[highlight_content]

वेदान्तदीप: Ady 04 Pada 02

वेदान्तदीप:

चतुर्थाध्याये द्वितीय: पाद:

४८९। वाङ्मनसि दर्शनाच्छब्दाच्च – अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मन: प्राणे इत्यादिकोत्क्रान्तिविषया आम्नायते। तत्र किं वागिन्द्रियं मनसि संपद्यते, उत वाग्वृत्तिमात्रमिति संशय:। वाचो मन:प्रकृतित्वाभावात्स्वरूपलयस्तत्र न संभवतीति वाग्वृत्तिमात्राभिप्रायमिति पूर्वपक्ष:। राद्धान्तस्तु – अकारणे संपत्त्यभावस्य वाग्वृत्तावपि तुल्यदर्शनात्। वाङ्मनसि इति वाक्स्वरूपस्यैव संपत्ति:। शब्दाच्च स्वरूपमेव संपद्यते वाङ्मनसि संपद्यते इति वाक्स्वरूपसंपत्तावेव हि शब्द:; न वृत्तिमात्रसंपत्तौ। अकारणे लयाभावात्संपत्तिशब्दस्संयोगाभिप्राय:, सूत्रं च व्याख्यातम्॥१॥

४९०। अत एव सर्वाण्यनु – यतो वाचो मनसि संयोगमात्रमुच्यते: न तु लय:; अत एव तदानीं, सर्वाणीन्द्रियाणि वाचमनु मनसि संपद्यन्त, इति वचनं, वाङ्मनसि संपद्यत इति वचनवदुपपन्नम्, तस्मादुपशान्ततेजा: — पुनर्भवमिन्द्रियैर्मनसि संपद्यमानै:, इति॥२॥  इति वागधिकरणम् ॥१॥

४९१। तन्मन: प्राण उत्तरात्मन: प्राणे इत्यत्र किं प्राणशब्देनाप उच्यन्ते, उत प्राण एवेति संशय:, प्राणस्य मन:प्रकृतित्वाभावात्, अन्नमयं हि सोम्य मन:, इति मनसोऽन्नमयत्वश्रवणात्, अपां चान्नप्रकृतित्वेन, तत्संपत्तिरुपपद्यत इति प्राणशब्देनाप उच्यन्त इति पूर्वपक्ष:आपोमय: प्राण: इति ह्यम्मयत्वात् प्राणस्य प्राणशब्देनापो वक्तुं युज्यन्ते इति। राद्धान्तस्तु – अन्नमयं हि सोम्य मन: आपोमयः प्राण:, इति मन:प्राणयोर्न तत्तत्प्रकृतित्वमुच्यते; अपि तु तदाप्यायनम्, आहङ्कारिकत्वान्मनस:, प्राणस्य चाकाशप्रकृतित्वात्। अत: वाङ्मनसि इतिवत् तदुत्तरात्, मन: प्राणे इति शब्दात्, तत् – सर्वेन्द्रियसंयुक्तं मन: प्राणे संयुज्यन्ते॥३  इति मनोऽधिकरणम् ॥२॥

            ४९२। सोऽध्यक्षे तदुपगमादिभ्य: – स: प्राण: किं तेजसि संयुज्यते, उत जीव इति संशय:। प्राणस्तेजसि इति वचनात्तेजस्येवेति पूर्व: पक्ष:। राद्धान्तस्तु – उत्क्रान्तौ प्राणस्य जीवोपगमादिश्रुते: प्राण: करणाध्यक्षे जीवे संयुज्यते, एतदविरोधाय जीवे संयुज्य पश्चात्तेजस्संयोगं, प्राणस्तेजसि इति वदति, श्रूयन्ते हि प्राणस्य जीवोपगमादय:, एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति, तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि, इत्यादिषु॥४॥ इति अध्यक्षाधिकरणम्

४९३। भूतेषु तच्छ्रुते:

४९४। नैकस्मिन् दर्शयतो हि – प्राणस्तेजसि इति किं तेजोमात्रे प्राणस्संयुज्यते, उत भूतान्तरसंसृष्ट इति संशय:तेजसि इति वचनात्तेजोमात्र इति पूर्वपक्ष:पृथिवी मय:  इत्यादिना सञ्चरतो जीवस्य सर्वभूतमयत्वश्रुते:, त्रिवृत्करणश्रुतिस्मृतिभ्याञ्च तेजस एकस्य कार्याक्षमत्वात् भूतान्तरसंसृष्ट इति राद्धान्त:, सूत्रद्वयं व्याख्यातम्॥५,६॥  इति भूताधिकरणम्

