॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
आनन्दमयाधिकरणम्
आनन्दमयोऽभ्यासात् (ब्र.सू.1।1।13) परमतत्त्वहितपुरुषार्थप्रतिपादिकानन्दवल्ली प्रस्तूयते ।।ब्रह्मविदाप्नोति परम् ।।निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्य उत्कृष्टं ब्रह्म प्राप्नोतीत्यर्थः । “आवृत्तिरसकृदुपदेशात् (ब्र.सू.4.1.1)” इत्यधिकरणोक्तन्यायेन वेदनोपासनादिशब्दानामेकार्थत्वात् । ब्रह्मविदित्यत्र विच्छब्दोप्युपासनपरःतत्क्रतुन्यायेन प्राप्यस्यैवोपास्यत्वात् ।”ब्रह्मविदाप्नोतिपरम्” इति परस्यब्रह्मणः प्राप्यत्वकथनात्तस्यैवोपास्यत्वमिति द्रष्टव्यम् । अत्र ब्रह्म तद्वेदनं प्राप्तिः प्राप्यं चेति चतुष्टयमुक्तम् । किं तद्ब्रह्म कीदृशं तद्वेदनं कीदृशी प्राप्तिः कीदृशं च प्राप्यमित्याकांक्षायां मंत्रमुखेन विवरितुं मंत्रमवतारयति ।तदेषाभ्युक्ता ।।तत् ब्रह्माभिमुखीकृत्य एषा ऋृगध्येतृभिरुक्ता ब्राह्मणोक्तस्यार्थस्य वैशद्यमनेन मंत्रेण क्रियत इत्यर्थः । एवमेव हि मांत्रवर्णिकसूत्रे भाषितम् ।सत्यं ज्ञानमनन्तं ब्रह्म ।। यो वेद निहितं गुहायां ।। परमे व्योमन् ।। सोऽश्नुते सर्वान् कामान्सह ।। ब्रह्मणा विपश्चितेति ।।जन्मादिसूत्रे यतो वा इमानि भूतानीत्यादिकारणवाक्येन प्रतिपन्नजगज्जन्मादि कारणस्य ब्रह्मणस्सकलेतरव्यावृत्तं स्वरूपमभिधीयते सत्यं ज्ञानमनन्तं ब्रह्मेति । तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माह । तेन विकारास्पदमचेतनं तत्संसृष्टचेतनश्च व्यावृतः । नामान्तरभजनार्हावस्थान्तरयोगेन तयोर्निरुपाधिकसत्तायोगरहितत्वात् । ज्ञानपदं च नित्यासङ्कुचितज्ञानैकाकारमाह । तेन कदाचित्सङ्कुचितज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्तपदं देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह । सगुणत्वात्स्वरूपस्य स्वरूपेण गुणैश्चानन्तत्वेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलणास्सातिशय स्वरूपस्वगुणानित्या व्यावृत्ताः । विशेषणानां व्यावर्त्तकत्वादिति भाषितम् । नन्वत्र ज्ञानपदस्य विषयावगाहिज्ञानत्वं प्रवृत्तिमितं चेत्स्वरूपस्यातादृक्तवाऽज्ञानमित्यस्य ज्ञानगुणकमित्यर्थः पर्यवस्येन्नतु स्वरूपस्य ज्ञानत्वम् । स्वप्रकाशतारूपज्ञानत्वं प्रवृत्तिनिमित्तं चेत्स्वरूपस्य ज्ञानत्वमात्रं सिध्येन्नतु ज्ञानगुणकत्वम् । नचेष्टापत्तिः । “तद्गुणसारात्वात्तद्व्यपदेशः प्राज्ञवत् (ब्र.सू.2.3.29)” इति सूत्रे यथा सत्यं ज्ञानमिति ब्रह्मणो ज्ञानगुणसारत्वाज्ज्ञानमिति व्यपदेश इति भाष्यं विरुध्येतेति चेत् ।।उच्यते । स्वप्रकाशत्वमेव प्रवृत्तिनिमित्तम् । तत्र ज्ञानत्वाश्रयत्वमसंकोचात् स्वरूपतो गुणतश्चसिध्यति ब्रह्मशब्दात्प्रतीयमानं बृहत्त्वं यथा स्वरूपतो गुणतश्च सिध्यति तद्वदिति व्यासाचार्यैरुक्तम् । वस्तुतस्तु सत्यं ज्ञानमित्यस्यांतोदात्तत्वात् “अर्शआद्यजंत” (अष्टा.7.2.127) त्वेन ज्ञानगुणत्वमेवार्थः । प्रज्ञानधन एवानन्दमय इति श्रुत्यंतरात् ब्रह्मणो ज्ञानस्वरूपत्वमप्यस्तीति द्रष्टव्यम् । इहेदं नान्यत्रेति परिच्छेत्तुमशक्यत्वं देशापरिच्छेदः । इदमिदानीं नान्यदेति परिच्छेदायोग्यत्वं कालापरिच्छेदः । इदमिदं नेति परिच्छेदानर्हत्वलक्षणंसर्ववस्तुसामानाधिकरण्यार्हत्वं वस्त्वपरिच्छेदः । यद्वा वस्तुस्वभावतः परिच्छेदोवस्तु परिच्छेदः ।यथा तुल्याकारत्वेऽपि तुल्यपरिमाणत्वेऽपि दशवर्णस्वर्णापेक्षया कलधौतादेरपकर्षस्तद्राहित्यं वस्त्वपरिच्छेदः । समाभ्यधिकराहित्यनिदानभूतैर्गुणैर्निरतिशयप्रकर्षोवस्त्वपरिच्छेद इत्युक्तंभवतीति व्यासाचार्य्यैर्व्याख्यातम् ।”नान्तंगुणानां गच्छंति तेनानंतोय मुच्यते” (वि.पु) इति स्मरणाद्गुणानन्त्यमनन्तशब्दार्थः ।अत्र रूढिवशाद्देवताविशेषनिर्णयः । नचानन्तपदस्यनारायणवाचिनः पुल्लिंगत्वं स्यादिति वाच्यम् । इष्टापत्तेः । तस्य द्वितीयांतत्वेन पुल्लिंगत्वस्येष्टत्वात् ।द्वितीयांतत्वाभावे च यो वेद निहितं गुहायामित्यत्र तच्छब्दाध्याहारप्रसंगात् ।