॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
इन्द्रप्राणाधिकरणम्
प्राणस्तथानुगमात् ।। (ब्र.सू.1.1.29)कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम् ।।प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ।।दिवोदासस्यापत्यं दैवोदासिः नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युतः इंद्रस्य प्रियं स्थानं स्वर्गमुपगत इत्यर्थः ।तँ हेन्द्र उवाच । प्रतर्दन वरं वृणीष्वेति ।।स्पष्टोऽर्थः ।।स होवाच प्रतर्दनः त्वमेव मे वरं वृणीष्व । यं त्वं मनुष्याय हिततमं मन्यसे ।।सर्वज्ञस्त्वं यं वरं मनुष्याय मे हिततमं मन्यसे तमेव वृणीष्व । अहमज्ञः हिततमं वरं न वेद्मीति ।।तँ महेन्द्र उवाच । न वै परः परस्मै वृणीते । त्वमेव वृणीष्वेति ।।न ह्यन्योऽन्यार्थं वरं वृणीते । अतस्त्वदभिलषितं वरं त्वमेव मत्तो वृणीष्वेत्यर्थः ।अवरो वै तर्हि किल म इति होवाच प्रतर्दनः ।।यदि हि त्वयापि नव्रियते तर्हि मम हिततमस्यापरिज्ञानाद्वराभाव एव प्राप्त इति प्रतर्दन इन्द्रमुवाचेत्यर्थः ।अथो खल्विन्द्रः सत्यादेव नेयाय ।एवमुक्तस्ते वरं ददानीति सत्याद्वाक्यान्नापेतः तत्र हेतुमाह ।सत्यं हीन्द्र इति ।।इन्द्रस्य सत्यप्रधानत्वादित्यर्थः । ततश्च वरं ददानीति मदुक्तं वाक्यमसत्यं मा भूदित्यमन्यतेत्यर्थः ।।सहोवाच । मामेव विजानीहि । एतदेवाहं मनुष्याय हिततमं मन्ये । यन्मां विजानीयात् ।।यदि ते हिततमनुपदेष्टव्यं तर्हि मदुपासनमेव हिततमं मोक्षसाधममिति मन्मतम् । अत इतरत्परित्यज्य मामुपास्स्वेत्यर्थः । अत्र प्रसिद्धजीवभावस्येन्द्रस्य हिततमत्वलक्षणमोक्षसाध नत्वाश्रयोपासनकर्मत्वासंभवान्मामिति शब्दःस्वात्मभूतं परमात्मानभिदधाति । “य आत्मनि तिष्ठन्” (बृह.6.7.22)। “अन्तः प्रविष्टश्शास्ता जनानांसर्वात्मा” (तै.यजु.आर.3.11) इति शास्त्रेण स्वस्याप्यात्मभूतः परमात्मा निर्दिश्यते । अहंबुद्धिशब्दाः परमात्मपर्यंता इति जानत इन्द्रस्य स्वात्मभूते परमात्मनि मामिनि शब्दप्रयोगे नानुपपत्तिः । ननु स्वायत्तेशब्दप्रयोगेऽसंदिग्धंपरमात्मवाचकमेवपदं प्रयुज्यताम्, किं न्यायलभ्य परमात्मपर्यवसानेन मामितिशब्देनेति चेत् । स्यादेवम् । यदि परमात्मस्वरूपमात्रोपासनं विधित्सितं स्यात् । अपि तु स्वशरीरकतया । अतो मामिति निर्देश उपपद्यते । तत्क्रतुन्यायेन स्वोपासकस्य पापाश्लेषं वक्तुं स्वस्य पापाश्लेषं दर्शयति ।।त्रिशीर्षाणं त्वाष्ट्रमहनम् ।।त्रिशिरस्कं त्वाष्ट्रं विश्वरूपं हतवानस्मि ।।