४९५। समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य – इयमुत्क्रान्ति: किं विद्वदविदुषोस्समाना, उतविदुष एवेति संशय:। विदुषोऽत्रैवामृतत्वप्राप्तिश्रुतेरविदुष एवेति पूर्व: पक्ष:। श्रूयते हि विदुषोऽत्रैवामृतत्वप्राप्ति:। यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिता:, अथ मर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुत इति। राद्धान्तस्तु – विदुषोऽर्चिरादिकयैव ब्रह्मप्राप्ति:, अर्चिरादिगत्युपक्रमा- त्प्रागियमुत्क्रान्तिस्समाना, गतिश्च मूर्धन्यनाड्या, शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका, तयोर्ध्वमायन्नमृतत्वमेति इति श्रुते:। यदा सर्वे प्रमुच्यन्ते, इत्यनेन गतिश्रुत्यविरोधायामृतत्वसाधनभूतोपासन निष्पत्तिरुच्यते, हृदि स्थिता: कामा यदा प्रमुच्यन्ते, तदैवोपासनारम्भान्मर्त्योऽमृतो भवतीति। अत्र – कामविमोकपूर्वकोपासने स्थितोऽर्चिरादिकया गत्या ब्रह्म समश्नुत इत्यर्थ:। सूत्रार्थस्तु – सृति: – गति: आसृत्युपक्रमादुत्क्रान्तिर्विदुषोऽविदुषोऽपि समाना, विदुषोऽर्चिरादिगतिश्रुते: अथ मर्त्योऽमृतो भवति इत्युच्यमानममृतत्वम् अनुपोष्य च – अदग्ध्वैव शरीरेन्द्रियादिसंबन्धम्; उपासनारम्भपरिकर-रूपमित्यर्थ:॥७॥

४९६। तदापीते: संसारव्यपदेशात् – तत् – अमृतत्वम्, उक्तप्रकारमेव। कुत:? आपीतेस्संसार-व्यपदेशात्, अपीति: – ब्रह्मप्राप्ति:। अर्चिरादिकया गत्या देशविशेषं गत्वा यावद्ब्रह्म प्राप्यते, तावत्संसार: – शरीरसंबन्धो हि व्यपदिश्यते॥८॥

गतिव्यपदेशादेव शरीरादुत्क्रान्तस्य कथं शरीरसंबन्ध इत्यत्राह –

४९७। सूक्ष्मं प्रमाणतश्च तथोपलब्धे: – सूक्ष्मशरीरमनुवर्तते, गतिव्यपदेशात्, न केवलं गतिव्यपदेशादेव, प्रमाणान्तरतश्च तथा – सूक्ष्मशरीरवत्त्वस्योपलब्धेश्च। विदुषोऽर्चिरादिकया गत्या गच्छतश्चन्द्रमसा संवादोऽयमुपदिश्यते तं प्रतिब्रूयात्, सत्यं ब्रूयात् इत्यादिना॥९॥

४९८। नोपमर्देनात: – अत: – उक्ताद्धेतुकलापात्। अथ मर्त्योऽमृतो भवति इति वचनं न देहसंबन्धोपमर्देनामृतत्त्वं वदति; अपि तूक्तमेवोपासनारम्भरूपं वदतीत्यर्थ: ॥१०॥

४९९। अस्यैव चोपपत्तेरूष्मा – अस्य – सूक्ष्मशरीरस्य विद्यमानत्वोपपत्तेश्च न देहसंबन्धोपमर्देन। उपलभ्यते ह्युत्क्रममाणस्य विदुष: क्वचिदूष्मा सूक्ष्मदेहगुण:; न चायं स्थूलदेहगुण:, अन्यत्रानुपलब्धे:, अतो विद्वान् सूक्ष्मशरीरेणोत्क्रामति॥११॥

५००। प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् –  एतास्तेजोमात्रा: इत्यारभ्य इति तु कामयमाना: इत्यन्तेनाविदुष: उत्क्रान्तिप्रकारं लोकान्तरगमनं पुनरावृतिं चाभिधाय, अथाकामयमान: इत्यादिना तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति इति विदुष उत्क्रान्ति प्रतिषेधादुक्तप्रकारो नोपपद्यत इति चेत् तन्न, शारीरात्प्राणानामविश्लेषोऽनेनोच्यते। तस्य अकामयमानस्य विदुषश्शारीरस्य, प्राणास्स्वस्मान्नोत्क्रामन्ति। देवयानेन गमनाय सहैव तिष्ठन्ति। अयमर्थ: स्पष्टो ह्येकेषां – माध्यन्दिनशाखिनां पाठे योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात्प्राणा उत्क्रामन्ति इति॥१२॥

५०१। स्मर्यते – स्मर्यते च विदुषोऽपि मूर्धन्यनाड्योत्क्रान्ति: ऊर्ध्वमेकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम्, ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् इति॥१३॥

इति आसृत्युपक्रमाधिकरणम्॥

५०२। तानि परे तथा ह्याहप्राणस्तेजसि इति तेजश्शब्दनिर्दिष्टानि भूतानि जीवपरिष्वक्तानि किं परस्यां देवतायां संपद्यन्ते, उत यथाकर्म यथाविद्यं च गच्छन्तीति संशय:। तदानीं सुखदु:खोपभोगाद्यभावेन परसंपत्तौ प्रयोजनाभावात् यथाकर्म यथाविद्यमिति पूर्व: पक्ष:, सर्वस्य परदेवताकार्यत्वेन तदात्मकत्वात् गन्तव्यस्थानमिदं परस्यां देवतायाम् इत्युच्यते। राद्धान्तस्तु – तानि परे – परस्मिन्ब्रह्मणि संपद्यन्ते, तेज: परस्यां देवतायाम् इति ह्याह श्रुति:। यथाश्रुति विश्रमस्थानत्वेन कार्यं परिकल्प्यमित्यर्थ:। सूत्रं च व्याख्यातम्॥१४॥ इति परसम्पत्त्यधिकरणम्

५०३। अविभागो वचनात् – सेयं परमात्मनि संपत्ति: किं प्राकृतप्रलयवत्कारणापत्तिरूपा, उत मन:प्रभृति संपत्तिवदविश्लेषमात्रमिति संशय:। परमात्मन: कारणत्वात्, तत्संपत्तिवचनाच्च कारणापत्तिरेवेति पूर्व:पक्ष:। राद्धान्तस्तु – वाङ्मनसि संपद्यते,  इति श्रुतस्यैव संपत्तिवचनस्य सर्वत्रानुषङ्गादत्रानुषक्तस्य चाभिधानवैरूप्यासंभवादत्राप्यविभाग: — अविश्लेष एवोच्यते, सूत्रमपि व्याख्यातम् ॥१५  इति अविभागाधिकरणम्

            ५०४। तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकयाशतं चैका हृदयस्य नाड्यास्तासां मूर्धानमभिनिस्सृतैका; तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति इति शताधिकया मूर्धन्यया नाड्या विदुषो गमनमिति नियमस्संभवति नेति संशय:। नाडीनामतिसूक्ष्मत्वेन दुर्विवेचनत्वान्नियमो न संभवतीति यादृच्छिकीं तया गतिमनुवदतीदं वचनमिति पूर्व: पक्ष:। राद्धान्तस्तु – परमपुरुषाराधनभूतया विद्यया तदङ्गभूतगतिचिन्तनेन च प्रीतेन परमपुरुषेणानुगृहीतो जीवस्तत्प्रसादप्रकाशितद्वारस्तयैव मूर्धन्यया नाड्या गच्छतीति। सूत्रार्थस्तु – हार्दपरमपुरुषाराधनरूपविद्यासामार्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च प्रीतहार्दानुगृहीतो भवति जीव:; तत: तदोक: जीवस्य स्थानं हृदयम्, अग्रज्वलनम् – प्रकाशिताग्रं भवति; एवं परमपुरुषप्रकाशितद्वार: शताधिकया गच्छति; तस्याश्शिखाया मध्ये परमात्मा व्यवस्थित:, सर्वस्य चाहं हृदिसन्निविष्ट: इति हार्द: – परमात्मा॥१६॥  इति तदोकोधिकरणम्

