[highlight_content]

वेदान्तदीप: Ady 02 Pada 04

वेदान्तदीप:

॥अथ द्वितीयाध्याये तुर्थ: पाद:

२६९। तथा प्राणा: –  किं जीववदिन्द्रियाण्यपि नोत्पद्यन्ते, उत वियदादिवदुत्पद्यन्त इति संशय:।  नोत्पद्यन्त इति पूर्व: पक्ष:।  प्रलयकाले अवस्थानश्रुते:। उत्पत्तिवादा: जीवोत्पत्तिवादवन्नेया:। असद्वा इदमग्र आसीत्ऋषयो वाव तेऽग्रे सदासीत् के ते ऋषय इति प्राणा वा ऋषय: इतीन्द्रियाणां तदानीं स्थितिश्श्रूयते।  राद्धान्तस्तु – प्राक्सृष्टेरेकत्वावधारणात्, इन्द्रियाणाम्। एतस्माज्जायते इत्युत्पत्तिवादात्, उत्पत्तिनिषेधनित्यत्ववनाभावा, वियदादिवदुत्पद्यन्ते। प्राणा वा ऋषय: इति प्राणशब्दनिर्दिष्ट: परमात्मा।  ऋषय इति तस्यैव द्रष्टृत्वसंभवात्। सूत्रार्थस्तु – तथा प्राणा:- यथा जीवा नोत्पद्यन्ते तथा प्राणा अपि॥१॥

बहुत्वासंभवाद्बहुवनश्रुतिर्गौणीत्याह-

२७०।  गौण्यसंभवात्तत्प्राक्छ्रुतेश्प्राणा वा  इति बहुवनश्रुतिर्गौणी, तदानीं बहुत्वासंभवात्, तस्य परमात्मन एव प्रागवस्थानश्रुतेश्

(अत्र पाठान्तरम्)

स्त्वर्थ:, तुशब्दात्पक्षो व्यावृत्त:।  इन्द्रियाण्युत्पद्यन्त एव।  कुत:? तत्प्राक् श्रुते: – तस्य परमात्मन एव प्रागवस्थानश्रुते: । सदेव सोम्येदमग्र आसीत्। आत्मा वा इदमेक एवाग्र आसीत्, एको हवै नारायण आसीदिति।  प्राणशब्दस्य प्राणमभिसंविशन्ति इति परमात्मन्यपि प्रसिद्धे:, । प्राणा वा ऋषय: इति तस्यैव द्रष्टृत्वसंभवात्॥२॥

२७१।  तत्पूर्वकत्वाद्वा: – इतश्। वा: – परमात्मव्यतिरिक्तनामधेयस्य तत्पूर्वकत्वाद्वियदादि सृष्टिपूर्वकत्वादित्यर्थ:। तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुते:।  अत: परमात्मैव प्राणशब्दनिर्दिष्ट: ॥३॥  इति प्राणोत्पत्त्यधिकरणम्

२७२।  सप्त गतेर्विशेषितत्वा – किमिन्द्रियाणि सप्तैव, उतैकादशेति संशय:।  सप्तैवेति पूर्व: पक्ष:सप्त प्राणा: प्रभवन्ति इत्यादिषु सप्तानामेव जीवेन सह संारश्रवणात्, यदा पञ्ावतिष्ठन्ते ज्ञानानि मनसा सह।  बुद्धिश् इति सप्तानामेव योगकाले ज्ञानानीति विशेषितत्वा; श्रोत्रादीनि ज्ञानेन्द्रियाणि मनो बुद्धिश्ेति सप्तैव।  राद्धान्तस्तु – श्रोत्रादीनि ज्ञानेन्द्रियाणि। वागादीनि कर्मेन्द्रियाणि, मन इत्येकादश। कथम्? वाग्घस्तादीनामपि श्रोत्रादिवत्कार्यभेदेन जीवोपकरणत्वाविशेषात्, दशेमे पुरुषे प्राणा आत्मैकादश, इन्द्रियाणि दशैकं इत्यादिश्रुतिस्मृतिभ्य:।  वागादीनां जीवेन सह गमनाभावात् सप्तानामेव प्रयाणकाले गतिश्रवणम्; योगकाले विशेषितत्वं ज्ञानेन्द्रियाणां मनसस्तद्वृत्तिरूपबुद्धेश् प्राधान्यात्।  सूत्रार्थस्तु – सप्तगतेर्विशेषितत्वा – सप्तानामेव गतिश्रवणात्, ज्ञानानि पञ् मनो बुद्धिश्ेति विशेषितत्वा तानि सप्तैव॥४॥