अनध्याहारेणोपपत्तावध्या हारस्यान्याय्यत्वात् । यदि चानन्तपदयौगिकार्थस्य त्रिविधपरिच्छेदराहित्यस्य नारायणादन्यत्राप्रसक्त्या श्रीपत्यादिशब्देष्विव न रूढिः कल्पनीयेत्युच्यते तदापि न नः क्षतिः । अत्र “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यनेन ब्रह्मशब्दार्थो विवृतः । हृदयगुहानिहितत्वप्रकारक ज्ञानप्रतिपादकेन “यो वेद निहितं गुहायाम्” इत्यनेनविच्छब्दार्थ उक्तः । “परमे व्योमन्सोऽश्रुते” इत्यंशेन आप्नोतिशब्दार्थ उक्तः । “सर्वान्कामान्ब्रह्मणा सह विपश्चिता” इत्यनेन प्राप्यमुक्तम् । काम्यन्त इति कामाः कल्याणगुणाः । मुक्तस्य सर्वविषयविरक्तस्य तद्व्यतिरिक्तकाम्यान्तरासंभवात् । अथ “य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्” (छा.8.1.6) इत्यादौकामशब्दस्य कल्याणगुणेष्वेव प्रयोगात् । विविधं पश्यंती चिद्यस्येति बहुव्रीहिः । निरुपाधिकानन्याधीनासंकुचितसर्वविषयकज्ञानवत्त्वं हि विपश्चित्वम् । अयं च गुणो नित्यमुक्तव्यावर्त्तकः । ब्रह्मापेक्षयापि तद्गुणानां फलदशायां प्राधान्यं प्रतिपादयितुं ब्रह्मणा सहेति निर्देशः “सहयुक्तेऽप्रधाने” (अष्टा.2.3.79) इति हि पाणिनिस्मृतिः । न च भोग्यतायां गुणापेक्षया ब्रह्मणोऽप्राधान्यं दोषायेति शंक्यं “श्रियं त्वत्तोप्युच्चैर्वयमिह भणामः श्रृणुतराम्”(श्री गुणरत्नकोशः) इतिवत्परमात्मापेक्षयापि तत्कल्याणगुणानां भोग्यतातिशयपर्यव सायित्वेनैतादृशाप्राधान्यस्य गुणत्वेन दोषत्वाभावात् । अतएव हि पुत्रेण सहौदनं भुङ्क्त इतिवद्भोक्तृसाहित्यपरत्वे ब्रह्मणोऽप्राधान्यप्रसंगात् । तत्परित्यज्य पयसा सहौदनं भुङ्क्ते इतिवद्भोग्यसाहित्यपरत्वमेव स्वीकृतम् । नाचात्र पक्षे ब्रह्मणोऽप्राधान्यं दोषायेति भोग्यसाहित्य पक्ष एव भगवता भाष्यकृता समाश्रितः । ननु “तेषामृग्यत्रार्थवशेनपादव्यवस्था” (2) इति जैमिनिनार्थवशाधीनपादव्यवस्थात्वस्य ऋुग्लक्षणतयोक्तत्वात् ।सह इत्यस्य पादांतरस्थस्य ब्रह्मणेति पादांतरस्थे नान्वयो न संभवति । ततश्च ब्रह्मणेति न सहयोगे तृतीया । अपि त्वित्थंभूतलक्षणेतृतीया । सहेत्यस्य युगपदित्यर्थः । सर्वान्कामान्युगपदनुभवति ब्रह्मणा । ब्रह्मभूत इति यावत् ।अत एव स्कांदे “सोश्रुते सकलान्कामानक्रमेण सुरर्षभाः । विदितो ब्रह्मरूपेण जीवन्मुक्तो न संशयः” इत्युप बृंहितमिति चेन्न । तेषामृग्यत्रार्थवशेनेत्यस्योपलक्षणमात्रत्वात् । उपलक्षण पक्षमभ्युपगम्यैव तद्व्याख्यातृभिरप्यर्थवशेन वा वृत्तवशेन वा पादव्यवस्थेति व्याख्यातत्वादभियुक्तानां मंत्रप्रसिद्धिविषयत्वं मंत्रत्वमितिवत् । अभियुक्तानामृक्पद प्रसिद्धिविषयत्वमेव ऋक्त्वम् । ततश्च पादांतरस्थेनापि पादांतरस्थपदान्वयो युक्तः । ब्रह्मणेत्यस्येत्थंभूतलक्षणत्वाश्रयणे ब्रह्मभूत इत्यर्थोऽपि न संभवति श्वेतच्छत्रेण राजत इत्यादौ तथाऽदर्शनात् । त्वदुक्त स्कांदवचनस्य पूर्वैस्संप्रतिपन्नैरनुदाहृतत्त्वाच्च भाष्यकृदुक्त एवार्थः । इतिशब्दो मंत्रसमाप्तिद्योतनार्थः । सत्यंज्ञानमनंतमित्युक्तंवस्त्व परिच्छेदलक्षणमानंत्यं सर्वोपादानत्वसर्वांतरत्वमुखेन प्रपंचयति ।तस्माद्वा एतस्मादात्मन आकाशस्संभूतः ।।तस्मादित्यनेन ब्रह्मविदाप्नोति परमिति व्यवहितब्राह्मणोक्तं परामृश्यते । एतस्मादिति सत्यंज्ञानमित्यव्यवहितमंत्रोक्तं परामृश्यते । ततश्च मंत्रब्राह्मणोक्तादात्मन आकाशः समुत्पन्न इत्यर्थः ।आकाशाद्वायुः ।। वायोरग्निः ।। अग्नेरापः ।। अद्भ्यः ।। पृथिवी ।।अत्र “तत्तेजऐक्षत ता आपऐक्षंते”(छां.6.2.3)ति तेजः प्रभृतिष्वीक्षणादि श्रवणादाकाश वायुतेज आदिशब्दास्तत्तच्छरीरकपरमात्मपरा इति “तेजोतस्तथाह्याह (ब्र.सू.2.3.10)” इत्यधिकरणे स्थितम् ।पृथिव्या आेषधयः ।। आेषधीभ्योऽन्नम् । अन्नात्पुरुषः ।पुरुषः शरीरमित्यर्थः । शिष्टं स्पष्टम् ।।2।।स वा एष पुरुषोऽन्नरसमयः ।।अयं देहः अन्नरसस्य परिणामः । “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांस”मित्याद्युक्तरीत्या जाठराग्निपच्यमानान्नरस सारांशनिर्वर्त्यमानमांसादिमयत्वाच्छरीरस्येति भावः ।।तस्येदमेव शिरः।। अयं दक्षिणः पक्षः।। अयमुत्तरः पक्षः।। अयमात्मा।।इदं पुच्छं प्रतिष्ठा ।।तस्य देहरूपस्य पुरुषस्येदं प्रत्यक्षतो दृश्यमानमेव शिरः । बाहुद्वयं पक्षौ । अधस्तद्ग्रीवायानाभेरूर्ध्वंपरिदृश्यमानो यं मध्यमो देहभाग आत्मा “मध्यमं ह्येषामङ्गानामात्मा” इति श्रुतेः ।धारकत्वेन प्रधानभूत इत्यर्थः । इदं नाभेरधस्तात्परिदृश्यमानं चरणद्वयं पुच्छवदाधारत्वात्पुच्छ मित्यर्थः । अत्र पुरुषशब्दितमनुष्यपाण्यादेः पक्षत्वादिरूपणं प्रतिपत्तिसौकर्यार्थमिति द्रष्टव्यम् ।तदप्येष श्लोको भवति । तस्मिन्नेवार्थे ब्राह्मणोक्ते अयं मंत्ररूपः श्लोको भवतीत्यर्थः । इति प्रथमोऽनुककः ।।अन्नाद्वैप्रजाः प्रजायन्ते ।। याः काश्च पृथिवीँ श्रिताः ।।अथो अन्नेनैव जीवन्ति ।। अथैनदपियन्त्यंततः ।।पृथिव्यां वर्तमानास्सर्वाः प्रजा अन्नादेवोत्पद्यंते । उत्पन्नाश्चान्नेनैव जीवन्ति । अन्तकाले तत्रैव लयं यान्तीत्यर्थः ।।अन्नँ हि भूतानां ज्येष्ठम् ।। तस्मात्सर्वौषधमुच्यते ।।सर्वभूतोपकारकत्वादन्नमेव ज्येष्ठम् । अत एवाशनायादिव्याधिनिवर्तकत्वात्तदेव सर्वौषधमुच्यत इत्यर्थः । आेषधीभ्योऽन्नमिति आेषधिपरिणामत्त्वं निमित्तीकृत्यान्ने प्रयुक्तमौषधिशब्दं भेषजत्वनिमित्तकतया श्रुतिर्व्यपदिशतीतिद्रष्टव्यम् ।।सर्वं वै तेऽन्नमाप्नुवन्ति ।। येन्नं ब्रह्मोपासते ।।अत्र ब्रह्मदृष्टिं कुर्वन्तः यावदन्नमपेक्षितं तावदन्नं प्राप्नुवन्तीत्यर्थः । ब्रह्मदृष्टिहेतुभूतं ब्रह्मसाम्यमाह ।अन्नँ हि भूतानां ज्येष्ठम् ।। तस्मात्सर्वौषधमुच्यते ।।ब्रह्मणोऽपि सकलरोगनिवर्तकतया सर्वभेषजत्वस्य सत्त्वादितिभावः ।।1।।अन्नाद्भूतानि जायन्ते ।। जातान्यन्नेन वर्धन्ते ।।जननवृद्धिहेतुत्वमन्नब्रह्मणोस्सममित्यर्थः । अन्नशब्दस्य निर्वचनमाह ।।अद्यतेऽत्तिचभूतानि ।। तस्मादन्नंतदुच्यत इति ।।जीवनदशायां स्वयमद्यते नाशदशायामलभ्यमानतया वा विपरीतपरिणामहेतुतयावा “अन्नं मृत्युं तमुजीवातुमाहुः” इति श्रुत्युक्तरीत्याऽत्तृत्वलक्षणं संहर्तृत्वं द्रष्टव्यम् ।एवमाकाशादेरन्नमयशब्दितस्थूलशरीरपर्यंतस्य ब्रह्मैवात्मा उपादानं चेत्युक्त्वा स आत्मा क इत्यपेक्षायामानन्दमय एव स आत्मेति दर्शयितुं स्थूलारुन्धतीन्यायेन स्थूल देहान्तर्वर्तिनं प्राणमयमात्मत्वेन दर्शयति । सूक्ष्मामरुन्धतीं दर्शयितुं प्रवृत्तः प्रथमत एव सूक्ष्मायाअरुन्धत्याः प्रदर्शनासंभवं पर्यालोच्य तत्समीपवर्तिस्थूलतारकामिय मेवारुन्धतीति प्रदर्शयति । तस्यां स्थूलतारकायां श्रोतुररुन्धतीत्वबुद्धौ दृढायां तत्समीपवर्तिनीं वस्तुतोऽरुन्धतीं सूक्ष्मामियमेवारुन्धतीति प्रदर्शयति सोऽयं (स्थूलारुन्धतीन्यायः)तस्माद्वा एतस्मादन्नरसमयात् ।। अन्योंऽतर आत्मा प्राणमयः ।।देहान्तर्वर्ती देहादन्यो यःप्राणमयः स एवात्मा आत्मनाऽऽकाशः संभूतइति आकाशादिसर्वोपादानत्वेन तदन्तर्यामित्वेन च निर्दिष्ट आत्मेत्यर्थः । भगवता भाष्यकृता “अन्वयादितिचेत्स्यादेवावधारणात्”(ब्र.सू.3.3.17) इति सूत्रेऽन्नमयादन्तरे प्राणमये प्रथमं परमात्मबुद्धिरवतीर्णा । तदनन्तरं च प्राणमयादन्तरे मनोमये ततो विज्ञानमये तत आनंदमय ेइति भाषितम् । अत्र पंचवृत्तेः प्राणस्य प्राणनवृत्तिप्रचुरत्वात् प्राणमयत्वम् ।।तेनैष पूर्णः ।तेन प्राणमयेनात्मना अयमन्नरसमयः पूर्ण इत्यर्थः । व्याप्त इति यावत् । सर्वस्यापि देहस्य प्राणव्याप्तत्वादिति भावः ।स वा एष पुरुषविध एव ।।प्राणमयोऽपि पुरुषविधः पुरुषाकृतिरेवेत्यर्थः । हस्तपादादिमत्त्वेन पुरुषविधत्व भ्रान्तिं व्युदस्यति ।।तस्य पुरुषविधताम् ।। अन्वयं पुरुषविधः ।।तस्यान्नमयस्य पुरुषविधत्वमनुकृत्यप्राणमयोऽपि पुरुषविध इत्यर्थः । ततश्च तद्वदेव शिरः पक्षपुच्छादिमत्तया पुरुषविध इत्यर्थः ।।2।।तस्य प्राणएवशिरः । व्यानो दक्षिणः पक्षः अपानमु(उ) त्तरः पक्षः ।।स्पष्टोर्थः ।आकाश आत्मा ।।”यथाकाशस्थितो नित्यं वायुस्सर्वत्रगो महान्” (श्री.भ.गी.9.6) इतिस्मृत्युक्तरीत्या वायुविकारभूत प्राणापानादिधारकत्वादाकाश स्यात्मत्वम् ।।पृथिवी पुच्छं प्रतिष्ठा ।पृथिव्यामाकाशस्य प्रतिष्ठितत्वात्तस्याः पुच्छत्वम् ।तदप्येष श्लोकोभवति ।।3।। इति द्वितीयोऽनुककः अथ इति द्वितीयोऽनु प्राणं देवा अनुप्राणन्ति ।। मनुष्याः पशवश्चये ।।प्राणमनु प्राणन्ति । प्राणाधीनजीवना इत्यर्थः ।।प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते ।।यस्मात्सर्वेषां भूतानां “यावदस्मिञ्छरीरे प्राणो वसति तावदायु”रिति प्राणस्योच्छ्व सननिश्वसनादिलक्षणस्य सर्वभूतायुर्हेतुत्वम् । अतः प्राण एव सर्वेषामायुरित्युच्यत इत्यर्थः ।सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते ।एवं लक्षणे प्राणे ब्रह्मबुद्धिं कुर्वन्तः सर्वमायुः प्राप्नुवंतीत्यर्थः । एवं प्राणमये आकाशाद्यन्नमयान्तान्तरात्मत्वबुद्धिमवतार्यतां बुद्धिं निवर्तयति ।।तस्यैष एव शारीर आत्मा ।। यः पूर्वस्य ।।पूर्वस्यान्नमयस्य य आत्मा एष एव तस्य प्राणमयस्याप्यात्मेत्यर्थः । शारीरः शरीरप्रतिसंबन्ध्यात्मेत्यर्थः । अनेनात्मशब्दस्य स्वरूपार्थत्वभ्रांतिर्व्युदस्ता भवति । ततश्चान्नमय प्राणमयावेकात्मकौ नत्वन्नमयस्य प्राणमय आत्मेत्यर्थः ।।1।। तर्ह्यन्नमय प्राणमययोः क आत्मा इत्याकांक्षायामाह ।तस्माद्वा एतस्मात्प्राणमयात् ।। अन्योन्तर आत्मा मनोमयः ।।अत्र मनोमय इत्यत्र प्राचुर्यार्थे मयट् । मनोबुद्ध्यहंकारचित्ताख्यान्तः करणवृत्तिषु मनोवृत्तेः प्रचुरत्वात् ।तेनैष पूर्णः ।। स वा एष पुरुषविध एव ।। तस्य पुरुषविधताम् ।। अन्वयं पुरुषविधः ।पूर्ववदर्थः ।।तस्य यजुरेव शिरः ।।तस्यान्तः करणस्य यजुर्वेदविषयज्ञानजनकमनोव्यापारश्शिर इत्यर्थः । मुख्यार्थस्ययजुर्वेदस्य मनस्संबंधाभावेन मनसश्शिरस्त्वरूपणासंभवादिति द्रष्टव्यम् । एवमुत्तरत्रापि ।ऋुग्दक्षिणः पक्षः ।। सामोत्तरः पक्षः ।। आदेश आत्मा ।।इदं कुरु इदंमाकार्षीरितिविधिनिषेधरूपं रहस्यानुशासनमादेश इत्यर्थः । तत्र तज्जन्यज्ञानहेतुभूतान्तः करणवृत्तिरादेशशब्देनोच्यते ।अथर्वांगिरसः पुच्छं प्रतिष्ठा ।।अथर्वांगिरोभिर्दृष्टामंत्राः प्रतिष्ठाहेतुभूतं पुच्छमित्यर्थः । अत्रापि अथर्वांगिरश्शब्दः तज्जन्यज्ञानहेतुभूतमनोव्यापारपरः ।।तदप्येष श्लोको भवतिइति तृतीयोऽनुवाकः यतो ।। वाचो निवर्त्तन्ते।। अप्राप्य मनसा सह।।आनन्द ंब्रह्मणो विद्वान् ।। न बिभेति कदाचनेति ।।यस्माद्ब्रह्मानन्दाद्वाङ्मनसे इयत्तालक्षणं पारमप्राप्य निवर्तेते तादृशं ब्रह्मानन्दं विद्वान् “दृश्यतेत्वग्रयाबुध्या” मनसा तु विशुद्धेन” इत्युक्तरीत्या शुद्धेन मनसा ज्ञात्वा कदापि न बिभेतीत्यर्थः । अत्र ब्रह्मानंदस्य विशुद्धमनोगोचरत्वप्रतिपादकत्वादस्य श्लोकस्य मनोविषयत्वमस्तीति द्रष्टव्यम् ।तस्यैष एव शारीर आत्मा ।। यःपूर्वस्य।।पूर्वस्य प्राणमयस्य आत्मा स एव मनोमयस्याप्यात्मेत्यर्थः । एवं चान्नमयप्राणमय मनोमयानामेक आत्मेत्युक्तं भवति । स क इत्यपेक्षायामाह ।।तस्माद्वा एतस्मान्मनोमयादन्योन्तर आत्मा विज्ञानमयः ।।अत्र विज्ञानमयो जीवः । न बुद्धिमात्रं मयट्प्रत्ययेन व्यतिरेकप्रतीतेः ।।तेनैष पूर्णः ।। स वा एष पुरुषविध एव ।। तस्य पुरुषविधताम् ।। अन्वयं पुरुषविधः ।।पूर्ववदर्थः।तस्य श्रद्धैव शिरः ।। ऋुतं दक्षिणःपक्षः ।। सत्यमुत्तरःपक्षः ।।अत्र श्रद्धाऋुतसत्यशब्दाः ज्ञानविशेषपराः ।।योग आत्मा ।।”ब्रह्मणे त्वा महस ऊँ” इत्यात्मानं युंजीतेति विहितज्ञानविशेषो योगशब्देनोच्यते ।।महः पुच्छंप्रतिष्ठा ।योगविरोधिनिरसनसामर्थ्यलक्षणं महः पुच्छमित्यर्थः । एतेषां श्रद्धादीनामात्म गुणत्वेन प्रसिद्धत्वात्तत्तदवच्छिन्नमात्मस्वरूपं शिरः पक्षपुच्छादिमत्तया प्रतिपाद्यत ेइति द्रष्टव्यम् । अतःस्वस्मादनतिरिक्तैः स्वावयवैश्शिरः पक्षपुच्छादिरूपणपरत्वात्प्रकरण स्येति भाष्यस्य न विरोधः ।।तदप्येष श्लोको भवति ।।4।।इति चतुर्थोऽनुवाकः ।।विज्ञानं यज्ञं तनुते ।। कर्माणि तनुतेऽपि च ।।अत्र विज्ञानमयशब्दनिर्दिष्टोजीवोविज्ञानशब्देनोच्यते । आत्मस्वरूपस्य स्वप्रकाशतयाज्ञानैकनिरूपणीयत्वेनचविज्ञानशब्देनाभिधानसंभवात् । “कृत्यल्युटोबहुलम्” (अष्टा.3.3.113) इति जानातीत्यर्थेकर्तरिल्युडाश्रीयते ।नन्द्यादित्वंवाश्रित्य “नन्दिग्रहि (अष्टा.3.1.134) ।। इत्यादिनाकर्तरिल्युः आश्रीयते ।तेन केवलविज्ञानमात्रपरामर्शे यज्ञंतनुतेकर्माणि तनुतेपिचे”ति प्रतिपादितवैदिकलौकिककर्मकर्तृत्वासंभवादन्तर्यामिब्राह्मणे”िश्वय आत्मनि तिष्ठन्नि”ति माध्यंदिनपाठगतात्मशब्दस्थाने यो विज्ञाने तिष्ठन्नि”ति काण्वपाठदर्शनाद्विज्ञानशब्दो जीवात्मपरः ।विज्ञानं देवास्सर्वे ब्रह्मज्येष्ठमुपासते ।।सर्वेदेवा विज्ञानं जीवस्वरूपमेव प्रधानशब्दाभिलप्यादचेतनाद्ब्रह्मणो ज्येष्ठं प्रजापतिविद्योक्तरीत्या उपासतइत्यर्थः ।।विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति ।। शरीरे पाप्मनो हित्वा सर्वान् कामान्समश्नुत इति ।।यस्तुजीवरूपं ब्रह्म वेद तस्माच्चजीवादन्तिमप्रत्ययपर्यन्तं न प्रमाद्यति चेच्छरीरे पाप्मनो हित्वा देहेवर्त्तमान एव विनष्टाश्लिष्टापूर्वोत्तराधः सर्वान्कामान्समश्रुते ।।तस्यैष एव शारीर आत्मा ।। यः पूर्वस्य ।। तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्माआनन्दमयः ।। तेनैष पूर्णः ।। स वा एवपुरुषविध एव ।। तस्य पुरुषविधताम् ।। अन्वयं पुरुषविधः ।।तस्य प्रियमेव शिरः ।। मोदो दक्षिणः पक्षः ।। प्रमोद उत्तरःपक्षः ।। आनन्द आत्मा । । ब्रह्मपुच्छं प्रतिष्ठा ।।इष्टवस्तुदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यं सुखं मोदः । लब्धस्योपभोगजन्यं सुखं प्रमोदः । सुखातिशयआनन्दः ।।2।। न च मध्यमकायत्वेन रूपितस्यानन्दस्य पुच्छत्वेन रूपितस्य ब्रह्मणश्च भेदाभावेन तस्यैवात्मत्वेन पुच्छत्वेन च रूपणं कथमितिवाच्यम् ।। एकस्यैव ब्रह्मणोब्रह्मत्ववेषेणपुच्छत्वम्, आनन्दत्ववेषेणात्म शब्दितमध्यकायत्व मित्युपपत्तेः ।। नचानन्दरूपब्रह्मस्वरूपस्यकथमानन्दप्रचुरलक्षणमानन्द मयत्वमा नन्दस्य चानन्दप्रचुरत्वा भावादितिवाच्यम् ।। आनन्दस्वरूपस्यैव ब्रह्मणः प्रियमोद प्रमोदशब्दावाच्यशिरः पक्षतादि रूपितधर्मभूतानन्दमयत्ववत्तस्याप्युपपत्तेः । अत्र पूर्वेष्वन्नमयादिषु चतुर्षुपर्यायेष्वनि रूपितस्यब्रह्मणोवयवत्वस्यास्मिन्नानन्दमयपर्याये निरूपणंब्रह्मविदाप्नोति परमित्युपक्रांतस्य ब्रह्मोपदेशस्यानन्दमयपर्याये समापनमिति ज्ञापनार्थमिति द्रष्टव्यम् । अतोऽत्रानन्दमय एव प्रक्रांतं ब्रह्म ।।तदप्येष श्लोको भवति ।।4।।इति पञ्चमोऽनुवाकः ।।असन्नेव सभवति ।असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । संतमेनं तता ेविदुरिति ।पूर्वेषु चतुर्षु पर्यायेषूदाहृतानां श्लोकानां पुच्छवद्विषयत्वदर्शनादयमपि श्लोकः पुच्छवदानन्दमयविषयक एव । न तु ब्रह्मपुच्छमिति निर्दिष्टतदेकदेशविषयः । ततश्च ब्रह्मशब्देना नन्दमय एवोच्यते । आनन्दमयसदसत्त्वज्ञानान्मोक्षसंसारौ भवतइत्यर्थः । आनन्दमयरूपस्य ब्रह्मणः आकाशादिविज्ञानमयान्तपदार्थान्तर्यामि तया निर्दिष्टस्याप्यात्मान्तरमस्ति किमिति शङ्कां व्युदस्यति ।।तस्यैष एवशारीर आत्मा । यः पूर्वस्य ।।पूर्वस्य आकाशादिविज्ञानमयान्तपदार्थस्यात्मभूत एष आनन्दमय आत्मा । तस्यानन्दमय स्यात्मेत्यर्थः । ततश्चानन्यात्मत्वमुक्तं भवति ।। न च पूर्वेषु पर्यायेषु तस्यैष एव शारीरआत्मेत्यस्यानन्यात्मत्व प्रतिपादकत्वादर्शनादस्मिन्पर्याये तदाश्रयणेऽर्थवै रूप्यंस्यादिति शंक्यम् ।पूर्वेषु पर्यायेष्वनुक्तस्यैव ब्रह्मावयवत्वस्येहनिरूपणात्तस्माद्वा एतस्मादानन्द मयादन्योन्तरात्मेति निर्देशाभावाच्च एतत्पर्यायगतस्यतस्यैष एव शारीर आत्मेत्य स्यानन्यात्मत्वमेवार्थः । आनन्दमयब्रह्मप्रतिपादनानन्तरंब्रह्मविदाप्नोति परमित्युपक्रमाभिहित प्राप्तिविशदी करणार्थं प्रश्रानुपक्षिपति ।।अथातोऽनुप्रश्नाः ।। उता विद्वानमुं लोकं प्रेत्य कश्चनगच्छतीति ।। आहो विद्वानमुंलोकं प्रेत्य कश्चित्समश्नुता ।।3।।पूर्वप्रतिपादनस्य बुभुत्साहेतुत्वमतः शब्देनोच्यते । उतेति निपातस्यच्छांदसोदीर्घः ।अथासपत्नानितिवदविद्वानितिपदेसतिहि आद्युदात्तत्वंस्यात् । तत्पुरुषेतुल्यार्थेति स्मरणात् । अन्तोदात्तं चेदं पदम् । उत विद्वानितिच्छेदः । अविप्रकृष्टहृदयादि स्थानस्थमनवच्छिन्नं ब्रह्मोपासिनो विद्वान्किमितः प्रेत्यामुंलोकं परमेव्योमन्नित्युक्तंलोकं गच्छतीत्येकः प्रश्नः ।उत गत्यनपेक्षमिहैव ब्रह्माप्नोतीत्यर्थसिद्धः प्रश्नः । आहो विद्वान्समश्रुत इति भोक्तृत्वं विवक्षितम् ।अयमर्थः कश्चिदहं ग्रहेणोपासीनोऽपि विद्वानमुंलोकं गत्वाकिंसमश्नुते भोग्यभूतब्रह्मानुभवतीत्येकः प्रश्नः । उत ब्रह्मस्वरूपेणैकीभवतीत्यर्थासिद्धः प्रश्नः । एवंशास्त्रवैविध्यमूलागतिविशेषस्वरूपभेदसदसद्भावविषयाः प्रश्नाःबहुवचनेनविवक्षिताः ।एतत्सर्वंव्यासाचार्यैः “उपासात्रैविध्यात् (ब्र.सू.1.1.13)” तिसूत्रेस्पष्टमुक्तम् ।। एतान्प्रतिवक्तुं जगत्कारणत्वौपयिकगुण विशिष्टस्यैव ब्रह्मणः प्राप्यत्वादिज्ञापनायाह ।।सोऽकामयत बहुस्यां प्रजायेयेति ।।सआनन्दमयआत्मा देवमनुष्यादिरूपेण बहुस्यां तदर्थमाकाशादिभूतरूपेण प्रजायेयेतिव्यष्टिसमष्टिरूपचेतनाचेतनविषयसंकल्पमकुरुतेत्यर्थः ।।स तपोऽतप्यत ।।स परमात्मा स्रष्टव्यालोचनरूपं तपः कृतवानित्यर्थः । “तप आलोचन” इति हि धातुः ।स तपस्तप्त्वा इदं सर्वमसृजत ।। यदिदं किंच तत्सृष्ट्वा देवानुप्राविशत् ।।ननु सर्वदा सर्वव्याप्तस्य ब्रह्मणः कोसौ सृष्टिकालानुप्रवेश इति चेदुच्यते ।।गोजठरेगतवत्सवत्सर्वव्याप्तस्य ब्रह्मणः प्रत्येकंसर्ववस्तुषुपुष्कलप्रतीत्यर्हस्थितिविशेष एवानुप्रवेशः ।अनेन “सत्यं ज्ञानमनन्तंब्रह्म योवेदनिहितं गुहायाम्” इत्यत्रोक्तमनन्तस्य ब्रह्मणोहृदयगुहानिहितत्व मुपपादितं भवति ।।तदनुप्रविश्य सच्च त्यच्चाभवत् ।।सच्छब्देननिर्विकारतया सततैकरूपश्चेतन उच्यते । त्यच्छब्देन पूर्वपूर्वावस्थात्याग विकारास्पदमचेतनमुच्यते । ब्रह्मैवचेतनाचेतन नामरूप भाग्भवतीत्यर्थः । ननु ब्रह्मण एव सर्वोपादानतया सर्वभावे विकारास्पदत्वं स्यादित्याशंक्याह ।।निरुक्तं चानिरुक्तंच निलयनं चानिलयनं च ।।जातिगुणक्रियावत्तया जातिगुणक्रियाभिधायिशब्दवाच्यमचेतनं निरुक्तम् । जातिगुणादि शून्यचेतनजातमनिरुक्तम् । एता भूतामात्राः प्रज्ञामात्रास्वर्पिताइत्युक्तरीत्याऽचेतन वर्गाधारभूतं चेतनजातं निलयनम् । आश्रितमचेतनजातम निलयनम् ।।विज्ञानं चाविज्ञानंच ।।अजडस्वरूपं जडस्वरूपं च ।।सत्यंचानृतंच सत्यमभवत् ।।निर्विकारतया सत्यत्वं चेतनस्य । इतरस्यत्व तथात्वम् । ततश्चनिरुक्तत्वानिरुक्तत्व निलयनत्वा निलयनत्व विज्ञानत्वाविज्ञानत्वयुक्त सत्यानृतशब्दितचेतनाचेतननामरूपभाग्वदपि ब्रह्म सत्यमेवाभवत् । अजहन्निर्विकारत्वलक्षण स्वस्वभावमेवाभवदित्यर्थः ।।यदिदं किं च । तत्सत्यमित्याचक्षते ।।यस्माच्चेतनाचेतनात्मकवर्गानुप्रविष्टतया सत्यशब्दितस्य ब्रह्मणआत्मत्वमत एव सर्वमपि चे तनाचेतनात्मकं जगच्छास्त्रदृष्टिमन्तः पुरुषाः पराशरादयो “हरेर्नकिंचिद्व्यतिरिक्तमस्ति ज्योतींषिविष्णुर्भूवनानिविष्णुः” इत्याचक्षतइत्यर्थः ।।तदप्येष श्लोको भवति ।।स्पष्टोर्थः ।।इति षष्ठोऽनुवाकःअसद्वा इदमग्रआसीत् । ततो वै सदजायत ।।इदं स्थूलचेतनाचेतनशरीरकं ब्रह्मानभिव्यक्तनामरूपं ब्रह्म सृष्टेःप्रागासीत् । तस्मादिदं जगदभिव्यक्तनामरूपमभवदित्यर्थः । नन्वसच्छब्दितस्य ब्रह्मण उपादानत्वे कर्त्रंतरमपेक्षितं निमित्तोपादानयोर्भेदावश्यंभावादित्याशंक्याह ।।तदात्मानँ स्वयमकुरुत ।।आत्मानमेवोपादानत्वेन स्वीकृत्य स्वयमेवाकुरत ।।तस्मात्तत्सुकृतमुच्यत इति ।।यस्मात्स्वयमेव स्वस्वकार्यम् । अत एव ब्रह्म सुष्ठुकृतं कार्यं यस्य तत्सुकृतम् । कार्यस्य सौष्ठवं चानतिक्लेशरूपत्वम् । स्वभिन्नस्य कार्यस्य निर्माणे हि क्लेशप्रसक्तिः । ततश्चाक्लिष्टकार्यं ब्रह्मेति “निश्वसितमेतन्महतोभूतस्य” इत्यादिश्रुतयो वदन्तीत्यर्थः । भवतु तत्सुकृतं तस्योपास्यत्वप्राप्यत्वयोः किमायातमित्यत्राह ।।यद्वै तत्सुकृतम् ।। रसो वै सः ।।सुकृतमिति निर्दिष्टब्रह्मरसः आनन्दः ।।रसँ ह्येवायं लब्ध्वानन्दी भवति ।।तल्लाभादस्यानदित्वम् । ततश्चतस्यानन्दत्वात् प्राप्यत्वोपास्यत्वे युक्त इति भावः ।। तदेवोपपादयति ।।को ह्येवान्यात्कः प्राण्यात्।।यदेष आकाश आनन्दो न स्यात् ।।एष ह्येवानन्दयाति ।।यद्ययमपरिच्छिन्नानन्दरसः परमात्मा नस्त्सांसारिकमापवर्गिकं च सुखं कः प्राप्नुयात् ।अत एष एवानंदयाति । अतस्तस्यसर्वविधानन्दहेतुत्वात्तस्य प्राप्यत्वमस्तीति भावः ।।1।।यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयंप्रतिष्ठां विन्दते ।।अथ सोऽभयं गतो भवति ।।अदृश्ये चक्षुरादिग्रहणानर्हे आत्म्यं व्याप्यं शरीरमित्यर्थः । अनात्म्येऽशरीररूपइत्यर्थः ।अत एवानिरुक्ते जातिगुणादिवाचिदेवादिपदावाच्ये । अनिलयने आधारशून्ये । अभयं अभयाय ।”नाव्ययीभावादि”तिचतुर्थ्या अम्भावः । “अर्थाभआवे यदव्यय”मित्यव्ययीभावसमासः ।अभयसाधनभूतांप्रतिष्ठां निरंतरस्मृतिलक्षणां निष्ठां यो विन्दते लभते स अभयं प्राप्नोति । अत्र व्यासाचार्य्यैः “अदृश्य इत्यचिद्व्यावृत्तिः । अनात्म्यइति बद्धव्यावृत्तिः । स हि परमात्मना व्याप्यः । यद्वा आत्म्यं व्याप्यं कर्मकृतशरीरं तद्रहितोऽनात्म्यः । अनिरुक्तइतिमुक्तव्यावृत्तिः । सहिबद्धावस्थायां देवादिशरीरशब्दैरुक्तः । अनिलयनइति नित्यमुक्तव्यावृत्तिः ।”तेषां भगवानाधार” इत्युक्तम् । एवं विहितायाः प्रतिष्ठाया विच्छेदेऽनर्थंदर्शयति ।।यदाह्येवैष एतस्मिनुदरमंतरं कुरुते । अथ तस्य भयंभवति ।।एष उपासकः एतस्मिन्परमात्मनि ध्यानस्यांतरंविच्छेदं दरमल्पमंतरमपि यः कुरुते तस्य भयं भवतीत्यर्थः । पूर्ववाक्ये प्रतिष्ठाशब्देन निरन्तरध्यानवाचिनाध्यान गतनैरन्तर्यस्याभिहितत्वादत्रान्तरशब्देनापितस्यैवध्यानगतनैरन्तर्यस्य विरोधिनो ध्यानविच्छेदस्य ग्रहणमुचितम् । न तु परोक्तरीत्या “ब्रह्मण्यन्तरंभेदं यः कुरुते जानातीत्यर्थः” उचित इति द्रष्टव्यम् । वस्तुतस्तु ब्रह्मैक्यवादिनामस्माकं ब्रह्मणि नानात्वनिषेधो न प्रतिकूलः । अस्माभिर्नाना ब्रह्मवादस्यानभ्युपगमात् । तथापि प्रकरणानुगुण्यादस्मदुक्त एवार्थ उचित इति द्रष्टव्यम् । किंभयं तत्राह ।।तत्त्वेव भयं विदुषो मन्वानस्य ।।विदुषो ब्रह्मोपासननिष्ठस्यतदतिरिक्तविषयस्पृहया निरंतरमननमकुर्वतस्त देवामननं भयम् ।नहितदपेक्षयाऽन्यद्भयमस्ति । उक्तं च महर्षिभिः “यन्मुहूर्तं क्षणं वापि वासुदेवो न चिंत्यते ।सा हानिस्तन्महच्छिद्रं सा भ्रांतिस्सा च विक्रिया ।।1।। वरं हुतवहज्वाला पंजरांतर्व्यवस्थितिः ।।न शौरिचिंताविमुखजनसंवासवैशसम् ।।2।।इति ।।तदप्येषश्लोकोभवति ।।5।।7।।इति सप्तमोऽनुवाकः ।।भीषास्माद्वातः पवते ।।भीषोदेति सूर्य्यः ।। भीषास्मादग्निश्चेंद्रश्च ।। मृत्युर्धावति पंचम इति ।।अग्नींद्रसूर्यप्रमुखास्सर्वेऽपि देवप्रवराः परमात्मशासनातिवृत्तौ किं भविष्यतीति भीत्यास्वस्वकर्मसु जागरूका भवंति । अतश्चब्रह्मव्यतिरिक्तं कृत्स्नमपि पदं दुःखोदर्कत्वादनर्थरूपमेव ।अतश्च तादृशपदकामनया मननविच्छेदस्यात्यंत भयावहत्वात्ततो नभयं किंचिदस्तीत्यर्थः । एवं ब्रह्मवेदनस्य जगत्कारणत्वतदौपयिक सार्वज्ञादिगुणविशिष्टविषयकत्वमविच्छिन्नत्वं च विधाय प्राप्यस्यानन्दमयस्यब्रह्मण आनन्दमयशब्दप्रवृत्तिनिमित्तमानन्दप्राचुर्यंदर्शयति ।।सैषानन्दस्य मीमाँसा भवति ।।वक्ष्यमाणानन्दविषयविचारोभवतीत्यर्थः ।।युवास्यात्साधुयुवाध्यायकः । आशिष्ठोदृढिष्ठोबलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मामानुषआनन्दः । श्रीत्रियस्य चाकामहतस्य ।।अत्रव्यासाचार्यैः । साधुयुवाध्यायकः साधु यथाविधि । सम्यक्संप्रदायसिद्धतया स्वरवर्णादिभ्रंशरहितं वा युवशब्देन प्रत्यग्रत्वं विवक्षितम् । अविस्मरणान्नित्यनवं यथा तथाअध्ययनवानित्यर्थः । यद्वा स्वसमवयस्कानां सर्वेषामध्यायकअध्यापकः । तदधिकज्ञानइत्यर्थः ।आशिष्ठः आशुतरक्रियः । यद्वाऽशनक्षमःइत्यर्थः । यद्वा आशीर्वादविषयभूतः ।सर्वानुरञ्जकइत्यर्थः । “सर्वान्देवान्नमस्यंति” इतिवत् । बलिष्ठो मनोबलवान् । द्रढिष्ठःदृढतरः ।सत्त्वव्यवस्थितस्वभावइत्यर्थः । बलिष्ठः शारीरमानससर्वविधबलनान् । वित्तस्य पूर्णा वित्तेनपूर्णा । “पूरणगुणसहितार्थ (अष्ठ.2.2.11)” इति षष्ठ्या अनुज्ञानात् । एवं गुणसमुदायंविभूतिफौष्कल्यं चोक्त्वा “स एको मानुष आनन्दः” इति श्रुत्या तस्यैवानन्दत्वमुक्तम् । न चज्ञानभिन्नस्यगुणविभूत्यादेः कथमानन्दत्वमिति शंक्यम् । अनुकूलत्वं ह्यानन्दत्वम् । तच्च स्वत एवेष्टत्वम् । तच्चगुणविभूत्योरपि संभवति । तद्विषयस्य ज्ञानस्याप्यनुकूलत्वं विषयानुकूलत्वान्वयव्यतिरेकसिद्धम् । अतः श्रुतिस्वारस्याद्गुण विभूत्योरेवानन्दत्वम् । श्रोत्रियो ब्रह्मनिष्ठः । अकामहतः समस्तसांसारिकभोगानुपहतः । अतो मुक्त उच्यत इत्युक्तम् । एवं च युवत्वदृढगात्रत्वसौंदर्यज्ञानबलैश्वर्यादयः संभूय यत्र भवन्ति स एकोमानुषानन्दः । अकामहतस्य श्रोत्रियस्य मुक्तस्यापिस आनंदोऽस्ति मुक्तस्य सर्वानन्दानुभवशालितया तत्र मानुषानन्दस्यान्तर्गतत्वादितिभावः ।।ते ये शतं मानुषा आनन्दाः।। स एको मनुष्यगन्धर्वाणामानन्दः ।।श्रोत्रियस्यवचाकामहतस्य।। तेयेशतंमनुष्यगन्धर्वाणामानन्दाः।। स एको देवगन्धर्वाणामानन्दः।।श्रोत्रियस्यचाकामहतस्य । ते ये शतं देवगंन्धर्वाणामानन्दाः।। स एकः पितृणां चिरलोकलोकानामानन्दः।।श्रोत्रियस्य चाकामहतस्य ।। तेयेशतं पितृणांचिरलोकलोकानामानन्दाः।।स एक आजानजानांदेवानामानन्दः।। श्रोत्रियस्य चाकामहतस्य।।ते ये शतमाजानजानां देवानामानन्दाः ।। स एकः कर्मदेवानां देवानामानन्दः ।। ये कर्मणा देवानपियन्ति ।। श्रोत्रियस्य चाकामहतस्य ।। ते ये शतंकर्मदेवानांदेवानामानन्दाः ।। स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ।ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः । श्रोत्रियस्य चाकामहतस्य ।तेये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ।ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ।।ये मनुष्या एव संतः कर्मविशेषेण वा विद्याविशेषेण वान्तर्धानादिशक्त्युपेततया गन्धर्वत्वंप्राप्तास्तेमनुष्यगन्धर्वाः । अन्तरिक्षलोकवासिनो देवगन्धर्वाः । चिरकालस्थायिलोकश्चिरलोकः ।चिरलोको लोको येषां ते चिरलोकलोकः पितरः । आजानो देवलोकः । तत्र जाता आजानजाः ।स्मार्तकर्मविशेषतो देवस्थानेषु जाता इत्यर्थः । अग्निहोत्रादिकर्मणा अग्नीन्द्रादिसायुज्यंप्राप्ताःकर्मदेवाः । देवास्तु वसुरुद्रादयः त्रयस्त्रिंशद्धविर्भुजः । इन्द्राबृहस्पती प्रासिद्धौ । प्रजापतिश्चतुर्मुखः न तु दक्षादयः । एकवचनश्रवणात् ।।ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ।।अत्र ब्रह्मशब्दोब्रह्मविदाप्नोतिपरमिति प्रकृतब्रह्मपरः ।। न च ब्रह्मानंदस्य ते ये शतमिति परिच्छिन्नत्वं कथमिति शङ्क्यम् । क्षणार्द्धेन बहूनि योजनानि खौगच्छति इषुवद्गच्छति सवितेति इषुसाम्यप्रतिपादकवचनस्य गतिमान्द्यनिवृत्तिपरत्ववत्तेयेशतमिति वाक्यस्यापि चतुर्मुखानन्दाधिक्यमात्रपरत्वेन शतगुणितचतुर्मुखानन्दान्यूनानधिक परत्वाभावात् । एवंभूत आनन्दमयो यो वेदनिहितं गुहायाम्” इति हृदयगुहा निहितत्वेनोपास्यमानः कीदृशविग्रहविशेषविशिष्टः को वा देवताविशेष इत्याकाङ्क्षायामाह ।।सयश्चायंपुरुषे । यश्चासावादित्ये । सएकः ।।”यएषोऽन्तरादित्येहिरण्यमयः पुरुषोदृश्यतेहिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात्सर्वएव सुवर्णः तस्यथाकप्यासंपुण्डरीकमेवमक्षिणीतस्योदितिनाम” (1) इत्यादित्यमण्डलान्तवर्ती कमनीयविग्रहयुक्तो यः पुण्डरीकाक्षः स एव हृदयगुहावर्तीविज्ञानमयादन्तरस्ततश्च पुण्डरीकाक्षत्वादिविग्रहोपेतो नारायण एवेत्यर्थः । ततश्च तादृशविग्रहविशिष्टत्वेन हृदय गुहान्तर्वर्तिनोभगवतोध्यानंकर्तव्यमिति फलितोर्थः । अत्र “सच्चत्यच्चाभवत्” (1) इतिचिदचिच्छरीरकत्वेनानुसन्धानमुक्तम् । “सत्यंज्ञानम्”(2) इतिस्वरूपेणानुसन्धानमुक्तम् ।तच्चस्वरूपेणानुसन्धानमादित्य मण्डलान्तर्वर्तिपुण्डरीकाक्षत्वादि विग्रहविशिष्टतया चोक्तं भवति ।”जीवमुख्यप्राणलिङ्गान्नेतिचेन्नोपासत्रैविध्यात् (ब्र.सू.1.1.32)” इति सूत्रे भगवता भाष्यकृता तदिदं त्रिविधं ब्रह्मानुसन्धानं प्रकरणांतरेष्वप्याश्रितम् । “सत्यं ज्ञानमनन्तंब्रह्म”(3) इत्यादिषु स्वरूपेणानुसन्धानं “तत्सृष्ट्वातदेवानुप्राविशत् तदनुप्रविश्यसच्चत्यच्चाभवत्” (4) इति भोक्तृशरीरकतया भोग्यभोगोपकरण शरीरकतया चानुसंधानमित्युक्तम् । एवमस्यप्राप्यत्वोपयुक्तं रूपमुक्तम् ।। “उताविद्वानमुंलोकम्” (5) त्यादिनोपक्षिप्तानां प्रश्नानामुत्तरमाह ।।स य एवं वित् ।। अस्माल्लोकात्प्रेत्य ।। एतमन्नमय मात्मानमुप संक्रामति ।।एतं प्राणमयमात्मानमुपसंक्रामति ।। एतंमनोमयमात्मानमुपसंक्रामति।। एतं विज्ञानमयमात्मानमुपसंक्रामति ।। एत मानन्दमय मात्मानमुपसंक्रामति ।।अत्र “सयएवंवित् अस्माल्लोकात्प्रेत्य” इत्यनेन सर्वेषांब्रह्मविदामर्चिरादिमार्ग उक्तोभवति ।”आनन्दमयमात्मानमुपसंक्रामति” इति मुक्तदशायां जीवब्रह्मणोरुपास्योपासकयोः भोक्तृभोग्यभावप्रतिपादनान्मुक्तौ जीब्रह्मणोरैक्यपक्षो व्युदस्तोभवति । एतमन्नमयमित्यादि पंचस्वपि पर्यायेषु एतच्छब्दः परमात्मपरः । अन्नमयप्राणमयमनोमयविज्ञान मयशब्दास्तच्छरीरकपरमात्मपराः । अत्र व्यासार्यैः सर्वोऽपि विद्वानस्माल्लोकात्प्रेत्यान्नमयादि समष्टिव्यष्टिविभूतिकंनिरतिशयानन्दं परमात्मानं भोग्यभूतं भोक्तासन्ननुभवतीति प्रश्नस्योत्तरमुक्तं भवतीत्युक्तम् ।। अभयं प्रतिष्ठां विन्दते, अथ सोऽभयंगतो भवतीत्युक्तार्थे साक्षित्वेन श्लोकं पठति ।।तदप्येषश्लोकोभवति ।।2।।इत्यष्टमोऽनुवाकःयतोवाचोनिवर्तंते । अप्राप्यमनसासह ।। आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति ।।वाङ्मनसे आनंदस्य इयत्तालक्षणं पारंगतुं प्रवृत्ते तदप्राप्यैव निवृत्ते भवतः । तादृशानन्दगुणकब्रह्मोपासनेन सर्वक्लेशभयादत्यंतनिवृत्तिर्भवतीत्यर्थः ।। तदेवोपपादयति ।।एतँ ह वाव न तपति । किमहं साधुनाकरवम् । किमहं पापमकरवमिति ।।खर्गादिहेतुकं सुकृतं नाकार्षं नरकादिहेतुभूतदुष्कृतमकार्षमिति ईदृशीचिंता एनं ब्रह्मविदं न बाधते । स्वर्गादिलोकेष्विच्छायाअभावात् । ब्रह्मज्ञानदग्धपापतया नरकादि भयस्याप्याभावात् । एतादृशं ब्रह्मविद्याप्रयुक्तमाहात्म्यमपि ध्येयमित्याह ।।स य एवंविद्वानेते आत्मानँ स्पृणुते ।।एते एताभ्यां चिंताभ्यामात्मानंस्पृणुते रक्षतीत्यर्थः । पुण्यपापफलानुभवो नास्तीत्युक्तं भवति ।।उभे ह्येवैष एत आत्मानं स्पृणुते । य एवं वेद ।।पुनर्वचनं पुण्यपापविधूननध्यानसातत्यतात्यर्यद्योतनायानुवाकसमाप्तिद्योतनाय च ।।।।इत्युपनिषत् ।।इत्थं परमरहस्योपदेशः तादृशोपदेशयोग्यायैव वक्तव्य इति भावः ।।इत्यानन्दवल्लीद्वितीयाध्याय दीपिका ।।इति –आनन्दमयाधिकरणं