५०५। रश्म्यनुसारी – अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते, इति विद्वान् रश्म्यनुसारी गच्छीतीति नियमस्संभवति, नेति संशय:। निशि मृतस्य विदुष: आदित्यरश्म्यनुसारासंभवादनियम इति पूर्व: पक्ष:। वचनं तु पक्षप्राप्तमनुवदति। राद्धान्तस्तु — वचनस्य पक्षप्राप्त्यनुवादित्वे अथैतेरेव इत्यवधारणविरोध:। न च निशि रश्मयो न सन्तीति; निश्यपि निदाघसमये ऊष्मोपलब्धे: सूक्ष्मास्सन्त्येवेति रश्म्यनुसार्येव गच्छति। हेमन्तेऽनुपलब्धि: दुर्दिन इव हिमाभिभवात्॥१७॥  इति रश्म्यनुसार्यधिकरणम्

१०

५०६। निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति – विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, नेति संशय:। दिवा च शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम्॥ इति निशामरणस्य गर्हितत्वेन अधोगतिहेतुत्वान्न ब्रह्मप्राप्तिस्संभतीति पूर्व:पक्ष:। राद्धान्तस्तु – विद्यामाहात्म्यादुत्तरपूर्वाघयोरश्लेषविनाशश्रुतेरश्लिष्टविनष्टत्वात्, प्रारब्धस्यापि कर्मण: चरमदेहावधित्वाच्च, बन्धहेत्वभावान्निशि मृतस्यापि ब्रह्मप्राप्तिरस्त्येवेति, अविद्वद्विषया निशामरणनिन्दा। सूत्रार्थस्तु – निशामरणनिन्दया निशि मृतस्य न ब्रह्मप्राप्तिरिति चेत्; तन्न, संबन्धस्य यावद्देहभावित्वात्, अनारब्धकार्यकर्मसंबन्धस्य विद्यया विनष्टत्वात् प्रारब्धकार्यकर्मसंबन्धस्यापि यावच्चरमदेहभावित्वात् बन्धहेत्वभावेन ब्रह्मप्राप्तिरस्त्येवेत्यर्थ:। तदेतच्छ्रुतिश्च दर्शयति तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये इति॥१८॥ इति निशाधिकरणम् १०

११

५०७। अतश्चाऽयनेऽपि दक्षिणे – दक्षिणायने मृतस्य विदुषो ब्रह्मप्राप्तिरस्ति, नेति संशय:अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमनस्सायुज्यं गच्छति इति विदुषो दक्षिणायने मृतस्य चन्द्रसायुज्यश्रवणात्, चन्द्रं प्राप्तानाम् अथैतमेवाध्वानं पुनर्निवर्तन्ते इति वचनाच्च, दक्षिणायनमृतस्य ब्रह्मप्राप्ति: न संभवतीति पूर्व: पक्ष:। राद्धान्तस्तु – पूर्वोक्ताद्बन्धहेत्वभावाद्विदुषश्चन्द्रं प्राप्तस्यापि पुनरावृत्तिर्न संभवति। चन्द्रसायुज्यवचनं विदुषो ब्रह्मप्रेप्सोर्विश्रमस्थानमात्रविषयम्; आवृत्तिवचनं त्वविदुषामेव। सूत्रार्थस्तु – यतो हेतोर्निशि मृतस्यापि ब्रह्मप्राप्ति:, तत एव बन्धहेत्वभावाद्दक्षिणायने मृतस्यापि ब्रह्मप्राप्तिरस्त्येव॥१९॥

 यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:  इति मरणकालविशेष: स्मर्यत इति चेत्, तत्राह –

५०८। योगिन: प्रति स्मर्येते स्मार्ते चैते – योगिन: – ब्रह्मविद्यानिष्ठान् प्रति एते – देवयान- पितृयाणगती, स्मार्ते स्मर्येते । स्मार्ते – स्मृतिविषयभूते अहरहस्स्मर्तव्ये स्मर्येते इत्यर्थ:। यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:  इत्यादिना, नैते सृती पार्थ जानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुनन॥ इत्यन्तेन। न मुमूर्षून् प्रति कालविशेषोपादानं स्मर्यते। आतिवाहिकगणस्य कालाभिमानिदेवताविशेषभूयस्त्वेन यत्र काले  इत्युच्यते॥२०॥ इति दक्षिणायनाधिकरणम् ॥११॥

इति श्री भगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्यध्यायस्य द्वितीय पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.