श्रीवेदान्तसार:
॥ तृतीयाध्यायस्य प्रथम पाद:॥
३–१–१
२८८। तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् – जीवो देहाद्देहान्तरप्राप्तौ भूतसूक्ष्मैस्संपरिष्वक्तो यातीति पञ्चाग्निविद्यायां प्रश्नप्रतिवचनाभ्यावगम्यते। वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रश्न:, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रतिवचनम्। उत्तरैस्सूत्रैरर्थोऽभिव्यज्यते। स चायमर्थ: । जीवो ब्राह्मणादिदेहस्थ: स्वाहादानादिकर्मकृत् तत्तत्फलभोगायास्माद्देहादुत्थाय गच्छन्, एतद्देहस्थाभि: भूतान्तरसंसृष्टाभि: सूक्ष्माकाराभिरद्भि: संपरिष्वक्तोऽग्नित्वेन निरूपितं द्युलोकं प्राप्य, ताभिरेवामृतमयदेहाकार-परिणताभिरद्भि: परिष्वक्तो देवानां शेषत्वमुपगम्य, तैस्सह तत्र भोगमनुभूय, कर्मावसाने भुक्तशिष्टब्राह्मणादियोनिप्रापककर्मणा सह पुनरपीमं कर्मलोकमागम्य, कर्मकर्तुं ताभि: परिष्वक्तोऽग्नित्वरूपितं पर्जन्यं प्राप्य, वर्षधाराभिस्सहाग्नित्व- निरूपितां पृथिवीमुपगम्य, व्रीह्यादिसस्येन संयुज्य, अन्नाकारपरिणतेन तेन सहाग्नित्वनिरूपितं पुरुषं प्राप्य, तत्र शुक्लाकारपरिणताभिस्ताभिरद्भि: परिष्वक्तोऽग्नित्वनिरूपितां योषितं प्राप्य, तत्र गर्भाकार परिणताभिस्ताभिरद्भि: पुरुषशब्दाभिलपनीयाभि: परिष्वक्त: कर्मानुरूपं ब्राह्मणादिरूपेण जायत इति॥१॥
२८९। त्र्यात्मकत्वात्तु भूयस्त्वात् – सर्वस्य त्रिवृत्करणेन त्र्यात्मकत्वात् भूतान्तरसंसृष्टा एवापो भूयस्त्वेनाप्शब्देनोच्यन्ते॥२॥
२९०। प्राणगतेश्च – प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इति जीवेन सहेन्द्रियगते: तदाश्रयत्वेन देहगमनं प्रतीयते॥३॥
२९१। अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् – अग्निं वागप्येति इतीन्द्रियाणामग्न्यादि- गतिश्रुतेर्न जीवेन गमनमिति चेत्, न। वागाद्यभिमानिदेवतासु भाक्तत्वात् वागादिशब्दानाम्, ओषधीर्लोमानीति अनपियद्भिर्लोमादिभिस्सह पाठात्॥४॥
२९२। प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते: – प्रथमे – द्युलोकेऽपामश्रवणात् नापो गच्छन्ति। एतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति इति श्रद्धैव श्रुतेति चेत्, न – आप एव श्रद्धाशब्देनोच्यन्ते – इत्यप्सु पृष्टासु तदुत्तरत्वोपपत्तेर्गम्यते। श्रद्धा वा आप: इति श्रूयते॥५॥
२९३। अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते: – अत्र प्रश्नप्रतिवचनयोराप एव प्रतीयन्ते, न तत्परिष्वक्तो जीव इति चेत्, न, उत्तरत्र। अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते इत्यादाविष्टादिकारिणां गमनप्रकारवचनात्। द्युलोकाग्निसम्बन्ध्यप्शब्दवाच्यस्य तस्या आहुतेस्सोमो राजा संभवति इति सोमभूतस्यैव, सोमोराज इति प्रत्यभिज्ञानादद्भि: परिष्वक्तस्तच्छरीरक एव आप इत्युच्यते इत्यवगम्यते॥६॥
२९४। भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति – एष सोमो राजा तं देवा भक्षयन्ति इति सोमापन्नस्य देवैर्भक्ष्यमाणत्ववचनं भाक्तम् – अनात्मवित्त्वेन देवोपकरणत्वाभिप्रायम्, तथा हि दर्शयति श्रुति:, यथा पशुरेवं स देवानाम् इति पशुवद्देवोपकरणत्वं दर्शयति। तथा आत्मविदामनात्मविदां च परमपुरुषोपकरणत्वं देवोपकरणत्वं च स्मर्यते। देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि इति॥७॥ इति तदन्तरप्रतिपत्त्यधिकरणम् ॥ १ ॥
३–१–२
२९५। कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च – कृतस्य कर्मणोऽन्ते निवर्तमानो भुक्तशिष्टकर्मवान्निवर्तत इति श्रुतिस्मृतिभ्यामवगम्यते। रमणीयचरणा: रमणीयां योनिमापद्यन्ते इति श्रुति:। तत: परिवृत्तौ कर्मफलशेषेण जातिं रूपम् इत्यादिका स्मृति:, आरोहणप्रकारेण मार्गैकदेश:, प्रकारान्तरेण चैकदेश:॥८॥
