वेदान्तदीप:
॥ अथ तृतीयाध्याये चतुर्थ: पाद:॥
३–४–१
४१९। पुरुषार्थोऽतश्शब्दादिति बादरायण: – किं विद्यात: पुरुषार्थ:, उत कर्मण इति संशय:। कर्मण इति पूर्व: पक्ष:; कर्मङ्गत्वाद्विद्याया:। कर्मसु कर्तृभूतप्रत्यगात्मनो याथात्म्यप्रतिपादन-पराणि वेदान्तवाक्यानि। विद्याया: कर्माङ्गत्वं च। यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति श्रुत्यैवावगम्यते। न च प्रकृतोद्गीथोपासनविषयत्वमस्य वक्तुं शक्यते, यदेव विद्यया करोति इति श्रुत्यैव सर्वकर्मसु विद्याया विनियुक्तत्वात्। श्रुतिश्च प्रकरणाद्बलीयसी। विद्याया: कर्माङ्गत्वं कथमित्यपेक्षायां तत्त्वमसि, अयमात्मा ब्रह्म इति सामानाधिकरण्येन कर्माङ्गभूतकर्तृयाथात्म्य-अनुसन्धानद्वारेण विद्याया: कर्माङ्गत्वमित्यवगम्यते। अत: कर्तृसंस्काररूपत्वाद्ब्रह्मविद्याया: कर्मण एव पुरुषार्थ:। तत्र तत्र फलश्रुतिरर्थवादस्स्यात्। विद्याया: कर्माङ्गत्वे भूयांसि लिङ्गानि च दृश्यन्ते सर्ववेदान्तेषु। राद्धान्तस्तु – कर्मसु कर्तु: प्रत्यगात्मनोऽर्थान्तरभूतस्य स्वसङ्कल्पकृत-जगदुदयविभवलयलीलस्य निखिलहेयप्रत्यनीककल्याणैकतानानन्तज्ञानानन्दैकस्वरूपस्य सर्वेश्वरस्य सत्यसङ्कल्पस्य करणाधिपरूपप्रत्यगात्माधिपस्य वेद्यस्य वेदनरूपाया विद्याया: ब्रह्मविदाप्नोति परम् इत्यादिषु ब्रह्मप्राप्तिरूपफलोपदेशात् विद्यात एव फलम्। यदेव विद्यया करोति इति श्रुति: प्रसिद्धवन्निर्देशात्; प्रसिद्धिश्च प्रकृतोद्गीथोपासनस्यैवेति, प्रस्तुतोद्गीथोपासनविशेषनिष्ठा। तत्त्वमसि इति सामानाधिकरण्यं च तच्छब्दनिर्दिष्टस्य स्वसङ्कल्पकृत- जगज्जन्मस्थितिध्वंसादिकस्य परस्य ब्रह्मणो न जीवस्वरूपत्वपरम्; अपि तु जगत्कारणस्य ब्रह्मणो जीवशरीरकतया जीवस्यात्मत्वपरमिति। अधिकं तु भेदनिर्देशात् इत्यादिषूक्तम्। य आत्मनि तिष्ठन् यस्यात्मा शरीरम् इति च प्रत्यगात्मन आत्मत्वं परस्य ब्रह्मण: श्रुत्यन्तरे व्यक्तम्। सूत्रार्थस्तु – पुरुषार्थोऽतः – विद्यात:; कुत:? ब्रह्मविदाप्नोति परम् इत्यादिशब्दात्॥१॥
४२०। शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: – तत्त्वमसि इत्यादिसामानाधिकरण्येन ब्रह्मण: कर्मसु कर्तृस्वरूपत्वावगमाद्विद्याया: कर्तृसंस्कारद्वारेण कर्मशेषत्वात्तत्र पुरुषार्थवादः अर्थवादमात्रम्; यथा अन्येषु द्रव्यसंस्कारादिष्विति जैमिनिराचार्यो मन्यते॥२॥
४२१। आचारदर्शनात् – इतश्च विद्या कर्माङ्गम्। ब्रह्मविदामाचारो हि कर्मप्रधानो दृश्यते। यथाऽश्वपति: केकयो ब्रह्मविदग्रेसर: यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि इत्याह। कर्मणैव हि संसिद्धिमास्थिता जनकादय: इति च स्मर्यते॥३॥
लिङ्गमिदम्; प्राप्तिरुच्यतामित्यत्राह –
४२२। तच्छ्रुते: – यदेव विद्यया करोति इत्यादिकायाश्श्रुतेर्विद्याया: कर्माङ्गत्वमवगम्यते। न च दुर्बलेन प्रकरणेन श्रुतिर्विद्याविशेषोद्गीथविषयोपासने व्यवस्थाप्यते॥४॥
४२३। समन्वारम्भणात् – तं विद्याकर्मणी समन्वारभेते इति विद्याकर्मणोरेकस्मिन्पुरुषे साहित्यं च विद्याया: कर्माङ्गत्वे हि भवति॥५॥
४२४। तद्वतो विधानात् – विद्यावत: कर्मविधानाच्च विद्या कर्माङ्गम्। आचार्यकुलाद्वेदमधीत्य यथा विधानं गुरो: कर्मातिशेषेणाभिसमावर्त्य कुटुम्बे इत्यादिनाऽध्ययनवत: कर्माणि विदधदर्थावबोध- पर्यन्तत्वादध्ययनस्य विद्यावत एव कर्माणि विदधातीत्यवगम्यते॥६॥
४२५। नियमात् – कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: इत्यात्मविदामायुष: कर्मसु नियमदर्शनाच्च कर्मण एव पुरुषार्थ:। न विद्यात इत्यवगम्यते। अतश्च विद्या कर्माङ्गम्॥७॥
४२६। अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् – तुशब्दात्पक्षो व्यावृत्त:। बादरायणस्यैवं-विद्यात: फलमिति मतम्; कुत:? अधिकोपदेशात् – कर्मसु कर्तु: प्रत्यगात्मनोऽधिकस्य – अर्थान्तरभूतस्य वेद्यस्य वेदनभूतविद्याया: फलसाधनत्वोपदेशात्। तद्दर्शनात् – दृश्यते हि वेदान्तवाक्येऽधिकविषयत्वं विद्याया:। एवमेव हि तदैक्षत बहु स्यां प्रजायेय इति, सोऽकामयत बहु स्यां प्रजायेय इत्यादिषु बहुभवनसङ्कल्पपूर्वकसृष्ट्यादे: कर्तुस्सर्वेश्वरस्य करणाधिपाधिपस्य अनवधिकातिशयज्ञानानन्दैकस्वरूपस्य निखिलहेयप्रत्यनीकस्य वेद्यस्य विद्या ब्रह्मप्राप्तिफलाय विधीयते॥८॥
४२७। तुल्यं तु दर्शनम् – विद्याया: प्रधानत्वेऽपि ब्रह्मविदामाचारदर्शनं तुल्यम्- कर्मणामनाचारदर्शनमप्यस्तीत्यर्थ:। ऋषय: कावषेया: किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे इत्यादौ। कर्मानुष्ठानदर्शनं तु फलाभिसन्धिरहितस्य कर्मणो विद्याङ्गत्वात्; त्यागस्तु फलाभिसन्धियुक्तस्य विद्याविरोधित्वादित्यभिप्राय:॥९॥
४२८। असार्वत्रिकी – यदेव विद्यया करोति इति श्रुति: सर्वविद्याया: कर्माङ्गत्वं विदधातीति एतदसङ्गतम्; अत्र विद्याशब्दाभिहिता तु न सार्वत्रिकी, अपि तूद्गीथविद्या यत्करोति, तद्विद्यया इति नैवं पदान्वय:; अपि तु यदेव विद्यया करोति, तदेव वीर्यवत्तरम् इति। विद्यया क्रियमाणस्यान्य तोऽवगतस्य वीर्यवत्तरत्वं प्रतिसाधनभावोऽवगम्यते, यदेवेति प्रसिद्धवन्निर्देशात्। अन्यतोऽवगतिर्हि। उद्गीथमुपासीत इति ।। सन्निहितोद्गीथविद्याया:॥१०॥
४२९। विभागश्शतवत् – तं विद्याकर्मणी समन्वारभेते इत्यत्र विद्या च स्वस्मै फलाय, कर्म च स्वस्मै फलायान्वारभत इति विभागो द्रष्टव्य:, यतो विद्याकर्मणोर्भिन्नफलत्वमुक्तम्। शतवत् – यथा क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्ते, क्षेत्रार्थं शतम्, रत्नार्थं शतमिति विभागोऽवगम्यते, तद्वत्॥११॥
४३०। अध्ययनमात्रवत: – वेदमधीत्य इत्यध्ययनमात्रवत एव कर्मविधानात् अनेन विद्याया न कर्माङ्गत्वमवगतम्। अध्ययनविधिर्ह्याधानवन्नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति; गृहीतस्य स्वाध्यायस्य फलवदर्थावबोधित्वदर्शनात्तन्निर्णयफलमीमांसाश्रवणे अधीतवेद: पुरुषस्स्वयमेव प्रवर्तते। अर्थावबोधपर्यन्तत्वेऽप्यर्थज्ञानादर्थान्तरभूता स्मृतिप्रत्ययावृत्तिरूपा, विद्यात्, उपासीत इति शास्त्रविहिता विद्या न कर्माङ्गम्॥१२॥
