श्रीवेदान्तसार:
॥ अथ श्रीवेदान्तसारे द्वितीयाध्याये प्रथम: पाद: ॥
२–१–१
१३९। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृतनवकाशदोषप्रसङ्गात् – उपबृंहणापेक्षे वेदान्तार्थनिर्णये सति, कपिलस्मृत्युपबृंहणेन वेदान्तार्थ: प्रधानकारणवाद इत्यनभ्युपगमे, कपिलस्मृतेरुपबृंहणानन्वयेनानवकाशप्रसक्तिरिति चेत्, न, अन्यासां वेदविरोधिनीनां बह्वीनां मन्वादिस्मृतीनां अनवकाशप्रसक्ते:। वेदस्योपबृंहणापेक्षत्वेऽपि अनन्यपराविरुद्धानेकस्मृतिषु सतीषु, विरुद्धार्थाया वेदोदितार्थविशदीकरणत्वाभावेन तस्या उपबृंहणत्वमन्याय्यमित्यर्थ: ॥ १॥
योगीन्द्रकपिलस्य तथाऽनुपलब्धे: कथं स्मृत्यन्तरं न्याय्यमिति चेत्, तत्राह –
१४०। इतरेषां चानुलब्धे: – वेदार्थसाक्षात्कारचतुरमन्वादियोगीन्द्राणां कपिलदृष्टार्थानुपलब्धे: कपिलोपलब्धिर्भ्रम एव॥२॥ इति स्मृत्यधिकरयणम् ॥ १ ॥
२–१–२
१४१। एतेन योग: प्रत्युक्त: – योगस्य हैरण्यगर्भस्यापि कापिलस्मृतिवत् वेदविरुद्धत्व अविशेषात् तद्वन्निरास: ॥३॥ इति योगप्रत्युक्त्त्यधिकरणम् ॥ २ ॥
२–१–३
१४२। न विलक्षणत्वादस्य तथात्वं च शब्दात् – विकारास्पदत्वेनाज्ञत्वेनापुरुषार्थाश्रयत्वेन च जगतो ब्रह्मविलक्षणत्वात् तत्कार्यत्वं न संभवति। विलक्षणत्वं च शब्दाच्चावगम्यते, विज्ञानं चाविज्ञानं च इत्यादे:॥४॥
१४३। अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् – तं पृथिव्यब्रवीत्, आपो वा अकामयन्त इत्यादौ ज्ञानकार्यव्यपदेश: तत्तदभिमानिदेवताविषय इति, हन्ताहमिमास्तिस्रो देवता: इति देवताशब्देन विशेषितत्वात्। अग्निर्वाग्भूत्वा मुखं प्राविशत् इत्यादिना तत्तदचिद्वस्त्वभिमानित्वेन देवतानुगतेश्चावगम्यते॥५॥
१४४। दृश्यते तु – विलक्षणयोरपि कार्यकारणभावस्संभवति, माक्षिकादिभ्य: क्रिम्याद्युत्पत्ति- दर्शनात् ॥६॥
१४५। असदिति चेन्न प्रतिषेधमात्रत्वात् – एवं तर्हि कार्यं कारणे असदिति चेन्न, न, सालक्षण्यनियमप्रतिषेधमात्रत्वात्। पूर्वोक्तं कार्यकारणयोर्वस्त्वैक्यं न त्यक्तम् ॥७॥
१४६। अपीतौ तद्वत्प्रसङ्गादसमञ्जनम् – जगतो ब्रह्मकारणेत्वेन वस्त्वैक्येन तस्मिन्नपीत्यादौ जगत इव ब्रह्मणोऽपि विकारित्वाद्यनिष्टप्रसङ्गाद्वेदान्तवाक्यं सर्वसमञ्जसं स्यात् ॥८॥
१४७। न तु दृष्टान्तभावात् – यस्यात्मा शरीरम्, यस्याव्यक्तं शरीरम् इत्यादिश्रुतिसिद्ध- चिदचिद्वस्तुशरीरकस्य ब्रह्मण: कार्यकारणभावेनावस्थाने गुणदोषव्यवस्थितौ दृष्टान्तसद्भावात्। यथा जीवस्य सशरीरस्य मनुष्याद्यात्मनो बालत्वयुवत्वस्थविरत्वादिभावेऽपि बालत्वादयश्शरीरे तिष्ठन्ति, ज्ञानसुखादयश्चात्मन्येव, तद्वदत्रापि शररीभूतचिदचिद्वस्तुगतान्यज्ञानविकारादीनि दोषा:। आत्मभूते तु ब्रह्मणि निरवद्यत्वाविकारित्वसार्वज्ञ्यसत्यसंकल्पत्वादय:॥९॥