२७३।  हस्तादयस्तु स्थितऽतो नैवम् – नैवम्- न सप्तैवेन्द्रियाणीत्यर्थ:; श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ् वाग्घस्तादीनि कर्मेन्द्रियाणि पञ् मनश्ेत्येकादश। तत्र श्रोत्रादीनि जीवेन सह शरीरान्तरगमनेऽपि ग्छन्ति; वाग्घस्तादीनि कर्मेन्द्रियाणि तु स्थिते – शरीरे तेनैव सहोत्पत्तिविनाशयोगीन्युपकारकाणि। अतो नैवमित्यन्वय:; एषां जीवोपकारकत्वाविशेषात्, दशेमे पुरुषे प्राणा आत्मैकादश। इत्यादिवनाेत्यभिप्राय:॥५  इति सप्तगत्यधिकरणम्॥

            २७४।  अणवश् – इन्द्रियाणि किं सर्वगतानि, उताणुपरिमाणानीति संशय:।  सर्वगतानीति पूर्व: पक्ष:,  त एते सर्व एव समास्सर्वेऽनन्ता: । इति प्राणानामानन्त्यश्रवणात्।  राद्धान्तस्तु । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति श्रवणात्। परिमितत्वे सत्यप्रत्यक्षत्वादणव:। आनन्त्य श्रुतिस्तु। अथ यो हैताननन्तानुपास्त  इत्युपासन विधानादुपासनफलबाहुल्यविषया॥६॥

२७५। श्रेष्ठश् – श्रेष्ठ: प्राणश्ोत्पद्यते।  नात्र न्यायातिदेश:, अधिकाशङ्काभावात्।  पृथग्योगकरणमुत्तरिन्तार्थम्। श्रेष्ठ: – पञ्वृत्ति: प्राण:।  प्राणश्रैष्ठ्यं तु प्राणसंवादे तस्य श्रैष्ट्याभिधानात्॥७॥  इति प्राणाणुत्वाधिकरणम्॥

२७६।  वायुक्रिये पृथगुपदेशात् – किमयं श्रेष्ठप्राणो वायुमात्रमुत तत्क्रिया, अथ वायुरेव कञ्न विशेषमापन्न इति संशय:।  वायुमात्रमिति प्रथम: पक्ष:, : प्राणस्य प्राण: इति व्यपदेशात्।  वायुमात्रे प्राणप्रसिद्ध्यभावात्, उ्छ्वासनिश्वासरूपवायुक्रियायां प्राणप्रसिद्धेर्वायो: क्रियाविशेष एव प्राण इति द्वितीय: पक्ष:।  राद्धान्तस्तु – न वायुमात्रं, तत्क्रिया वा प्राण:; अपि तु देहधारणयोग्यतादिरूपविशेषमापन्नो वायु:, एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि , खं वायु:  इति वायुप्राणयो: पृथगुत्पत्त्युपदेशात्।  क्रियायाश् पृथगुपदेशो न संभवति, तेज:प्रभृतिष्वदर्शनात्।  क्षुरादिकरणैस्सह जीवोपकरणतयोपदेशात्, देहेन्द्रियधारणरूपोपकाराधिक्याक्षुरादिभ्य: प्राधान्यवना न क्रियामात्रम्।  सूत्रार्थस्तु – वायुक्रिये पृथगुपदेशात् – वायुमात्रं तत्क्रिया वा न प्राण:, पृथगुपदेशात्- प्राणो जायते खं वायु: इति हि पृथगुत्पत्तिरुपदिश्यते॥८॥