४३१। नाविशेषात् – कुर्वन्नेवेह कर्माणि इति ब्रह्मविदामायुष: कर्मणि नियमो दृश्यत इत्येतन्न संभवति, अविशेषात् – विदुष एवेति विशेषाभावात्किमित्यविदुषो न स्यात्? विदुषस्त्वाप्रयाणात् उपासनानुवृत्तिदर्शनादर्थस्वभावात् विदुष एवेत्यभिप्राय:॥१३॥
४३२। स्तुतयेऽनुमतिर्वा – वाशब्दोऽवधारणे। ईशावास्यमिदं सर्वम् इति विद्याप्रकरणात् विद्यास्तुतये कर्मानुमतिरेव। विद्यामाहात्म्यात्सर्वदा कर्माणि कुर्वन्नपि तैर्न लिप्यत इति हि स्तुता भवति विद्या। वाक्यशेषे च न कर्म लिप्यते नरे इति श्रूयते॥१४॥
४३३। कामकारेण चैके – एके शाखिन: कामकारेण च विद्यानिष्ठस्य गार्हास्थ्यत्यागमधीयते। किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक: इति गार्हास्थ्यकर्मत्यागं ब्रुवद्वाक्यं विद्याप्रधानमिति दर्शयति॥१५॥
४३४। उपमर्दं च – विद्यया सर्वकर्मोपमर्दं चाधीयते। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति; तद्विद्याया: कर्माङ्गत्वे न संगच्छते॥१६॥
४३५। ऊर्ध्वरेतस्सु च शब्दे हि – ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात्तेषु चाग्निहोत्रादि कर्माभावान्न विद्या कर्माङ्गम्। ते चात्राश्रमास्सन्त्येव; यतो वैदिके शब्दे तेऽपि दृश्यन्ते। त्रयो धर्मस्कन्धा यज्ञोद्मध्ययनं दानम् इति, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, एतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्ति इत्यादौ। यावज्जीवमग्निहोत्रम् इत्यादिका तु श्रुतिरविरक्तविषया॥१७॥
४३६। परामर्शं जैमिनिरचोदनाच्चापवदति हि – त्रयो धर्मंस्कन्धा: इत्यादिषु तेषामाश्रमाणामचोदनात् – अविधानात् उपासनास्तुत्यर्थं परामर्शम् – अनुवादं जैमिनिराचार्यो मन्यते। अपि च अपवदति हि श्रुतिराश्रमान्तरम्। वीरहा वा एष देवानां योऽग्निमुद्वासयत इत्यादिका। अतस्ते न सन्त्येव॥१८॥
४३७। अनुष्ठेयं बादरायणस्साम्यश्रुते: – गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् बादरायणो मन्यते; कुत:? तस्यापि तत्साम्यश्रुते:- त्रयो धर्मस्कन्धा: इत्येवमादौ हि सर्वेषामाश्रमाणामेकरूपं संकीर्तनम्।१९॥
४३८। विधिर्वा धारणवत् – वाशब्दोऽवधारणे। सर्वेषामाश्रमाणां विधिरेवायम्। धारणवत् – यथा अधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयति इत्यनुवादरूपेऽप्युपरिधारणस्य अप्राप्तत्वेन विधिराश्रीयते; एवमिहाश्रमाणामपि। अत: ऊर्ध्वरेतस्स्वपि विद्यादर्शनाद्विद्यात: पुरुषार्थ इति॥२०॥ इति पुरुषार्थाधिकरणम् ॥ १ ॥
३–४–२
४३९। स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ।
४४०। भावशब्दाच्च – ओमित्येतदक्षरमुद्गीथमुपासीत, स एष रसानां रसतम: परम: परार्थ्योऽष्टमो यदुद्गीथ: इत्येतज्जातीयके किं कर्माङ्गाश्रयाणां दृष्टिविशेषाणां विधिरास्थेय:, उतोद्गीथादिस्तुतिमात्रमिति संशय:। विधित्वे सिद्धे हि गोदोहनादिवद्भवति; विधित्वमेव न संभवतीति पूर्व:पक्ष:। इयमेव जुहूस्सवर्गो लोक आहवनीय: इतिवत् कर्माङ्गभूतोद्गीथादिसंबन्धितया उपादानाद्रसतमत्वादे: तत्स्तुतिमात्रत्वमेव; न रसतमत्वादिदृष्टिविधि:। राद्धान्तस्तु – जुह्वादिविधिवत उद्गीथादिविधेरत्रासन्निधानात्, रसतमत्वादेरप्राप्तत्वाच्च, उपासीतेति विधिप्रत्ययेन च, न स्तुतिमात्रम्, तद्दृष्टिविधिरेव। सूत्रद्वयं व्याख्यातम्॥२१,२२॥ इति स्तुतिमात्राधिकरणम् ॥ २ ॥
