श्रीवेदान्तसार:
अथ चतुर्थाध्याये चतुर्थ: पाद:
४–४–१
५२४। सम्पद्याविर्भावस्स्वेन शब्दात् – एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रुपेणाभिनिष्पद्यते, इति सिद्धस्यैव प्रत्यगात्मस्वरूपस्य अनादिकर्मणा तिरोहितस्य परंज्योतिरुपसंपद्याविर्भाव उच्यते। स्वेन रूपेण इति विशिष्याभिधानात्॥१॥
५२५। मुक्त: प्रतिज्ञानात् – आत्मस्वरूपमात्रस्य प्रागेव सिद्धत्वेऽपि कर्मबन्धविनिर्मुक्ता- परिच्छिन्नज्ञानादिस्वरूपस्य ह्यत्राविर्भाव उच्यते। एतं त्वेव ते भूयोऽनुव्याख्यास्यामि, इति जागरिताद्यवस्था तिरोधानविनिर्मुक्तस्यैव वक्तव्यतया प्रतिज्ञानात्॥२॥
५२६। आत्मा प्रकरणात् – भूयोऽनुव्याख्यास्यामि इति प्रकृतापहतपाप्मत्वादिगुणक आत्मेति प्रकरणादवगम्यते, य आत्माऽपहतपाप्मा इत्यारभ्य, सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्य:, इति प्रकृत्य, एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इत्युक्तम्॥३॥ इति सम्पद्याविर्भावाधिकरणम् ॥ १ ॥
४–४–२
५२७। अविभागेन दृष्टत्वात् – आविर्भूतस्वरूपोऽयं मुक्तात्मा स्वात्मशरीरकं परं ब्रह्म स्वात्मनोऽप्यात्मतया अहं ब्रह्मास्मीत्यविभागेनैवानुभवति आत्मेति तूपगच्छन्ति ग्राहयन्ति च इति तथारूपोपासनेन तथाविधस्वरूपस्य दृष्टत्वात्, य आत्मनि तिष्ठन्, यस्यात्मा शरीरम् स त आत्मा, तत्त्वमसि इत्यादिशास्त्रसिद्धमेव ह्युपासितम्॥४॥ इति अविभागेन दृष्टत्वाधिकरणम् ॥२॥
४–४–३
५२८। ब्राह्मेण जैमिनिरुपन्यासादिभ्य: – अस्य स्वरूपाविर्भाव: ब्राह्मेण – अपहतपाप्मत्वादि-गुणकस्वरूपेण। ते हि ब्रह्मगुणा: प्रत्यगात्मनोऽपि स्वाभाविका गुणा इति। य आत्माऽपहतपाप्मा इत्यारभ्य उपन्यासादिभ्य: अवगम्यते। त एव जक्षत्क्रीडन्रममाण:, इत्यादिनोच्यन्ते, इति जैमिनेर्मतम्॥५॥
५२९। चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमि: – विज्ञानघन एव इत्यवधारणात् विज्ञानमात्र-स्वरूप इत्यौडुलोमि:॥६॥
५३०। एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायण: – विज्ञानघन एव स्वप्रकाशस्वात्मस्वरूप इत्यवगतेऽपि, य आत्माऽपहतपाप्मा, इत्युपन्यासादिना पूर्वेषामपहतपाप्मत्वादीनामपि सद्भावावगमादुभयश्रुत्यवगतोभयस्वरूपस्य परस्परविरोधाभावाद्रूपद्वयं नान्योन्यपरिहारीत्युभयरूप-समुच्चयं भगवान्बादरायणो मेने ॥७॥ इति ब्राह्माधिकरणम् ॥ ३ ॥
४–४–४
५३१। सङ्कल्पादेव तच्छ्रुते: – स यदि पितृलोककाम इत्यादिनाऽवगता: पित्रादय:। सङ्कल्पादेवास्य इति श्रुतेस्सङ्कल्पादेव भवन्ति। यथा परमपुरुषस्य लीलाप्रवृत्तस्य दशरथ- वसुदेवादयस्सङ्कल्पादेव भवन्ति। एवमेव परमपुरुषलीलान्तर्गतस्य मुक्तस्यापि तदुपकरणभूता: पित्रादयस्सङ्कल्पादेव भवन्तीत्यर्थ:॥८॥
५३२। अत एव चानन्याधिपति: – अत एव – अपहतपाप्मा ….. सत्यसङ्कल्प: इत्यादि श्रुते:, न कदाचिदपि कर्माधीनोऽयम्॥९॥ इति सङ्कल्पाधिकरणम् ॥ ४ ॥
४–४–५
५३३। अभावं बादरिराह ह्येवम् – तस्य देहेन्द्रियाद्युपकरणाभावं बादरिर्मेने। न ह वै सशरीरस्य इत्यादिर्हि तदभावमाह॥१०॥
५३४। भावं जैमिनिर्विकल्पामननात् – एकधा भवति इत्यादिना देहेन्द्रियादिभिर्विविधता – श्रुते:, देहाद्युपकरणसद्भावं जैमिनिर्मेने॥११॥
५३५। द्वादशाहवदुभयविधं बादरायणोऽत: – उभयश्रुतेस्सशरीरत्वमशरीरत्वं चेच्छात:, यथा द्वादशाहे उभयश्रुतेस्सत्रमहीनं च भवति॥१२॥
५३६। तन्वभावे सन्ध्यवदुपपत्ते: – स्वेनैव सृष्टतन्वाद्यभावे, स्वप्ने, अथ रथान् रथयोगान् पथस्सृजते इति परमपुरुषसृष्टैर्भोगवत् मुक्तोऽपि परमपुरुषसृष्टैरेव लीलारसं भुङ्क्ते॥१३॥
५३७। भावे जाग्रद्वत् – स्वेनैव सृष्टोपकरणभावे जाग्रत्पुरुषवत् भुङ्क्ते॥१४॥
५३८। प्रदीपवदावेशस्तथाहि दर्शयति – एकदेशस्थितस्यपि स्वप्रभारूपज्ञानव्याप्त्या सर्वानुभवस्सिद्ध्यति वालाग्रशतभागस्य इत्यारभ्य स चानन्त्याय कल्पते इति हि दर्शयति॥१५॥
५३९। स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हि – प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् इति वेदनाभाववचनं सुषुप्तिमरणयोरन्यतरापेक्षमित्युक्तम्। नाह खल्वयमेवं संप्रत्यात्मानां जानात्ययमहमस्मि इत्यादिना सुषुप्त्यादावकिञ्चिज्ज्ञत्वमाविष्कृतं हि॥१६॥ इति अभावाधिकरणम् ॥ ५ ॥
४–४–६
५४०। जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च – अपहतपाप्मत्वादि सत्यसङ्कलत्व- पर्यन्तं मुक्तस्य जगज्जन्मादिकारणत्ववर्जम्; यतो वा इमानि भूतानि जायन्ते इत्यारभ्य तद्ब्रह्म इत्यादिजगत्सृष्ट्यादि परस्यैवेति प्रकरणादवगम्यते, सृष्ट्यादिप्रकरणेषु मुक्तस्यासन्निहितत्वाच्च। मुक्तस्यातिरोहितस्वमाहात्म्यस्य अनवधिकातिशयानन्दपरिपूर्णब्रहानुभव एव। ब्रह्मणोऽपि जगद्व्यापारो लीलामात्रमिति लोकवत्तु लीलाकैवल्यम् इत्युक्तम् ॥१७॥
५४१। प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्ते: – इमाल्लोकान् कामान्नी कामरूप्य– नुसञ्चरन्, इत्युपदेशाज्जगद्व्यापारोऽस्तीति चेत्, न, हिरण्यगर्भाद्याधिकारिकमण्डलस्थभोगोक्ते:। न हि तत्र नियमनं श्रुतम्॥१८॥
५४२। विकारावर्ति च तथा हि स्थितिमाह – विकारासंसृष्टपरिपूर्णपरब्रह्मानुभव एव तस्य सुखम्, तथाऽस्य स्थितिम्, रसो वै स: रसं ह्येवायं लब्ध्वाऽनन्दी भवति इत्याह॥१९॥
५४३। दर्शयतश्चैवं प्रत्यक्षानुमाने – उक्तमर्थं श्रुतिस्मृती च दर्शयत:, तस्माद्वा एतस्मादात्मन आकाशस्संभूत:, एतस्य वा अक्षरस्य प्रशासने इत्यादिका श्रुति:। स्मृतिरपि, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तत इति॥२०॥
५४४। भोगमात्रसाम्यलिङ्गाच्च – सोऽश्नुते सर्वान्कामान्सह, ब्रह्मणा विपश्चिता, इति ब्रह्मानुभवरूपभोगमात्रसाम्यलिङ्गाच्च॥२१॥
५४५। अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् – स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते। न च पुनरावर्तत इति शब्दात् निवृत्तसमस्ततिरोधान: आविर्भूतापहतपाप्मत्वादिगुणगण:, अनवधिकतिशयानन्दं परं ब्रह्मानुभवति न च पुनरावर्तत इति निश्चीयत इति सर्वं समञ्जसम्॥२२॥ इति जगद्व्यापाराधिकरणम् ॥६॥
॥ वेदान्तसारः समाप्तः ॥डवे
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य चतुर्थ: पाद:।
समाप्तश्चाध्याय:। शास्त्रं च परिसमाप्तम्। श्रीमते रामानुजाय नम:॥