१४८। स्वपक्षदोषाच्च – प्रधानकारणदोषाच्चायमेव ग्राह्य:। प्रधानकारणवादे हि निर्विकार पुरुषसन्निधानात् प्रकृतिप्रवृत्तावितरेतरधर्माध्यासादयो दुरुपपादा:। अन्यत्रान्यधर्मानुसन्धानरूपः अध्यास:। निर्विकारपुरुषस्य न संभवति। अचेतनाया: प्रकृतेरनुसंधानरूपोऽध्यास: सुतरां न संभवति॥१०॥
१४९। तर्काप्रतिष्ठानादपि – प्रधानकारणवादस्य कुतर्कमूलत्वात् तस्याप्रतिष्ठितत्वादपि त्याज्यं प्रधानम्॥११॥
१५०। अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्ग: – कॢप्तप्रकारात् प्रकारान्तरेण प्रधानमनुमेयमिति चेत्। एवमपि ततोऽधिककुतर्ककुशलसंभावनया अप्रतिष्ठितत्वात् अनिर्मोक्षप्रसङ्गो दुर्वारस्स्यात् ॥१२॥ इति विलक्षणत्वाधिकरणम् ॥ ३ ॥
२–१–४
१५१। एतेन शिष्टापरिग्रहा अपि व्याख्याता: – एतेन – साङ्ख्यस्मृतिनिराकरणहेतुना, तर्काप्रतिष्ठितत्वादिना, परिशिष्टाश्च कणभक्षाक्षपादक्षपणकादिस्मृतयो निराकृता:॥१३॥ इति शिष्टापरिग्रहाधिकरणम्॥४॥
२–१–५
१५२। भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् – यदि चिदचिद्वस्तुशरीरकत्वेन ब्रह्मणोऽपि स शरीरत्वमिष्यते, तर्हि जीववत् सशरीरत्वेन ब्रह्मणोऽपि शरीरसंबन्धप्रयुक्तसुखदु:खभोक्तृत्वापत्ते: जीवादविभागप्रसक्तिरिति चेत्, न, स्यादेव जीवाद्विभाग:, निरवद्यत्वकल्याणगुणाकरत्वेन ब्रह्मण:। न हि सशरीरत्वप्रयुक्तमनिष्टभोक्तृत्वम्। अपि त्वन्यवश्यत्वकृतम्। यथा लोके राज्ञस्सशरीरत्वेऽप्यनन्यवश्यस्य स्वाज्ञातिवृत्तिकृतानिष्टभोक्तृत्वं नेतरसमानम् ॥१४॥ इति भोक्त्रापत्त्यधिकरणम् ॥ ५ ॥
२–१–६
१५३। तदनन्यत्वमारम्भणशब्दादिभ्य: – कारणभूताद्ब्रह्मणोऽनन्यत्वं कार्यभूतजगत: वाचारम्भणशब्दादिभ्यो वाक्येभ्योऽवगम्यते, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा, तत्त्वमसि इत्यादिभ्य: ॥१५॥
१५४। भावे चोपलब्धे: – घटादिकार्यभावे च तदेवेदं मृद्द्रव्यमित्युपलब्धेश्च कारणादनन्यत्कार्यम्॥१६॥
१५५। सत्त्वाच्चापरस्य – कार्यस्य कारणे सत्त्वाच्च तस्मादनन्यत्कार्यम्। घटशरावादिकं पूर्वं मृत्तिकैवासीदिति हि घटादि: मृदात्मनोपलभ्यते॥१७॥
१५६। असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च – इदं वा अग्रे नैव किञ्चनासीत् इति कार्यस्य तदानीमसत्त्वव्यपदेशात् कारणे कार्यमसदिति चेत् – न, स्थूलत्वविरोधिसूक्ष्मत्वरूपधर्मान्तरयोगादसत्त्वव्यपदेश:। कुत:? तदसदेव सन्मनोऽकुरुत स्याम् इति वाक्यशेषादवगम्यते। मनस्कारो हि विद्यमानस्यैव। युक्तिश्चासद्व्यपदेशो धर्मान्तरयोगनिमित्त इति गमयति। पिण्डत्वघटत्वकपालत्वादिभि: परस्परविरोधिभि: भावरूपैर्धर्मै: घट: प्राङ्नासीदिदानीमस्ति भविष्यति चेति सदा विद्यमानस्यैव मृद्द्रव्यस्य हि असदादिव्यपदेश:। तथा शब्दान्तरं च – तद्धेदं तर्ह्यव्याकृतमासीत् इत्यादि॥१८॥
१५७। पटवच्च – तन्तव एव संयोगविशेषभाज: पट इति नामान्तरादिकं भजन्ते, तद्वत् ब्रह्मापि॥१९॥
१५८। यथा च प्राणादि: – यथा च वायुरेक एव वृत्तिविशेषै: प्राणापानादिनामानि भजते, तथा ब्रह्मापीति तदनन्यत्वं जगत:॥२०॥ इति आरम्भणाधिकरणम् ॥ ६ ॥
२–१–७
१५९। इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति: – तत्त्वमसि, अयमात्मा ब्रह्म इति कार्यभूतस्य जीवस्य ब्रह्मभावव्यपदेशाद्धि अनन्यत्वमुक्तम्। एवं तर्हि सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण: आत्मनो हितरूपकार्यजगदकरणम्, अहितरूपकार्यकारणञ्चेत्यादि दोषप्रसक्ति:॥२१॥
१६०। अधिकं तु भेदनिर्देशात् – कार्यकारणयोरनन्यत्वेऽपि जीवस्वरूपात् ब्रह्मस्वरूपं अर्थान्तरम्। करणाधिपाधिप:, विद्याविद्ये ईशते यस्तु सोऽन्य: इत्यादिभेदनिर्देशात्। चिदचिद्वस्तुशरीरं ब्रह्मैव कारणावस्थं कार्यावस्थं चेति गुणदोषव्यवस्थितिरिति। न तु दृष्टान्तभावात् इति ह्युक्तम्। यस्य पृथिवी शरीरम्, यस्यात्मा शरीरम् इत्यादि श्रुतिशतसमधिगतं चिदचिद्वस्तुशरीरकत्वम्॥२२॥
१६१। अश्मादिवच्च तदनुपपत्ति: – अश्मकाष्ठलोष्टतृणादेरचेतनस्येव जीवस्य अनीशया शोचति मुह्यमान: इत्यादिना अत्यन्तविसजातीयतयाऽभिहितस्य सर्वज्ञसत्यसङ्कल्पब्रह्मस्वरूपता-नुपपत्ति: सिद्ध्यत्येवेत्यर्थ:॥२३॥ इति इतरव्यपदेशाधिकरणम् ॥ ७ ॥
२–१–८
१६२। उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि – कार्यनिर्वृत्तावनेककारकोपसंहारदर्शनात् ब्रह्मैकमेव जगदाकारकार्यं न भवेदिति चेत् – न, क्षीरस्यैव दधिभाववत् ब्रह्मणोऽपि संभवति॥२४॥
१६३। देवादिवदपि लोके – यथा देवादेश्शास्त्रावगतशक्ते: स्वसङ्कल्पादेव स्वे स्वे लोके स्वापेक्षितनानारूपभाव:, एवं ब्रह्मणोऽपि शास्त्रावगतशक्तेस्सर्वमुपपन्नम्॥२५॥ इति उपसंहारदर्शनाधिकरणम् ॥ ८ ॥
२–१–९
१६४। कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा – चिदचिद्वस्तुशरीरकं ब्रह्मैव कार्यकारणावस्थं इति ह्युक्तम्। तत्र ब्रह्मणश्शरीरिणो निरवयवत्वेन कृत्स्नस्य ब्रह्मण: कार्यत्वेनोपयोगप्रसक्ति:। कार्यावस्थायामपि अंशान्तरेणावस्थितमिति च पक्षे निरवयवत्वशब्दकोपो वा स्यात्। अतो ब्रह्म न कारणम्॥२६॥
परिहरति –
१६५। श्रुतेस्तु शब्दमूलत्वात् – श्रुतिप्रामाण्यान्नैवं प्रसज्यते। शब्दैकप्रमाणकत्वाद्ब्रह्मस्वरूपस्य सकलेतरप्रमाणावगतवस्तुविसजातीयत्वेन तत्र तत्रादृष्टशक्तियोगो ब्रह्मणो न विरुद्ध:, अत: कार्यत्वेन कारणत्वेन परिपूर्णस्यावस्थानं संभवति, यथा जातिवादिनां जाते: खण्डमुण्डादिषु॥२७॥
१६६। आत्मनि चैवं विचित्राश्च हि – जीवात्मनि चाचिद्धर्मविरोधिधर्मयोगो विसजातीय- शक्तित्वादेव। अग्निजलादयोऽप्यचिद्विशेषा अन्योन्यविलक्षणा: नियतशक्तयो विचित्रा दृश्यन्ते॥२८॥
१६७। स्वपक्षदोषाच्च – कृत्स्नप्रसक्त्यादिदोष: निरवयवेऽचित्सजातीये प्रधान एवेति ब्रह्मैव कारणम्॥२९॥
१६८। सर्वोपेता च तद्दर्शनात् – परास्य शक्तिर्विविधैव श्रूयत इति श्रुते: सर्वशक्तियोगश्च देवताया अवगम्यते॥३०॥
१६९। विकरणत्वान्नेति चेत्तदुक्तम् – न तस्य कार्यं करणं च विद्यते इति ब्रह्मणो विकरणत्वात् कारणत्वं नेति चेत्, तस्योत्तरम् शब्दैकमूलत्वेन विसजातीयत्वादिति पूर्वसूत्रोक्तमेव॥३१॥ इति कृत्स्नप्रसक्त्यधिकरणम् ॥
२–१–१०
१७०। न प्रयोजनवत्त्वात् – ब्रह्मण: अवाप्तसमस्तकामत्वेन सृष्टौ प्रयोजनाभावात् ब्रह्म न कारणम्॥३२॥
१७१। लोकवत्तु लीलाकैवल्यम् – अवाप्तसमस्तकामस्यापि लीलाप्रयोजनत्वे नैरपेक्ष्यं संभवति। लोके केवललीलायै कन्तुकाद्यारम्भदर्शनात्। अस्यात्मतृप्तस्यावाप्तसमस्तकामत्वं हि सदाऽभिमत-सकलभोगोपकरणसद्भाव:। आत्मतृप्तेर्भोगतृप्तिर्विसजातीया। लीलारसस्यापि तद्विलक्षणस्य त्रिगुणपुरुषाद्युपकरणं नित्यमेव॥३३॥
१७२। वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति – देवादिविषमसृष्ट्या पक्षपातो नैर्घृण्यं च न संभवति परस्य, क्षेत्रज्ञकर्मसापेक्षत्वाद्विषमसृष्टे:। तथा साधुकारी साधुर्भवति, पापकारी पापो भवति इति श्रुतिरेव दर्शयति॥३४॥
१७३। न कर्माविभागादिति चेन्नानादित्वादुपद्यते चाप्युपलभ्यते च – सदेव सोम्येदमग्र आसीत्, एकमेव इत्येकत्वावधारणात्, तदानीं क्षेत्रज्ञाभावात् कर्म न संभवति इति चेत्, न, अनादित्वात् क्षेत्रज्ञानां तत्तत्कर्मप्रवाहश्चास्त्येव। उपपद्यते च तदनादित्वेऽप्यविभागश्रुति: नामरूपविभागाभावात्। तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत इत्यनयैकार्थ्यात्। उपलभ्यते च। श्रुतिषु क्षेत्रज्ञानादित्वम्। ज्ञाऽज्ञौ द्वावजावीशनीशौ, नित्यो नित्यानाम् इति॥३५॥
१७४। सर्वधर्मोपपत्तेश्च – प्रधानपरमाण्वादिष्वनुपपन्नानां सर्वधर्माणां ब्रह्मणि सकलेतरविलक्षणत्वेन सर्वशक्तिश्रुत्या चोपपत्ते: ब्रह्मैव कारणमिति सिद्धम्॥३६॥ इति प्रयोजनवत्त्वाधिकरणम् ॥ १० ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे द्वितीयस्याध्यायस्य प्रथम: पाद: