श्रीवेदान्तसार:
॥ अथ चतुर्थाध्याये द्वितीय: पाद: ॥
४–२–१
४८९। वाङ्मनसि दर्शनाच्छब्दाच्च – अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यत इति शब्दात्, उत्क्रान्तौ मनस: प्रागेव वाच उपरतिदर्शनाच्च वाङ्मनसि संपद्यते – युज्यत इति॥१॥
४९०। अत एव सर्वाण्यनु – अत: इन्द्रियैर्मनसि संपद्यमानै: इति शब्दात्, उपरतिदर्शनाच्च, वाचमनु सर्वाणीन्द्रियाणि मनसि च संयुज्यन्ते॥२॥ इति वागधिकरणम् ॥१॥
४–२–२
४९१। तन्मन: प्राण उत्तरात् – उत्तरात् – मन: प्राण इति शब्दात्, सर्वेन्द्रिययुक्तं मन: प्राणे संयुज्यते॥३॥ इति मनोऽधिकरणम् ॥ २ ॥
४–२–३
४९२। सोऽध्यक्षे तदुपगमादिभ्य: – स: – प्राण:, अनन्तरं जीवेन संयुज्यते। एवमेवे ममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति इति प्राणस्य जीवोपगमादिश्रुते:॥४॥ इति अध्यक्षाधिकरणम् ॥३॥
४–२–४
४९३। भूतेषु तच्छ्रुते: – प्राणस्तेजसि इति भूतान्तरसंसृष्टं तेजोऽभिधीयत इति प्राणा भूतेषु संयुज्यन्ते॥५॥
४९४। नैकस्मिन् दर्शयतो हि – तेजसि इति न तेजोमात्रे, त्रिवृत्करणश्रुतिस्मृतिभ्यां केवलस्य तेजसोऽनवस्थानात्॥६॥ इति भूताधिकरणम् ॥ ४॥
४–२–५
४९५। समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य – अर्चिरादिगत्युपक्रमात्प्रागुत्क्रान्ति: विद्वदविदुषोः समाना, विदुषोऽर्चिरादिगत्या ब्रह्मप्राप्तिश्रुते:॥७॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिता:, अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति, अत्रैव अमृतत्वब्रह्मप्राप्तिवचनं शरीरेन्द्रियादिसंबन्धमदग्ध्वैवोपासनारंभाभिप्रायं इत्युपगन्तव्यं इत्यर्थ:।८।
४९६। तदापीतेस्संसारव्यपदेशात् – अर्चिरादिगमनेन ब्रह्मप्राप्ते: प्राक् शरीरसंबन्धव्यपदेशात् तत् – अमृतत्वादिवचनं उक्तप्रकारमेव॥९॥
४९७। सूक्ष्मं प्रमाणतश्च तथोपलब्धे: – शरीरादुत्क्रान्तस्यापि सूक्ष्मशरीरमनुवर्तते, अन्यथा गत्यनुपपत्ते:। न केवलं गत्यनुपपत्तिमात्रं सूक्ष्मशरीरवत्त्वे प्रमाणम्, चन्द्रमसा संवादादि-प्रमाणान्तरतश्च सूक्ष्मशरीरवत्त्वोपलब्धे: तं प्रतिब्रूयात्, सत्यं ब्रूयात् इति॥१०॥
४९८। नोपमर्देनात: – अत: – उक्ताद्धेतो:, अथ मर्त्योऽमृतो भवति इत्याद्यमृतत्ववचनं न देहसंबन्धोपमर्देन॥११॥
४९९। अस्यैव चोपपत्तेरूष्मा – अस्य – सूक्ष्मशरीरस्य विद्यमानत्वोपपत्तेश्च, न तदुपमर्देन। उपलभ्यते ह्युत्क्रामतो विदुषस्सूक्ष्मदेहगुण ऊष्मा, अन्यत्रानुपलम्भान्न स्थूलगुण:॥१२॥
५००। प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् – अथाकामयमानो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति, इति विदुष उत्क्रान्तिप्रतिषेधादत्रैव साक्षाद्ब्रह्मप्राप्तिरिति चेत्, नैतत्, विदुष उत्क्रममाणस्यार्चिरादिकया गमनाय प्राणा न विश्लिष्यन्ते इति ह्युच्यते। न तस्य प्राणा उत्क्रामन्ति इति। अयमर्थो माध्यन्दिनानां पाठे स्पष्टोऽभिधीयते। योऽकामो निष्काम आप्तकाम आत्मकाम: न तस्मात्प्राणा उत्क्रामन्ति इति॥१२॥
५०१। स्मर्यते च – विदुषोऽपि मूर्धन्यनाड्या गमनं स्मर्यते च, ऊर्ध्वमेकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम्। ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् इति ॥१४॥ इति आसृत्युपक्रमाधिकरणम्॥५॥
४–२–६
५०२। तानि परे तथा ह्याह – तेज: परस्यां देवतायाम् इति श्रुते: परदेवता संपत्तिरुत्क्रममाणस्य विश्रमस्थानमिति, तानि – भूतानि, जीवसंयुक्तानि परदेवतायां संपद्यन्ते॥१५॥ इति परसम्पत्त्यधिकरणम्॥६॥
४–२–७
५०३। अविभागो वचनात् – परदेवतासंपत्तिवचनमविभागमात्रपरम्। वाङ्मनसि संपद्यत इति संपत्तिपदस्यैवात्रानुषक्तस्यार्थान्तरपरत्वे प्रमाणाभावत्। मन:प्रभृतिषु हि प्रलयासंभवादविभाग-मात्रपरम्॥१६॥
४–२–८
५०४। तदोकोग्रज्वलनं तत्प्रकाशितद्वार: विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया – हार्दपरमपुरुषाराधनरूपविद्यासामार्थ्यात्, तदङ्गगतिचिन्तनेन च प्रीतपरमपुरुषानुगृहीत:, तदनुग्रहत: प्रकाशिततद्द्वारो जीव:, शताधिकया – मूर्धन्यनाड्या गच्छति। तदनुग्रहादेव जीवस्थानमग्रे प्रकाशवद्भवति, हार्द: – परमात्मा परमपुरुष:, तस्याश्शिखाया मध्ये परमात्मा व्यवस्थित:, सर्वस्य चाहं हृदि सन्निविष्ट:, इति हि श्रुतिस्मृती॥१६॥ इति तदोकोधिकरणम् ॥ ८ ॥
४–२–९
५०५। रश्म्यनुसारी – अथैतैरेव रश्मिभिरूर्ध्वमाक्रमत, इति श्रुते: विद्वान् रश्म्यनुसार्येव गच्छति, निश्यपि रश्मयस्संभवन्त्येव, निदाघादावूष्मोपलब्धे:, हेमन्तेऽनुपलब्धिस्तु हिमाभिभवकृता॥१७॥ इति रश्म्यनुसार्यधिकरणम् ॥ ९॥
४–२–१०
५०६। निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च – दिवा च शुक्लपक्षश्च इत्यारभ्य विपरीतं तु गर्हितम् इति निशामरणनिन्दनात्, निशि मृतस्य न ब्रह्मप्राप्तिरिति चेत्, न, कर्मसंबन्धस्य यावद्देहभावित्वात्, प्रारब्धस्य यावच्चरमदेहावसानभावित्वाच्च। ब्रह्मप्राप्तिविघ्नहेत्वभावत्। दर्शयति च, तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्य, इति। निशानिन्दा इतरपुरुषार्थविषया॥१८॥ इति निशाधिकरणम् ॥ १०॥
४–२–११
५०७। अतश्चायनेऽपि दक्षिणे – अत: – बन्धहेत्वभावादेव, दक्षिणायनमृतस्यापि विदुषो ब्रह्मप्राप्तिरस्त्येव॥१९॥
५०८। योगिन: प्रति स्मर्येते स्मार्ते चैते – यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:, इति न मरणकाल: स्मर्यते, अपि तु योगिन: विद्यानिष्ठान्प्रति अर्चिरादिका तद्विपरीता चेति, एते स्मार्ते-स्मृतिविषयभूते स्मर्येते। नैते सृती प्रार्थ जानन्योगी मुह्यति कश्चन इति वचनात्॥२०॥ इति दक्षिणायनाधिकरणम् ॥ ११ ॥
इति श्री भगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य द्वितीय: पाद:॥