अरुन्मुखान्यतीन् शालावृकेभ्यः प्रायच्छम् ।।रौतीति रुद्वेदः । रुत् मुखे न विद्यते येषां ते अरुन्मुखाः । वेदान्तविमुखान्यतीञ्छ्वविशेषेभ्यः खादनाय प्रायच्छम् ।बह्वीः संधा अतिक्रम्य दिवि प्राह्लादीयानतृणवहमन्तरिक्षे पौलोमान्पृथिव्यां कालकञ्जान् ।न हनिष्यामीति कृताबह्लीः प्रतिज्ञा अतिक्रम्य दिविवर्तमानान्प्रह्लादपुत्रानतृणहम् अहनम् ।तृह हिंसायामिति धातुः । अंतरिक्षेपौलोमान् पुलोमसुतान् पृथिव्यां कालकञ्जाख्यानसुरांश्च हिंसितवानस्मि ।।तस्य मे तत्र न लोम च मीयते ।।एवं हिंसितवतो मे लोमापि न हिंस्यते ब्रह्मविद्याप्रभावादित्यर्थः ।स यो मां विजानीयान्नास्य केन च कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्य पापं चक्रुषो मुखं नीलं वेति ।।य एतादृशं मदात्मकं परमात्मानमुपास्ते तस्य केनापि कर्मणा मातृवधपितृवधस्तेय भ्रूणहत्यादिलक्षणेन परलोकप्राप्तिर्न विरुध्यते । एवं पापंकृतवतोऽपिमयेदृशं पापं कृतमिति निर्वेदजनितमुखवैवर्ण्यमपि नास्तीत्यर्थः । चक्रुष इति क्वस्वंतात्षष्ठी।।एवंचेतनविशेषरूपस्वविशिष्टपरमात्मोपासनमुक्त्वाऽचेतनविशेषरूपप्राणविशिष्टोपासनमाह ।।स होवाच । प्राणोऽस्मि प्रज्ञात्मा । तं मामायुरमृतमित्युपास्स्व ।प्रज्ञारूप आत्मा प्रज्ञात्मा जीवः । जीवशरीरकइत्यर्थः । जीवशरीरकोऽहं प्राणोऽस्मि प्राणशरीरकोऽहमस्मि । तादृशं प्राणशरीरकं मामायुरमृतमित्युपास्स्व । कथं प्राणशरीरकस्यायुष्ट्वाऽमृतत्वे इत्याशंक्याह ।।आयुःप्राणः । प्राणो वा आयुः । प्राण उ वा अमृतं यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुः । प्राणे न ह्येवामुष्मिल्लोंकेऽमृतत्वमाप्नोति ।।शरीरे प्राणस्थिते रुच्छ्वासादिलक्षणायुः साधनत्वादायुः प्राणः । लोकांतरे चिरस्थायित्वरूपामृतत्वप्राप्तेःप्राणाधीनोपायानुष्ठानसाध्यत्वात्प्राणस्यामृतत्वम् । अत आयुष्ट्वामृतत्वेप्राणस्योपपद्येते ।तद्वारापरमात्मनश्चोपपत्तेः आयुष्ट्वामृतत्वाभ्यां प्राणशरीरकब्रह्मणउपासनमुपपद्यते । यद्वा अत्र व्यासार्योक्तरीत्या तं मामायुरिति वाक्ये मामिति जीवविशिष्टतोच्यते ।आयुरिति प्राणविशिष्टता । यो वै प्राण इतिह्यनंतरमेव श्रवणात् । अमृतमिति स्वेन रूपेणावस्थितिः । एवं चास्मिन्नेव वाक्ये स्वेनरूपेण चिदचिद्विशिष्टतयाच त्रिविधोपासनं विधीयते । अतो नोपासनात्रयविधिकृतवाक्यभेद इति द्रष्टव्यम् ।। 1।।प्रज्ञात्मकत्वविशिष्टोपासनस्य फलमाह ।प्रज्ञया सत्यसंकल्पं इति ।