३–४–३
४४१। पारिप्लवार्था इति चेन्न विशेषितत्वात् ।
४४२। तथा चैकवाक्योपबन्धात् – प्रतर्दनो ह वै दैवोदासि: इत्यादयो वेदान्तेष्वाख्यानविशेषा: किं पारिप्लवप्रयोगार्था:, उत तत्र तत्र विद्याविशेषप्रतिपादनार्था: इति संशय:। आख्यानानि शंसन्ति इति पारिप्लवे विनियोगात्तदर्था: इति पूर्व: पक्ष:। राद्धान्तस्तु – आख्यानानि शंसन्ति इत्युक्त्वा मनु र्वैवस्वतो राजा इति मन्वाद्याख्याने विनियोगस्य विशेषितत्वात्, तं मामायुरमृत मित्युपास्स्व, आत्मा वा अरे द्रष्टव्य: इत्यादिविधिनैकवाक्यत्वाच्च, सोऽरोदीत् इत्यादिवद्विद्याविध्यर्था एव। सूत्रद्वयं व्याख्यातम्॥२३,२४॥ इति पारिप्लवाधिकरणम् ॥ ३ ॥
३–४–४
४४३। अत एव चाग्नीन्धनाद्यनपेक्षा – ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्या संभवति, नेति संशय:। यज्ञाद्यभावात्तेषां तदङ्गिका विद्या न संभवतीति पूर्व: पक्ष:। राद्धान्तस्तु – यदिच्छन्तो ब्रह्मचर्यं चरन्ति, एतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्ति इत्यादिश्रुतेः । तेषां विद्यावत्त्वावगमात्तेषु अग्निहोत्राद्यनपेक्षा विद्येति निश्चीयते। सूत्रार्थस्तु – अतएव – विद्यावत्त्वश्रुतेरेव, आधानाद्यनपेक्षा तेषु विद्या। अग्नीन्धनं हि अग्न्याधानम्॥२५॥ इति अग्नीन्धनाद्यधिकरणम् ॥ ४ ॥
३–४–५
४४४। सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् – कर्मवत्सु गृहस्थेषु किं यज्ञादिकर्मापेक्षा विद्या, उत तत्रापि केवलैवेति संशय:। ऊर्ध्वरेतस्सु यज्ञाद्यनपेक्षैवामृतत्वं साधयति चेत्; कर्मनिरपेक्षाया विद्याया एव साधनत्वमभ्युपगमनीयम्। तथा सति गृहस्थेष्वपि तन्निरपेक्षैव साधयितुं समर्थेति पूर्व: पक्ष:। न हि स्वर्गादिसाधनभूतमग्निहोत्रादिकर्म पुरुषभेदेन नानाविधाङ्गकं दृष्टम्। विविदिषन्तीति शब्दोऽपि वेदनेच्छायां कर्माणि विनियुङ्क्ते, न विद्यायाम्। राद्धान्तस्तु – कर्मवत्सु गृहस्थेषु यज्ञादि सर्वकर्मापेक्षा विद्या; कुत:? यज्ञादि श्रुते:- तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इति हि यज्ञादयो विद्याङ्गत्वेन विनियुज्यन्ते। अतो गृहस्थेषु कर्मापेक्षा विद्या। इच्छाया इष्यमाणप्रधानत्वात् विविदिषन्तीतीष्यमाणं ज्ञानम् एवेत्यवगम्यते। यथा गमनसाधनभूतोऽश्व: स्वपरिकरबन्धरूपपरिकर्मापेक्ष:; एवं मोक्षसाधनभूता विद्यापि नित्यनैमित्तिक-परिकर्मापेक्षा। ऊर्ध्वरेतस्सु च स्वाश्रमविहितं कर्मैव परिकर्म भवतीति तेष्वपि विद्यासंबन्धश्शास्त्रात् अवगम्यते। शास्त्रैकसमधिगम्ये हि यथाशास्त्रमभ्युपगमनीयम्। सूत्रमपि व्याख्यातम्॥२६॥ इति सर्वापेक्षाधिकरणम् ॥ ५ ॥
३–४–६
