श्रीवेदान्तसार:
चतुर्थाध्याये तृतीय: पाद:
४–३–१
५०९। अर्चिरादिना तत्प्रथिते: – अर्चिरादिनैकेन विद्वान् गच्छति, सर्वासु श्रुतिषु तच्चिह्नै: तत्प्रत्यभिज्ञानात्॥१॥ इति अर्चिराद्यधिकरणम् ॥ १ ॥
४–३–२
५१०। वायुमब्दादविशेषविशेषाभ्याम् – मासेभ्यस्संवत्सरं संवत्सरादित्यम्, इत्यब्दादित्ययोर्मध्ये द्वयो: प्रकरणान्तरयो: एकत्र देवलोक: श्रुत:, इतरत्र वायुशब्द:। तत्र देवलोकशब्दोऽपि देवानां लोक इति वायोर्विशेषणवाचक:, वायुशब्दश्च तस्यैव विशेषेणवाचक इति अविशेषविशेषाभ्यां – देवलोकवायु शब्दाभ्यां वायुरेक एव विहित इत्यब्दादूर्ध्वमादित्यात्पूर्वं वायुमेव निवेशयेत्॥२॥ इति वाय्वधिकरणम्॥२॥
४–३–३
५११। तटितोऽधि वरुणस्सम्बन्धात् – तटितोऽनन्तरं वरुणो निवेश्य:, मेघोदरवृत्तित्वाद्विद्युत: मेघस्थजलात्मकत्वेन लोकवेदयोर्वरुणस्य विद्युत्संबन्धावगमात्, तदनन्तरमिन्द्रप्रजापतिपाठक्रमात्, प्रबलविशेषाभावाच्च॥३॥ इति वरुणाधिकरणम् ॥ ३ ॥
४–३–४
५१२। आतिवाहिकास्तल्लिङ्गात् – अर्चिराद्यभिमानिदेवताविशेषा: विदुषामातिवाहिकत्वेन परमपुरुषनियुक्ता इति विज्ञायते। स एनान्ब्रह्म गमयति, इति तेष्वेकत्र गमयितृत्वदर्शनाल्लिङ्गात्॥४॥
५१३। वैद्युतेनैव ततस्तच्छ्रुते: – चन्द्रमसो विद्युतं तत्पुरुषोऽमानव:, स एनान् ब्रह्म गमयति इति श्रुते: वैद्युतपुरुषात् परस्तात् स एव ब्रह्म गमयिता। वरुणेन्द्रप्रजापतीनां तदनुग्राहकत्वमेव॥५॥ इति आतिवाहिकाधिकरणम् ॥ ४ ॥
४–३–५
५१४। कार्यं बादरिरस्य गत्युपपत्ते: – कार्यं हिरण्यगर्भमुपासीनानर्चिरादिर्नयति, अस्यैव गत्युपपत्ते:। न हि सर्वगतं परं ब्रह्मोपासीनानां गतिरस्तीति बादरिर्मेने॥६॥
५१५। विशेषितत्वाच्च – पुरुषो मानस एत्य ब्रह्मलोकान्गमयति, इति, प्रजापतेस्सभां वेश्म प्रपद्ये, इति च विशेषितत्वात् हिरण्यगर्भमेव॥७॥
५१६। सामीप्यात्तु तद्व्यपदेश: – ब्रह्म गमयति इति ब्रह्मव्यपदेशस्तत्सामीप्यात्, अस्य यो ब्रह्माणं विदधाति पूर्वम्, इति सामीप्यमस्ति हि॥८॥
५१७। कार्यात्यये तदध्यक्षेण सहात: परमभिधानात् – हिरण्यगर्भप्राप्तावप्यपुनरावृत्ति-श्रुत्यविरोध:। हिरण्यगर्भलोकात्यये, तदध्यक्षेण सहात: परं गच्छति, ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे, इति श्रुते:॥९॥
५१८। स्मृतेश्च – ब्रह्मणा सह ते सर्वे इत्यारभ्य प्रविशन्ति परं पदम् इति स्मृतेश्च॥१०॥
५१९। परं जैमिनिर्मुख्यत्वात् – परमुपासीनानिति जैमिनि:, ब्रह्म गमयति इति तत्रैव मुख्यत्वात्॥११॥
५२०। दर्शनाच्च – अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य इति श्रुतेश्च॥१२॥
५२१। न च कार्ये प्रत्यभिसन्धि: – प्रजापतेस्सभां, इति प्रत्यभिसन्धिश्च न कार्ये, प्रजापतिशब्दस्य पतिं विश्वस्य इत्यादि श्रुते: परस्मिन्नेव मुख्यत्वात्। ब्रह्मलोकशब्दश्च कर्मधारयवृत्त्या तत्रैवेत्यभिप्राय: ते ब्रह्मलोके इति तु श्रुति: ब्रह्मैव लोक इति परब्रह्मविषयैव। ब्रह्मणा सह ते सर्वे इति स्मृतिश्च तदुपर्यपि इति न्यायेन चतुर्मुखलोकस्थोपासनविषया॥१३॥
५२२। अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च – प्रतीकालम्बना हि, नामादिप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपपर्यन्तं सर्वं चिदचिद्वस्तुजातं ब्रह्मदृष्ट्या स्वरूपेण वा ये उपासते ते, अप्रतीकालम्बना: तद्व्यतिरिक्ता: ये पञ्चाग्निविद:, ये च परं ब्रह्मोपासते; तान्नयत्यर्चिरादिरिति भगवान् बादरायणो मन्यते। कार्यमिति पक्षे परमेवेति च पक्षे सकलोपनिषद्विरोधरूपदोष: प्रसज्यते। कार्यपक्षे ब्रह्म गमयति, परञ्ज्योतिरुपसंपद्यते, इत्याद्या: प्रकुप्येयु:। परमेवेति पक्षे य एवमेतद्विदुर्ये चेमेऽरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसंभवन्ति इति श्रुति: प्रकुप्येत। कार्यपक्षे तत्क्रतुन्यायश्च विरुद्ध्यते। अर्चिरादिना गतानां हि ब्रह्मप्राप्तिरपुनरावृत्तिश्च श्रूयते। पञ्चाग्निविदस्तु प्रकृतिवियुक्तात्मस्वरूपं य आत्मनि तिष्ठन् इत्यादिनाऽवगतब्रह्मात्मकत्वमुपासत इति ह्यप्रतीकालम्बनत्वम्, तत्क्रतुन्यायाविरोधश्च, उभयेऽपि हि परिपूर्णं ब्रह्मोपासते मुखभेदेन – स्वात्मशरीरकं ब्रह्म केचन, ब्रह्मात्मकस्वात्मानमितरे इति॥१४॥
५२३। विशेषञ्च दर्शयति – कार्यमुपासीनानां ब्रह्मप्राप्तिव्यतिरिक्तपरिमितदेशकालफलविशेषं च दर्शयति श्रुति: – यावन्नाम्नो गतं इत्यादिका॥१५॥ इति कार्याधिकरणम् ॥ ५ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य तृतीय: पाद:।