वायो: पृथगुपदिष्टतया तस्मादन्योऽयं प्राण: किमग्न्यादिवद्भूतान्तरमित्याशङ्क्याह-

२७७। क्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य: – तुशब्दश्शङ्कानिवृत्त्यर्थ:। प्राणो नाकाशादिवत् भूतान्तरम्; अपि तु वायुरेवावस्थान्तरमापन्नश्क्षुरादिवज्जीवोपकरणम्।  तोपकरणत्वं उपकरणभूतैरिन्द्रियैस्सह शिष्ट्यादिभ्योऽवगम्यते। शिष्टि: – शासनम्, उपदेश:।  उपदिश्यते ह्ययं प्राणश्क्षुरादिभिस्सह प्राणसंवादादिषु।  तत्सजातीयत्वे ह्येतदुपपद्यते।  प्राणशब्दगृहीतेषु करणेष्वस्य। अथ एवायं मुख्य: प्राण: इति विशिष्याभिधानमादिशब्देनोक्तम्।  तदपि तत्सजातीयत्वे हि संभवति॥९॥

२७८। अकरणत्वा दोषस्तथा हि दर्शयति – अकरणत्वात् करणं – क्रिया, अकरणत्वं – क्रियारहितत्वम्।  अक्रियत्वादस्य प्राणस्य जीवं प्रत्युपकारविशेषरूपक्रियारहितत्वा यो दोष उद्भाव्यते; स नास्ति।  यत उपकारविशेषरूपां शरीरेन्द्रियधारणात्मकक्रियां दर्शयति श्रुति: । यस्मिन्नुत्क्रान्त इदं शरीरं पापिष्ठतरमिव दृश्यते स वश्श्रेष्ठ: इति वागादिमुख्यप्राणपर्यन्तानि करणानि प्रत्येकमभिधाय प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात्॥१०॥

प्राणापानादिनामभेदेन पञ्धाऽवस्थित एक एव प्राण इत्याह –

२७९।  पञ्वृत्तिर्मनोवद्व्यपदिश्यते – प्राणापानादिवृत्तिभेदात्प्राण एव पञ्धा व्यपदिश्यते। मनोवत् – यथैकमेव मन: कामादिवृत्तिभेदेन तैश्शब्दैरभिधीयत इति श्रुतिराह। कामस्सङ्कल्प इत्यारभ्य  ह्रीर्धीर्भीरित्येतत्सर्वं मन एव इति।  एवमपानादिसमानपर्यन्तं व्यपदिश्य एतत्सर्वं प्राण एवेति व्यपदेशात्प्राण एव पञ्वृत्तिरित्यवगम्यते ॥११॥ इति वायुक्रियाधिकरणम्

२८०।  अणुश् – किमयं प्राणस्सर्वगत:, उताणुरिति संशय:।  सर्वगत इति पूर्व: पक्ष:। सम एभिस्त्रिभिर्लोकैस्सम: इत्यादिना प्राणस्यानन्त्यव्यपदेशात्।  राद्धान्तस्तु – तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इत्युत्क्रान्तिवनादिन्द्रियवत्प्राणश्ाणु:।  एवमणुत्वे निश्िते सति सर्वस्य प्राणायत्तस्थितित्वेन वैभववाद:। सूत्रमपि व्याख्यातम्॥१२॥  इति श्रेष्ठाणुत्वाधिकरणम्॥

