[highlight_content]

वेदान्तदीप: Ady 03 Pada 03

वेदान्तदीप:

अथ तृतीयाध्याये तृतीय: पाद:

            ३५५। सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् – किं सर्वेषु वेदान्तेषु श्रूयमाणा दहरादिविद्या एकैव, उत विद्यान्तरमिति संशय:, अविशेषपुनश्श्रवणस्य प्रकरणान्तरस्य च विद्याभेदहेतुत्वात् विद्यान्तरमिति पूर्व: पक्ष:। चोदनाफलसंयोगरूपाख्यानामविशेषात्, प्रतिपत्तृभेदेन पुनश्श्रवणोपपत्ते:, तत एव प्रकरणान्तरत्वाभावाच्च विद्यैक्यमिति राद्धान्त:, विद्यासु गुणोपसंहारादि चिन्तार्थं शाखान्तराधिकरणोक्तन्याय: तत्फलं च स्थिरीकृतम्, सूत्रार्थस्तु – सर्ववेदान्तप्रत्ययमेकं दहराद्युपासनम्, कुत:? चोदनाद्यविशेषात्॥१॥

३५६। भेदान्नेति चेदेकस्यामपि – अविशेषपुनश्श्रुत्या विद्याभेदावगमान्न विद्यैक्यमिति चेत्। एकस्यामपि विद्यायां शाखान्तरे प्रतिपत्तृभेदात्पुनश्श्रवणमर्थवदिति न विद्याभेद:॥२॥

तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम, इत्याथर्वणिकानां शिरोव्रतस्य विद्योपदेशाङ्गत्वनियमदर्शनं विद्याभेदं द्योतयति, विद्यैक्ये ह्याथर्वणिकानामेवेति नियमो नोपपद्यत इत्याशङ्क्याह-

३५७। स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियम: – शिरोव्रतं न विद्याङ्गम्, अपि तु स्वाध्यायस्य तथात्वे हि – स्वाध्यायस्य तज्जन्यसंस्कारभाक्त्वे हि तन्नियम:, नैतदचीर्णव्रतोऽधीयीतेत्यध्ययनसंबन्धात्, समाचाराख्ये ग्रन्थे, इदमपि वेदव्रतेन व्याख्यातम्, इति वेदव्रतत्वावगमाच्च, ब्रह्मविद्यां (वदेत) – वेदविद्यम् इत्यर्थ:, सववच्च तन्नियम: – यथा हि सवहोमास्सप्तसूर्यादय: शतौदनपर्यन्ता आथर्वणिकैकाग्निसंबन्धिन: तत्रैव भवन्ति, तथेदमप्याथर्वण वेद संबन्धित्वेन तत्रैव भवति॥३॥

३५८। दर्शयति – दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम्; छान्दोग्ये दहरविद्यायां तस्मिन्यदन्त: इति विहितमपहतपाप्मत्वादिगुणाष्टकं तैत्तिरीयके केवलं तस्मिन्यदन्तस्तदुपासितव्यं इत्येवोक्तम्; तदुभयत्र विद्यैकत्वे संभवति॥४॥

३५९। उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने – तदेवं सर्ववेदान्तेषु दहराद्युपासने समाने –  एकस्मिन् सति, तत्तुदपासने वेदान्तान्तरविहितस्य गुणस्य वेदान्तान्तरे चोपसंहार: कर्तव्य:। कुत:? अर्थाभेदात् – तद्विद्याङ्गत्वेन तदुपकाराभेदात्, विधिशेषवत् – यथैकस्मिन्वेदान्ते वैश्वानर विद्यादिविधिशेषतया विहितस्य गुणस्य तदुपकारायोपसंहार:। तथा वेदान्तान्तरेऽपि तद्विद्याङ्गत्वा- विशेषादुपसंहारो न्याय्य:॥५॥  इति सर्ववेदान्तप्रत्ययाधिकरणम्

३६०। अन्यथात्वं शब्दादिति चेन्नाविशेषात् – अस्ति ह्युद्गीथविद्या वाजिनां छन्दोगानां च। वाजिनां तावत्, हन्तासुरान्यज्ञ उद्गीथेनात्ययाम, इत्यारभ्य उद्गीथे प्राणदृष्ट्योपासनं शत्रुपरिभवफलं विहितम्, छन्दोगानामपि, तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्याम: इत्यारभ्य उद्गीथे प्राणदृष्ट्योपासनमेव शत्रुपरिभवफलमुक्तम्, किमुभयत्र विद्यैक्यम्, उत विद्याभेद इति संशय:, चोदनाद्यविशेषाद्विद्यैक्यमिति पूर्व: पक्ष:, राद्धान्तस्तु – यद्यप्युभयत्रोद्गीथे प्राणदृष्ट्योपासनमविशिष्टमुक्तम्, तथापि छन्दोगानाम्, ओमित्येतदक्षरमुद्गीथमुपासीत, इति प्रकृत्य उद्गीथमाजह्रुरनेनैनानभिहनिष्याम: इत्युद्गीथावयवे प्रणवे प्राणदृष्ट्योपासनमुक्तम्; वाजिनां तु, हन्तासुरान्यज्ञ उद्गीथेनात्ययाम, इत्युपक्रमादविशेषेण कृत्स्नोद्गीथे प्राणदृष्ट्योपासनमुक्तम्, अथ एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिर इति छन्दोगानामुद्गानकर्मण्युद्गीथावयवे प्रणवे प्राणदृष्टिविधानात्, वाजिनां तु, अथ हेममासन्यं प्राणमूचुस्त्वं उद्गायेति तथेति तेभ्य एष प्राण उदगायत्, इति कृत्स्नोद्गीथस्य कर्तरि प्राणदृष्टिविधानाच्चोभयत्र रूपभेदाद्विद्याभेद इति। सूत्रार्थस्तु – अन्यथात्वं शब्दादिति चेदिति राद्धान्तच्छायया परिचोद्य, नाविशेषादिति पूर्वपक्षी परिहरति, अथ एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिर, अथ हेममासन्यं प्राणमूचुस्त्वं उद्गायेति तथेति तेभ्य एष प्राण उदगायत् इत्येकत्रोद्गीथे प्राणदृष्टिशब्दात्, इतरत्रोद्गातरि प्राणदृष्टिशब्दाच्च, रूपान्यथात्वमिति चेत्। न रूपभेद:। कुत:? अविशेषात्- उपक्रमे ह्यविशेषेण, उद्गीथेनात्ययाम, उद्गीथमाजह्रुः अनेनैनानभिहनिष्याम:, इत्युद्गीथस्यैवोपास्यत्वप्रतीते:, त्वं उद्गायेति तथेति तेभ्य एष प्राण उदगायत् इति कर्मण्येवोद्गीथे कर्तृत्वमुपचर्यत इति युक्तम्; अन्यथोपक्रमविरोधस्स्यात्॥६॥

३६१। वा प्रकरणभेदात् परोवरीयस्त्वादिवत् – न चैतदस्ति, यद्रूपैक्याद्विद्यैक्यमिति। कुत:? प्रकरणभेदात् – छान्दोग्ये हि, ओमित्येतदक्षरमुद्गीथमुपासीत इत्युद्गीथावयवभूतं प्रणवमुपास्यं प्रकृत्य, उद्गीथमाजह्रु:, इति वचनादुद्गीथावयवभूत: प्रणव एवोद्गीथशब्देनोच्यत इत्यवगम्यते। वाजसनेयकेत्यविशेषण उद्गीथेनात्ययाम, इत्युपक्रमात् कृत्स्नोद्गीथ उपास्य: प्रकृत:। तत उद्गीथे प्राणदृष्ट्यविशेषेऽपि रूपभेदाद्विद्याभेद:, परोवरीयस्त्वादिवत् – यथैकस्यामपि शाखायामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरमिति रूपभेद:। तद्वदत्रापि, एवं प्रकरणभेदेनोपक्रम एवैकत्रोद्गीथावयवविषयत्वेनान्यत्र कृत्स्नोद्गीथविषयत्वेन चोपासनभेद इति सिद्धे सत्युपसंहारस्थं कर्मविषयं कर्तृविषयं च प्राणदृष्टिविधानं यथाश्रुतमवतिष्ठत इत्यभिप्राय:॥७॥

३६२। संज्ञातश्चेत्तदुक्तमस्ति तु तदपि – उद्गीथविद्येति संज्ञैक्यात्तत् – विधेयविद्यैक्यमुक्तं चेत्, तत् – संज्ञैक्यं विधेयभेदेऽप्यस्ति तु – अस्त्येवेत्यर्थ:। यथा नित्याग्निहोत्रे, कुण्डपायिनां अयनाग्निहोत्रे च। यथा च छान्दोग्ये प्रथमप्रपाठकोदितासु बह्वीषु विद्यासु उद्गीथविद्येति संज्ञैक्यम्॥८॥

३६३ व्याप्तेश्च समञ्जसम् – प्रथमप्रपाठके उपक्रमवदुत्तरास्वप्युद्गीथविद्यासि उद्गीथावयवस्य प्रणवस्यैवोपास्यत्वव्याप्तेर्मध्यगतस्य, तद्ध देवा उद्गीथमाजह्रु:, इत्युद्गीथशब्दस्यापि प्रणवविषयत्वमेव समञ्जसम् ॥९॥  इति अन्यथात्वाधिकरणम्

३६४। सर्वाभेदादन्यत्रेमेयो वै ज्येष्ठं श्रेष्ठं वेद ज्येष्ठश्च वै श्रेष्ठश्च भवति प्राणो वा ज्येष्ठश्च श्रेष्ठश्च, इति छन्दोगानां वाजिनां कौषीतकिनां च प्राणविद्या आम्नाता, तत्र छान्दोग्ये वाजसनेयके च सर्वस्यैकरूप्यात्प्राणविद्याया ऐक्यमेव, कौषीतकिप्राणविद्यायास्तस्याश्च भेदोऽस्ति, उत नास्तीति संशय:, अस्ति भेद इति पूर्व: पक्ष:, यद्यपि सर्वत्र ज्यैष्ठ्यश्रैष्ठ्यगुणक: प्राण एक एवोपास्य:। तथापि छन्दोगानां वाजसनेयिनां च ज्यैष्ठ्यश्रैष्ठ्यगुणकस्य प्राणस्य वागादिगत- वसिष्ठत्वादिगुणसंबन्धित्वमपि शब्दादेव प्रतीयते, कौषीतकिनां तु न तथेति रूपभेदाद्विद्याभेद:, राद्धान्तस्तु – यद्यपि कौषीतकिप्राणविद्यायां वागादिगतवसिष्ठत्वादि-संबन्धित्वमपि प्राणस्य शब्दान्नाभिहितम्। तथापि तत्रापि प्राणस्य ज्यैष्ठ्यश्रैष्ठ्योपपादनं वागादीनां स्थितेस्तत्तत्कार्यस्य च प्राणाधीनत्वेनेत्येतदविशिष्टमिति वागादिगतवसिष्ठत्वादेरपि प्राणहेतुकत्वानुसन्धानेन विना प्राणस्य ज्यैष्ठ्यश्रैष्ठ्यानुसन्धानमनुपपन्नमिति कौषीतकिप्राणविद्यायामपि वागादिगतवसिष्ठत्वादिसंबन्धेन प्राण उपास्य इति रूपाभेदात् विद्यैक्यम्।     सूत्रार्थस्तु — सर्वाभेदादन्यत्रेमे, अन्यत्र कौषीतकिप्राणविद्यायामपि, इमे वसिष्ठत्वादयस्सन्त्येव, कुत:? सर्वाभेदात् । प्राणज्यैष्ठ्यश्रैष्ठ्योपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात्, वागादीनां स्थिते: कार्यस्य च प्राण हेतुत्वेन हि प्राणस्य ज्यैष्ठ्यं श्रैष्ठ्यं चात्राप्युपपादितम्, अतो वागादिगतकार्यसामर्थ्यरूपवसिष्ठत्वादि संबन्धित्वं प्राणस्यात्राप्युक्तमेवेत्यर्थ:॥१०॥  इति सर्वाभेदाधिकरणम्

३६५। आनन्दादय: प्रधानस्य – सत्यज्ञानानन्दामलत्वानन्तत्वरूपा: ब्रह्मस्वरूपनिरूपकगुणा: सर्वासु परविद्यासूपसंहर्तव्या:, उत नेति संशय:, नोपसंहर्तव्या इति पूर्व: पक्ष:, अप्रकरणाधीतानामुसंहारे प्रमाणाभावात्, ब्रह्मगुणानामसंख्येयत्वेनोपसंहाराशक्तेश्च। राद्धान्तस्तु – ज्ञानानन्दादीनां ब्रह्मस्वरूप-निरूपकगुणत्वेन तैर्विना ब्रह्मस्वरूपानुसन्धानानुपपत्ते: सर्वासूपसंहर्तव्या इति। सूत्रार्थस्तु – सर्वाभेदादित्यतोऽभेदात् इति वर्तते, आनन्दादयो गुणा: सर्वासूपसंहर्तव्या:, प्रधानस्य गुणिनो ब्रह्मणस्सर्वासु विद्यास्वभेदात्, सर्वासु परविद्यासु ब्रह्मैकमेवानुसन्धेयं चेत्, यैर्गुणैर्विना ब्रह्मस्वरूपानुसन्धानमशक्यम्, ते च ज्ञानानन्दादयो अनुसन्धेया इत्यर्थ:॥११॥

३६६। प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे – आनन्दादीनां प्राप्तावपि, तस्य प्रियमेव शिर:, मोदो दक्षिण: पक्ष:, इति प्रियशिरस्त्वादीनामप्राप्ति:, ब्रह्मस्वरूपगुणत्वाभावात्तेषाम्, ब्रह्मणश्शिर:पक्षादिभेदे स्वरूपे सति ब्रह्मण उपचयापचयौ प्रसज्येयाताम्, ततश्च, सत्यं ज्ञानमनन्तं ब्रह्म, आनन्दोऽजर: इत्यादिर्विरुध्यते॥१२॥

प्रियशिरस्त्वादिभ्य आनन्दादीनां विशेषमाह –

३६७। इतरे त्वर्थसामान्यात् – इतरे – आनन्दादय:, अर्थसामान्यात् – ब्रह्मस्वरूपसामान्यात् सर्वासु अनुवर्तन्ते, ब्रह्मस्वरूपनिरूपरूपणधर्मत्वेन ब्रह्मस्वरूपसमाना हि ते॥१३॥

प्रियशिरस्त्वादयो ब्रह्मस्वरूपधर्मा न भवन्ति चेत्। तदभिधानं किमर्थमित्यतआह –

३६८। आध्यानाय प्रयोजनाभावात् – अनुचिन्तनार्थं तदभिधानं, प्रयोजनान्तराभावात्, ब्रह्मविदाप्नोति परम् इति वेदितव्यतयोपदिष्टं ब्रह्मानन्दमयं प्रियमोदादिरूपेण विभज्य शिर:पक्षादित्वेन रूपयित्वा बुद्धावारोप्यत इत्यर्थ:॥१४॥

३६९। आत्मशब्दाच्च – अन्योऽन्तर आत्माऽऽनन्दमय:, इत्यात्मशब्दाच्च प्रियशिरस्त्वादयो न ब्रह्मस्वरूपधर्मा:। शिर: पक्षादयो हि नात्मधर्मा:॥१५॥

३७०। आत्मगृहीतिरितरवदुत्तरात् – अन्योऽन्तर आत्मा इत्यात्मशब्देन परमात्मन एव गृहीति: – ग्रहणम्। इतरवत्, आत्मा वा इदमेक एवाग्र आसीत्, इत्यात्मशब्देन यथा परमात्मनो ग्रहणम्, तद्वत्, कथमिदमवगम्यते? तदेकार्थादुत्तरात्, सोऽकामयत, बहुस्यां प्रजायेय इत्यादिवाक्यात्॥१६॥

३७१। अन्वयादिति चेत् स्यादवधारणात् – पूर्वेषु, अन्योऽन्तर आत्मा प्राणमय:, इत्यादि वाक्येष्वनात्मस्वप्यात्मशब्दान्वयात्कथमुत्तरवाक्यान्निर्णय इति चेत्। तस्माद्वा एतस्मादात्मन आकाशस्संभूत: इति प्रकृतस्यात्मन एव प्राणमयादिष्वानन्दमयपर्यन्तेषु आत्मशब्देनावधारणात् स्यादेव निर्णय:, अत: प्रियशिरस्त्वादीनामनात्मधर्मत्वात्, ज्ञानानन्दादीनामात्मस्वरूपनिरूपण-धर्मत्वाच्च, तेषामेव सर्वत्रोपसंहार:॥१७॥  इति आनन्दाद्यधिकरणम्  

३७२। कार्याख्यानादपूर्वम् – छान्दोग्यवाजसनेयकयो: ज्येष्ठं च श्रेष्ठं च प्राणमुपास्यं विधाय होवाच किं मे वासो भविष्यतीत्याप इति होचु:, इत्यपां प्राणस्य वासस्त्वमुक्त्वा, तस्माद्वा एतदशिष्यन्त: पुरस्ताच्चोपरिष्टाच्चद्भि: परिदधति लम्भुको वासो भवत्यनग्नो भवति, इति छान्दोग्ये, वाजसनेयके चापां प्राणवासस्त्वमुक्त्वा, तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते, इति। आचमनेन प्राणमनग्नं कुरुत इत्यर्थ:। अत्राशनात्पुरस्तात् उपरिष्टाच्च किमाचमनं प्राणविद्याङ्गं विधीयते, उताचमनीयानामपां प्राणवासस्त्वानुसन्धानं विधीयत इति संशय:। आचामेत् इत्याचमने विधिप्रत्ययश्रवणात्, स्मृत्याचारप्राप्तादाचमनात् आचमनान्तरं प्राणविद्याङ्गं विधीयत इति पूर्व: पक्ष:

            राद्धान्तस्तुअशित्वा चाचामेत् इत्याचमनं चात्र प्रतीयते। आचमनीयानामपां प्राणवासस्स्वानुसन्धानं च आपो वास:, अद्भि: परिदधति, एतमेव तदनमनग्नं कुरुते, इति प्रतीयते, तत्राचमनं तावत् स्मृत्याचारप्राप्तम्। अपां प्राणवासस्त्वानुसन्धानमप्राप्तम्, अनग्नं कुर्वन्तो मन्यते, अनग्नं कुरुते, इत्यनुवादसरूपं प्रतीयते, तत्राचमनान्तरकल्पनादाचमनं अनूद्याचमनीयानामपां प्राणवासस्त्वानुसन्धानमप्राप्तं विधीयत इति युक्तम्, तदनमनग्नं कुरुत, इति वचनानि त्वपूर्वत्वात्, विधिर्वास्यादपूर्वत्वात्, इति न्यायेन विधिवचनमेव भवति, सूत्रार्थस्तु – अपूर्वम् – अप्राप्तमपां प्राणवासस्त्वानुसन्धानं विधेयम्, न पुन: प्राप्तमाचमनम्, कुत:? कार्याख्यानात् – कार्यस्य अप्राप्तार्थस्याख्यानस्वभावत्वाच्छास्त्रस्येत्यर्थ: ॥१८  इति कार्याख्यानाधिकरणम्

            ३७३। समान एवं चाभेदात् – वाजसनेयकेऽग्निरहस्ये बृहदारण्यके च शाण्डिल्यविद्याऽऽम्नाता, अग्निरहस्ये तावत्, आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम्, इति। बृहदारण्यके च, मनोमयोऽयं पुरुषो भास्सत्य: तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति इति। किमत्र विद्याभेद:, उत नेति संशय:। एकत्र सत्यसङ्कल्पत्वमधिकं श्रुतम्। इतरत्र वशित्वादयोऽधिका इति रूपभेदाद्विद्याभेद इति पूर्व: पक्ष:। राद्धान्तस्तु – उभयत्र मनोमयत्वादिके समाने सति वशित्वादेस्सत्यसङ्कल्पत्ववितति-रूपतया तेनाभेदान्न रूपभेद इति विद्यैक्यम्। सूत्रार्थस्तु – मनोमयत्वादिके समाने सति विद्यैक्यम्, एवं चाभेदात्- वशित्वादिगुणेनाप्यभेदात् – वशित्वादिर्हि सत्यसङ्कल्पत्ववितति:॥१९॥  इति समानाधिकरणम्॥

३७४। सम्बन्धादेवमन्यत्रापि – बृहदारण्यके – एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् इत्युपक्रम्य आदित्यमण्डलेऽक्ष्णि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा, तस्योपनिषदहरित्यधिदैवतम्, तस्योपनिषदहमित्यध्यात्मम्, इति द्वे रहस्यनामनी उपासनशेषतया आम्नायेते, ते किं यथाश्रुतस्थाननियते, उतोभयत्रोभे इति संशय:, उभयोस्स्थानयोरेकरूपस्यैव उपास्यत्वाद्विद्यैक्यमित्यनियते नामनी इति पूर्व: पक्ष:। अक्ष्यादित्यस्थानसंबन्धित्वरूपाकारभेदाद्रूपभेद इति विद्याभेदात् द्वे नामनी नियते इति राद्धान्त:। सूत्रार्थस्तु – यथा मनोमयत्वादि गुणविशिष्टस्यैकस्यैव उपास्यत्वे नोभयत्र विद्यैक्यम्। एवमन्यत्राक्ष्यादित्याधार स्याप्येकस्यैव सत्यस्य ब्रह्मणस्स्थानद्वयसंबन्धान्न रूपभेद इति विद्यैक्यात् द्वे नामनी अनियते॥२०॥

३७५। वा विशेषात् – न चैतदस्ति। यद्विद्यैक्यादुभयत्रोभे नामनी अनियते इति, कुत:? विशेषात्, उभयत्र हि रूपं विशिष्यते, एकत्रादित्यस्थानसंबन्धि, इतरत्राक्षिस्थानसंबन्धि ब्रह्मेति। रूपभेदाद्विद्या भेद इति नियते नामनी॥२१॥

३७६। दर्शयति – दर्शयति च श्रुतिर्विद्याभेदेन गुणानुपसंहारम्, तस्यैतस्य तदेव रूपं यदमुष्य रूपम्, इत्यादिना रूपाद्यतिदेशेन। स्वतो ह्यप्राप्तावतिदेशेन प्राप्त्यपेक्षा॥२२॥ इति सम्बन्धाधिकरणम्॥

३७७। संभृतिद्युव्याप्त्यपि चात: – तैत्तिरीयके राणायनीयानां खिलेषु च, ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान, ब्रह्म भूतानां प्रथमोत जज्ञे तेनार्हाति ब्रह्मणा स्पर्धितुं क:, इति ब्रह्मणि ज्येष्ठानां गुणानां संभृतिर्द्युव्याप्तिश्चेत्यादिगुणजातमाम्नातम्। किमेषां सर्वासु विद्यासूपसंहार: उत स्थानविशेषोपासनेषु नियम इति संशय:। अनारभ्याधीतत्वादेषां सर्वासूपसंहार इति पूर्व: पक्ष:। राद्धान्तस्तु – यद्यपि न स्थानविशेषसंबन्ध्युपासनमारभ्याधीता एते, तथापि द्युव्याप्तिसामर्थ्यात्तस्य हृदयाद्यल्पस्थानेषु उपसंहारायोगात् तत्साहचर्याच्चेतरेषामल्पस्थान-विहितासु विद्यासु नोपसंहार: इति,                   सूत्रार्थस्तु – संभृतिद्युव्याप्तीति समाहार-द्वन्द्वैकवद्भाव:, संभृतिप्रभृतिगुणजातमप्यत एव – स्थानविशेषसंबन्धनियमात् नियतम्। न सर्वत्रोपसंहार्यम्, द्युव्याप्तिर्हि स्वसामर्थ्यादल्पस्थानानर्हातया तदितरस्थाननियता, संभृत्याद्यपि तत्साहचर्यात्तथैव॥२३॥ इति सम्भृत्यधिकरणम्॥

३७८। पुरुषविद्यायामपि चेतरेषामनाम्नानात् – तैत्तिरीयके पुरुषविद्याऽऽम्नाता, तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्श्रद्धा पत्नी शरीरम् इत्यादिका।  छान्दोग्येऽपि, पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि इत्यादिका। किमत्र विद्याभेद:, उत नेति संशय:, पुरुषविद्येति संज्ञैक्यात्, तैत्तिरीयके फलसंबन्धानाम्नानात्, छान्दोग्ये, शतं जीवति, इत्यनेनैकफलत्वाच्च विद्यैक्यमिति पूर्व: पक्ष:। राद्धान्तस्तु – पुरुषविद्येति संज्ञैक्येऽपि सवनत्रयकल्पनाप्रकारभेदाद्यजमानपत्न्यादि-कल्पनाप्रकारभेदाच्च रूपभेदात्, तैत्तिरीयके पूर्वानुवाकगतस्य। ब्रह्मणो महिमानमाप्नोति इति ब्रह्मविद्याफलस्यैव सन्निधानात् अफलस्यास्य तदङ्गतया तत्फलत्वात् फलभेदाच्च विद्याभेद:। सूत्रार्थस्तु – पुरुषविद्यायामपि उभयत्र रूपभेदाद्विद्याभेद: कुत:? इतरेषामनाम्नानात् – इतरशाखोदितानां तदितरशाखायामनाम्नानात्। छान्दोग्ये तैत्तिरीयकाम्नातानां यजमानपत्न्यादीनां सवनानां चानाम्नानात्, तैत्तिरीयके च छान्दोग्याम्नातानां यज्ञावयवानामनाम्नानादित्यर्थ:। तैत्तिरीयके हि, आत्मा यजमानश्श्रद्धा पत्नी, इति यजमानादिकल्पनम्, यत्सायं प्रातर्माध्यन्दिनं च तानि सवनानि इति च सवनत्रयकल्पनम्। छान्दोग्ये चाशिशिषादीनां दीक्षात्वादिकल्पनम्, पुरुषायुषं त्रेधा विभज्य सवनत्रयकल्पनं चेति यज्ञावयवकल्पनप्रकारभेदाद्रूपभेद: स्पष्ट:। फलमपि तथैवेति। इतरेषामिति फलस्यापि ग्रहणम्॥२४ इति पुरुषविद्याधिकरणम् ॥९॥

१०

            ३७९। वेधाद्यर्थभेदात् – आथर्वणिकास्तैत्तिरीयका ऐतरेयिण इत्येवमादय: उपनिषदारम्भेषु, शुक्रं प्रविध्य हृदयं प्रविध्य, शं नो मित्रश्शं वरुण:, सह नाववतु, इत्यादिमन्त्रान्महाव्रतादीनि च कर्माण्यधीयते, किमेषां विद्याङ्गत्वम्, उत नेति संशय:, सन्निधिसमाम्नानाद्विद्याङ्गत्वमिति पूर्व: पक्ष:, राद्धान्तस्तु – शुक्रं प्रविध्य हृदयं प्रविध्य इत्यादिमन्त्रसामर्थ्यात्, महाव्रतादीनां च कर्मणां श्रुत्यादिभिश्चाभिचारद्वादशाहादिषु विनियोगवत्, शं नो मित्रश्शं वरुण:, सहनाववतु, इत्यादेर्मन्त्रस्य च, ऋतं वदिष्यामि, सत्यं वदिष्यामि, तेजस्वि नावधीतमस्तु, इति मन्त्रसामर्थ्यादध्ययने विनियोग इति न विद्याङ्गत्वम्, सूत्रार्थस्तु – वेधाद्यर्थभेदादित्यस्य वेधाद्यर्थभेदवत्, सत्यं वदिष्यामि, तेजस्वि नावधीतमस्तु, इति शं नो मित्र इत्यादेर्मन्त्रस्याप्यध्ययनसंबन्धरूपार्थभेदान्न विद्याङ्गत्वमित्यभिप्राय:, अत: शं नो मित्र आदि मन्त्र एवाधिकरणस्य विषय:॥२५॥ इति वेधाद्यधिकरणम् ॥१०॥

११

३८०। हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् – विदुषो ब्रह्म प्राप्नुवत: पुण्यपापयोर्विमोचनं द्वयोश्शाखयोश्श्रुतम्। विमुक्तयो: पुण्यपापयोरन्यत्र प्रवेश एकस्यां शाखायां श्रुत:। विमोचनं प्रवेशश्चोभयमेकस्याम्, तदा विद्वान्पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य, धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि, इति च केवलविमोचनम्। तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्त: पापकृत्याम् इति केवलप्रवेश:; तत्सुकृतदुष्कृते धूनुते तस्य प्रियाज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम् इत्युभयम् । किं केवलहानिचिन्तनं केवलोपायनचिन्तनमुभयचिन्तनं च सर्वासु विद्यासु विकल्पेनानुष्ठेयम्, उत समुच्चयेनेति संशय: । तथा तथाऽऽम्नातस्यार्थवत्त्वाय विकल्प इति पूर्व: पक्ष:, राद्धान्तस्तु – पुण्यपापप्रवेशस्य विमोचनापेक्षत्वेन शाखान्तरस्थस्यापि प्रवेशवाक्यस्य शाखान्तरस्थविमोचनवाक्यशेषत्वात् वाक्यद्वयेनैकार्थविधानात्समुच्चय:। एकस्यां शाखायामुभयविधानं प्रतिपत्तृभेदेन परिह्रियते। सूत्रार्थस्तु – हानौत्विति तुशब्द: पक्षव्यावृत्त्यर्थ:, हानाविति प्रदर्शनार्थम्। केवलविमोचने केवले चोपायने श्रूयमाणे तयोरितरेतरसमुच्चयोऽवश्यम्भावी, कुत:? उपायनशब्दशेषत्वात् – उपायनशब्दस्य हानिवाक्यशेषत्वादित्यर्थ:, त्यक्तयो: पुण्यपापयो: प्रवेशस्थानवाचित्वादुपायनवाक्यस्य हानिवाक्यशेषत्वमवगम्यते, प्रदेशान्तराम्नातवाक्यस्य प्रदेशान्तराम्नातवाक्यशेषत्वे दृष्टान्तानाह – कुशाच्छन्दस्स्तुत्युपगानवदिति। यथा वानस्पत्या: कुशा: इति प्रदेशान्तराम्नातस्य वाक्यस्य औदुम्बर्य: कुशा: इति तद्विशेषवाचिप्रदेशान्तरस्थम्; यथा च देवासुराणां छन्दोभि: इति सामान्यत: प्रदेशान्तराम्नातस्य देवच्छन्दांसि पूर्वम् इति तत्क्रमविशेषवाचि प्रदेशान्तरस्थम्। यथा च, हिरण्येन षोडशिनस्स्तोत्रमुपाकरोति, इति प्रदेशान्तरस्थस्य तत्कालविशेषवाचि समयाविषिते सूर्ये षोडशिनस्स्तोत्रमुपाकरोति इति प्रदेशान्तरस्थम्। यथा च, ऋत्विज उपगायन्ति, इति प्रदेशान्तरस्थस्य नाध्वर्युरुपगायेत् इति तत्पर्युदासरूपं प्रदेशान्तरस्थम्। एवमुपायनवाक्यस्य हानिवाक्यशेषतया संभवन्त्यां गतौ न विकल्पो युक्त:, तदुक्तं पूर्वस्मिन् काण्डे, अपि तु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य इत्यादिना ॥२६॥ इति हान्यधिकरणम् ११

१२

३८१। साम्पराये तर्तव्याभावात् तथा ह्यन्ये – किमिदं सुकृतदुष्कृतयोर्हानिचिन्तनं देहवियोगकाले एकदेश: क्षीयते, अध्वनि शिष्टमित्युभयत्र कर्तव्यमुत देहवियोगकाल एव सर्वं क्षीयत इति संशय:। उभयत्र श्रुते: देवयानेन पथा गमनान्यथानुपपत्त्या चोभयत्रेति पूर्व: पक्ष:। अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य, धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकम् इति देहवियोगकाले, स आगच्छति विरजां नदीं। तत्सुकृतदुष्कृते धूनुते इत्यध्वन्यपि हानिश्रुते:।  देहवियोगकाले सर्वकर्मक्षये हि देवयानेन गमनसाधनं कर्म न संभवति। राद्धान्तस्तु तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये इति देहवियोगादूर्ध्वं ब्रह्मप्राप्तिव्यतिरेकेणानुभाव्य-पुण्यपापफलाभावात्, अश्व इव रोमाणि विधूय पापम् इत्यादिनैकार्थ्यात्, अध्वन्याम्नातमपि, तत्सुकृतदुष्कृते धूनुत इति वाक्यं देहवियोगकाले सङ्गमयितव्यमिति देहवियोगकाल एव हानिचिन्तनम्, सर्वकर्मक्षयेऽपि हि विद्यासामर्थ्यादेव देवयानेन पथा गमनं चोपपद्यते, विद्या हि स्वयं सूक्ष्मशरीरस्यानारम्भिकाऽपि प्रकृतसुखदु:खोपभोगसाधन- स्थूलशरीरस्य सर्वकर्मणां च निरवशेषक्षयेऽपि स्वफलभूतब्रह्मप्राप्तिप्रतिपादनाय देवयानेन पथैनं गमयितुं सूक्ष्मशरीरं स्थापयति। सूत्रार्थस्तु – साम्पराये – देहवियोगकाल एव चिन्तनीयम्: कुत:? तर्तव्याभावात् – देहवियोगादूर्ध्वं ब्रह्मप्राप्तिव्यतिरेकेण तरितव्यभोगाभावात्, तथा ह्यन्येऽधीयते – तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संपत्स्ये इति, अशरीरं वा सन्तं प्रियाप्रिये स्पृशत:, इति च॥२७॥

३८२।  छन्दत उभयाविरोधात् – एवमर्थस्वाभाव्याद्देहवियोगकाल एव निरवशेषकर्मक्षयेऽवधृते सति, तत्सुकृतदुष्कृते धूनुते इति वाक्यखण्ड: उभयाविरोधात् – उभयश्रुत्यविरोधाच्छन्दतो नेय:, अश्व इव रोमाणि विधूय पापं ….. धूत्वा शरीरमकृतम्, तस्य तावदेव चिरम् इत्युभयश्रुत्यविरोधाच्चरमश्रुतोऽपि तत्सुकृतदुष्कृते धूनुत इति वाक्यखण्ड: एतं देवयानं पन्थानमापद्यत, इति प्रथमश्रुतखण्डात् प्रागनुगमयितव्य इत्यर्थ:॥२८॥

अत्र चोदयति-

३८३। गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध: – देवयानेन गतिश्रुतेरर्थवत्त्वं देहवियोग- कालेऽध्वनि चेत्युभयथा कर्मक्षये सत्येव। अन्यथा – देहवियोगकाले एव सर्वकर्मक्षये सति सूक्ष्मशरीरस्याप्यारम्भकनाशेन स्थित्यनुपपत्ते: देवयानगतिश्रुतिर्हि विरुध्यते॥२९॥

परिहरति –

३८४। उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् – भगवन्तमुपासीनानां देहवियोगकाले सर्वकर्मक्षयेऽप्युपपन्नो देवयान: पन्था:, कुत:? तल्लक्षणार्थोपलब्धे: – तल्लक्षणार्थ: – तज्जातीयार्थ:, अकर्मलभ्यार्थोपलब्धेरित्यर्थ:, उपलभ्यते ह्यकर्मलभ्यार्थे ब्रह्मोपासीनानां, स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति, इत्यादिषु, लोकवत् – यथा लोके राजानमुपासीनानां प्राकृतपुरुषा- साधारणातिरमणीयानेकार्थसिद्धि:। तद्वत् सर्वज्ञं सत्यसङ्कल्पं महोदारं परं ब्रह्मोपासीनानां सर्वमुपपन्नमित्यर्थ:॥३०॥

परं ब्रह्मोपासीनानां देहपातसमये सर्वकर्मक्षयात् देहपातादूर्ध्वं कर्मफलानुभवो न विद्यत इत्येतन्नोपपद्यते। वसिष्ठादीनां ज्ञानिनामपि कर्मफलरूपदेहान्तरसंयोग:, पुत्रजन्मविपत्त्यादिषु सुखदु:खानुभवोऽपि दृश्यत इत्याशङ्क्याह –

३८५। यावदधिकारमवस्थितिराधिकारिकाणाम् – येषां ज्ञानिनां देहपातादनन्तरमर्चिरादिका गति: प्राप्ता, तेषां देहपातादूर्ध्वं तरितव्यकर्मफलभोगाभावाद्देहपातसमय एव सर्वकर्मक्षय उक्त:, वसिष्ठादीनां तु आधिकारिकाणां यावदधिकारसमाप्ति नार्चिरादिका गतिरस्ति। अपि त्वधिकारेऽवस्थितिरेव, अधिकारहेतुभूतकर्मण: फलदानायारब्धत्वात्, ज्ञानिनोऽप्यारब्धं हि कर्म फलानुभवेनैव क्षीयते ॥३१॥  इति साम्परायाधिकरणम् १२॥

१३

            ३८६। अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् – येषूपासनेषूपकोसलादिष्वर्चिरादिका गतिराम्नाता, किं तन्निष्ठानामेव तया ब्रह्मप्राप्ति:, उत सर्वेषां ब्रह्मोपासननिष्ठानामिति संशय:। तन्निष्ठानामेवेति पूर्व: पक्ष:। इतरेषां तया ब्रह्मप्राप्तौ प्रमाणाभावात्। यत्तु पञ्चाग्निविद्यायां साधारणं वचनम्, तदप्युपकोसलादिविषयमिति निश्चीयते, अन्यथोपकोसलादिष्वाम्नानानर्थक्यं स्यात्। राद्धान्तस्तु – पञ्चाग्निविद्यायां, एवमेतद्विदु: ये चेमे अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसंभवन्ति इति सामान्येन सर्वविषयं गतिश्रवणमुपकोसलादिष्वाम्नानं न बाधितुं क्षमम्, सङ्कोचकं च न भवति, विद्यास्तुत्यर्थतयाऽनुवादेनाप्युपपत्ते:, अतस्सर्वेषां तयैव ब्रह्मप्राप्ति:। सूत्रार्थस्तु – अनियमस्सर्वेषां- सर्वेषामविशेषेण तयैव प्राप्ति:, कुत:? अविरोधश्शब्दानुमानाभ्यां – तथा सत्येव श्रुतिस्मृतिभ्यामविरोध:, श्रुतिश्च, ये चेमेऽरण्ये इत्यादिका पञ्चाग्निविद्यायां निदर्शिता। स्मृति:, अग्निर्ज्योतिरहश्शुक्ल:, इत्यादिका॥३२॥ इति अनियमाधिकरणम् ॥ १३ ॥

१४

३८७। अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् – बृहदारण्यके, एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वम्, इत्यादि श्रूयते, तथा आथर्वणे च, अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यम्, इत्यादि, किमेषामस्थूलत्वादीनां सर्वब्रह्मविद्यासूपसंहार:, उत यत्र श्रुता: तत्रैवेति संशय:, विद्याविशेषरूपतया श्रुतानां सर्वविद्यासाधरणत्वाभावाद्यत्र श्रुतास्तत्रैव नियता इति पूर्व: पक्ष:, राद्धान्तस्तु – अस्थूलत्वादीनामप्यानन्दादिवद् ब्रह्मस्वरूपानुसन्धानान्तर्भावात् सर्वत्रैवोपसंहार:, न केवलमानन्दादिर्ब्रह्म स्वरूपं प्रत्यगात्मनो व्यावृत्तम्, तस्यापि हि तदेव स्वरूपम्, अस्थूलत्वादिविशेषितमानन्दादि ब्रह्मण: प्रत्यगात्मनो व्यावृत्त्याकार:, यद्यपि प्रत्यगात्मा स्वभावत: स्थूलत्वाद्यचेतनधर्मसंबन्धी, तथापि तत्संबन्धार्हाताऽस्त्येव। तदर्हातयापि हि पूर्वं तत्संबन्धस्सञ्जात:, अतो ब्रह्मणोऽतदर्हास्वरूपानुसन्धानार्थतयाऽस्थूलत्वादयस्सर्वत्रानुसन्धेया:, सूत्रार्थस्तु – अक्षरधियाम्- अक्षरसंबन्धिनीनामस्थूलत्वादिधियां सर्वविद्यास्ववरोध: – सङ्ग्रहणम्। कुत:? सामान्यतद्भावाभ्यां ब्रह्मणस्सर्वत्र समानत्वात्, ब्रह्मानुसन्धानान्तर्भावाच्च तासाम्, गुणानां प्रधानानुवर्तित्वं स्वभाव:। औपसदवत् – यथा जामदग्न्यचतूरात्रपुरोडाश्युपसद्गुणभूत:, अग्निर्वै होत्रं वेतु, इति मन्त्र: सामवेदपठितत्वेन सामवेदस्वरनियतोऽपि प्रधानभूतोपसदनुवर्तितया,  याजुर्वैदिकत्वाच्चोपसदो याजुर्वैदिकोपांशुत्वसंबन्धी। तद्वदक्षरविद्यासंबन्धितयाऽधीतत्वेन तद्विद्यानियता अपि प्रधानानुवर्तित्व-स्वाभाव्यात्सर्वविद्यासंबन्धिन:, तदुक्तं प्रथमकाण्डे, गुणमुख्यव्यतिक्रमे तदर्थत्वात् इत्यादिना॥३३॥

एवं तर्हि, सर्वकर्मा सर्वगन्ध:, इत्यादीनामपि सर्वेषां ब्रह्मगुणत्वान्न क्वचिद्व्यवस्थेत्यत्राह-

३८८। इयदामननात्इयत् – अस्थूलत्वादिविशेषितमानन्दाद्येव सर्वत्रानुसन्धेयम्। कुत:? आमननाद्धेतो:, आमननमाभिमुख्येन मननं, ब्रह्मानुसन्धानम्, ब्रह्मस्वरूपानुसन्धानं येन विना नोपपद्यते। तदेव सर्वत्रानुसन्धेयम्, अन्यत्तु तत्र तत्र व्यवस्थितमित्यर्थ:॥३४॥ इति अक्षरध्यधिकरणम् ॥१४॥

१५

३८९। अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् – बृहदारण्यके उष(स्ति)स्तप्रश्नप्रतिवचनं, : प्राणेन प्राणिति आत्मा सर्वान्तरो योऽपानेनापानिति आत्मा, इत्यादि, अतोऽन्यदार्तम् इत्यन्तमाम्नातम्, तथा तदनन्तरं कहोलप्रश्नप्रतिवचनं, योऽशनायापिपास शोकं मोहं जरां मृत्युमत्येति एतं हैतमात्मनं विदित्वा, इत्यादि, अतोऽन्यदार्तम् इत्यन्तम्, किमुभयत्र विद्यैक्यम्, उत विद्याभेद इति संशय:। पूर्वत्र प्राणनादिहेतु: प्रत्यगात्मा। उत्तरत्राशनायाद्यतीत: परमात्मेत्युपास्यभेदाद्विद्याभेद: इति पूर्व: पक्ष:। राद्धान्तस्तु – यत्साक्षादपरोक्षाद्ब्रह्म, आत्मा सर्वान्तर: तन्मे व्याचक्ष्व, इति उभयत्र प्रश्नस्य परमात्मविषयत्वादेकरूपत्वाच्च, सर्वप्राणिप्राणनापाननादि-हेतुत्वस्य अशनायाद्यतीतत्वस्य च प्रतिवचनद्वयावगतस्य परमात्मन्येकस्मिन्नेवोपास्ये संभवाच्च, न विद्याभेद:, सूत्रार्थस्तु – अन्तरा – य आत्मा सर्वान्तर: इत्युषस्तप्रश्नो भूतग्रामवत्स्वात्मन: – प्रत्यगात्मन इत्युपगन्तव्य:। अन्यथा प्रतिवचनभेदानुपपत्तिरिति चेत्। नात्र प्रत्यगात्मपरमात्मविषयं प्रश्नद्वयम्। प्रतिवचनद्वयं च परमात्मन्येकस्मिन्नेवोपास्ये संभवतीत्यर्थ:, उपदेशवत्, स्तब्धोऽस्युत तमादेशमप्राक्ष्य: इति प्रक्रान्तायामेकस्यामेव सद्विद्यायां, भगवांस्त्वेव मे तद्ब्रवीत्विति, भूय एव मा भगवान्विज्ञापयतु इत्यादिका प्रश्नावृत्ति:, प्रतिवचनभेदश्चोपास्यस्य माहात्म्यविशेषप्रतिपादनपरत्वेन दृश्यते। तद्वत्॥३५॥

प्रष्टृभेदपूर्वकप्रतिवचनप्रकारभेदाद्विद्याभेदोऽवर्जनीय एवेत्याशङ्क्याह –

३९०। व्यतिहारो विशिंषन्ति हीतरवत्द्वयदेव साक्षादपरोक्षाद्ब्रह्म आत्मा सर्वान्तर:, इति द्वयो: प्रष्ट्रो: प्रश्नस्यैकरूपत्वेनैकविषयत्वे निश्चिते सत्युषस्तकहोलयो: प्रतिवचनगतबुद्धिव्यतिहार: कार्य:, प्राणनादिहेतुत्वबुद्धिस्सर्वान्तरात्मविषया कहोलेनापि कार्या, तथाऽशनायाद्यतीतत्वबुद्धिरुषस्तेनापि कार्या, विशिंषन्ति ह्युभयत्रापि याज्ञवल्क्यवचनान्येकं सर्वान्तरमेवोपास्यम्, इतरवत् – यथेतरत्र सद्विद्यायां सर्वाणि प्रतिवचनानि परमकारणपरब्रह्मविषयाणि, तद्वत्॥३६॥

सद्विद्यायामप्युपास्यैक्यं प्रश्नप्रतिवचनावृत्तौ सत्यां कथमवगम्यत इत्यात्राह –

३९१। सैव हि सत्यादय: – सेयं देवतैक्षत, इत्यादिषु सर्वत्र सैव परा देवतैकाऽनुवर्तते, ऐतदात्म्यमिदं सर्वं तत्सत्यं आत्मा तत्त्वमसि इति त एव सत्यादय: सर्वेषु प्रतिवचनेषूपसंह्रियन्ते ॥३७॥ इति अन्तरत्वाधिकरणम् १५

१६

३९२। कामादीतरत्र तत्र चाऽऽयतनादिभ्य: – छान्दोग्ये श्रूयते, अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् इत्यादि प्रकम्य तद्य  इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति इति। वाजसनेयके च एषोऽन्तर्हृादय आकाशस्तस्मिञ्शेते सर्वस्य वशी सर्वश्येशान इत्यादि। किमुभयत्र विद्यैक्यम्, उत विद्या भेद इति संशय:। रूपभेदाद्विद्याभेद इति पूर्व: पक्ष:। यद्यप्युभयत्र परमात्मैवोपास्य:, तथाऽप्येकत्राकाशशब्दाभिधेय: परमात्मोपास्य:, इतरत्राकाशे शयान: परमात्मेति हि रूपं भिद्यते। राद्धान्तस्तु  हृदयायतनत्वसत्यसङ्कल्पत्वसत्यकामत्वादेरभेदादुभयत्र तद्विशिष्ट: परमात्मैवोपास्य इति रूपाभेदाद्विद्यैक्यम् । छान्दोग्ये हि दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदस्तदन्वेष्टव्ययम् इत्यारभ्य किं तदत्र विद्यत इत्यादिना परिचोद्य, तस्मिन्नकामास्समाहिता:, एष आत्मापहतपाप्मा विजरो विमृत्यु:   इत्यारभ्य, सत्यकामस्सत्यसंकल्प इत्युक्त्वा तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् इत्याकाशशब्दनिर्दिष्ट: परमात्मा, तदन्तर्गताश्च सत्यकामत्व-सत्यसङ्कल्पत्व- अपहतपाप्मत्वदयो गुणा: अत: परमात्मा हृदयायतनस्सत्यकामत्वादिविशिष्ट: उपास्य इति वाक्येनैव निर्णीतम्।  वाजसनेयके च, एषोऽन्तर्हृादय आकाशस्तस्मिञ्छेते सर्वस्य वशी, इत्युक्ते सति वशित्वादेस्सत्यसङ्कल्पत्वविशेषरूपतया स एव परमात्मा हृदयायतनस्सत्यसङ्कल्पत्वविशिष्ट उपास्य इति प्रतीयते, अतो दहरविद्याप्रत्यभिज्ञानात्स एव परमात्मा सत्यसङ्कल्पत्वादिगुणाष्टकविशिष्ट उपास्य इति निश्चीयते, एवं निश्चिते सत्याकाशे शयान इत्याकाशशब्दोऽपि हृदयपुण्डरीक- वर्त्याकाशवाचीति रूपाभेदाद्विद्यैक्यमेव। सूत्रार्थस्तु – कामादीतरत्र तत्र च – वाजसनेयके छान्दोग्ये च सत्यकामत्वाद्येव रूपम्। कुत:? आयतनादिभ्य: – हृदयायतनत्वसत्यसङ्कल्पत्व-विशेषरूपवशित्वादिभ्य: तत्सहचारिणस्सत्यकामत्वादे: प्रत्यभिज्ञानात्, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, अभयं वै ब्रह्म भवति, इति ब्रह्मप्राप्तिरूपं फलं चैकमिति विद्यैक्यम्॥३८॥

मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किञ्चन इत्यादे: पूर्वप्रकृतत्वात्, स एष नेति नेत्यात्मा, इति च वक्ष्यमाणत्वात् सर्वस्य वशी सर्वस्येशान: इत्यादिविशेषाणां ब्रह्मस्वरूपत्वासंभ(भा)वात् कथं सत्यकामत्वादेर्मोक्षसाधनोपासनरूपत्वमित्यत आह –

३९३। आदरादलोप: वशित्वादे: प्रमाणान्तराविदितरूपस्य श्रुत्येकसमधिगम्यस्यादरेण प्रतिपादनादलोप: – अप्रतिषेध:, तस्यापि ब्रह्मगुणत्वमवश्याश्रयणीयम्। अविशेषनिषेधास्तु सकलेतरप्राकृतविशेषविषया:। नानात्वनिषेधस्तु सर्वस्य ब्रह्मकार्यतयाऽब्रह्मात्मकत्वाभिप्राय:॥३९॥

सगुणोपासनस्य, स यदि पितृलोककामो भवति इति सांसारिकफलत्वेन न मोक्षफलत्व- मित्याशङ्क्याह –

३९४। उपस्थितेऽतस्तद्वचनात् – उपस्थिति: – उपस्थानम्, ब्रह्मोपसंपत्ति:। उपस्थिते – ब्रह्मोपसंपन्ने, अत: – ब्रह्मोपसंपत्तेरेव हेतो:, तद्वचनात् – पितृलोकादिप्राप्तिवचनात् न तत्संसारिकं फलम्, अपि तु साक्षान्मुक्तस्यैव, अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, उत्तम: पुरुष: तत्र पर्येति जक्षत्क्रीडन् रममाण: स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम्, इति स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति, इति च निवृत्ताविद्यस्य हि स्वेन रूपेणाभिनिष्पन्नस्यैवोच्यते। अतो ब्रह्मोपसंपत्तिहेतुकत्वं क्रीडनादेरवगम्यते ॥४०॥  इति कामाद्यधिकरणम्॥ १६

१७

३९५। तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् – छान्दोग्ये, ओमित्येतदक्षरम् उद्गीथमुपासीत इति कर्माङ्गाश्रयमुद्गीथाद्युपासनं श्रूयते। तत्किं तस्मिन्कर्मणि पर्णतादिवन्नियमेनोपादेयम्, उत गोदोहनादिवदनियमेनेति संशय:। कर्माङ्गाश्रयत्वेन पर्णतादिवत्तद्द्वारेण निरूढकार्यतया, यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति वर्तमाननिर्देशस्य पृथक्फल प्रतिपादकत्वायोगात् क्रत्वर्थतया नियमेनोपादेयमिति पूर्व: पक्ष:। राद्धान्तस्तु – तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च वेद, इत्युद्गीथोपासनरहितस्यापि क्रत्वनुष्ठानदर्शनात् क्रतुफलात्स्वर्गादे: पृथग्भूतवीर्यवत्तरत्वफलमिदमुपासनमिति गोदोहनादिवत् अनियम:, वर्तमाननिर्देशे सत्यप्यधिकारान्तरनिश्चये सति रात्रिसत्रवत् क्रतोर्वीर्यवत्तरत्वमस्य उपासनस्य कल्पनीयम्, सूत्रार्थस्तु – तन्निर्धारणानियम:, निर्धारणम्- निश्चयेन चेतसोऽवधारणम्, उपासनमित्यर्थ:। तस्य  उद्गीथोपासनस्य, अनियम:। कुत:? तद्दृष्टे:,तेनोभौ कुरुत इत्यनियम दृष्टे:। पृथग्भूतं ह्यस्य फलम्। तच्चाप्रतिबन्धरूपम्। वीर्यवत्तरत्वं नाम प्रबलकर्मान्तरफले नैतस्य कर्मण: फलस्याप्रतिबन्ध:, अविलम्बितत्वमित्यर्थ:॥४१॥  इति तन्निर्धारणाधिकरणम् ॥१७॥

१८

३९६। प्रदानवदेव तदुक्तम् – दहरविद्यायां, तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्, इत्यपहतपाप्मत्वादिगुणानामपि परमात्मस्वरूपचिन्तनवत्पृथक्चिन्तनं विहितम् । किं गुणचिन्तने तत्तद्गुणविशिष्टतया परमात्मचिन्तनमावर्तनीयम्, उत नेति संशय:। परमात्मन एकस्यैव सर्वेषां गुणानां गुणित्वेन सकृदेव तच्चिन्तनोपपत्तेर्नावर्तनीयमिति पूर्व: पक्ष: । राद्धान्तस्तु – गुणिनस्स्वरूपैक्येऽपि तत्तद्गुण्ाविशिष्टाकारभेदादावर्तनीयमिति। सूत्रार्थस्तु – प्रदानवदावर्तनीयमेव। यथा – इन्द्राय राज्ञे पुरोडाशमेकादशकपालम् इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञ, इतीन्द्रस्यैकत्वेऽपि राजत्वादिविशिष्टाकारभेदाद्देवताभेद इति प्रदानावृत्ति:, तद्वदेव । तदुक्तं सङ्कर्षे, नाना वा देवता पृथक्त्वात् इति ॥४२॥  इति प्रदानाधिकरणम् २०

१९

३९७। लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि – तैत्तिरीया अधीयते, सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम्, विश्वं नारायणं देवम् इत्यारभ्य, सोऽक्षर: परमस्स्वराट् इत्यन्तम् । अस्मिन्ननुवाके नोपासनं विधीयते, किमयं पूर्वानुवाकोदितदहरविद्योपास्यविशेषनिर्धारणार्थ:, उत सर्ववेदान्तोदित सर्वपरविद्योपास्यविशेषनिर्धारणार्थ इति संशय:। दहरविद्याया आनन्तर्यात्तदुपास्यविशेषनिर्धारणार्थ इति पूर्व: पक्ष:सहस्रशीर्षं देवम् इति द्वितीयानिर्देशस्यानन्तरोदितोपासिना संबन्धस्यैव युक्तत्वाच्च। राद्धान्तस्तु – परब्रह्मपरतत्त्वपरज्योति:परमात्माक्षरशिवशम्भुशब्दैस्सर्व-परविद्योपास्याननूद्य वाक्येनैव तेषां नारायणत्वविधानात्तस्य च प्रकरणाद्बलीयस्त्वेन सर्वविद्योपास्यनिर्धारणार्थं इति निश्चीयते, न च, सहस्रशीर्षम् इति द्वितीयानिर्देश: पूर्वेणोपासिना संबध्यते, तस्मिन्यदन्तस्तदुपासितव्यम् इति कृत्प्रत्ययेन कर्माभिहितमिति तत्र द्वितीयानिर्देशायोगात् । नारायण: पर:, व्याप्य नारायणस्स्थित:, परमात्मा व्यवस्थित:, इत्यादिभिरैकार्थ्यात्प्रथमार्थे द्वितीया । सूत्रार्थस्तु – सर्वपरविद्योपास्यनिर्धारणे लिङ्गभूयस्त्वात् तच्चिह्नभूतवाक्यभूयस्त्वादित्यर्थ:, तद्धि – वाक्यं प्रकरणाद्बलीय:, तदपि पूर्वस्मिन्काण्डे, श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्, इत्यादिनोक्तम्। एवं सर्वोपास्यनिर्धारणे निश्चिते सति दहरविद्यायामप्ययमेवोपास्य इति, पद्मकोशप्रतीकाशम् इत्यादिना हृदयाद्यभिधानं च युज्यत इत्यभिप्राय:॥४३॥  इति लिङ्गभूयस्त्वाधिकरणम् १९

२०

३९८। पूर्वविकल्प: प्रकरणात्स्यात् क्रियामानसवत् – वाजसनेयकेऽग्निरहस्ये, मनश्चितो वाक्चित: प्राणचितश्चक्षुश्चित: इत्यादिना मनश्चितादयोऽग्नयो विद्यारूपा: श्रूयन्ते, किमेते क्रियामयक्रत्वङ्गभूता:, उत विद्यामयक्रत्वङ्गभूता इति संशय:। अस्मिन् प्रकरणे विद्यामयक्रत्वनुबन्धि (मानस) ग्रहस्तोत्रादिदर्शनेऽपि क्रतोर्विधानाभावात्, फलान्तराप्रतीतेश्च, पूर्वत्र असद्वा इदमग्र आसीत् इत्यादिनेष्टकचितस्याग्ने: प्रकृतत्वात्, मनश्चितादिषु च,तेषामेकैक एव तावान्यावानसौ पूर्व: इति तत्कार्यातिदेशादिष्टकचितेनैषां विकल्पप्रतीतेश्चेष्टकचिताग्निशेषभूत-क्रियामयक्रत्वनुप्रवेशेन तदङ्गभूता इति पूर्व: पक्ष:। राद्धान्तस्तु ते हैते विद्याचित एव विद्यया हैवैत एवं विदश्चिता भवन्ति, इति मनश्चितादीनां साम्पादिकाग्नित्वेन विद्यारूपत्वे सिद्धेऽपि, ते हैते विद्याचित एव इत्यवधारणश्रुतिर्विद्यामय- क्रत्वङ्गत्वेनैषां विद्यारूपतावगत्यर्थेति निश्चयात् सन्निहितैर्मानसै: ग्रहस्तोत्रादिभि: क्रत्वनुबन्धैरनुवादस- रूपवाक्यप्रतिपादितै: क्रतुदर्शने सति, वचनानि त्वपूर्वत्वात् इति न्याय्येन मनश्चितादीनां शेषिभूतविद्यामयक्रतोर्विधि: परिकल्प्यते, तेषामेकैक एव तावान्यावानसौ पूर्व: इत्यतिदेशेनेष्टकचिताग्नेस्स्वशेषिभूतक्रतुद्वारेण यत्फलम्, तदेवैषां स्वशेषिभूतविद्यामयक्रतुद्वारेण फलमिति निश्चीयत इति विद्यामयक्रत्वङ्गभूता एव मनश्चितादय: । सूत्रार्थस्तु – मनश्चितादि: क्रिया स्यात् – क्रियामय क्रत्वङ्गभूत इत्यर्थ:, कुत:? प्रकरणात् – पूर्वप्रकृतेनेष्टकचितेनाव्यभिचरितक्रतुसंबन्धिनोपस्थितक्रतुगृहीतत्वेन तदङ्गभूतानामेषां चाग्नित्वात्तेनेष्टकचितेन विकल्प:। विद्या रूपाणामप्येषां क्रियामयक्रत्वङ्गभावो न विरुध्यते, द्वादशाहाङ्गभूतमानसग्रहवत्॥४४॥

३९९। अतिदेशाच्च –  तेषामेकैक एव तावान्यावानसौ पूर्व: इति तेषु पूर्वेष्टकचितकार्यातिदेशाच्च तेनैषां विकल्प: प्रतीयते, तेन विकल्पो हि तच्छेषिभूतक्रत्वङ्गत्वेन विनैषां नोपपद्यते, अतश्च तदङ्गभूता:॥४५॥

४००। विद्यैव तु निर्धारणाद्दर्शनाच्च – तुशब्द: पक्षं व्यावर्तयति। मनश्चितादि: विद्यैव विद्यामयक्रत्वङ्गभूत एवेत्यर्थ:, कुत:? निर्धारणात् – तेषां विद्यारूपत्वे सिद्धेऽपि, ते हैते विद्याचित एव इति निर्धारणं विद्यामयक्रत्वङ्गतयैषां विद्यामयत्वख्यापनार्थम्, अत्रैव विद्यामयक्रतुदर्शनाच्च तदङ्गत्वमेवैषाम् । दृश्यते चात्र विद्यामय: क्रतु:, मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन्, इत्यादौ॥४६॥

अत्र विद्यामयक्रतौ विधिपदाश्रवणात्, तत्फलसंबन्धाप्रतीतेश्च, प्रकरणेनेष्टकचिताग्न्युपस्थापित क्रत्वङ्गताप्रतीतेश्च विद्यामयक्रत्वन्वयो बाध्यत इत्याशङ्क्याह –

४०१। श्रुत्यादिबलीयस्त्वाच्च बाध: – श्रुत्यादे: प्रकरणाद्बलीयस्त्वेन श्रुत्याद्यवगतस्य विद्यामयक्रत्वन्वयस्य प्रकरणेन न बाध:, श्रुतिस्तावत्, ते हैते विद्याचित एव इति, तां विवृणोति, विद्यया हैवैत एवंविदश्चिता भवन्ति इति, लिङ्गवाक्ये च भाष्ये दर्शिते, एवंविद: – मनश्चक्षुरादि व्यापारेष्वग्नित्वं संपादयितु:, एते मनश्चितादय:, विद्यया प्रधानभूतया चिता भवन्तीत्यर्थ:॥४७॥

मनसैषु ग्रहा अगृह्यन्ते इत्यादौ विधिपदाश्रवणाद्विद्यामयक्रतुविधिर्न संभवतीति, तदसंभवाच्च तदन्वयोऽपि न संभवतीत्याशङ्क्याह –

४०२। अनुबन्धादिभ्य: प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् – ग्रहस्तोत्रशस्त्रेभ्यो यज्ञानुबन्धेभ्य: इष्टकचितान्वयिन: क्रतोरत्र विधीयमानविद्यामयक्रतुपृथक्त्वमवगम्यते। प्रज्ञान्तरपृथक्त्ववत् – यथा प्रज्ञान्तराणां दहरविद्यादीनां पृथक्त्वहेतुभ्य: पृथक्त्वम्। आदिशब्दात्पूर्वोक्तश्श्रुत्यादिर्गृह्यते। श्रुत्यादिनाऽनुबन्धैश्च विद्यामयक्रतुविधि: कल्प्यत इत्यर्थ:, दृष्टश्चानुवादसरूपेऽपि कल्प्यमानो विधि:, यदेव विद्यया करोति इत्यादौ, तदुक्तं, वचनानि त्वपूर्वत्वात् इति॥४८॥

यत्तूक्तमतिदेशाच्चेष्टकचितशेषिभूतक्रत्वन्वयोऽवगम्यत इति, तत्राह –

४०३। सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्ति: – नावश्यमतिदेशेनेष्टकचिताग्नितुल्य- देशत्वमप्याश्रयणीयम्, येनकेनचित्सामान्येनातिदेशोपलब्धे:, एष मृत्युर्य एष एतस्मिन्मण्डले पुरुष:, इतिवत्फलसामान्येन भविष्यत्यतिदेश:, न हि तत्र मण्डलपुरुषे मृत्युलोकापत्तिरप्यतिदिश्यते। अपि तु मृत्युवत् सर्वसंहर्तृत्वमेव॥४९॥

४०४। परेण शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध: – परेण च ब्राह्मणेनास्य मनश्चिताद्यभिधायिनश्शब्दस्य ताद्विध्यं – तद्विधत्वम्, विद्यामयप्रतिपादकत्वमवगम्यते, परेण हि ब्राह्मणेन, अयं वाव लोक एषोऽग्निचितस्तस्याप एव, इत्यादिना पृथक्फला विद्यैव विधीयते, अग्निरहस्ये क्रियामया एव विधीयन्त इति नास्ति नियम इत्यर्थ:। क्रियाप्रकरणे त्वेषां मनश्चितादीनामनुबन्ध: सम्पादनीयानामग्न्यङ्गानामत्र भूयस्त्वात्क्रियते, अतो विद्यामयक्रत्वङ्गभूता एव मनश्चितादयोऽग्नय:।।५०॥  इति पूर्वविकल्पाधिकरणम्

२१

४०५। एक आत्मनश्शरीरे भावात – प्रत्यगात्मन आत्मतया हि परमात्मोपास्य:। उपासकस्यापि स्वरूपमुपास्योपासनस्वरूपवत् ज्ञातव्यमित्युक्तम्, त्रयाणाम् इत्यादिना। वक्ष्यते च, आत्मेति तूप गच्छन्ति इति, तत्र किं प्रत्यगात्मनश्शरीरे वर्तमानस्य कर्तृत्वभोक्तृत्वादिविशिष्टं रूपमनुसन्धेयम्, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिगुणकं यथावस्थितं रूपमिति संशय:, शरीरे वर्तमानस्य यादृशं रूपम्, तदेवानुसन्धेयमिति पूर्व: पक्ष:, कर्मविधिष्विवोपासनविधिष्वपि तावतैव साधनानुष्ठानफलानुभवयोस्संभवात्, यथाक्रतुरस्मिल्लोके पुरुष: भवति इति तु तं यथायथो पासते इत्यनेनैकार्थ्यात्परमात्मविषयम् । राद्धान्तस्तु – तत्त्वमसि, आत्माऽन्तर्याम्यमृत: इति प्रत्यगात्मन आत्मतयैव परमात्मोपास्य इति प्रत्यगात्मनस्स्वरूपमप्युपासनान्तर्गतम्, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत, इति यथावस्थितात्मस्वरूपस्यैव ब्रह्मानुभव: फलमित्यत:, यथाक्रतुरस्मिल्लोके पुरुष: भवति इति न परमात्ममात्रविषयम्। अपि तु प्रत्यगात्मात्मभूतोपास्यविषयमिति प्रजापतिवाक्योदितं यथावस्थितस्वरूपमेवानुसन्धेयम्। अन्यथा प्राप्योपास्ययो: प्रकारभेदात्, यथाक्रतु: अस्मिन्निति विरुध्यते। यजेत स्वर्गकाम: इत्यादिकर्मविधौ तु कर्तृस्वरूपानुसंन्धानं न साधनान्तर्गतमिति विशेष:। सूत्रार्थस्तु- कर्तृत्वादिविशिष्टमेवात्मनः स्वरूपमनुसन्धेयमित्येके मन्यन्ते। कुत:? शरीरे वर्तमानस्योपासितुरात्मन:  तथाभावात्॥५१॥

४०६। व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् – नकर्तृत्वादिविशिष्टमनुसन्धेयम्, अपि तु सांसारिकस्वरूपवन्मुक्तस्वरूपस्य यो व्यतिरेक:, सोऽनुसन्धेय:। कुत:? तथोपासन भावभावित्वात्तद्व्यतिरिक्तस्वरूपप्राप्ते:, यथाक्रतुरस्मिंल्लोके पुरुष: भवति इति ह्याह, उपलब्धिवत्-यथा ब्रह्मस्वरूपोपलब्धिर्यथावस्थितब्रह्मानुसन्धानयुक्तस्यैव, तथा आत्मोपलब्धिरपि॥५२॥ इति शरीरेभावाधिकरणम् २१

२२

४०७। अङ्गावबद्धास्तु शाखासु हि प्रतिवेदम्ओमित्येतदक्षरमुद्गीथमुपासीत, इत्युद्गीथादिक्रत्वङ्गाश्रया उपासनाश्श्रूयन्ते, ता: किं यासु शाखासु श्रूयन्ते, तास्वेव व्यवस्थिता:, उत सर्वासु शाखासु संबद्धा इति संशय:, शाखासु स्वरभेदात्प्रतिशाखमुद्गीथभेदेन यत्र श्रूयन्ते, तत्रस्थोद्गीथादेस्सन्निधानात्तेनैवान्विता व्यवस्थिता इति पूर्व: पक्ष:। राद्धान्तस्तु – यद्यप्युद्गीथव्यक्तिभेदो विद्यते, तथापि तत्र तत्र चोद्गीथजातीयत्वेन संबन्धात्सर्वेषां चोद्गीथजातीयत्वाविशेषात्, उद्गीथमुपासीत इति श्रुत्यैव सर्वसंबन्ध इति सर्वशाखासु संबध्यन्ते। सूत्रार्थस्तु – न त्वङ्गावबद्धा उपासनास्तासु शाखासु व्यवस्थिता:, अपि तु प्रतिवेदं – सर्वशाखासु संबध्यन्त इत्यर्थ:, हिर्हेातौ, यस्मादुद्गीथजातीयत्वाविशेषेण सर्वसंबन्ध:, तस्मादित्यर्थ:॥५३॥

४०८। मन्त्रादिवद्वाऽविरोध: – वाशब्दश्चार्थे। यथा मन्त्रादीनां क्रत्वङ्गभूतानामेकैक-शाखाभिहितानां सर्वशाखासु क्रतोरेकत्वेन सर्वत्र संबन्धो न विरुध्यते तद्वच्चाविरोध:॥५४॥ इति अङ्गावबद्धाधिकरणम् २२

२३

४०९। भूम्न: क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति – वैश्वानरविद्यायां स्वर्लोकादित्यवाय्वाकाश पृथिव्यवयवो वैश्वानरात्मोपास्यश्श्रुत:, तत्र किं व्यस्तस्यैवोपासनं कार्यम्, उत व्यस्तस्य समस्तस्य च, अथ समस्तस्यैवेति संशय:औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन् इत्यादिना स्वर्लोकादिपृथिव्यन्तानां वैश्वानरात्मनो मूर्धादिपादान्तावयवत्वमभिधाय, तत्र तत्र व्यस्तस्यैवोपासनं फलं च विहितमिति पश्चात्, यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते इति पूर्वोक्तस्य समासेनोपसंहार इति युक्तम्। अतो व्यस्तस्यैवोपासनं कार्यमिति प्रथम: पक्ष:। समस्तोपासनस्य, सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति, इति व्यस्तोपासनफलेभ्य: फलान्तरविधानात् व्यस्तस्य समस्तस्य चोपासनं कार्यमिति द्वितीय: पक्ष:। राद्धान्तस्तु – आत्मानं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि, इत्यारभ्य वैश्वानरात्मनस्स्वर्लोकादि पृथिव्यन्तानां मूर्धादिपादान्तावयवत्वमभिधाय, यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते सर्वेषु लोकेषु, इत्युपसंहारादेकस्यैव वैश्वानरात्मन: त्रैलोक्यशरीरस्य परस्य ब्रह्मण: उपासनं विधाय, फलं च, सर्वेष्वात्मस्वन्नमत्ति इति, तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मान: प्रदूयन्त, इति च सर्वेषामात्मनामविशेषेण भोग्यभूतं परं ब्रह्मानुभवति, तद्विरोधिनश्च सर्वपाप्मन: दहतीत्युक्तमिति गम्यते, अत एकवाक्यत्वात्समस्तस्यैवोपासनं कार्यम्, व्यस्तवादस्तु स्वर्लोकादीनां मूर्धाद्ययवत्वज्ञापनर्थ:, तत्र तत्र च फलवाद: वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपाल: भवति, इत्यादिवद्द्रष्टव्य:, सूत्रार्थस्तु – भूम्नो ज्यायस्त्वम् -समस्तोपासनस्य श्रैष्ठ्यम्। प्रामाणिकत्वमित्यर्थ:, एकवाक्यत्वावगते: व्यस्तवाद: क्रतुवद्द्रष्टव्य:, वैश्वानरं द्वादशकपालं निर्वपेत्यदष्टाकपाल:, इत्यादि: क्रताविवेत्यर्थ:, तथा हि दर्शयति – समस्तोपासनस्य ज्यायस्त्वमेव दर्शयति श्रुति:, मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य:, इत्यादिना व्यस्तोपासनेष्वनर्थं ब्रुवती ॥५६  इति भूम्नज्यायस्त्वाधिकरणम् २३

२४

            ४१०। नाना शब्दादिभेदात् – सद्विद्यादहरविद्याशाण्डिल्यविद्याभूमविद्यादिका: ब्रह्मोपासनरूपा: ब्रह्मप्राप्तिफला: किमेकविद्या, उत नानेति संशय:। उपास्यस्य ब्रह्मण: फलस्य चैकत्वात्, वेद, उपासीत इति च पर्यायत्वादेकविद्येति पूर्व: पक्ष:। ब्रह्मण एकत्वेऽपि जगदेककारणत्वापहतपाप्म- त्वाद्यनुबन्धभेदहेतुभि: पूर्वकाण्डोदितानुबन्धभेदहेतुभिः शब्दान्त-रादिभिरेव अनुबन्धभेदान्नानाभूता इति राद्धान्त:। शब्दान्तरादिभिस्तत्रोदितैरेव विद्याभेदसिद्धावपीह पुनर्वचनं ब्रह्मप्राप्तिहेतुभूतं वेदान्तोदितं ज्ञानमविधेयमिति कुदृष्टिनिरासार्थम्।

सूत्रार्थस्तु – सद्विद्याभूमविद्यादिका नानाभूता:, ब्रह्मण एकत्वेऽपि सद्भूमापहतपाप्मादिशब्दभेदात्, आदिशब्दात् अभ्याससङ्ख्यागुणप्रक्रियानामधेयानि गृह्यन्ते॥५७॥ इति शब्दादिभेदाधिकरणम्॥

२५

४११। विकल्पोऽविशिष्टफलत्वात् – सद्विद्याभूमविद्यादिकानां ब्रह्मप्राप्तिफलानां एकस्मिन् पुरुषे समुच्चयोऽपि (सं)भवति, नेति संशय:। अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनां स्वर्गैकफलानां तत्र भूयस्त्वापेक्षया यथैकस्मिन्पुरुषे समुच्चयो दृश्यते। तथाऽत्रापि ब्रह्मानुभवभूयस्त्वापेक्षयैकस्मिन् पुरुषे समुच्चयस्संभवतीति पूर्व: पक्ष:। देशत: कालतस्स्वरूपतश्चानवच्छिन्नानन्दस्वरूपब्रह्मानुभवस्सर्वासां परविद्यानां फलम्। तच्चैकया विद्ययाऽवाप्तमित्येकस्मिन्पुरुषे विद्यान्तरसमुच्चय: प्रयोजनाभावान्न संभवतीति सर्वासां विकल्प: इति राद्धान्त:। सूत्रमपि व्याख्यातम्॥५८॥

४१२। काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात – ब्रह्मप्राप्तिव्यतिरिक्तफला विद्या: काम्या:, तास्तु यथाकामं (यथेष्टं) समुच्चीयेरन्। विकल्प्येरन्वा, पूर्वहेत्वभावात्- तत्फलस्यापरिमितत्वाभावात्। भूयस्त्वापेक्षया समुच्चयस्संभवतीत्यर्थ:॥५९॥ इति विकल्पाधिकरणम्॥२५॥

२६

४१३। अङ्गेषु यथाश्रयभाव: – कर्माङ्गाश्रयाणामुद्गीथाद्युपासनानां गोदोहनादि वदधिकारान्तरत्वेनोपादानानियम: पूर्वोक्तस्संभवति, नेति संशय:। न संभवतीति पूर्व: पक्ष:उद्गीथमुपासीत इत्युपासनविधौ फलान्तराश्रवणात्, उद्गीथसंबन्धावगतक्रत्वङ्गभावाविरोधात् । एवं विधिवाक्येनैव क्रत्वङ्गभावेऽवगते सति, यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति तेनेभौ कुरुत: इति च वर्तमाननिर्देश:, न स पापं श्लोकं शृणोति इतिवदर्थवादमात्रं स्यात्। राद्धान्तस्तु – यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति विद्याया: क्रतुवीर्यवत्तरत्वं प्रति साक्षात्साधनभावोऽवगम्यते, एवं फलसाधनतयाऽवगता विद्या किमाश्रित्य फलं करोतीत्यपेक्षायाम्, ओमित्येतदक्षरमुद्गीथमुपासीत, इत्युद्गीथमाश्रित्य कुर्यादिति क्रत्वङ्गभूतोद्गीथाश्रयत्वमात्रं प्रतीयते। अत: फलान्तरसाधनतयाऽवगतस्य क्रत्वङ्गभावो नोपपद्यत इति गोदोहनादितुल्यतया उपादानानियमस्सिध्यत्येव, यस्य पर्णमयी जुहूर्भवति पापं श्लोकं शृणोति इत्यत्र तु पर्णताया जुहूसंबन्धात्प्रागपापश्लोकश्रवणं प्रति साक्षात्साधनभावो न श्रूयते। पर्णतासंबन्धिपुरुषसंबन्धमात्रं श्रुतम्। तत्तु, पर्णमयी जुहू: इति श्रुत्यैव प्रथमावगतक्रत्वङ्गभावं न निरुणद्धीत्यर्थवादमात्रमिति विशेष:। सूत्रार्थस्तु – अङ्गेषु – उद्गीथादिषु आश्रितानामुपासनानां यथाश्रयभाव: – उद्गीथादिवदङ्गभाव:, गोदोहनादिवत् तस्मिन्वाक्ये फलसंबन्धाश्रवणादङ्गभावो न विरुध्यत इत्यर्थ:॥५९॥

४१४। शिष्टेश्च – शिष्टि: – शासनम्, विधानम्। उद्गीथमुपासीत इति विधानाच्च वर्तमाननिर्देशावगतफलसंबन्धात् प्रागेवोद्गीथसंबन्धोऽवगत इति तदङ्गभावो न विरुध्यते, अत उपादाननियम:॥६०॥

४१५। समाहारात् – इतश्च, होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति, इत्युद्गीथवेदनहानौ अन्येन समाधानं ब्रुवत् वेदनस्योपादाननियमं दर्शयति । दुरुद्गीथं – वेदनहीनमुद्गीथम्॥६१॥

४१६। गुणसाधारण्यश्रुतेश्च – इतश्चोपादाननियमोऽवगम्यते, प्रणवगुणत्वेनावगतस्य उपासनस्य साधारण्यं हि श्रूयते, तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति इति तेनेति प्रकृतपरामर्शात्सोपासन एव प्रणवस्सर्वत्र सञ्चरति, अत: प्रणवसहभावनियमदर्शनादुपादाननियमो निश्चीयते॥६२॥

४१७। वा तत्सहभावाश्रुते: – नवोपादाननियम:, तत्सहभावाश्रुते: – क्रत्वङ्गभावाश्रुते: इत्यर्थ:, क्रत्वङ्गभावो हि सहभाव:, यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति वीर्यवत्तरत्व- साधनतयाऽवगताया विद्याया: क्रत्वङ्गतया विनियोगासंभवात् तदङ्गभावो हि न श्रूयते, यत्र साक्षात्फलसाधनत्वं प्रतिपाद्यते तत्र फलसाधनत्वं प्रथमं प्रतीयत इति तस्य क्रत्वङ्गतया विनियोगो न संभवतीत्यभिप्राय:॥६३॥

४१८। दर्शनाच्चएवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति इति ब्रह्मणो वेदनेन यज्ञस्य यजमानस्य ऋत्विजां च रक्षणं ब्रुवत्यन्येषां वेदनाभावं दर्शयति, तच्चोद्गीथोपासनस्य अनङ्गत्वे सत्येवोपपद्यते, अतश्चोपादानानियम:॥६४॥ इति यथाश्रयभावाधिकरणम्॥२६॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीस्याध्यायस्य तृतीय: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.