[highlight_content]

श्रीवेदान्तसार: Ady 02 Pada 03

श्रीवेदान्तसार:

अथ द्वितीयाध्यायस्य तृतीय: पाद:

२१७। न वियदश्रुते: – वियन्नोत्पद्यते, अश्रुते:, श्रुति: – श्रवणम्। निरवयवस्य, आत्मन इवोत्पत्तिश्रवणासंभवात्॥१॥

२१८। अस्ति तु – श्रवणं संभवत्येव, आकाशस्संभूत: इत्येव हि श्रुति: अतीन्द्रियार्थविषया वियदुत्पत्तिं प्रतिपादयति। आत्मनोऽपि न जायते इति प्रतिषेधादनुत्पत्ति:॥२॥

२१९।    गौण्यसंभवाच्छब्दाच्च – तत्तेजोऽसृजत इति तेज: प्राथम्यवचनात् आकाशस्संभूत: इति श्रुतिर्गौणी वायुश्चान्तरिक्षं चैतदमृतम् इति शब्दाच्च॥३॥

२२०। स्याच्चैकस्य ब्रह्मशब्दवत् – एकस्य संभूतशब्दस्याकाशे गौणत्वमन्यत्र मुख्यत्वम् अनुषङ्गे संभवत्येव, श्रवणावृत्तिवत्, यथैकस्य ब्रह्मशब्दस्य तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते इति प्रकृतौ गौणत्वम्, तपसा चीयते ब्रह्म इति मुख्यत्वमावृत्तौ॥४॥

परिहरति –

२२१। प्रतिज्ञाहानिरव्यतिरेकात् – येनाश्रुतं श्रुतम् इत्यादिना एक विज्ञानेन सर्वविज्ञानप्रतिज्ञाया अहानि: वियदादेर्ब्रह्मकार्यत्वेन तदव्यतिरेकादेव॥५।

२२२।    – शब्देभ्य: – आकाशस्संभूत: इत्यादिशब्देभ्य: अवगतां वियदुत्पत्तिं तत्तेजोऽसृजत इत्यत्राकाशशब्दावचनावगतं तेज: प्राथम्यं न निवारयितुं क्षमम्॥६॥

२२३। यावद्विकारं तु विभागो लोकवत् – ऐतदात्म्यमिदं सर्वम् इत्यादिना आकाशादेरपि विकारत्वावगमात्, तेज: प्रभृतिविभागवचनं सर्वस्य प्रदर्शनार्थमिति निश्चीयते। यथा च लोके दशेमे देवदत्तपुत्रा इत्युक्त्वा तेषु केषाञ्चिदुत्पत्तिवचनम्॥७॥

२२४। एतेन मातरिश्वा व्याख्यात: – तेजोऽत: इत्यादि वक्तुं वायो: पृथगुपादानम्॥८॥

२२५। असंभवस्तु सतोऽनुपपत्ते: – असंभवस्तु परस्य ब्रह्मण एव। इतरस्य सदेवेत्यवधारणाद्यनुपपत्तेरुत्पत्तिरेव॥९॥ इति वियदधिकरणम् ॥ १ ॥ इति वियदधिकरणम्

आकाशादिव्यवहितकार्याणामपि साक्षाद्ब्रह्मण उत्पत्तिं वक्तुं पूर्वपक्षमाह –

२२६। तेजोऽतस्तथा ह्याह – तेज: वायोरेवोत्पद्यते न साक्षाद्ब्रह्मण:, वायोरग्नि: इत्याह॥१०॥

२२७।    आप: – अग्नेराप: इति श्रुते: आप: अग्ने:॥११॥

२२८। पृथिवी – पृथिवी अद्भ्य:। अद्भ्य: पृथिवी इति श्रुते:॥१२॥

२२९।    अधिकाररूपशब्दान्तरेभ्य: – ता अन्नमसृजन्त इत्यन्नशब्देन पृथिव्येवाभिधीयते, महाभूतसृष्ट्यधिकारात्। यत्कृष्णं तदन्नस्य इति पृथिवीरूपविधानात्, अद्भ्य: पृथिवी इति पृथिवीशब्दाभिधानच्च॥१३॥

राद्धान्तमाह।

२३०। तदभिध्यानादेव तु तल्लिङ्गात्स: – तत्तेज ऐक्षत, ता आप ऐक्षन्त इति तदभिध्यानरूपात्, तदैक्षत बहु स्याम् इत्येतत्सरूपात् परमात्मकारणत्वलिङ्गात् स एव परमात्मा तेज: प्रभृतिशरीरकस्तत्तच्छब्दैस्साक्षात्कारणत्वेनाभिधीयते॥१४॥

