वेदान्तदीप:
॥ चतुर्थाध्याये तृतीय पाद:॥
४–३–१
५०९। अर्चिरादिना तत्प्रथिते: – किं विद्वानर्चिरादिनैकेन मार्गेण गच्छति, उत तेन वाऽन्येन वेत्यनियम इति संशय:। तदर्थं परीक्ष्यते – किं सर्वासु श्रुतिष्वर्चिरादिरेक एव मार्ग आम्नायते, उत तत्र तत्रान्य इति । यदाऽर्चिरादिरेक एव सर्वत्रोक्त: तदा तेनैव गच्छति। यदा तत्र तत्राम्नाता अन्ये, तदाऽन्यैर्वाऽनेन वेत्यनियम इति । छान्दोग्यवाजसनेयकादिषु नानाविधा: गतिप्रकाराश्श्रूयन्ते। छान्दोग्ये यथा पुष्करपलाश आपो न श्लिष्यन्ते इत्युपक्रम्य सर्वाणि नयति, सर्वेषु लोकेषु भाति य एवं वेद, अथ यदु चैवास्मिन् छव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यसंवत्सरं संवत्सरादादित्यम् आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान्ब्रह्मगमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति । बृहदारण्यके य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमित्युपासते तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान् वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति इति। तत्रैवान्यथा यदा वै पुरुषोऽस्माल्लोकात्प्रेति स वायुलोकमागच्छति तस्मै स तत्र विजिहिते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथाऽऽडम्बरस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभे: खम् इत्यादिषु तेषां ब्रह्मप्राप्तौ नैरपेक्ष्यश्रवणात्तैर्वाऽर्चिरादिना वेति विकल्प इति पूर्व पक्ष:। राद्धान्तस्तु – सर्वत्रार्चिराद्यन्तर्भूतादित्यादीनां दर्शनात्स एवेति प्रत्यभिज्ञानात् अन्यत्रोक्तानामन्यत्रोपसंहाराच्च, सर्वत्रार्चिरादिरेक एव मार्ग इति तेनैव गच्छति विद्वान् । सूत्रार्थस्तु – अर्चिरादिनैव गच्छति विद्वान्। कुत:? तत्प्रथिते:, प्रथिति: – प्रसिद्धि:, सर्वत्र तत्प्रत्यभिज्ञानादित्यर्थ:॥१॥ इति अर्चिराद्यधिकरणम् ॥ १ ॥
४–३–२
५१०। वायुमब्दादविशेषविशेषाभ्याम् – तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न: इत्यारभ्य, मासेभ्यस्संवत्सरं संवत्सरादित्यम् इति छान्दोग्ये श्रुतम्। तत्र संवत्सरादित्ययोर्मध्ये देवलोको वायुश्च श्रुतौ श्रुत्यन्तरे । द्वयो: प्रकरणयो: किं देवलोको वायुश्चार्थान्तरभूतौ, उत वायुरेक एवेति संशय:। शब्दभेदादर्थान्तरभूताविति पूर्व: पक्ष:। अर्थान्तरत्वे सति, देवलोकादादित्यमिति देवलोकस्य, तेन स ऊर्ध्व आक्रमते स आदित्यम् इति वायोश्चादित्यात्पूर्वत्वेन श्रौतक्रमनिर्दिष्टत्वाद्देवलोकवायू यथेष्टक्रमेण निवेशयितव्यौ। राद्धान्तस्तु – वायुरेव देवलोकशब्देन निर्दिष्ट इति तस्मादनन्य:। देवानां लोक इति हि देवलोक:, देवानां वासस्थानमित्यविशेषेण निर्दिष्टम्। योऽयं पवत एष एव देवानां गृहा: इति वायोर्विशेषेण देवानां वासस्थानत्वेन श्रुतत्वादविशेषनिर्दिष्टो देवलोको वायुरेवेति निश्चीयत इति, संवत्सरादूर्ध्वं वायुर्वायोरादित्य इति क्रमश्च स्यात्। सूत्रार्थस्तु – अब्दात् – संवत्सरादूर्ध्वं आदित्यात्पूर्वं वायुमेकमेव निवेशयेत्, देवलोकवायुशब्दाभ्याम् अविशेषविशेषाभ्यां वायोरेकस्यैव निर्दिष्टत्वात्, देवानां निवासस्थानमित्यविशेषण हि देवलोकशब्दो वायुं देवानामावस्थानभूतं अभिदधाति, वायुशब्दस्तमेव विशेषेणेति द्वयो: प्रकरणद्वयविहितयोरेकत्वादित्यर्थ:॥२॥ इति वाय्वधिकरणम् ॥ २ ॥
४–३–३
५११। तटितोऽधि वरुणस्सम्बन्धात् – छान्दोग्यवाजसनेयक कौषीतकी प्रभृतिष्वाम्नातस्यार्चिरादि-मार्गस्यार्चिरहरापूर्यमाणपक्षोत्तरायणसंवत्सरवाय्वादित्यचन्द्रविद्युद् -वरुणेन्द्रप्रजापतिरूपस्योपसंहारे वायुपर्यन्तस्य श्रुत्यादिभि: क्रमप्रकार उक्त:, वरुणेन्द्रप्रजापतीनां किं विद्युत उपरि निवेश:, उत वायोरुपरीति संशय:। स वायुलोकं स वरुणलोकम् इति कौषीतकीपाठक्रमेण वायोरुपरि वरुणस्य निवेश:। इन्द्रादेरपि वरुणनिवेशाय वाय्वादित्ययो: क्रमस्य बाधितत्वात्तत्रैव वरुणोपरीति पूर्व: पक्ष:। राद्धान्तस्तु – विद्युतो मेघोदरवर्तित्वेन विद्युद्वरुणयोर्लोके वेदे च संबन्धावगमात्पाठक्रमादर्थक्रमस्य बलीयस्त्वेन वरुणस्य विद्युत उपरि निवेश: कार्य:। इन्द्रादेरपि वरुणनिवेशाय विद्युतो व्यवधानसहत्वदर्शनाद्वरुणोपरि निवेश:। सूत्रं च व्याख्यातं॥३॥ इति वरुणाधिकरणम् ॥ ३ ॥
४–३–४
५१२। आतिवाहिकास्तल्लिङ्गात् – किमर्चिरादयो विदुषो ब्रह्मप्रेप्सोर्मार्गचिह्नभूता:, उत गमयितार इति संशय:। ‘अमुकं वृक्षममुकां नदीममुकं पर्वतपार्श्वां गत्वाऽमुकं ग्रामं गच्छ‘ इत्यादिदेशिकोपदेशप्रकारदर्शनान्मार्गचिह्नभूता: – इति पूर्व: पक्ष:। राद्धान्तस्तु – स एनान्ब्रह्म गमयति इति वैद्युतपुरुषस्य गमयितृत्वदर्शनात् इतरेषां चाविशेषनिर्दिष्टानां स एव संबन्ध इति निश्चीयते, अग्निलोकम् इत्यादि लोकशब्दोऽपि मध्ये भोगाभावाद्गमयितृत्व एवोपपद्यते। सूत्रार्थस्तु – आतिवाहिकाः – विदुषामतिवाहे परमपुरूषेण नियुक्ताः, अर्चिराद्यभिमानिदेवताविशेषा: गमयितार इत्यर्थ:। स एनान्ब्रह्मगमयति इति लिङ्गात्॥४॥
५१३। वैद्युतेनैव ततस्तच्छ्रुते: – तत: विद्युत उपरि वैद्युतेन विदुषो गमनम् तच्छ्रुते:, स एनान्ब्रह्म गमयति इति तस्यैवश्रुते:। वरुणादीनां तदनुग्राहकत्वेन गमयितृत्वमिति निश्चीयत इत्यर्थ:॥५॥ इति आतिवाहिकाधिकरणम् ॥ ४ ॥
४–३–५
५१४। कार्यं बादरिरस्य गत्युपपत्ते: – किमर्चिरादिको गण: कार्यं हिरण्यगर्भमुपासीनान्नयति, उत परं ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्चेति संशय:। कार्यं हिरण्यगर्भमुपासीनानिति पूर्व: पक्ष:। तेषामेव गत्युपपत्ते:। न हि परिपूर्णं सर्वगतं परं ब्रह्मोपासीनानां तत्प्राप्तये गतिरुपपद्यते, नित्यप्राप्तत्वात्; अविद्यानिवृत्तिरेव हि कार्या परमेवोपासीनानित्यपर: पक्ष:, स एनान्ब्रह्मगमयति इति ब्रह्मशब्दस्य तत्रैव मुख्यत्वात्। अविद्यानिवृत्ते: फलाभिसन्धिरहितयज्ञाद्यपेक्षत्वात् श्रवणाद्यपेक्षावच्च गतिश्रुत्या देशविशेषापेक्षा च विद्यत इति निश्चीयते। राद्धान्तस्तु – परमुपासीनानन्यानपि नयति, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति इति पञ्चाग्निविदां परं ब्रह्मोपासीनानां चार्चिरादिगतिश्रुते:। पञ्चाग्निविदो हि प्रकृतिविमुक्तब्रह्मात्मकात्मस्वरूपविद:। ते च तत्प्राप्य पुनर्न निवर्तन्ते। परं ब्रह्मोपासीनास्तु यथावस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर्न निवर्तन्ते, तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धा तप इत्युपासते। तेऽर्चिषमभिसंभवन्ति, इत्युभयविधान् भेदेनोपादायार्चिरादिगतिश्रुतेरपुनरावृत्तिश्रुतेश्चैवमिति निश्चीयते। सूत्रार्थस्तु – कार्यं – हिरण्यगर्भ- मुपासीनमातिवाहिको गणो नयतीति बादरिराचार्यो मन्यते, अस्यैव गत्युपपत्ते: परमुपासीनस्य हि न तत्प्राप्तये गतिरुपपद्यते, सर्वगतत्वात्परस्य ब्रह्मण:॥६॥
५१५। विशेषितत्वाच्च – पुरुषो मानस एत्य ब्रह्मलोकान्गमयति इति, प्रजापतेस्सभां वेश्म प्रपद्ये इति च प्राप्यस्थानस्य विशेषितत्वाच्च हिरण्यगर्भमुपासीनमेव नयति॥७॥
५१६। सामीप्यात्तु तद्व्यपदेश: – एवं निश्चिते सति, स एनान्ब्रह्म गमयति इति हिरण्यगर्भस्य ब्रह्मशब्दव्यपदेशो ब्रह्मसामीप्यात्, यो ब्रह्माणं विदधाति पूर्वम् इति प्रथमजत्वेन ब्रह्मसामीप्यं हि विद्यते ॥८॥
५१७। कार्यात्यये तदध्यक्षेण सहात: परमभिधानात् – हिरण्यगर्भप्राप्तावप्यपुनरावृत्तिः उपपद्यते। कार्यस्य – हिरण्यगर्भलोकस्यात्यये, तदध्यक्षेण – हिरण्यगर्भेणाधिकारिकपुरुषेण विदुषा सह परप्राप्त्यभिधानात् ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे इति॥९॥
५१८। स्मृतेश्च – ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे। प्रस्यान्ते कृतात्मान: प्रविशन्ति परं पदम्॥ इति स्मृतेश्चावगम्यते॥१०॥
५१९। परं जैमिनिर्मुख्यत्वात् – परं ब्रह्मोपासीनमेव नयत्यातिवाहिको गण इति जैमिनिराचार्यो मन्यते, ब्रह्म गमयति इति ब्रह्मशब्दस्य तत्रैव मुख्यत्वात्। ब्रह्मलोकान् इति शब्दश्च ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयपरिग्रहस्यैव न्याय्यत्वादुपपद्यते। एवं निश्चिते सति बहुवचनं च अदिति: पाशान् इतिवदुपपन्नम्॥१२॥
५२०। दर्शनाच्च – अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, इत्यर्चिरादिना गतस्य परब्रह्मप्राप्तिं दर्शयति च॥१२॥
५२१। न च कार्ये प्रत्यभिसन्धि: – प्रजापतेस्सभां वेश्म प्रपद्ये, इति प्रत्यभिसन्धिश्च न कार्ये, धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि, इत्यकृतं ब्रह्मलोकमिति तत्रैव विशेषितत्वात्, यशोऽहं भवामि ब्राह्मणानाम्, इति सर्वात्मभावाभिसंधानाच्च॥१३॥