अपहतपाप्मत्वादिगुणाष्टकलक्षणं ब्राह्मंरूपमित्यर्थः ।।यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा सा प्राणः ।।ननु प्रज्ञाशब्दितजीवस्य प्राणस्य च कथमभेद इत्यत्राह ।स ह ह्येतावस्मिञ्छरीरे वसतस्सहोत्क्रामतः ।।सहोक्रमणप्रतिष्ठत्वादेककार्यकारिकारित्वादभेदव्यपदेशो युज्यते इत्युक्त्वा “प्राण एव प्रज्ञात्मा इदं शरीरं परिगृह्योत्थापयति” (कौ.षी.3.1.2) इति प्रज्ञाशब्दितजीवसहायकस्य मुख्यप्राणस्यैव शरीरोत्थापकत्वमिति मुख्यप्राणस्यामुख्यप्राणापेक्षया वैलक्षण्यमुक्त्वा “यत्रैतत्पुरुषः सुप्तः स्वप्नं कथंच न पश्यति । अथास्मिन्प्राण एवैकधा भवति” (छां.8.6.3) इति ।सुषुप्तिदशायामपि प्राणविशिष्टपरमात्मनि जीवस्य लीनतया सुषुप्तावपि जीवप्राणयोः साहचर्यं प्रदर्श्य प्राणस्य सर्वभूतोपजीव्यत्वमुक्त्वा “अथ खलु यथा प्रज्ञायां सर्वाणि भूतान्येकं भवन्ति तद्व्याख्यास्यामः” इति ।।4।।प्रज्ञाशब्दितजीवस्य सर्वभूताश्रयत्वप्रकारः कथ्यत इति प्रतिज्ञायाऽऽह ।।वागेवास्या एकमंगमुदूढं तस्या नाम पुरस्तात्प्रति विहिता भूतमात्रा ।।अस्याः प्रज्ञायाः प्रज्ञया । जीवेनेति यावत् । वागिंद्रियमेकमंगमुदूढं परिगृहीतामित्यर्थः ।उद्वाहकर्मभूतपत्नीवत्परिगृहीतमित्यर्थः । वस्तुतस्तु स्वांगाभावात्तस्या वाचः पुरस्ताद्ग्राह्यत्वेन प्रतिनियततयाविहिता भूतमात्रा नाम । एवमुत्तरत्रापि द्रष्टव्यम् ।।घ्राणमेवास्या एकमंगमुदूढं तस्य गंधः पुरस्तात् प्रतिविहिता भूतमात्रा ।। चक्षुरेवास्या एकमंगमुदूढं तस्य रूपं पुरस्तात्प्रतिविहिता भूतमात्रा ।। श्रोत्रमेवास्या एकमंगमुदूढं तस्य शब्दः पुरस्तात्प्रतिविहिता भूतमात्रा ।। जिह्वैवास्या एकमंगमुदूढं तस्या अन्नरसः पुरस्तात्प्रतिविहिता भूतमात्रा ।। हस्तावेवास्या एकमंगमुदूढं तयोः कर्माणि पुरस्तात्प्रतिविहिता भूतमात्रा ।। शरीरमेवास्या एकमंगमुदूढं तस्य सुखदुःख ेपुरस्तात्प्रतिविहिता भूतमात्रा ।। उपस्थमे वा (स्थ एवा) स्या एकमंगमुदूढं तस्यानन्दो रतिः प्रजातिः पुरस्तात्प्रतिविहिता ।। भूतमात्रा ।।प्रजातिः प्रजननमित्यर्थः ।।पादावेवास्या एकमंगमुदूढं तयो रित्याः पुरस्तात्प्रतिविहिता भूतमात्रा ।।इत्याः गमानि ।।प्रज्ञैवास्या एकमंगमुदूढं तस्या धियो विज्ञातव्यं कामाः पुरस्तात्प्रतिविहिता भूतमात्रा ।अत्र प्रथमान्तः प्रज्ञाशब्दो मनः परः । न तु प्रज्ञारूपजीवपरः । उत्तरत्र नेत्यांविजिज्ञासीत एतारं विद्यादित्यनंतरं न मनोविजिज्ञासीतेति मनश्शब्दप्रयोगात्स्थानप्रमाणेन प्रज्ञाशब्दस्य मन एवार्थः । धियो विज्ञातव्यं मनोजन्यज्ञानविषय इत्यर्थः । कामाः काम्यमाना इत्यर्थः ।।एवं नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दगतिज्ञातव्यानां दशानां भूतमात्राणांवाग्घ्राणादिविषयत्वमुक्त्वा प्रज्ञाशब्दितस्य जीवस्य नामादिदशविधभूतमात्राव्याप्तिप्रकारमाह ।।प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ।।अत्र प्रजाशब्द अव्यवहितप्रज्ञाशब्दनिर्दिष्टमनः परः । ततश्च मनसा वागिंद्रियमधिष्ठाय तद्धारा सर्वाणि नामानि अभिलपनक्रियाद्वाराज्ञानेन व्याप्नोति ।प्रज्ञया घ्राणं समारुह्य घ्राणेन सर्वान्गन्धानाप्नोति ।।मनसा घ्राणेन्द्रियमधिष्ठाय तद्धारा सर्वान् गन्धान् ज्ञानेनाप्नोति । एवमुत्तरत्रापि द्रष्टव्यम् ।प्रज्ञया चक्षुस्समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति ।। प्रज्ञया श्रोत्रं समारुह्यश्रोत्रेण सर्वाञ्छब्दानाप्नोति।। प्रज्ञया जिह्वां समारुह्य जिह्वया सर्वान्अन्नरसानाप्नोति ।। प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति ।।प्रज्ञया शरीरं समारुह्यशरीरेण सुखदुःखे आप्नोति।। प्रज्ञयोपस्थं समारुह्य उपस्थेनानन्दं रतिं प्रजातिमाप्नोति।।प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आप्नोति ।। प्रज्ञयैव धियं समारुह्य धियो विज्ञातव्यं कामानाप्नोति ।।ननु मनोद्वारा वागादिनियमनं किमर्थमित्याशंक्याह ।।न हि प्रज्ञापेता वाङ्नाम किंचित्प्रज्ञापयेत् ।।न हि मनोऽनधिष्ठितं वागिन्द्रियं नाम प्रज्ञापनसमर्थं भवतीत्यर्थः । अत्र लोकमेव साक्षित्वेनोदाहरति ।।अन्यत्र मे मनोऽभूदित्याह नाहमेतन्नाम प्राज्ञासिषमिति ।।लोको हि अन्यत्र मे मनोभूदित्युक्त्वैतन्नाम न प्राज्ञासिषमित्याह । मनोव्यासङ्गव शाज्ज्ञानपूर्वकनामाभिलपनलक्षणवागिंद्रियव्यापारोनाभूदिति हि लोकः प्रत्येतीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।नहि प्रज्ञापेतो घ्राणो गन्धं कंचन प्रज्ञापयेत् ।। अन्यत्र मे मनोऽभूदित्याह ।।नाहमेतद्रूपं प्राज्ञासिषमिति । न हि प्रज्ञापेतं श्रोत्रँ शब्दं कंचन प्रज्ञापयेत् ।। अन्यत्र मे मनोऽभूदित्याह ।। नाहमेतं शब्दं प्राज्ञासिषमिति ।। न हि प्रज्ञापेता जिह्वा अन्नरसं कंचन प्रज्ञापयेत् ।। अन्यत्र मे मनो भूदित्याह ।। नाहमेतमन्नरसं प्राज्ञासिषमिति ।। न प्रज्ञापेतौ हस्तौ कर्म किं चन प्रज्ञापयेताम् । अन्यत्र मे मनोऽभूदित्याह ।। नाहमेतत्कर्म प्राज्ञासिषमिति ।। न हि प्रज्ञापेतं शरीरं सुखं दुःखं किंचन प्रज्ञापयेत् ।। अन्यत्र मे मनोऽभूदित्याह ।। नाहमेत्सुखं दुःखंप्राज्ञासिषमिति ।। नहि प्रज्ञापेत उपस्थआनन्दं रतिं प्रजातिं कांचन प्रज्ञापयेत् ।।अन्यत्र मे मनोऽभूदित्याह ।। नाहमेतमानन्दं रतिं प्रजातिं प्राज्ञासिषमिति ।।न हि प्रज्ञापेतौ पादावित्यां कांचन प्रज्ञापयेताम् ।। अन्यत्र मे मनोऽभूदित्याह ।।नाहमेतामित्यां प्राज्ञासिषमिति।। नहि प्रज्ञापेता धीः काचन सिद्धयेत् ।।एवं प्रज्ञाशब्दितस्य जीवस्य भूतमात्राव्याप्तिप्रकारकथनमुखेनाऽऽत्मानात्मविवेकं प्रदर्श्य “अन्या वाचो विमुंचथ” (मुण्ड.2.2.7) इत्युक्तरीत्या भूतमात्राशब्दितानात्मविज्ञानं परिहर्तव्यमित्याह ।।न प्रज्ञातव्यं प्रज्ञापयेत् ।।ज्ञात्रात्मव्यतिरिक्तोऽनात्मभूतो विषयो न ज्ञातव्य इत्यर्थः । तदेव प्रपंचयति ।।न वाचं विजिज्ञासीत वक्तारं विद्यात् ।।अत्र वाक्छब्दः प्रकरणानुगुण्यान्नामपरः । वक्तारमुक्तरीत्या मनोधिष्ठितवागिन्द्रिय जन्याभिलपनक्रियया नाम वक्तारमात्मानमेव विद्यात् । वक्तृजीवशरीरकपरमात्मानं विद्यादिति यावत् । एवमुत्तरत्रापि द्रष्टव्यम् ।।न गन्धं विजिज्ञासीत् घ्रातारं विद्यात् ।।न रूपं विजिज्ञासीत रूपं विद्वांसं विद्यात् ।।रूपं पश्यंतं विद्यादित्यर्थः ।।न शब्दं विजिज्ञासीत ।। श्रोतारं विद्यात् ।। नान्नरसं विजिज्ञासीत ।। अन्नरसविज्ञातारं विद्यात् ।। न कर्म विजिज्ञासीत कर्तारं विद्यात् ।। न सुखदुःखे वजिज्ञासीत ।। सुखदुःखयोर्विज्ञातारं विद्यात् ।। नानन्दं न रतिं न प्रजातिं विजिज्ञासीत ।।आनन्दस्य रतेः प्रजातेर्विज्ञातारं विद्यात् ।। नेत्यां विजिज्ञासीत ।। एतारं विद्यात् ।।न मनो विजिज्ञासीत।।मन्तारं विद्यात् ।। ता वा एताः दशैव भूतमात्रा अधिप्रज्ञम् ।।दशप्रज्ञामात्राअधि भूतम् ।। यदि भूतमात्रा न स्युः ।। न प्रज्ञामात्राःस्युः ।। यदि वा प्रज्ञामात्रा न स्युः न भूतमात्राः स्युः ।। न ह्युन्यतरतो रूपं किंचन सिध्येत् ।। नो एवैतन्नाना ।।नामगन्धरूपशब्दरसकर्मसुखदुःखानंदगतिज्ञातव्यलक्षणदश भूतमात्रा तद्ग्राहि वाग्ध्राणचक्षुः श्रोत्रजिह्वाहस्तशरीरोपस्थपादमनोलक्षणादश प्रज्ञामात्राश्चान्योन्याधाराः । वागादीन्द्रियाणामभावे नामादिसिद्धेरभावेन वागादिलक्षणप्रज्ञामात्राधीन सिद्धि कत्वान्नामादिभूतमात्राणाम् । तेषां चाभावे तद्व्यवहारफलकप्रज्ञा मात्राशब्दितेन्द्रियाद्य निष्पत्तेः अतो ग्राह्यग्राहकोभयाधीनत्वात्सर्वलोकयात्रायाः ग्राह्येण विनाकृतं ग्राहकं ग्राहकेण विनाकृतं ग्राह्यं वा न कार्ये क्षमं भवति । नो एवैतन्नाना नानाशब्दो विनार्थकः । एतद्ग्राह्यग्राहकजातं परस्पराविनाभूतमित्यर्थः । तस्मात्प्रज्ञामात्राशब्दितमपींन्द्रियजातं भूतमात्रान्तर्गतमित्यर्थः ।तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः ।।यथा रथस्य नाभौ रथचक्रमध्यवर्तिसरंघ्रकाष्ठविशेषेकाष्ठविशेषाः परितोऽर्पिताः । तत्र च नेमिशब्दितं वलयाकारं काष्ठं यथार्पितमेवं प्राणशब्दित परमात्मनि प्रज्ञामात्राशब्दनिर्दिष्टाश्चेतनाः अर्पिताः । तेषु च भूतमात्राशब्दित ग्राह्यग्राहकजातं सर्वं समर्पितमित्यर्थः ।।नन्वत्र प्रज्ञामात्राशब्देन यदि भूतमात्रा न स्युः न प्रज्ञामात्रास्युः यदि प्रज्ञामात्रा न स्युः न भूतमात्रास्स्युरितिपूर्ववाक्ये प्रज्ञामात्राशब्दनिर्दिष्टानां वागादीनां ग्राहकाणां दशानामेवग्रहणमुचितम् । न तु यो वै प्राणः सा प्रज्ञेति व्यवहितकेवलप्रज्ञाशब्दनिर्दिष्टजीवपरत्वमितिचेन्न ।।पूर्ववाक्येऽन्योन्याधाराधेयभावप्रतिपादनात्तत्र प्रज्ञामात्राशब्दस्यवागादिपरत्वेऽपीह प्रज्ञामात्राशब्दनिर्दिष्टस्य भूतमात्राश्रितत्त्वाप्रतिपादनात्प्राणशब्दित परमात्माश्रितत्वस्यैव प्रतिपादनात्प्रज्ञामात्राशब्दो जीवपर एव ।। पूर्ववाक्ये बाधकबलात्प्रज्ञाशब्दस्य मुख्यार्थत्यागोऽपि इह तत्त्यागे कारणाभावात् । जडरूपस्य वागादेः प्रज्ञाशब्दमुख्यार्थकत्वा संभवात् । यथाअस्मिन्प्रकरणे “यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुः । अथास्मिन्प्राणएवैकधा भवति ।एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठंते” इति त्रिष्वपि वाक्येषु मुख्यप्राणपरमात्मजीवपरत्वेन भिन्नार्थकत्वम् । एवं यथा प्रज्ञायां सर्वाणि भूतानि । न हि प्रज्ञापेता वाङ्नाम किंचित्प्रज्ञापयेत् । दशैव भूतमात्रा अधिप्रज्ञमिति वाक्येषु जीवमनोबाह्येन्द्रियरूपार्थत्रयविषये दृष्टप्रयोगस्य प्रज्ञाशब्दस्यार्थौचित्यानुसारेणैवार्थस्य वर्णनीयत्वात् । न चैकवचनान्तप्रज्ञाशब्दनिर्दिष्टस्य जीवस्य बहुवचनान्तप्रज्ञामात्राशब्देन परामर्शो न युक्तइतिवाच्यम् । सद्विद्यायां “स्वमपीतो भवति” इति एकवचनान्तशब्दनिर्दिष्टस्य जीवस्य “सति संपद्य न विदुः” (छां.6.10.2) इति बहुवचनान्तशब्दनिर्देशवदुपपत्तेः । एतत्सर्वं श्रुतप्रकाशिकायामिन्द्रप्राणाधिकरणेस्पष्टम् ।।स एष प्राण एष प्राज्ञात्मानन्दोऽजरोऽमृतः ।।प्रज्ञ एव प्राज्ञः निरुपाधिकसार्वज्ञाश्रयः । निरुपाधिकानन्दत्वविजरत्वविमृत्युत्वाश्रयः ।।न साधुना कर्मणा भूयान्नो एवासाधुना कर्मणा कनीयान् ।।पुण्यपापकृतोत्कर्षापकर्षशून्य इत्यर्थः ।।एष ह्येवैनं साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति ।।यं पुरुषम् एभ्योऽण्डान्तर्वर्त्तिभ्यो लोकेभ्यः उर्ध्वं भगवल्लोकं नेतुमिच्छति तं पुरुषं भगवल्लोकप्राप्तये साधुकर्मकारयति । कर्मणां भगवल्लोकप्राप्त्युपयोगित्वं च तद्धेतुभूतविद्याविरोधिपापनिरसनद्वारा ।एष उ एवैनमसाधुकर्म कारयति तं यमधो निनीषति ।।यमेभ्योलोकेभ्योऽननुत्सुते इति पाठद्वयम् । यं पुरुषमेभ्योलोकेभ्योऽधः पातयितुमिच्छति तमसाधुकर्मकारयति । यथा साधुकर्मणां ब्रह्मोपासनानिष्पादनद्वारोन्नयन हेतुत्वमेवमसाधु कर्मणामप्युपासनाप्रतिबन्धद्वाराऽधोनयनहेतुत्वम् । उक्तं च भगवता भाष्यकारेण “पापस्यज्ञानोदयविरोधित्वम् । एषह्येवासाधुकर्मकारयतितं यमधो निनीषति इतिश्रुत्यावगम्यते” इति ।विवृतं च व्यासार्यैः “कर्मणामुन्नयनहेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमधोनयनमुपासनप्रतिबन्धरूपमिति स्फुटतरमवगम्यते” इति ।।एष लोकपाल एष लोकाधिपतिरेष सर्वेशः ।।लोकपालो लोकरक्षकः । अत्र व्यासाचार्याः “लोकाधिपतिः लोकस्वामी सर्वेशः सर्वलोकनियंता । ननु पारक्षणे इति धातोःपतिशब्दः तत्कथमत्र शेषिवाचित्वम् । उच्यते । न हि सर्वत्रावयवशक्तिरेव न रूढिशक्तिरित्यस्तिनियमः । अन्यथा गमेर्डो इति व्युत्पत्त्या गोशब्दस्यसकलजङ्गमवाचित्वप्रसंगात् । स्थिताया गोरवाचकत्व प्रसङ्गाच्च । अतः शेषिणि पतिशब्दो रूढः । अन्यथा “वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतंकृत्वा भर्तव्या मनुरब्रवीत्” (मनु स्मृति.11.11.1) इति न्यायेन पितुः संरक्षके पुत्रे पतिशब्द व्यवहारप्रसंगाद्” इत्यूचुः ।स म आत्मेति विद्यात्स म आत्मेति विद्यात् ।।पूर्वोक्तगुणविशिष्टस्वांतर्यामीतिप्रतिपत्तव्यः । यद्वा स्मिन्नेव वाक्ये पूर्वोक्तत्वाष्ट्रहननादि कृतपापलेपशून्यत्ववक्तृत्वघ्रातृत्वादि गुणकजीवविशिष्टतया आयुरिन्द्रियनिश्श्रेयस हेतुत्वशरीरोत्थापकत्वादिगुणविशिष्टप्राणविशिष्टतया, आनन्दत्वामृतत्वादिस्वरूपेण च विशिष्टस्य स्वात्मत्वेनोपसनं विधीयते । एवं सत्यनेकोपासनाविधानकृतवाक्यभेदशंकाया नावकाश इति द्रष्टव्यम् ।
इति श्रीरंगरामानुजमुनिविरचितायां विषयवाक्यदीपिकायां ब्रह्मसूत्रप्रथमाध्याय प्रथमपादविषयवाक्यदीपिका समाप्ता ।।1।।