२३१।    विपर्ययेण तु क्रमोऽत उपपद्यते – पारंपर्यक्रमात् विपर्ययेण एतस्माज्जायते प्राण:, खं वायुर्ज्योतिराप: इत्यादिवाक्यात् यस्साक्षाद्ब्रह्मणस्सृष्टेरुपक्रम:, सोऽपि अत: – तेज:- प्रभृतिशरीरकब्रह्मण एव सृष्टे: उपपद्यते॥१५॥

२३२।    अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् – भूतप्राणयोरन्तराले इन्द्रियग्राममनसी क्रमेण उत्पद्येते इत्येतत्परमिदं वाक्यम्, खं वायुर्ज्योतिराप इत्यादि श्रुति प्रत्यभिज्ञानरूपाल्लिङ्गात्, अत इदमपि पारंपर्यक्रमपरमिति चेन्न, एतस्माज्जायते इत्यस्य  प्राणादिपृथिव्यन्तेषु सर्वेषु प्रत्येकमन्वयाविशेषात्। अतस्तेज: प्रभृतीनामपि साक्षात्परमात्मैव कारणम्॥१६॥

तत्तेज ऐक्षत इति तेज: प्रभृतिशब्दा: लोके तत्तद्वस्तुवाचिन: ब्रह्मणि भाक्ता इत्यत्राह –

२३३। चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोऽभाक्तस्तद्भावभावित्वात् – चराचरवस्तु संबन्धितत्तद्वाचकशब्द: ब्रह्मणि अभाक्त: – मुख्यएव, अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि इति तु सर्वस्य वस्तुनो नामरूपभाक्त्वस्य आत्मतया ब्रह्मानुप्रवेशभावभावित्वात्। लौकिकास्त्वेवमजानन्तो वाच्यैकदेशे प्रयुञ्जते॥१७॥ इति तेजोऽधिकरणम्

२३४।    नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: – नात्मा उत्पद्यते, न जायते म्रियते इति श्रुते:, नित्यो नित्यानाम् इत्यादिश्रुतिभ्यो नित्यत्वावगतेश्च॥१८॥ इति आत्माधिकरणम् ॥ ३ ॥

२३५।    ज्ञोऽत एव – अथ यो वेदेदं जिघ्राणीति स आत्मा, मनसैतान् कामान् पश्यन्रमते य एते ब्रह्मलोके इत्यादिश्रुते: बद्धो मुक्तश्चात्मा ज्ञातैव। मनोऽस्य दैवं चक्षु: इति श्रुते: स्वधर्मभूतं ज्ञानं मन:॥१९॥

२३६। उत्क्रान्तिगत्यागतीनाम् – उत्क्रान्तिगत्यागतीनां श्रुतेरणुर्जीव:॥२०॥

२३७। स्वात्मना चोत्तरयो: –  गत्यागत्योस्स्वात्मनैव संपाद्यत्वादप्यणुत्वं निश्चितम्॥२१॥

२३८। नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् – स वा एष महानज आत्मा इति श्रुते: नाणुरिति चेत्, न, यस्यानुवित्त: प्रतिबुद्ध आत्मा इति परमात्माधिकारात्॥२२॥

२३९। स्वशब्दोन्मानाभ्यां – एषोऽणुरात्मा इत्यणुशब्दात् आराग्रमात्रो ह्यवर: इत्युद्धृत्य उन्मानशब्दाच्चाणु:॥२३॥

अणोरपि सकलदेहव्यापिवेदनानुभवे अन्यमतेन हेतुमाह –

२४०।    अविरोधश्चन्दननवत् – यथा चन्दनबिन्दुरेकदेशस्थोऽपि सकलदेहव्यापि सुखं जनयति, तद्वदविरोध:॥२४॥

२४१। अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि – देहदेशविशेषस्थितेश्चन्दनस्येति चेत्, न, आत्मनोऽपि तदभ्युपगमात्। हृदि ह्ययमात्मा, योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: इति श्रुते:॥२५॥            स्वमतेनाह –

            २४२।  गुणाद्वाऽऽलोकवत् – आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यानुभवति, यथा मणिप्रभृतयस्स्वकीयेनालोकेन सकलदेशं व्याप्य प्रकाशयन्ति, प्रज्ञामात्रास्वर्पिता इति श्रुते:॥२६॥

न ज्ञानात्मनो: व्यतिरेक इत्यत्राह –

२४३।    व्यतिरेको गन्धवत्तथा दर्शयति – गन्धवती पृथिवी इतिवत्, अहं जानामि इति गुणवत्त्वेनोपलब्धे: व्यतिरेकोऽस्ति। दर्शयति च श्रुतिर्व्यतिरेकम् जानात्येवायं पुरुष इति॥२७॥

२४४। पृथगुपदेशात् – आत्मन: पृथक्त्वेन चोपदिश्यते न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति॥२८॥

योऽयं विज्ञानमय इति ज्ञानमात्रव्यपदेश: कथमित्यत्राह –

२४५। तद्गुणसारत्वात्तु तद्व्यपदेश: प्राज्ञवत् – ज्ञानगुणसारत्वादात्मनो ज्ञानमिति व्यपदेश:, यथा प्राज्ञस्य विपश्चितोऽपि सत्यं ज्ञानम् इति॥२९॥

२४६। यावदात्मभावित्वाच्च दोषस्तद्दर्शनात् – आत्मस्वरूपानुबन्धित्वात् ज्ञानस्य तेन व्यपदेशे न दोष:। स्वरूपानुबन्धिधर्मत्वेन गोत्वादीनां खण्डादे: गौरित्यादिव्यपदेशो हि दृश्यते॥३०॥

सुषुप्त्यादिष्वसतो ज्ञानस्य यावदात्मभावित्वं कथमित्यत्राह –

२४७। पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् –  सुषुप्त्यादिषु सतो ज्ञानस्यानभिव्यक्तस्यापि जागरादावभिव्यक्तिसंभवात्। स्वरूपानुबन्ध्येव ज्ञानम्। यथा पुंस्त्वासाधरणसप्तमधातोर्बाल्येऽपि सतो युवत्वेऽभिव्यक्ति:। जीवात्मनो ज्ञातृत्वमणुत्वं चोक्तम्॥३१॥

२४८। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतर नियमो वाऽन्यथा – अन्यथा ज्ञप्तिमात्रसर्वगतात्मवादे तावन्नित्यवत् सर्वदोपलब्धिस्स्यात्, संकोचकाभावाद्विद्यमानाया अनुपलब्धेरपि सैव हेतुरिति साऽपि नित्यवत्स्यात्, ज्ञाने विद्यमानेऽपि हेत्वन्तरेण निवारणासंभवात्। आगन्तुकज्ञानसर्वगतात्मवादेऽपि स एव दोष:, सर्वात्मनां सर्वगतत्वेन ज्ञानहेतूनां मनस्संयोगादीनां सर्वसाधारणत्वात्। अदृष्टहेतूनामपि सर्वसाधारणत्वात् तेनापि न नियम:। अथोपलब्ध्यनुपलब्ध्योर्विरोधादुपलब्धेरेवैते हेतव: स्यु:, अनुपलब्धेर्वा, तथा सत्यन्यतरनियमस्स्यात्॥३२॥ इति ज्ञाधिकरणम्

२४९। कर्ता शास्त्रार्थवत्त्वात् – ज्ञाता सन्नयमात्मा कर्मसु कर्ता च। आत्मन: अकर्तृत्वे, कुर्यात्,  न कुर्यादिति शास्त्रानर्थक्यं स्यात्॥३३॥

२५०। उपादानाद्विहारोपदेशाच्च – प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते इत्युपादानविहारोपदेशाच्च कर्ता॥३४॥

२५१। व्यपदेशाच्च क्रियायां चेन्निर्देश विपर्यय: – विज्ञानं यज्ञं तनुते इत्यादिना यज्ञादौ कर्तृत्वव्यपदेशाच्च कर्ता। विज्ञानशब्दो बुद्धे:, नात्मन: इति चेत्, न, तदा विज्ञानेनेति निर्देशविपर्यय: स्यात्, बुद्धे: करणत्वात्॥३५॥

२५२। उपलब्धिवदनियम: – प्रकृतेरेव कर्तृत्वे तस्यास्सर्वसाधारणत्वेन पूर्वोपलब्ध्यनियमवत् फलानियमस्स्यात्॥३६॥

२५३।    शक्तिविपर्ययात् – प्रकृतेरेव कर्तृत्वे कर्तुरेव भोक्तृत्वमिति सैव भोक्त्री स्यादित्यर्थ:॥३७॥

२५४। समाध्यभावाच्च – प्रकृतेरेव कर्तृत्वे प्रकृतेरन्योऽस्मीति समाध्यभावप्रसङ्गाच्च॥३८॥

२५५। यथा तक्षोभयथा –  आत्मन: कर्तृत्वे, इच्छायां करोति, अन्यथा न करोतीति व्यवस्था च सिध्यति। यथा तक्षा स्वकार्येषु। बुद्धेरिच्छाभावात् न व्यवस्था। चेतनधर्मत्वादिच्छाया:॥३९॥ इति कर्त्रधिकरणम्

            २५६।    परात्तु तच्छ्रुते: – य आत्मानमन्तरो यमयति इत्यादि श्रुतेरात्मन: कर्तृत्वं परायत्तम्, सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च इत्यादिस्मृतेश्च॥४०॥