२९६। चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि: – रमणीयचरणा: इति चरणशब्दात् नानुशय:, चरणशब्दस्य स्मार्ताचारविषयत्वादिति चेत्, न, अनुशयोपलक्षणार्था आचारश्रुति:, तस्यैव सुखसाधनत्वात्॥९॥
२९७। आनर्थक्यमिति चेन्न तदपेक्षत्वात् – स्मार्ताचारस्यानुपयोगात् आनर्थक्यमिति चेत्, न, तदपेक्षत्वात् सर्वस्य पुण्यकर्मण:। सन्ध्याहीनोऽशुचिर्नित्यमनर्हास्सर्वकर्मसु, इति वचनादिति कार्ष्णाजिनेर्मतम्॥१०॥
२९८। सुकृतदुष्कृते एवेति तु बादरि: – रमणीयचरणा: कपूयचरणा:, इति चरणशब्देन सुकृतदुष्कृते एवाभिधीयते। पुण्यं कर्माचरति इति प्रसिद्धेरिति बादरि:। एतदेव स्वीकृतम्। स्मार्ताचारापेक्षं सर्वं पुण्यं कर्मेति च स्वीकृतम्॥११॥ इति कृतात्ययाधिकरणम् ॥ २ ॥
३–१–३
२९९। अनिष्टादिकारिणामपि च श्रुतम् – इष्टापूर्ताद्यकुर्वतामपि चन्द्रगमनमस्ति, ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते इत्यविशेषात्॥१२।
३००। संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् – इष्टापूर्ताद्यकुर्वतां यमसदने तत्फलमनुभूयारोहादि:, वैवस्वतं सङ्गमनं इत्यादौ तद्गतिदर्शनात्॥१३॥
३०१। स्मरन्ति च – सर्वे चैते वशं यान्ति यमस्य, इति॥१४॥
३०२। अपि सप्त – सप्त रौरवादीनपि स्मरन्ति॥१५॥
३०३। तत्रापि तद्व्यापारादविरोध: – तत्रापि यमव्यापारादेव यमवश्यताया अविरोध:॥१६॥
३०४। विद्याकर्मणोरिति तु प्रकृतत्वात् – विद्याकर्मणो: फलं ब्रह्मगमनं चन्द्रगमनं च। कथम्? तद्य इत्थं विदु: तेऽर्चिषमभिसंभवन्ति, इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इति च, प्रकृतत्वात् ब्रह्मचन्द्रगमनयो: । अत: पापिनां न तद्गतिप्रसङ्ग:॥१७॥
३०५। न तृतीये तथोपलब्धे: – न च पापिनां द्युलोकगमनाय चन्द्रलोकगमनापेक्षा, तेषां द्युलोकगमनाभावोपलब्धे:। अथैतयो: पथोर्न कतरेण च इत्यारभ्य एतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते इति। तृतीयस्थानमिति पापकर्माण उच्यन्ते॥१८॥
३०६। स्मर्यतेऽपि च लोके – लोके च द्रौपद्यादीनां पुण्यकर्मणामपि पञ्चमाहुत्यनपेक्षदेहारम्भः स्मर्यते॥१९॥
३०७। दर्शनाच्च – तथा श्रुतावपि दृश्यते। भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवमुद्भिज्जम् इति स्वेदजोद्भिज्जयोस्तदनपेक्षत्वम्॥२०॥
३०८। तृतीयशब्दावरोधस्संशोकजस्य – स्वेदजस्य उद्भिज्जशब्देन संग्रह इत्यर्थ:॥२१॥ इति अनिष्टादिकार्यधिकरणम् ॥ ३ ॥
३–१–४
३०९। तत्स्वाभाव्यापत्तिरुपपत्ते: – यथेतमाकाशम् इत्यादिना आकाशसादृश्यापत्ति:, प्रत्यवरोहत उपदिश्यते। तत्र तत्र सुखदु:खानुभवाभावोपपत्ते:। तदनुभवार्थं हि तत्तच्छरीरता॥२२॥ इति तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥
३–१–५
३१०। नातिचिरेण विशेषात् – व्रीह्यादिप्राप्ते: प्रागाकाशादिषु नातिचिरं तिष्ठति। अतो वै खलु दुर्निष्प्रपतरम् इति व्रीह्यदावेव विशेषवचनात्॥२३॥ इति नातिचिराधिकरणम् ॥ ५ ॥
३–१–६
३११। अन्याधिष्ठिते पूर्ववदभिलापात् – त इह व्रीहियवा इत्यादौ चान्यजीवाधिष्ठिते व्रीहियवादौ संश्लेषमात्रम्, अवरोहत: आकाशादिष्विव जननहेतुविरहिताभिलापात्। जायन्ते इति वचनमौपचारिकम्। यत्र ब्राह्मणादि जन्मास्ति तत्र रमणीयचरणा: इति हि हेतुरभिलप्यते॥२४॥
३१२। अशुद्धमिति चेन्न शब्दात् – अवरोहत: पूर्वानुष्ठितयागादिषु अग्नीषोमीयादि-हिंसागर्भत्वेन अशुद्धं कर्मास्तीति चेत्, न, हिरण्यशरीर ऊर्ध्वस्स्वर्गं लोकमेति, न वा उ एतन्म्रियसे न रिष्यसि इति पशुसंज्ञपनस्याहिंसात्वशब्दात्॥२५॥
३१३। रेतस्सिग्योगोऽथ – यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति इति अन्नेन संसृष्टस्य रेतस्सिचा योगमात्रमनन्तरमुच्यते। अत: पूर्वमपि व्रीह्यादियोगमात्रम् ॥२६॥
३१४। योनेश्शरीरम् – योनिप्राप्ते: पश्चादेवावरोहता शरीरं प्राप्यते॥२७॥
इति श्री भगवद्रामानुजविरचिते श्री वेदान्तसारे तृतीयस्याध्यायस्य प्रथम: पाद:॥