२८१।  ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् – अग्न्यादीनां जीवस्य ेन्द्रियाधिष्ठानं परमात्मायत्तमिति परात्तु त्छ्रुतेः इत्युक्तमेव स्मारयति विषमव्याप्तिज्ञापनाय।  प्राणवता जीवेन सह, ज्योतिरादे: – अग्न्यादे: वागाद्यधिष्ठानम्, तदामननात् – परमात्मामननाद्भवति।  आमननमाभिमुख्येन मननम्; तत्सङ्कल्पादेव भवतीत्यर्थ:; । योऽग्नौ तिष्ठन् योऽग्निमन्तरो यमयति इत्यादिशब्दात्।

२८२  तस्य नित्यत्वात् – सर्वेषामात्मतयाऽनुप्रविश्य, सर्वनियमनस्य नित्यत्वात्। परमात्मन: अवर्जनीयत्वादित्यर्थ:, तत्सृष्ट्वा, तदेवानुप्राविशत् इति श्रुते:॥१३॥ इति ज्योतिराद्यधिष्ठानाधिकरणम्॥

२८३  इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् – किं प्राणशब्दनिर्दिष्टात्सर्व एवेन्द्रियाणि, उत श्रेष्ठव्यतिरिक्ता: प्राणा इति संशय:।  सर्व एवेति पूर्व: पक्ष:; सर्वेषामविशेषेण प्राणशब्दनिर्देशात्, करणत्वा।  राद्धान्तस्तु – श्रेष्ठव्यतिरिक्ता: प्राणा इन्द्रियाणि, तेष्वेवेन्द्रियशब्दनिर्देशात् इन्द्रियाणि दशैकं ,  एकादशं मनश्ात्र इति।  एषामपि प्राणशब्दनिर्देश: प्राणाधीनवृत्तित्वेन।  तथा श्रुति: त एतस्यैव सर्वे रूपमभवन् – तस्मादेत एतेनाख्यायन्त इति।  रूपमभवन् – शरीरमभवन्, तदधीनवृत्तयोऽभवन्नित्यर्थ:।  सूत्रार्थस्तु – श्रेष्ठादन्यत्र ये प्राणा:; त इन्द्रियाणि, तेष्वेव तद्व्यपदेशात्– इन्द्रियव्यपदेशात्॥१५॥

२८४।  भेदश्रुतेर्वैलक्षण्याएतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि ति समनस्केन्द्रियेभ्यो भेदेन प्राणस्योत्पत्तिश्रुते:, इन्द्रियेषूपरतेष्वपि प्राणवृत्तेर्वृत्तिवैलक्षण्या॥१६॥  इति इन्द्रियाधिकरणम्॥७॥

२८५। संज्ञामूर्तिकप्तिस्तु त्रिवृत्कुर्वत उपदेशात् – किं प्रपञ्व्यष्टिसृष्टि: जीवभूततुर्मुखात्, उत त्छरीरकात्परमात्मन एवेति संशय:।  केवलातुर्मुखादिति पूर्व: पक्ष:, अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि इति व्यतिरेकश्रुते:।  जीवस्य परमात्मांशत्वेन व्याकरवाणीत्युत्तमपुरुषनिर्देशोऽपि कथंिदुपपद्यते।  राद्धान्तस्तु – नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति त्रिवृत्करणं कुर्वत एव नामरूपव्याक्रियोपदेशात्परमात्मन एव नामरूपव्याकरणरूपव्यष्टिसृष्टि:।  त्रिवृत्करणं तु न तुर्मुखेन कर्तुं शक्यम्, अण्डसृष्ट्युत्तरकाल-भावित्वात् तुर्मुखोत्पत्ते:, त्रिवृत्कृतैरेव तेजोबन्नैरण्डसृष्टिसंभवा।  तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्।  तस्मिन्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह:  इति हि स्मर्यते  नानावीर्या: पृथग्भूतास्ततस्ते संहतिं विना।  नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्न:  समेत्यान्योन्यसंयोगं परस्परसमाश्रया:  महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते॥  इति ।  अतश्तुर्मुख-शरीरकात्परमात्मन एव व्यष्टिसृष्टि:। एवं सति व्याकरवाणीत्युत्तमपुरुषनिर्देशस्समञ्जस:। अनेन जीवेन इति व्यतिरेकनिर्देशोऽपि  जीवशरीरकेणात्मना इत्यन्वयात्समञ्जस:। जीवशब्दस्तेज: प्रभृतिशब्दवज्जीवशरीरकब्रह्मवाीति ह्युक्तम्। अनेन जीवेनात्मन इति सामानाधिकरण्यं  मुख्यम्। अनुप्रविश्य नामरूपे व्याकरवाणि इति समानकर्तृकत्वनिर्देशश्। सूत्रार्थस्तु – संज्ञामूर्तिकॢप्तिस्तु। तु शब्दश्शङ्काव्यावृत्त्यर्थ: नामरूपक्लप्ति: परमात्मन एव। कुत:? त्रिवृत्कुर्वत उपदेशात् – त्रिवृत्करणं कुर्वत एव नामरूपव्याकरणोपदेशात्। त्रिवृत्करणं तु परमात्मन एव कर्मेत्युक्तम्॥१७॥

