपातमुषित्वा, प्राप्यान्तं कर्मण: इत्यादिश्रुतिभ्य: कृत्स्नस्य कर्मणोऽनुभूतताप्रतीते: नानुशयवान्निवर्तते, राद्धान्तस्तु – तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्, ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनिं वा, अथ इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन्, श्वयोनिं सूकरयोनिं वा चण्डालयोनिं वा इति रमणीयचरणा ब्राह्मणादियोनिं, कपूयचरणा: – कुत्सितकर्मण: श्वसूकरादियोनिं प्रतिपद्यन्त इति श्रुते:, प्राप्यान्तं कर्मण इत्यादिश्रुति: फलप्रदानप्रवृत्तकर्मविषयेति सानुशयो निवर्तते, सूत्रार्थस्तु – कृतात्यये – कृतस्य पूर्वकर्मणोऽत्यये, अनुशय: भुक्तशिष्टकर्म, तद्वान्निवर्तते। कुत:? दृष्टस्मृतिभ्याम् – श्रुतिस्मृतिभ्यामवगम्यते, तद्य इह रमणीयचरणा: इत्यादिश्रुति:, तत: परिवृत्तौ कर्मफलशेषेण जातिं रूपम् इत्यादिका स्मृति:, यथेतमनेवं च – आरोहणप्रकारेण प्रकारान्तरेण च निवर्तन्ते, चन्द्रमसस्थानादाकाशमित्यारोहणक्रमेण अवरोहन्ति, वायुधूमाभ्रादिना प्रकारान्तरेण च॥८॥
२९६। चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि: – रमणीयाचरणा इति रमणीयाचारस्य स्मृतिविहितस्य ब्राह्मण्यादिप्राप्तिसाधनत्वश्रवणात् न सकर्मा प्रत्यवरोहतीति चेत्। तन्न, चरणश्रुति: कर्मोपलक्षणार्थेति कार्ष्णाजिनिः आचार्यो मन्यते, पुण्यस्यैव कर्मणस्सुखप्राप्ति-साधनत्वात्॥९॥
२९७। आनर्थक्यमिति चेन्न तदपेक्षत्वात् – स्मृतिविहितस्याचारस्याकिञ्चित्करत्वेनानर्थक्यं प्रसज्यत इति चेत्, न, तदपेक्षत्वात् – आचारापेक्षत्वात्सुखसाधनभूतपुण्यकर्मण:। सन्ध्याहीनोऽ–शुचिर्नित्यमनर्हास्सर्वकर्मसु इति सर्वं हि पुण्यकर्माचारापेक्षमेवेति कार्ष्णाजिनेर्मतम्॥१०॥
२९८। सुकृतदुष्कृते एवेति तु बादरि: – तुशब्द: पूर्वमतव्यावृत्त्यर्थ:, रमणीयचरणा: कपूयचरणा:, इति चरणशब्देन सुकृतदुष्कृते एव कर्मणी प्रतिपाद्येते। पुण्यं कर्माचरतीति चरते: कर्मणि प्रसिद्धे:, न लक्षणा न्याय्येति बादरिर्मन्यते, इदमेव सूत्रकाराभिप्रेतम्, तुशब्देन, पूर्वमताद्व्यावृत्ते: सुकृतदुष्कृते एव इति व्यावर्तनात्, आनर्थक्यमिति चेन्न तदपेक्षत्वात् इति तु स्वीकृतम्॥११॥ इति कृतात्ययाधिकरणम् ॥ २ ॥
३–१–३
२९९। अनिष्टादिकारिणामपि च श्रुतम् – विहिताकरणप्रतिषिद्धसेवारता:, पापकर्माणोऽपि धूमादिना चन्द्रमसं गत्वा निवर्तन्ते, उत नेति संशय:, गत्वैव निवर्तन्त इति पूर्व: पक्ष:, ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति इति सर्वेषामविशेषेण चन्द्रगमनश्रुते:, राद्धान्तस्तु – अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इति धूमादिना चन्द्रगमनस्य पुण्यकर्मफलत्वश्रवणात्तद्रहिता: पापकर्माणो न गच्छन्तीति। ये वै के च इति वचनं सर्वेषां पुण्यकर्मणां चन्द्रगमनविषयम्। सूत्रार्थस्तु – अनिष्टादिकारिणामपि च श्रुतम्, अनिष्टादिकारिणामपि – इष्टापूर्ताद्यकुर्वतां पापिनामपि चन्द्रगमनमस्ति, ये वै के चास्माल्लोकात्प्रयन्ति इति योऽविशेषेण श्रुतम्॥१२॥
३००। संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात – इयांस्तु विशेष:। संयमने – यमशासने पापफलमनुभूय, इतरेषां – पापिनां चन्द्रारोहावरोहौ। कुत:? तद्गतिदर्शनात् – पापिनां यमसदनगतिदर्शनात्, वैवस्वतं सङ्गमनं जनानाम् इत्यादौ॥१३॥
३०१। स्मरन्ति च – सर्वे चैते वशं यान्ति यमस्य भगवन्किल, इति पराशरादयस्स्मरन्ति च॥१४॥
३०२। अपि सप्त – सप्तापि – पापकर्मणां गन्तव्यत्वेन सप्तापि रौरवादि नरकान् स्मरन्ति॥१५॥
ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्ति:? तत्राह।
३०३। तत्रापि तद्व्यापारादविरोध: – सप्तस्वपि रौरवादिलोकेषु यमव्यापारादेव गमनाद्यमवश्यताया अविरोध:, अत: पापिनां यमयातना अनुभूय चन्द्रारोहावरोहाववर्जनीयौ॥१६॥
इति प्राप्त उच्यते-
३०४। विद्याकर्मणोरिति तु प्रकृतत्वात् – तु शब्द: पक्षव्यावृत्यर्थ:, न च पापकर्मणामर्चिरादिना ब्रह्मगमनं, धूमादिना चन्द्रगमनं च संभवति, तयोर्विद्याकर्मणो: फलत्वात्, कथमिदमवगम्यते तत्फलत्वम्? इति प्रकृतत्वात्, इत्थं प्रकृतत्वात्, विद्याकर्मणी हि प्रकृत्य तत्फलत्वेन गतिद्वयं प्रतिपाद्यते, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति इति। अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इति च, पापिनां विद्यारहितत्वेन ब्रह्मगमनाभाववत् पुण्यकर्मरहितत्वेन चन्द्रगमनमपि न संभवतीत्यर्थ:॥१७॥
पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति पञ्चमाहुत्या देहारम्भश्रवणात् तस्याश्चन्द्र-गमनपूर्वकत्वेन पापिनामपि देहारम्भाय चन्द्रगमनमवश्यं भावीत्यत आह-
३०५। न तृतीये तथोपलब्धे: – केवलपापकर्माण:, तृतीयस्थानम्। न तृतीये स्थाने देहारम्भाय पञ्चमाहुत्यपेक्षाऽस्ति, तथोपलब्धे:, वेत्थ यथा केनासौ लोको न संपूर्यते, इति द्युलोकस्याप्राप्ता क इति प्रश्नस्य प्रतिवचने, अथैतयो: पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यत इति तृतीयस्य स्थानस्य द्युलोकाप्राप्तिश्रवणात्तस्य देहारम्भे पञ्चमाहुत्यनपेक्षत्वं ह्युपलभ्यते॥१८॥
३०६। स्मर्यतेऽपि च लोके – पुण्यकर्मणामपि केषांचिद्द्रौपद्यादीनां देहारम्भे पञ्चमाहुत्यन- पेक्षत्वं तस्य शिष्टलोकेऽपि च स्मर्यते॥१९॥
३०७। दर्शनाच्च – श्रुतावपि दृश्यते केषाञ्चिद्देहारम्भे पञ्चमाहुत्यनपेक्षत्वं, तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जं इति स्वेदजोद्भिज्जयोर्देहारम्भे पञ्चमाहुत्यनपेक्षत्वम्॥२०॥
आण्डजं जीवमुद्भिज्जमित्यत्र स्वेदजस्य ग्रहणं न दृश्यत इत्याशङ्क्याह –
३०८। तृतीयशब्दावरोध: संशोकजस्य – आण्डजं जीवजमुद्भिज्जमित्यत्र तृतीयेनोद्भिज्जशब्देन संशोकजस्य स्वेदजस्यावरोध: – संग्रह इत्यर्थ:। अत: केवलपापकर्मणां चन्द्रारोहावरोहौ न संभवत: ॥२१॥ इति अनिष्टादिकार्यधिकरणम् ॥ ३ ॥
३–१–४
३०९। तत्स्वाभाव्यापत्तिरुपपत्ते: – धूमादिना चन्द्रमसं प्राप्तस्य प्रत्यवरोहप्रकार आम्नायते। यथेतं आकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेधो भवति मेघो भूत्वा प्रवर्षति इति । अत्राकाशादिभाव:, किं देवमनुष्यादिभाववदाकाशादिशरीरत्वम्, उत तत्सादृश्यापत्तिरेवेति संशय:, आकाशादिशरीरत्वमिति पूर्व: पक्ष:, श्रद्धावस्थस्य सोमराजभाववत्। तत्र हि तच्छरीरत्वमेवोच्यते, राद्धान्तस्तु – आकाशादिप्राप्तौ सुखदु:खानुभवाभावात् तत्सादृश्यापत्तिरेव, सुखदु:खानुभवाय हि सोमादिशरीरत्वम्, सूत्रार्थस्तु — तत्स्वाभाव्यापत्ति: आकाशादिसादृश्यापत्ति:। उपपत्ते: – सुखदु:खानुभवाभावोपपत्ते:॥२२॥ इति तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥
२–४–५
३१०। नातिचिरेण विशेषात् – आकाशवायुधूमाभ्रमेघवर्षप्राप्तौ किं तत्र तत्र नातिचिरं तिष्ठति, उतानियम इति संशय:, अनियम इति पूर्व: पक्ष:, नातिचिरेणेति विशेषवचनाभावात्, राद्धान्तस्तु – उत्तरत्र व्रीह्यादिभावे, अतो वै खलु दुर्निष्प्रपतरम् इति विशिष्य चिरेण गमनवचनं तत: प्राचीनेष्वचिरगमनं द्योतयतीत्याकाशादि यावद्व्रीह्यादिभावप्राप्ति नातिचिरं तिष्ठतीति, सूत्रमपि व्याख्यातम् ॥२३॥ इति नातिचिराधिकरणम् ॥ ५ ॥
२–४–६
३११। अन्याधिष्ठिते पूर्ववदभिलापात् – अवरोहन्तो जीवा: व्रीह्यादिभावेन जायन्त इति श्रूयते। मेघो भूत्वा प्रवर्षति, त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते इति। ते किं व्रीह्यादिशरीरा जायन्ते, उतान्यै: क्षेत्रज्ञैर्व्रीह्यादिशरीरैरधिष्ठितान्व्रीह्यादीनाश्लिष्यन्तीति संशय:। जायन्त इति वचनाद्व्रीह्यादिशरीरभोक्तारो जायन्त एवेति पूर्व: पक्ष:। राद्धान्तस्तु व्रीह्यादिजन्महेतुभूतकर्मविशेषाश्रवणाद्व्रीह्यादिसंश्लेषमात्रमेव। जायन्त इति जन्मवचनं औपचारिकम्, ब्राह्मणादिशरीरभावे हि, रमणीयचरणा: कपूयचरणा: इति जन्महेतुभूतं पुण्यपापरूपं कर्म श्रूयते, सूत्रार्थस्तु – अन्याधिष्ठिते – अन्यक्षेत्रज्ञाधिष्ठिते व्रीह्यादौ संश्लेषमात्रम्, कुत:? पूर्ववदभिलापात् – आकाशादिभाववत्केवलव्रीह्यादि-भावाभिलापात्। जन्महेतुभूतकर्मानभिलापात् इत्यर्थ:॥२४॥
३१२। अशुद्धमिति चेन्न शब्दात् – यद्यपि व्रीह्यादिभावेन जायन्त इत्यत्र जन्महेतुभूतं कर्म न श्रुतम्, तथापि पूर्वश्रुतमिष्टादिकर्माग्नीषोमीयादिहिंसागर्भत्वेनाशुद्धम् – हिंसात्वेनाशुचि व्रीह्यादिजन्मनोऽपि हेतुर्भवतीति चेत्; न, अहिंसात्वशब्दात् — पशोर्हि संज्ञपनस्य स्वर्गावाप्तिसाधनभाववादिशब्द: श्रूयते – हिरण्यशरीर ऊर्ध्वस्स्वर्गं लोकमेति, न वा उ एतन्म्रियसे न रिष्यसि इत्यादि:॥२५॥
३१३। रेतस्सिग्योगोऽथ – इतश्च व्रीह्यादिसंश्लेषमात्रम्, व्रीह्यादिभावानन्तरं रेतस्सिग्योगश्श्रूयते, यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति इति, अत्र हि पुरुषसंश्लेषमात्रमेव श्रुतम्: एवमेव व्रीह्यादिभावेऽपीत्यर्थ:॥२६॥
३१४। योनेश्शरीरम् – योनिप्राप्ते: पश्चादेवावरोहतो जीवस्य शरीरप्राप्ति:, तत्रैव सुखदु:खोपभोगात्, तत: प्रागाकाशादिषु तत्तत्संश्लेषमात्रमेवेत्यभिप्राय:॥२७॥ इति अन्याधिष्ठिताधिकरणम्॥ ६ ॥
इति श्री भगवद्रामानुजविरचिते श्री वेदान्तदीपे तृतीयाध्यायस्य प्रथम: पाद: ॥