२५७। कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैय्यर्थ्यादिभ्य: – जीव: स्वेच्छया प्रवृत्तिनिवृत्ति- हेतुभूतं प्रयत्नं करोति, जीवेन तु कृतं प्रयत्नं प्रथमप्रवृत्तिहेतुमपेक्ष्य तदनुमतिदानेन पर: प्रवर्तयति – इति तद्विधिनिषेधावैयर्थ्यनिग्रहानुग्रहेभ्योऽवगम्यते। यथा गुरुतरदार्वातिभरणमबल: प्रबलसहकृत: कुर्वन्नपि स्वीयप्रयत्नेन विधिनिषेधयोग्यो भवति, एवमेव जीव: परमपुरुषानुमतिसहकृत: प्रवर्तमानोऽपि विधिनिषेधयोग्य इति न कश्चिद्विरोध:॥४१॥ इति परायत्ताधिकरणम् ॥ ६ ॥

२५८। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके – जीवात्मा परमपुरुषांश:। पृथगात्मनं प्रेरितारं च मत्वा,  स कारणं करणाधिपाधिप: इत्यादिनाव्यपदेशात्, अन्यथा, तत्त्वमसि, अयमात्मा ब्रह्म इति ऐक्योपदेशाच्च । ब्रह्मदाशा: इत्यादिना सर्वजीवव्याप्त्या ऐक्यमधीयत एके, अंशत्वाभ्युपगमे ह्युभयं मुख्यं भवति॥४२॥

२५९। मन्त्रवर्णात् – पादोऽस्य विश्वा भूतानि इति मन्त्रावर्णाच्च॥४३॥

२६०। अपि स्मर्यते – ममैवांशो जीवलोके जीवभूतस्सनातन: इत्यादिना॥४४॥

२६१। प्रकाशादिवत्तु नैवं पर: – ब्रह्मांशत्वेऽपि जीवस्य, जीवो यत्स्वरूपो यत्स्वभावश्च, नैवं पर: – निरवद्य: सर्वज्ञ: सत्यसंकल्प एव सर्वदा। कथम्?  प्रकाशादिवत् प्रकाशविशिष्टानां मणिप्रभृतीनां प्रकाश: विशिष्टैकदेशत्वेन यथांश:। आदिशब्दाद्विशेषणतैकस्वभावजातिगुणशरीराणि गृह्यन्ते। विशेषणानां विशिष्टैकदेशतया तदंशत्वेऽपि विशेषणविशेष्ययो: स्वरूपस्वभावभेदो न विरुद्ध:। य आत्मनि तिष्ठन्यस्यात्मा शरीरम् इति हि श्रुति:॥४५॥

२६२। स्मरन्ति – चिदचिदात्मकजगतो ब्रह्मांशत्वं प्रकाशादिवदिति पराशरादय: स्मरन्ति।

एक देशस्थितस्याग्ने: ज्योत्स्ना विस्तारिणी यथा

परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं  जगत्

तत्सर्वं वै हरेस्तनु:, तानि सर्वाणि तद्वपु: इत्यादिषु ॥४६॥

२६३। अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् – ब्रह्मांशत्वेऽपि सर्वजीवानां कस्य चिद्वेदाध्ययनादौ अनुज्ञा कस्य चित्परिहार: इत्येतौ ब्राह्मणादिदेहविशेषसंबन्धादुपपद्येते।  यथाऽग्न्यादे: श्रोत्रियागारश्मशानादिसंबन्धात्॥४७॥

२६४। असन्ततेश्चाव्यतिकर: – प्रतिदेहं भिन्नत्वात् अणुत्वेन तत्र तत्र परिच्छिन्नत्वाच्च ज्ञानसुखाद्यव्यतिकर:। अज्ञानोपाधिभ्यां ब्रह्मैव संबध्यते इति पक्षद्वयेऽपि न तत्तद्व्यवस्था॥४८॥

२६५। आभास एव – पक्षद्वयेऽपि हेतवश्च आभासा:॥४९॥

२६६। अदृष्टानियमात् – सत्यमिथ्योपाधिकृतत्वेऽपि आत्मनां ब्रह्मण एव अज्ञानमुपाधिश्चेति तत्तत्कृतेनादृष्टादिनाऽपि न नियम:॥५०॥

२६७। अभिसन्ध्यादिष्वपि चैवम् – अदृष्टहेतुभूताभिसन्ध्यादिष्वपि चैवमेव॥५१॥

२६८।    प्रदेशभेदादिति चेन्नान्तर्भावात् – उपाधिसंबन्धिब्रह्मप्रदेशभेदात् व्यवस्थेति चेन्न, उपाधिषु गच्छत्सु सर्वप्रदेशानां तदन्तर्भावात्॥५२॥ इति अंशाधिकरणम्

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे द्वितीयस्याध्यायस्य तृतीय: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.