अन्नमशितं त्रेधा विधीयत इत्यादिना तुर्मुखसृष्टवस्तुषु त्रिवृत्करणप्रकार: प्रदर्श्यते, अतश्तुर्मुखेन केवलेन त्छक्यमित्याशङ्क्याह –

२८६।  मांसादि भौमं यथाशब्दमितरयोश्तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति निर्दिष्टं त्रिवृत्करणम् अन्नमशितं त्रेधा विधीयत इत्यादिना नोपदिश्यते, तस्य यस्तविष्ठो धातुस्तत्पुरीषं यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन: इति मांसाद्यपि हि भौममेवोपदिश्यते । अन्नमशितं त्रेधा इति प्रक्रमात्, अन्नमयं हि सोम्य मन इति वाक्यशेषा। तेजोबन्नानां त्रिवृत्करणप्रकारे ह्युपदिश्यमाने मांसमनसो: पुरीषाद्भौमादणीयस्त्वेनाप्यत्वं तैजसत्वं प्रसज्यते। तथेतरयोरप्यप्तेज: पर्याययो: आप: पीता:, तेजोऽशितम् इति त्रयाणां त्रयाणां भागानां यथाशब्दमाप्यत्वं तैजसत्वमेवोपदिश्यते। तत्रापि हि आप: पीता: तेजोऽशितम् इत्युपक्रम: वाक्यशेषश् आपोमय: प्राण: तेजोमयी वाक् इति। प्रागुक्तत्रिवृत्करणप्रकारे हि मूत्रप्राणयोस्थविष्ठत्वाणीयस्त्वाभ्यां भौमत्वतैजसत्वप्रसक्ति:। तेजोऽशितं इत्यत्रापि पूर्वयो: भौमत्वाप्यत्वप्रसक्ति: । अतोऽत्र प्रागेव त्रिवृत्कृतस्यान्नादे (स्त्वेकैकस्य) स्स्वस्यैव त्रेधा परिणाम उपदिश्यते॥१८॥

प्रागेव त्रिवृत्कृतं ेत्, कथं केवलान्नादि शब्दैरु्यत इत्यत्राह –

२८७। वैशेष्यात्तु तद्वातस्तद्वाद: – वैशेष्यं – विशेषभाव:। त्रिवृत्कृतेऽप्येकैकस्मिं- स्तत्रतत्रान्नाद्याधिक्यरूपविशेषभावादन्नादिवाद:। द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति॥१९॥ इति संज्ञामूर्तिकप्त्यधिकरणम्

इति श्री भगवद्रामानुजविरिते श्री वेदान्तदीपे द्वितीयस्वाध्ययस्य तुर्थ: पाद:

॥समाप्तश्ायमध्याय:

error: Content is protected !!