श्रीवेदान्तसार:
॥ अथ श्रीवेदान्तसारे चतुर्थाध्याये प्रथम: पाद: ॥
४–१–१
४७०। आवृत्तिरसकृदुपदेशात् – ब्रह्मविदाप्नोति परम् इत्यादिषु मोक्षसाधनं वेदनमसकृदावृत्तम्, विद्यात्, उपासीत इति विद्युपास्योरुपक्रमोपसंहारयोर्व्यतिकरेणोपदेशात्॥१॥
४७१। लिङ्गाच्च – लिङ्गं स्मृति:, मां ध्यायन्त उपासते, तेषामहं समुद्धर्ता मृत्युसंसार सागरात्, तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा, तद्ध्यानं इत्यादिस्मृतेश्च॥२॥ इति आवृत्त्यधिकरणम्॥१॥
४–१–२
४७२। आत्मेति तूपगच्छन्ति ग्राहयन्ति च – यद्यपि अधिकं तु भेदनिर्देशात्, अधिकोपदेशात् इत्यादिषु प्रत्यगात्मनोऽर्थान्तरत्वं ब्रह्मण: प्रतिपादितम्, तथाऽप्युपासिता अहं ब्रह्मास्मि इत्येवोपासीत, यत: पूर्वे उपासितार: त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते इत्यात्मेत्येवोपगच्छन्ति। उपासितुरर्थान्तरमपि ब्रह्म तानुपासितॄन् स्वात्मभूतं ग्राहयन्ति शास्त्राणि य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं यमात्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत इत्यादीनि। यथा मनुष्योऽहमिति मनुष्यशरीरस्य स्वात्मप्रकारतैकस्वभावतया प्रकारिणि स्वात्मनि अहं शब्दस्य तद्बुद्धेश्च पर्यवसानम्, तथा स्वात्मनोऽपि परमात्मशरीरतया तत्प्रकारस्वभावत्वेन अहं शब्दतद्बुद्ध्यो: परमात्मनि पर्यवसानमिति अहं ब्रह्म इत्येवोपास्यमिति॥३॥ इति आत्मत्वोपासनाधिकरणम् ॥ २ ॥
४–१–३
४७३। न प्रतीके न हि स: – मनो ब्रह्म इत्यादि प्रतीके तु नात्मेति ग्रहणम्। न हि तत्र स: – परमात्मोपास्य:, परमात्मदृष्ट्या हि मन: प्रभृतीति॥४॥
४७४। ब्रह्मदृष्टिरुत्कर्षात् – ब्रह्मण उत्कृष्टत्वात्तद्दृष्ट्या मन आद्युपासनं ह्यभ्युदयाय भवतीति॥५॥ इति प्रतीकाधिकरणम् ॥३॥
४–१–४
४७५। आदित्यादिमतयश्चाङ्ग उपपत्ते: – य एवासौ तपति तमुद्गीथमुपासीत इत्यादावपि आदित्यादेरेवोत्कृष्टत्वात् उद्गीथादौ तद्दृष्टय: कार्या:॥६॥ इति आदित्यादिमत्यधिकरणम् ॥४॥
४–१–५
४७६। आसीनस्संभवात् – आसीन उपासनं कुर्यात्, तस्यैवैकाग्र्यसंभवात्॥७॥
४७७। ध्यानाच्च – निदिध्यासितव्य इत्युपासनस्य ध्यानरूपत्वाच्चासीन:॥८॥
४७८। अचलत्वं चापेक्ष्य – पृथिव्यादेरचलत्वं चापेक्ष्य। ध्यायतीव पृथिवी इति प्रयोगात्। मनसो निश्चलत्वमासीनस्यैव॥९॥
४७९। स्मरन्ति च – उपविश्यासने युञ्ज्यात् इत्यादिना॥१०॥
४८०। यत्रैकाग्रता तत्राविशेषात् – यत्रैकाग्रता तत्र देशे तत्र काले उपासीतेति, देशकालविशेषाश्रवणात्॥११॥ इति आसीनाधिकरणम् ॥ ५ ॥
४–१–६
४८१। आप्रयाणात्तत्रापि हि दृष्टम् – अप्रयाणादहरहरुपासनं कार्यम्। स खल्वेवं वर्तयन्यावदायुषं इति दर्शनात्॥१२॥
४–१–७
४८२। तदधिगम उत्तर पूर्वाघयोरश्लेष विनाशौ तद्व्यपदेशात् – उपासने प्रारब्धे तत्सामर्थ्यादेव पूर्वकृताघनाश:, उत्तराघाश्लेषश्च भवति। एवं हास्य सर्वे पाप्मान: प्रदूयन्ते, एवमेवं विदि पापं कर्म न श्लिष्यते इति श्रुते:॥१३॥ इति तदधिगमाधिकरणम् ॥७॥
४–१–८
४८३। इतरस्याप्येवमश्लेष: पाते तु – विदुष: पुण्यस्यापि मोक्षविरोधित्वेनानिष्टफलत्व- साम्यादेवमश्लेषविनाशौ, वृष्ट्यन्नायुरारोग्यादिविद्यानुगुणफलस्य कर्मण: शरीरपातादूर्ध्वं अफलत्वम्॥१४॥ इति इतराधिकरणम् ॥८॥
४–१–९
४८४। अनारब्धकार्ये एव तु पूर्वे तदवधे: – विद्याधिगते: पूर्वकृते पुण्यपापे फलदानायाप्रवृत्ते एव विनश्यत:, तस्य तावदेव चिरं इति शरीरपातावधिश्रुते:॥१५॥ इति अनारब्धकार्याधिकरणम्॥९॥
४–१–१०
४८५। अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् – अग्निहोत्राद्याश्रमकर्म, विद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयम्। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्यादिना विद्योत्पत्तिकार्यत्वं ह्याश्रमधर्मस्य दृष्टम्॥१६॥
४८६। अतोऽन्याऽपि ह्येकेषामुभयो: – तस्य पुत्रा दायमुपयन्ति। द्विषन्त: पापकृत्यां सुहृदस्साधुकृत्याम् इत्यादिवचनस्याग्निहोत्रादेरन्याऽप्यनादिकालप्रवृत्ता साधुकृत्या प्रबलकर्मप्रतिबद्ध-फला, उत्तरा वृष्ट्यन्नादिविद्यानुगुणफला प्रतिबद्धा चेति पूर्वोत्तरकृतयोरुभयोरप्यस्त्येव विषय:॥१७॥
४८७। यदेव विद्ययेति हि – यदेव विद्यया इत्यत्र फलप्रतिबन्धोऽस्तीति ह्युक्तम्॥१८॥
४–१–११
४८८। भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते – आरब्धकार्ययो: पुण्यपापेयोर्यत्फलम्, तत् एकशरीरावसानमनेकशरीरावसानं वा भुक्त्वैव तदनन्तरं ब्रह्म प्राप्नोति॥१९॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य प्रथम: पाद: ॥