४४५। शमदमाद्युपेतस्स्यात् तथाऽपि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात्-किं, विद्यानिर्वृत्तये गृहस्थैश्शमदमादय उपादेया:, उत नेति संशय:। गृहस्थानामान्तर- बाह्यकरणव्यापाररूप-कर्माङ्गकत्वाद्विद्याया:, तद्विपरीतरूपशमदमाद्युपादानासामर्थ्यात् ऊर्ध्वरेतस्सु कर्मरहितेषु शमादिविनियोगो भविष्यति, यथा यज्ञादिविनियोग: कर्मवत्सु गृहस्थेषु। तस्मादनुपादेयाश्शमादय इति पूर्व: पक्ष:। राद्धान्तस्तु – तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत् इति सामान्येन विद्याङ्गतया विनियोगात् गृहस्थैरप्युपादेया:। न च कर्मवतां तेषां शमाद्युपादानासामर्थ्यम्, भिन्नविषयत्वाच्छमादे:। विहितेषु हि कर्मसु करणव्यापार:, अविहितेषु प्रयोजनशून्येषु च शमदमादय:। अतश्शमादिविनियोगो यज्ञादिविनियोगवन्न सङ्कोचमर्हातीति। सूत्रार्थस्तु – यद्यपि गृहस्थो यज्ञादिकर्मसु विनियुक्त:, तथापि तु शमदमाद्युपेतस्स्यात्, कुत:? शान्तो दान्त: इत्यादिना तद्विधे: तदङ्गतया विद्याङ्गतया विद्यानिष्पत्तये तेषामवश्यानुष्ठेयत्वाच्च। एकाग्रता निष्पाद्यत्वाच्छमदमादिभिरेव विद्यानिष्पत्तिः इत्यर्थ:। यज्ञादिकर्माण्यपि पापनिबर्हाणद्वारेणैकाग्रताम् आपादयन्तीत्यभिप्राय:॥२७॥ इति शमादमाद्यधिकरणम् ॥ ६ ॥
३–४–७
४४६। सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् – वाजिनां छन्दोगानां च प्राणविद्यायां न ह वा एवंविदि किञ्चनान्नं भवति इति सर्वान्नानुमतिस्सङ्कीर्त्यते। किं प्राणविदस्सर्वान्नानुमतिस्सर्वदा, उत प्राणात्ययापत्ताविति संशय:। अविशेषात्सर्वदेति पूर्व: पक्ष:। अतिशयितशक्तेर्ब्रह्म- विदोऽप्युच्छिष्टपरिग्रहणभक्षणयो: प्राणात्ययापत्तावेव दर्शनादल्पशक्ते: प्राणविद: किं पुनरिति प्राणात्ययापत्तावेवेति राद्धान्त:। सूत्रार्थस्तु – चशब्दोऽवधारणे; प्राणविदस्सर्वान्नानुमति: प्राणात्यय एव, कुत:? तद्दर्शनात् – अतिशयितशक्तेर्ब्रह्मविद: प्राणात्यय एव सर्वान्नानुमतिदर्शनात्॥ २८॥
४४७। अबाधाच्च – आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृति: इत्याहारशुद्धिविधे: अबाधाच्च प्राणात्यय एव॥२९॥
४४८। अपि स्मर्यते – प्राणसंशयमापन्नो योऽन्नमत्ति यतस्तत:। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा। इति प्राणसंशय एव सर्वान्नानुमति: स्मर्यते च॥३०॥
४४९। शब्दश्चातोऽकामकारे – यतस्सर्वान्नानुमति: प्राणात्यये, अतोऽकामकारे शब्दश्च- कामकारस्य प्रतिषेधकशब्दश्चोपपद्यत इत्यर्थ:। अस्ति हि कठानां कामकारस्यप्रतिषेधकश्शब्द:। तस्माद्ब्राह्मणस्सुरां न पिबति पाप्मना नोत्सृजा इति। पाप्मना संस्पृष्टो न भवानीति मत्वा सुरां न पिबतीत्यर्थ:॥३१॥ इति सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥
३–४–८
४५०। विहितत्वाच्चाऽऽश्रमकर्मापि – किं यज्ञादयो विद्याङ्गभूता: केवलाश्रमस्याप्यङ्गभूता:, उत नेति संशय:। केवलाश्रमस्याप्यङ्गत्वे नित्यानित्यसंयोगरूपविरोध: प्रसज्यत इति नाङ्गभूता: केवलाश्रमस्येति पूर्व: पक्ष:। राद्धान्तस्तु – यदैकेनैव विनियोगेनोभयाङ्गत्वमिष्यते, तदा नित्यानित्यसंयोगविरोध: इह तु यावज्जीवमग्निहोत्रं जुहुयात्, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन। इति विनियोगपृथक्त्वेन विरोध: परिह्रियते, यथाऽग्निहोत्रादीनामेव कर्मणाम्। जीवनाधिकार कामनाधिकारयोरिवाधिकारभेदस्यास्फुटत्वात्तत्स्फुटी करणाय पुनरिह चिन्त्यते। सूत्रार्थस्तु – द्व यावज्जीवमग्निहोत्रं जुहुयात् इत्यादिना केवल गृहस्थाश्रमिणो जीवननिमित्ततया विहितत्वादेव यज्ञादि केवलाश्रमकर्मापि॥३२॥
४५१। सहकारित्वेन च – तमेतं वेदानुवचनेन इत्यादिना विद्यासाधनत्वेन विहितत्वाच्च विद्यासहकारित्वेन चानुष्ठेयं यज्ञादिकर्म। विनियोगपृथक्त्वेन विरोध: परिह्रियत इत्यभिप्राय:॥३३॥
४५२। सर्वथाऽपि त एवोभयलिङ्गात् – सर्वथापि – उभयत्र विनियोगेऽपि त एव यज्ञादय:। कुत:? उभयलिङ्गात् – उभयत्र प्रत्यभिज्ञानाख्यलिङ्गात्॥३४॥
४५३। अनभिभवं च दर्शयति – धर्मेण पापमपनुदति इत्यादिभिश्च यज्ञादिधर्मान्निर्दिश्य तैर्विद्याया: अनभिभवं पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति। अत उभयत्र विनियोगात्केवलाश्रमिणां मुमुक्षूणां चानुष्ठेया यज्ञादय: ॥३५॥ इति विहितत्वाधिकरणम् ॥ ८ ॥
३–४–९
४५४। अन्तरा चापि तु तद्दृष्टे: – विधुरादीनामनाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति, नेति संशय:। आश्रमधर्मेतिकर्तव्यताकत्वाद्विद्याया: तदभावात्तेषामनधिकार इति पूर्व: पक्ष:। राद्धान्तस्तु – ऊर्ध्वरेतस्विव रैक्वादिष्वनाश्रमिषु विद्यानिष्ठत्वदर्शनादाश्रमानियतैर्जपोपवास-दानादिभिरेव तेषां विद्यानुग्रहो भवतीत्यस्त्येवाधिकार:। सूत्रार्थस्तु – तुशब्दात्पक्षो व्यावृत्त:। चशब्दोऽवधारणे। अन्तराऽपि – आश्रमानन्तरा वर्तमानानाम् अनाश्रमिणामप्यधिकारोऽस्त्येव। कुत:? तददृष्टे: – रैक्वादिषु विद्यानिष्ठत्वदृष्टे:॥३६॥
४५५। अपि स्मर्यते – अपि च, अनाश्रमिणामपि जपादिभिरेव विद्यानुग्रह: स्मर्यते। जप्येनापि च संसिध्येद्ब्राह्मणो नात्र संशय: इत्यादिना॥३७॥
४५६। विशेषानुग्रहश्च – आश्रमानियतधर्मविशेषेण विद्यानुग्रहश्श्रूयते च। तपसा ब्रह्मचर्येण श्रद्धया विद्यया चाऽऽत्मानमन्विच्छेत्। इति॥३८॥
४५७। अतस्त्वितरज्ज्यायो लिङ्गाच्च – अत: – अनाश्रमित्वात्, इतरत् – आश्रमित्वं ज्याय:, धर्मभूयस्त्वात्, लिङ्गाच्च-स्मृतेश्चेत्यर्थ:। अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विज:। इति हि स्मर्यते। तस्मादनाश्रमित्वेन विद्यानिष्ठत्वमापद्विषयमित्यभिप्राय:॥३९॥ इति विधुराधिकरणम् ॥९॥
३–४–१०
४५८। तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्य: – नैष्ठिकवैखानस-परिव्राजकानां स्वाश्रमेभ्य: प्रच्युतानामपि विद्याधिकारोऽस्ति, नेति संशय:। विधुरादिवत् जपादिभिरनुग्रहसंभवादस्त्येवाधिकार इति पूर्व: पक्ष:। राद्धान्तस्तु – नैष्ठिकादीनां स्वाश्रमभ्रष्टानां प्रायश्चित्ताभावस्मरणात् शिष्टबहिष्कृतत्वाच्च तेषामनधिकार: इति। सूत्रार्थस्तु – तद्भूतस्य तु नातद्भाव: – नैष्ठिकादिभूतस्य अतथाभावो न संभवति, कुत:? तद्रूपाभावेभ्यश्शास्त्रैर्नियमात्, तद्रूपाभावा: – नैष्ठिकाद्याश्रमधर्माभावा:, तेभ्यो नियच्छन्ति हि शास्त्राणि। ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् इति नैष्ठिकस्य तत्रैव नियम:, अरण्यमियात्ततो न पुनरेयात् इति च वैखानसस्य, संन्यस्याग्निं न पुनरावर्तयेत् इति च परिव्राजकस्य। अत एव तेषामनाश्रमित्वेनावस्थानाभावाद्विद्याधिकारो न संभवति। जैमिनेरप्यविगीतोऽयम्॥४०॥
४५९। न चाधिकारिकमपि पतनानुमानात्तदयोगात् – आधिकारिकम् – अधिकारलक्षणोक्तम्। अवकीर्णिपशुश्च तद्वत् इत्येतत्प्रायश्चित्तं नैष्ठिकस्य न संभवति। कुत:? पतनानुमानान्नैष्ठिकस्य तदयोगात्। तस्य हि पतनं स्मर्यते प्रायश्चित्ताभाववचनेन, आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विज:। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा। इति। अत उपकुर्वाणब्रह्मचारि विषयमाधिकारिकम्॥ ४१॥
४६०। उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् – एके प्रायश्चित्तभावमपि मन्यन्ते, यत उपपूर्वम्- उपपातकमिदम्, अशनवत् – मध्वशनादिनिषेधतत्प्रायश्चित्तवद्भवतीत्यर्थ:। अत उपकुर्वाणस्य ब्रह्मचारिण: उक्तमाधिकारिकमस्यापि भवतीति। तदुक्तं स्मृतिकारै:। उत्तरेषां चैतदविरोधि इति। उपकुर्वाणो ब्रह्मचारिण्युक्तो धर्म उत्तरेषां चाश्रमिणां स्वाश्रमाविरोधी भवत्येवेत्यर्थ:॥४२॥
४६१। बहिस्तूभयधाऽपि स्मृतेराचाराच्च – उभयधाऽपि – उपपातकत्वे महापातकत्वेऽपि नैष्ठिकात्प्रच्युतो बहिर्भूत: कर्माधिकारात्, प्रायश्चितं न पश्यामि इति स्मृते:, आचाराच्च – वर्जयन्ति ह्येनं शिष्टा विद्योपदेशादौ। यद्यपि कल्मषनिबर्हाणाय कैश्चित्प्रायश्चित्तमुच्यते, तथापि कर्माधिकारापादिनी शुद्धिस्तेषां न संभवतीत्यभिप्राय:॥४३॥ इति तद्भूताधिकरणम् ॥१०॥
३–४–११
४६२। स्वामिन: फलश्रुतेरित्यात्रेय: – उद्गीथाद्युपासनं किं यजमानेनानुष्ठेयम्, उत ऋत्विजेति संशय:। यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति क्रतुवीर्यवत्तरत्वफलं यजमानस्येति दहरोपासनादिवद्यजमानेनानुष्ठेयमिति पूर्व: पक्ष:। कर्माङ्गाश्रयत्वादस्योपासनस्य कर्मणश्चार्त्विज्यत्वेनैतदपि ऋत्विजाऽनुष्ठेयं, गोदोहनदिवदिति राद्धान्त:। सूत्रार्थस्तु – स्वामिन: यजमानस्योद्गीथाद्युपासनेकर्तृत्वम्, कुत:? तस्यैव फलश्रुतेरित्यात्रेयो मन्यते॥४४॥
४६३। आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते – क्रत्वङ्गाश्रयत्वेन क्रत्वधिकृतस्यैवास्मिन् उपासनेऽधिकारात् क्रतोश्चार्त्विज्यत्वेन नैतदप्यार्त्विज्यमित्यौडुलोमिराचार्यो मन्यते, यजमानफल-साधनत्वेऽपि क्रतोस्तदनुष्ठानाय हि ऋत्विक्परिक्रियते॥४५॥ इति स्वाम्यधिकरणम् ॥ ११ ॥
३–४–१२
४६४। सहकार्यन्तरविधि: पक्षेण तृतीयं तद्वतो विध्यादिवत् – तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनि: इत्यत्र मौनं विद्याङ्गतया विधीयते, उतानूद्यत इति संशय:। मौनस्य मननरूपत्वात्। श्रोतव्यो मन्तव्य: इति च प्राप्तत्वेनानूद्यत इति पूर्व: पक्ष:। राद्धान्तस्तु – मुनिशब्दस्य प्रकृष्टमननशीले प्रसिद्धे:, प्रकृष्टमननं उपास्यविषयाभ्यासरूपं विद्यानिष्पत्तये विधीयत इति। सूत्रार्थस्तु – तद्वत: – विद्यावत:, सहकार्यन्तरं – मौनं विधि:, विधीयत इति विधिरिति मौनं विधिरित्युक्तम्। विध्यादिवत्, अत्रापि विधीयत इति विधि: यज्ञदानप्रभृत्याश्रमधर्म:, आदिशब्दाच्छ्रवणमनने गृह्येते। आश्रमधर्मवच्छ्रवणमननवच्च पाण्डित्यबाल्ययोस्तृतीयमिदं सहकार्यन्तरं मौनमपूर्वं विधीयते, कुत इत्यत आह-पक्षेणेति। मुनिशब्दस्य प्रकृष्टमननयुक्ते पक्षेण- प्रसिद्धेरित्यर्थ:॥४६॥