५२२। अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च – कार्यं उपासीनानेवेति नायं नियम:, परमेवोपासीनानित्यमपि नियमो न संभवति। कुत:? उभयथा च दोषात् – कार्यमुपासीनानेवेति नियमे अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभि– निष्पद्यते इत्यादिकाश्श्रुतय: ये चेमेऽरण्ये श्रद्धा तप: इति च प्रकुप्येयु:; परमेवेति नियमे तद्य इत्थं विदु: इति प्रकुप्येत्। तस्मादप्रतीकालम्बनान्नयतीति भगवान्बादरायणो मन्यते। प्रतीकालम्बनास्तु — अचिन्मिश्रम्, केवलमचिद्वस्तु च ‘सिंहो देवदत्त:‘ इतिवत् ब्रह्मदृष्ट्या स्वरूपेण वा तद्वस्तु य उपासते, ते; अप्रतीकालम्बना: – तद्व्यतिरिक्ता:। सर्वज्ञं सर्वकारणं सत्यसङ्कल्पं निखिलहेयप्रत्यनीकानवधिकातिशयानन्दस्वरूपं ब्रह्मोपासते ये, ये च प्रत्यगात्मनं भूतसूक्ष्मैः संपरिष्वक्तं सर्वत्र वर्तमानं भूतसूक्ष्मव्यतिरिक्तं ज्ञानैकस्वरुपं नित्यं निर्विकारं य आत्मनि तिष्ठन् इत्यादिनाऽवगतब्रह्मात्मभावं पञ्चाग्निविद्योदितमुपासते, तानुभयविधान्नयति, तद्य इत्थं विदुर्ये चेमेऽरण्ये, इत्युभयविषयश्रुते:, तत्क्रतुश्च – यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेत: प्रेत्य भवति, इत्युभयेषामेवापुनरावृत्तिस्संभवति। अचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां तत्क्रतुन्यायादेव पुनरावृत्तिरवर्जनीया॥१४॥
५२३। विशेषञ्च दर्शयति – प्रतीकाद्युक्तलक्षणमचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां सर्वेषां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति श्रुति: – यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति, इत्यादिका, अत:, ब्रह्मणा सह ते सर्वे, इति वचनं नार्चिरादिना गतानां गतिप्रकारविषयम्। अर्चिरादिना गतानां देहावसानसमय एव सुकृतदुष्कृतयोर्हानाद्धिरण्यगर्भलोकावाप्तितद्वासतत्रस्थ-भोगानुभवहेत्वभावात्, तत्क्रतुन्यायविरोधात्, तदानीमेव ब्रह्मप्राप्तिश्रुतिविरोधाच्च, ब्रह्मणा सह ते सर्वे, इति वचनं तु पुण्यकर्मविशेषेण हिरण्यगर्भलोकं प्राप्तानां तदुपर्यपि बादरायण: इति न्यायेन तत्रैव निष्पन्नविद्यानां गतिप्रकारविषयम्, ते ब्रह्मलोके, इति तु ब्रह्मलोकशब्दस्य कर्मधारयवृत्त्या ब्रह्मविषयत्वात् ब्रह्मण्युपास्ये वर्तमाना: परान्तकाले – चरमदेहावसानसमये परामृतात् – परस्माद्ब्रह्मण उपासनप्रीताद्धेतो:, परिमुच्यन्ति सर्वे सर्वस्माद्बन्धाद्विमुच्यन्त इति, वेदान्त-विज्ञानसुनुश्चितार्था:, इति प्रकरणादेव गम्यते, तद्य इत्थं विदु: इति पञ्चाग्निविदां ब्रह्मप्राप्त्य-पुनरावृत्तिश्रवणात्तत्क्रतुन्यायेनाचिद्वियुक्त ब्रह्मात्मकात्मस्वरूपोपासनं विवक्षितमिति निश्चीयते, तथैव तत्र श्रुतिरपि, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति, इति रमणीयचरणा: इति च कर्महेतुकमनुष्यादि भावोऽपामेव भूतान्तरसंसृष्टानामिति चिदचिद्विवेकं प्रतिपाद्य तद्य इत्थं विदु: इति भूतसूक्ष्मव्यतिरिक्तात्मस्वरूपोपासनमेव विदधाति॥१४॥ इति कार्याधिकरणम्॥ ५ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य तृतीयपाद:॥