४६५। कृत्स्नभावात्तु गृहिणोपसंहार: – सर्वाश्रमिणां विद्यावत्त्वेऽपि छान्दोग्ये स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते इति गृहस्थधर्मेणोपसंहार: सर्वाश्रमधर्मप्रदर्शनार्थ:। कुत:? कृत्स्नभावात् – कृत्स्नेषु भावात् – कृत्स्नेष्वाश्रमेषु विद्यायास्सद्भावादित्यर्थ:॥४७॥
४६६। मौनवदितरेषामप्युपदेशात् – अथ मुनि: इत्यस्मिन्वाक्ये अथ भिक्षाचर्यं चरति इति पारिव्राज्यैकान्तधर्मेणोपसंहारोऽपि सर्वाश्रमधर्मप्रदर्शनार्थ:। भिक्षाचर्यमौनादिवदितरेषामाश्रमधर्माणां यज्ञादीनामप्युपदेशात्॥४८॥ इति सहकार्यन्तरविध्यधिकरणम् ॥ १२ ॥
३–४–१३
४६७। अनाविष्कुर्वन्नन्वयात् – तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनि: इत्यत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्, उत विद्यामाहात्म्यानाविष्कार इति संशय:। बाल्येन तिष्ठासेत् इत्यविशेषविधानात्कामचारादिकं सर्वमप्युपादेयमिति पूर्व: पक्ष: । विदुषो विशेषविधानात्, विद्यामाहात्म्याच्च, निषेधशास्त्राणि बाधितानि भवेयुरिति। राद्धान्तस्तु – पाण्डित्यप्रयुक्तस्वमाहात्म्यानाविष्कार एव विद्यान्वययोग्यतयोपादेय:, इतरस्य कामचारादे: नाविरतो दुश्चरितात् इत्यादिशास्त्रैर्विद्योत्पत्ति-विरोधित्वावगमात्। अतो यथा बाल: स्वाभिजनाद्यनाविष्कुर्वन्वर्तते, तथा विद्वान्वर्तेतेत्येतदेव युक्तम्। सूत्रमपि व्याख्यातम्॥४९॥ इति अनाविष्काराधिकरणम् ॥ १३ ॥
३–४–१४
४६८। ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् – मोक्षातिरिक्ताभ्युदयफलमुपासनं किं स्वसाधनभूतपुण्यकर्मानन्तरमेवोत्पद्यते, उतानन्तरमन्यदा वेत्यनियम इति संशय:। साधननिर्वृत्तौ विलम्बहेत्वभावात् अनन्तरमेवेति पूर्व: पक्ष:। राद्धान्तस्तु – अप्रस्तुतप्रबलकर्मान्तरप्रतिबन्धे सत्यनन्तरम्, प्रस्तुते तदुत्तरकालमित्यनियम:। दृश्यते हि प्रबलकर्मान्तरेण फलप्रतिबन्ध:। यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति उद्गीथोपासनस्य क्रतो: कर्मान्तरेण फलाप्रतिबन्ध: फलमिति, पृथग्घ्यप्रतिबन्ध: फलम् इत्यभ्युपगमात्। सूत्रमपि व्याख्यातम्। ऐहिकम् – अभ्युदयफलमित्यर्थ:॥ ५०॥ इति ऐहिकाधिकरणम् ॥ १४ ॥
३–४–१५
४६९। एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: – किं मुक्तिफलान्युपासनानि स्वसाधनभूतातिशयितपुण्यकर्मानन्तरमुत्पद्यन्ते, उत पूर्ववदनियम इति संशय:। मुक्तिफलोपासन-साधनभूतकर्मणां सर्वकर्मभ्यो बलवत्तरत्वेन प्रतिबन्धाभावादनन्तरमेवोत्पद्यत इति पूर्व: पक्ष:। तत्रापि ब्रह्मविदपचारस्य ततोऽपि बलवत्तरत्वेन प्रतिबन्धसंभवादनियम एवेति राद्धान्त:। सूत्रार्थस्तु – मुक्तिफलानामप्येवमनियम:। कुत:? तदवस्थावधृते: – प्रतिबन्धाभावे सति फलावधृते:। द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति॥५१॥ इति मुक्तिफलाधिकरणम् ॥ १५ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीयस्याध्यायस्य चतुर्थ: पाद:
समाप्तश्चाध्याय: