॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
ईक्षत्यधिकरणम्
ईक्षतेर्नाशब्दम् । (ब्र.सू.1.1.5)प्रकृतिश्चप्रतिज्ञादृष्टान्तानुपरोधात् । (ब्र.सू.1.4.22) तदनन्यत्वमारम्भणशब्दादिभ्यः ।(ब्र.सू.2.1.15)संज्ञामूर्ति क्लप्तिस्तुत्रिवृत्कुर्वतउपदेशात् । (ब्र.सू.2.4.17) अनारब्धकार्ये एव तु पूर्वे तदवधेः।।(ब्र.सू.4.1.15)वाङ्मनसि दर्शनाच्छब्दाच्च ।। (ब्र.सू.4.2.1.) इत्यादिविषयवाक्यार्थावगत्यर्थं सद्विद्या व्याख्यायते ।। छांदोग्ये षष्ठाऽध्यायोपक्रमे स्पष्टा ।।
श्वेतकेतुर्हारुणेय आस ।
हः प्रसिद्ध्यर्थः । अरुणपुत्रस्योद्दालकस्य पुत्रः श्वेतकेतुनामाबभूवेत्यर्थः ।
“तँ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत् कुलीनोऽ ननूच्य ब्रह्मबंधुरिव भवति”इति ।।
उद्दालकः पिता तं द्वादशवर्षमनुपनीतमनधीतिनं पुत्रं श्वेतकेतुं प्रति हे सोम्य सोमार्ह श्वेतकेतो क्वचिद्गुरावध्ययनार्थं ब्रह्मचर्यं वस अस्मत्कुलीनः-अस्मत्कुलप्रसूतः कोऽप्यनधीत्य ब्रह्मबंधुरिव न भवतीत्युवाचेत्यर्थः । यःस्वयमब्राह्मण एव सन्ब्राह्मणान् बन्धुत्वेन व्यपदिशति स ब्रह्मबंधुरित्युच्यते ।।
स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान्वेदानधीत्य महामनाः अनूचानमानी स्तब्ध एयाय ।।
स श्वेतकेतुर्द्वादशवर्षस्सन् गुरुमुपेत्य गुरुकुले द्वादशवर्षानुषित्वा सर्वान्वेदानधीत्य प्रौढमतिरात्मानं सांगवेदाध्यायिनं मन्यमानः परिपूर्ण इव तृणीकृतजगनयः चतुर्विंशतिवर्षयुक्तः प्रत्यागतः ।
तँ ह पितोवाच श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽसि- इति ।।
इदं यद्यस्माद्वेतोस्सक इत्यर्थः ।
उत तमादेशमप्राक्ष्योयेनाऽश्रुतं श्रुतं भवत्यमतंमतमविज्ञात ंविज्ञातमिति ।
अत्र व्यासाचार्याः-उपक्रमे तावदुत तमादेशमप्राक्ष्य इत्यत्रादेशशब्देन प्रशासिताऽ भिधीयते ।
(अत्रश्लोकावाचार्यपादैरुक्तौ), छांदोग्ये केचिदाहुर्दिशतिरुत तमादेशमप्राक्ष्यइत्यत्राङ्पूर्वस्तूपदेशं प्रकटयति सतो न प्रशास्तिं घञन्तः ।नो कत्तेर्यस्ति कर्मण्यगणि घञिह सत्कर्त्तृशास्तौ न कर्म ।स्यात्स्यात्कर्मोपदेशे तदिदमुत तमादेशवाचोपदेश्यम् ।।1।। अत्र ब्रूमः प्रशास्तिं वदति दिशिरसौ अङ्मुखेनोपदेशंशास्तौ सोति प्रसिद्धो न हि पर इह चापेक्षितार्थप्रसंगः ।युक्तोऽसाधारणोक्त्याधञगणिकरणेप्यत्रवैवक्षिकत्वंशाब्दोक्तं कारकाणां ननु करणतया कर्त्तरिस्याद्विवक्षा।।2।।इति ।
आदेशशब्देनोपदेश्यमुच्यते । प्रकृत्यर्थ उपदेशः । प्रत्ययार्थः कर्मत्वम् ।”अकर्तरिचकारकेसंज्ञायाम् ।(पा.अष्टा.3.3.19) इतिकर्तृव्यतिरिक्तकारकेघञोविहितत्वात् ।उपदेशेब्रह्मणः कर्मत्वोपपत्तेश्च । प्रशासने तु ब्रह्म न कर्म । अपि तु कर्तृ । कर्तृव्यतिरिक्तकारके हि घञ्प्रत्ययविधिः ।न च इगुपधलक्षणः कप्रत्ययः (पा.अष्टा.3.1.135) उपपद्यते । ङ्कितिच (पा.अष्टा.1.1.73.) इति गुणप्रतिषेधादादेशशब्दरूपासिद्धेः । नापि पचाद्यच् (पा.अष्टा.3.1.134) प्रत्यय उपपद्यते । दिशिधातोरिगुपधत्वेनेगुपधात्कः (पा.अष्टा.3.1.135) इत्यपवादसूत्रेण क प्रत्ययप्राप्तेर्गुणाभावात् । अतो घञ्प्रत्ययांत एवायमादेशशब्दः । स च प्रत्ययः कर्त्तर्यविहित इति कर्मार्थकत्वस्यैव युक्तत्वादुपदेश्यमे वादेशशब्दवाच्यमिति । अत्रोच्यते – प्रकृत्यर्थः शासनं प्रसिद्धिप्राचुर्य्यात् । अन्यथा स्वारस्य भंगात् । आङ्पूर्वोदिशतिर्नियोक्तृप्रयोजनवचनः । उपपूर्वस्तुनियोज्यप्रयोजन वचन इति हि न्यासकारः । नियोक्तरि प्रयोजनं यस्य तस्यार्थस्य वाचक इत्यर्थः । एवमन्यत्रापि । किंचोपदेश्यत्वं लौकिकालौकिकधर्मब्रह्मभागार्थसाधारणम् । प्रशासितृत्वं ब्रह्मणोऽसाधारणम् । “अंतः प्रविष्टः शास्ता जनानाम्”(तै.आ.3) । “एतस्य वाक्षरस्य प्रशासने गार्गि” (बृह.7.8.9) इत्यादिभिर्निरुपाधिकप्रशासनस्य ब्रह्मसाधारणत्व श्रवणात् ।।निरुपाधिकोपदेश्यत्वंब्रह्मणोऽसाधारणमितिचेन्न । इष्टप्राप्त्यनिष्टनिवारण तत्साधनेषु साधारण्यात् । यद्यप्यमितसुखदुःखनिवृत्त्यादि साक्षादुपदेश्यं स्यात् । तथापिसंसारनिवृत्तिब्रह्मतदुपासनानामुपदेश्यत्वं साधारणम् । प्रष्टव्यत्वोक्त्योपदेश्यत्वमर्थसिद्धम् ।अत उपदेश्यत्वकथने वैयर्थ्यं च । ननु येनाश्रुतमित्यादिनैकवाक्यत्वात् स्वज्ञानेनान्यज्ञान हेतुता विशेषतयोपदेश्यत्वमसाधारणमितिचेत् । तथापि तादृशमुपदेश्यत्वं प्रतिज्ञावाक्येन प्रष्टव्यत्वोक्त्याचार्थसिद्धमित्यनपेक्षितोपदेश्यत्वकथनादप्यपेक्षितं प्रशास्तृत्वमेव वाच्यमिति युक्तम् । येनाश्रुतमित्युपादानत्वे सिद्धे प्रशास्तृत्वेन हि निमित्तत्वं सिध्येत् । निमित्तांतरे सति हि एकविज्ञानात्सर्वविज्ञानं नोपपद्यते । अतः प्रतिपिपादयिषित वस्तुनोऽपेक्षिता साधारणाकारविशिष्टतयैव प्रतिपादनमुचितम् । घञ्प्रत्ययस्य करणे व्युत्पन्नत्वात् विवक्षातः कारकाणां प्रवृत्तिरिति शाब्दोक्तन्यायेन कर्त्तर्येव कार कांतरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोग उपपद्यते । “अकर्त्तारि चे” (अष्टा.2.2.19) ति सूत्रस्य प्रयोजनं करणत्वविवक्षया विना कर्तर्यसाधुत्वेन प्रयोगनिवृत्तिः । उपदेशपक्षे प्रकृत्यर्था स्वारस्यं प्रत्ययस्वारस्यमर्थानौचित्यं च प्रशासनपक्षे प्रत्ययास्वारस्येऽपि प्रधानभूत प्रकृत्यर्थस्वारस्यमर्थौचित्यं चेति वैषम्यम् । अतः प्रशासनमेवादेशशब्दाभिधेयमिति स्वीकर्तुंयुक्तमिति । “येनाश्रुतं श्रुतं भवती”त्यत्र “कस्मिन्नुभगवो विज्ञाते सर्वमिदं विज्ञातं भवति आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितं भवति” इति मुंडकबृहदारण्यकवाक्यानुसारेण येन श्रुतेन मतेन विज्ञातेनाश्रुतममतमविज्ञातं श्रुतं मतं विज्ञातं भवतीति येनाश्रुतमिति वाक्यपर्यवसितार्थः । ब्रह्मस्वरूपसत्तामात्रस्याश्रुतश्रुतत्वादिहेतुत्वाभावादितिद्रष्टयम् । अवस्थाविशिष्टतयाऽश्रुतं स्वरूपेण श्रुतं भवतीत्यर्थः ।अत्र विज्ञातशब्दो निदिध्यासनपरः। “श्रोतव्योमंतव्यो निदिध्यासितव्यः” (बृह.6-7-6) इति क्रमप्रत्यभिज्ञानादिति दृद्रव्यम् । अत्र “येनाश्रुतं श्रुतम्” इत्यनेन किमुपादानमिति पृष्टं भवति । प्रशासितृत्वार्थकेनादेशशब्देन चात्मस्वरूपं पृष्टं भवति । ततश्चात्मभूतमुपादानं किमिति प्रश्नस्य फलितार्थः । अत एव श्रीविष्णुपुराणेऽपि “यन्मयं च जगद्ब्रह्मन्यतश्चैतच्चराचरम्” (वि.पु.1.1.7) इतिश्लोके यन्मयमित्यात्मस्वरूपं यतश्चैतच्चराचरमित्युपादानं च पृष्टम् । अत एव “सन्मूलाः सोम्येमाःसर्वाः प्रजाः सदायतनाः” इति वाक्ये सदायतना इति सत आत्मत्वं “सन्मूलाः सत्प्रतिष्ठा” इतिसत उपादानत्वं च प्रतिपाद्यत इति द्रष्टव्यम् । अत एव “अथातोऽहंकारादेशः” (छां.7.25.12)”अथात आदेशो नेति नेति ” (बृह.4.3.6) आदित्योब्रह्मेत्या देशःउभयमादिष्टंभवति अध्यात्मंचाधिदैवंच” (श्री.भ.गी.) इत्यादाविवादेशशब्दस्योपदेशार्थकत्वमेवास्तु नप्रशासनार्थकत्व मितिशंका पराकृता । अतो जगदुपादानभूतं जगदात्मानं किं पृष्टवानसीत्यर्थः ।अत्र ज्ञातवानसीत्यनुक्त्वा पृष्टवानसीत्युक्तवतः “तद्विद्धिप्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यंति ते ज्ञानं ज्ञानिनस्तत्त्व दर्शिनः” (6) इत्युक्तरीत्याप्रणिपातादिप्रसन्नाचार्योपदेशगम्य एवसोऽर्थः न तु प्रकारांतरेण ज्ञातुं शक्य इत्यभिप्रायः ।अन्यज्ञानेनान्यज्ञानासंभवादेकविज्ञानेन सर्वविज्ञानासंभवं मन्वानश्चोदयति ।
कथं नु भगवस्सआदेशो भवतीति ।
हे भगवःईदृश आदेशः कथंभवतीत्यर्थः । उपादानोपादेययोरभेदेन भवतीत्यभिप्रायेणोत्तरमाह ।
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् ।यथा उपादानभूते मृत्पिण्डे ज्ञाते तदुपादेयघटशखादिकं ज्ञातं भवति तद्वदित्यर्थः ।।नैयायिकरीत्या असदेव घटादिकं मृत्पिण्डेनोत्पद्यते । अतश्चोपादानोपादेययोर्भेदादुपादानभूते मृत्पिण्डे ज्ञाते तदुपादेयसर्वमृन्मयानां ज्ञातत्वं न संभवतीति मन्वानं प्रत्याह ।।वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।
आरभ्यतेआलभ्यते स्पृश्यते इत्यारंभणम् । कर्मणि ल्युट् । तेनैव मृद्द्रव्येण घटशरावादि लक्षणो विकारो घटशरावादिनामधेयं च स्पृश्यत इत्यर्थः । आरंभणशब्दस्य पुन्नपुंसक लिंगविकारनामधेयविशेषणत्वेपि नपुंसकैकशेषैकवद्भावाभ्यामारंभणमितिनपुंसकैकवचननिर्देशः । मृद्द्रव्येण विकारनामधेये कस्मै प्रयोजनाय स्पृश्येते इत्यत्राह – वाचेति ।प्रयोजनस्य हेतुत्वविवक्षया तृतीया । वाक्छब्दश्चाजहल्लक्षणया वागादिव्यवहार परः । ततश्च वाक्पूर्वकहानोपादानादिव्यवहारार्थं मृत्पिण्डेन नामरूपे स्पृश्येते । मृत्पिण्ड एव नामरूपभाग्भवतीत्यर्थः । अत्र यद्यपि मृत्पिण्डमृन्मयाभेददर्शनं वाचारंभणं विकार इत्येतावन्मात्रेणापि सिध्यति न नामधेयस्यापि स्पृश्यत्वं वक्तव्यम् । तथापि संज्ञाभेदादुपादानोपादेययोर्भेदशंका स्यात् । तद्व्युदासाय नामापि मृद्द्रव्येण स्पृश्यत इत्युक्तिरपेक्षितेति द्रष्टव्यम् । कार्यकारणयोरेकद्रव्यत्वे प्रमाणमाह मृत्तिकेत्येव सत्यम् । मृन्मयं हि घटादिकं मृत्तिकेत्येव प्रमाणप्रतिपन्नं न तु तद्भिन्नत्वेनेत्यर्थः ।
।यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । वाचारंभणं विकारो नामधेयं लोहमित्येव सत्यम् ।
लोहमणिः सुवर्णपिंडविशेषः । शिष्टं पूर्ववत् ।
यथा सोम्यैकेन नखनिकृंतनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् । वाचारंभणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम् ।
नखनिकृंतनशब्देन कार्ष्णायसपिण्डो लक्ष्यते । शेषंपूर्ववत् ।।एवं सोम्य स आदेशो भवतीति ।
मयोक्त आदेशो मृत्पिण्डादितुल्य इत्यर्थः । एवमुक्तः पुत्र आह ।नवै नूनं भगवन्तस्त एतदवेदिषुः । यद्येतदवेदिष्यन्कथं मे ना वक्ष्यन्निति भगवांस्त्वेवमेतद्ब्रवीत्विति ।
भगवन्तः पूजावन्तः मम गुरवः एतत्स्वरूपं नज्ञातवन्तः यद्येतद्वस्तुतो जानीयुस्तर्हिभक्ताय गुणवते मह्यमुपदिशेयुर्हि नोपदिष्टं यतस्तेनाहं मन्ये नविदितवन्त इति । एवमवाच्यमपि गुरोर्न्यंगं पुनर्गुरुकुलं प्रति प्रेषणभयादुक्ता भगवानेव तदुपदिशत्विति पितरं प्रार्थयामासेत्यर्थः ।
तथा सोम्येति होवाच ।।पितापि तथैव वदानीत्युक्तवानित्यर्थः ।।1।। प्रतिज्ञातस्यैकविज्ञानेन सर्वविज्ञानस्य समर्थनाय जगतो ब्रह्मैककारणतां प्रतिपादयितुं प्रवृत्त उद्दालको यथा लोकेऽपराह्ण ेप्रसारितानां घटशरावोदंचनादीनां मृत्पिंडैकोपादानतां प्रतिपिपादयिषुः पूर्वोह्णे एतद्धटशरावादिकं मृत्पिण्डे एवासीदिति प्रतिपादयति तथा प्रतिपादयति ।
सदेव सोम्येदमग्न आसीदेकमेवाद्वितीयम् ।।इदं विभक्तनामरूपं बहुत्वावस्थं जगद् अग्रे सृष्टेः प्राक् एकमेवाविभक्तनाम रूपतया एकत्वावस्थापन्नमेवअद्वितीयमधिष्ठात्रंतरशून्यं च सदेवासीदित्यर्थः । अत्र सच्छब्दो मानसंबंधयोग्यत्वलक्षणं सत्त्वं प्रवृत्तिनिमित्तीकृत्य परमात्मनिवर्त्तते । अयं च सच्छब्दो विशेष्यभूतपरमात्मवाचकोऽपि कारणविषयत्वसामर्थ्यात् कारणत्वौपयिकगुण विशिष्टप्रकृतिपुरुषकालशरीरकं परमात्मानमुपस्थापयति । “देवानामाज्यपाना ”मित्यादौविशेष्यवाच्याज्यशब्दस्य विकृतिषु पृषदाज्यवाचित्वस्य दाशमिकन्यायसिद्धत्वात् ।अत्र सदेवेत्येवकारेण नैयायिकाभिमतमुत्पत्तेः प्राक् जगतोऽसत्त्वंव्यावर्त्यते । सदेवेत्येवकारस्य नैयायिकाभिमतोत्पत्तिप्राक्कालीन कार्यासत्त्वव्यावर्तकत्वं “तद्धैकआहुरसदेवेदमग्न आसीत्” इत्यसत्कार्यवादिदर्शन प्रतिक्षेपकोत्तर वाक्यसंदर्भादवसीयते । एकमेवेत्येवकारेण बहुस्यामिति वक्ष्यमाणस्रक्ष्यमाणकार्य बहुत्वावस्था व्युदस्यते । “तदैत्रततत्तेजोऽसृजत” इत्युत्तरवाक्यसंदर्भे सच्छब्दितस्यैव निमित्तत्त्वकथनात् । अद्वितीयमित्यनेन निमित्तांतरं निषिध्यते । ततश्चैकमद्वितीयमिति पदाभ्यामभिन्ननिमित्तोपादानत्वं सिद्धं भवति ।ततश्चायमर्थः। इदं बहुत्वावस्थं विभक्तनामरूपं प्रत्यक्षतया दृश्यमानं जगत्सृष्टेः प्राङ् निमित्तांतरशून्यमविभक्तनामरूपतया एकंसच्छब्दितं ब्रह्मैवासीदिति । यद्यपीदानीमपि जगत्सदेव । तथाप्यविभक्तनामरूपसद्रूपापत्तिःसृष्टेः प्रागेवेत्यग्र इत्यस्य नानुपपत्तिः । न च सच्छब्दस्य सूक्ष्मप्रकृतिजीवकालशरीरकपरब्रह्मपरत्वेन सच्छब्दस्य कार्यभूते जगति सृष्टेः प्राक् तादृशब्रह्मत्वबोधकत्वेऽपि जगति सत्तासंबंधस्य बोधकत्वाभावेनासत्कार्यव्युदासकत्वं कथमिति वाच्यम् । सृष्टेः प्राक् सच्छब्दितब्रह्माभेद ेबोधिते नैयायिकाभिमता सत्त्वव्युदासस्याप्यर्थ सिद्धत्वात् । एतेनैकमेवाद्वितीयमित्येतत् प्रपंचमिथ्यात्वे प्रमाणयन्तः परे प्रत्युक्ताः । तस्य ब्रह्मव्यतिरिक्तमिथ्यात्वपरत्वे “सदेव सोम्येदमग्न आसीत्” इति कालप्रापकेण पूर्वेणाग्रपदेन “तदैक्षत” “नामरूपे व्याकरवाणि” इतीक्षणनामरूपात्मकप्रपंचप्रापकेणोत्तरेण च विरोध प्रसंगात् । किंचेदंशब्दोदितं सर्वं जगत्सृष्टेः प्रागेकमेवाद्वितीयं सदेवासीदिति परैर्व्याख्यातत्वेन सृष्टिप्राक्कालेऽद्वितीयपदेन द्वितीयासत्त्वबोधनेऽपि सृष्ट्युत्तरकाले तस्यासत्त्वाप्रतिपादनेन जगतो मिथ्यात्वासिद्धेः । घटशरावादिकं सर्वं सृष्टेःप्रागद्वितीय एकमृत्पिण्डएवासीदित्युक्त्याघटशरावादीनां मिथ्यात्वप्रतिपादनादर्शनात् । प्रागसत्त्वप्रतिपादनेन ह्यनित्यत्वमात्रं सिद्ध्येत् ।न तु मिथ्यात्वम् । नच “नेह नानास्तीति” (बृह.6.4.29) वाक्यात्सृष्ट्युत्तर कालमप्यसत्त्वा वेदनान्मिथ्यात्वसिद्धिरितिवाच्यम् । “न स्थानतोपि परस्योभयलिंगं सर्वत्रहि” । (ब्र.सू.3.2.11) इत्यधिकरणे तस्य वाक्यस्य ब्रह्मगतनानात्वनिषेधपरतया परैरेव व्याख्यातत्वात् । नन्वनित्यत्वमेव मिथ्यात्वम् । अनित्यस्य धर्मिणोऽनित्यत्वम सत्यत्वमिति पर्यवस्यतीति वाचस्पतिमिश्रोक्तेः । विद्यारण्ययतिनापि तथैवोक्तत्वात् । “अनाशी परमार्थश्चप्राज्ञैरभ्युपगम्यते । यत्तु कालांतरेणापि नान्यं सज्ञामुपैति वै । परिणामर्द्धिसंभूतां तद्वस्तु नृप तच्चकिम्” इति पराशरस्मरणादनित्यत्वमेव मिथ्यात्वमितिचेत् ईदृशस्य प्रामाणिकस्य प्रत्यक्षाविरुद्धस्य प्रपंचमिथ्यात्वस्यास्माभिरप्य प्रतिक्षेप्यत्वादित्यास्तां तावत् ।सदेवासीदिति सृष्टिप्राक्काले ब्रह्माभेदप्रतिपादनमुखेन सत्कार्यवादमुक्त्वा तद्विरोध्य सत्कार्यवादिनैयायिकादिमतं वाचारंभणमित्यादिना प्रतिक्षिप्तमपि कंठतः प्रतिक्षेप्तुं तन्मतमुपन्यस्यति ।तद्धैक आहुरसदेवेदमग्रआसीदेकमेवाद्वितीयम् ।इदं जगदग्रे सृष्टेः प्रागसदेवासीन्नतु सदासीदित्यर्थः । नामरूपविभागाभाव लक्षणस्यासत्त्वस्य सिद्धांतेऽपि संमतत्वादाह “एकमेवाद्वितीयमिति” । प्रागभावव्यतिरेकेणावस्थाया वाऽवस्थाश्रयस्य वा कस्यापि सत्त्वं नास्तीत्यर्थः । यद्वा असदेवेत्यत्र अ इत्येतत्सत्पदे नासमस्तं सत् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति वाक्यार्थस्य प्रतिक्षेपकम् ।तस्मादसतः सज्जायत ।सदिति भावप्रधानोनिर्देशः । सत्तेत्यर्थः। यस्माद्धेतोरुत्पत्तेः प्रागवस्थाश्रयस्याप्य भावस्तस्माद्धेतोः असतः सत्त्वरूपा उत्पत्तिरजायत अभवदित्यर्थः पर्यवसन्नः । सज्जायतेत्यत्राऽडभावश्छान्दसः । तन्मतं प्रतिक्षिपति ।कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेत ।केन प्रमाणेनासत उत्पत्तिः प्रतीयते तदेवेदमिति प्रत्यभिज्ञाविरोधेन प्रमाणस्यान वतारात् । अतः कथमसतोद्रव्यस्यसत्ता भवेत् । अतोऽसतः सदुत्पत्तिर्नभवति ।अपि तु सत एव द्रव्यस्यप्रथमक्षणावच्छिन्नावस्थांतरसंबंध व उत्पत्तिरित्यर्थः । एवं परपक्षं प्रतिक्षिप्य स्वमतमुपसंहहति ।।सदेव सोम्येदमग्न आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत ।तदेतत्सच्छब्दवाच्यं परं ब्रह्म विचित्रानंतचिदचिन्मिश्रव्यष्टिजगद्रूपेणाहं बहुस्यां तदर्थं तेजोबन्नादिसमष्टिरूपेण प्रकर्षेण जायेयेति संकल्प्य तेजः ससर्ज ।तत्तेज ऐक्षत बहुस्यां प्रजायेयेति तदपोऽसृजत ।अत्राचेतनस्य तेजआदेरीक्षितृत्वासंभवात्तेजआदिशब्दास्तच्छरीरकपरमात्मपरा द्रष्टव्याः ।भगवता भाष्यकृता “गौणश्चेन्नात्मशब्दात् (ब्र.सू.1.1.6)” इति सूत्रे तेजःप्रभूतयोपि शब्दाःपरमात्मन एव वाचकाः। “तत्तेजऐक्षत ताआपऐक्षंत” इति मुख्य एवेक्षणव्यपदेश इति भाषितम् ।तथा “तदभिध्यानादेव तु तल्लिंगात्सः । (ब्र.सू.2.3.14)” इतिसूत्रे “तत्तेज ऐक्षत ता आप ऐक्षंत” इति श्रूयमाणमीक्षछांतच्छरीरकस्य परस्यैव ब्रह्मण उपपद्यत इति भाषितम् ।संज्ञामूर्तिक्लृप्त्यधिकरणे (ब्र.सू.2.4.17) च “तत्तेज ऐक्षत” इति तेजश्शरीरकं परंब्रह्मैवाभिधीयत इतिभाषितम् । न च तत्तेज ऐक्षतेत्यत्र तेजश्शब्दस्य तेजश्शरीरक परब्रह्मपरत्वे तत्तेजोऽसृजतेति वाक्येऽपि तेजश्शब्दस्य पर ब्रह्मपरत्वं स्यात् । नचेष्टापत्तिः । ब्रह्मणः सृज्यत्वाभावादिति वाच्यम् ।तेजश्शरीरकब्रह्मणः कार्यत्वेन सृज्यत्वेदोषाभावात् । तेजसोजलहेतुत्वे उपपत्तिं दर्शयति ।तस्माद्यत्र क्वचन शोचति स्विद्यति वा पुरुषः तेजस एव तदध्यापो जायंते ।यत्र क्वचन देशे वा काले वा पुरुषः संतप्यते प्रस्विद्यते तत् तदा तेजस एवाऽऽपोधिजायंत इत्यर्थः ।ता आप ऐक्षंत ।। बह्व्यः स्यामः प्रजायेमहीति । ता अन्नमसृजंत ।अत्रान्नशब्देन महाभूताधिकारात्पृथिव्युच्यते । सूत्रितं च “पृथिव्यधिकाररूप शब्दान्तरेभ्यः(ब्र.सू.2.3.11)” इति । अधिकारो महाभूताधिकारः । “रूपं यत्कृष्णंतदन्नस्ये”ति तैत्तिरीयके । “अद्भ्यः पृथिवी”ति शब्दांतरम् । एतच्च सूत्रमन्यत्र व्याकृतम् । अपामन्नहेतुत्वे युक्तिमाह ।तस्माद्यत्र क्वचन वर्षति तदैव भूयिष्ठमन्नं भवति ।तदैव तत्रैवेत्यर्थः । अद्भ्य एव तदध्यन्नाद्यं जायते ।तत्तस्मात्पृथिव्येकदेशस्य व्रीहियवादिलक्षणस्यान्नस्य वृष्टिप्रभवत्वदर्शनादेव हेतोः ।अन्नाद्यमन्नप्रभृतिपृथिवीत्वावच्छिन्नमद्भ्यएवाधिजायत इत्यर्थः । सर्वस्येतरस्य तेजोबन्नात्मकबीजत्रयप्रसूतत्वं दर्शयति ।तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जमिति ।अण्डजजीवजोद्भिज्जशब्दनिर्दिष्टानामेषां भूतानां तेजोबन्नानि त्रीण्येव बीजानीत्यर्थः ।तदेवोपपादयति ।सेयं देवतैक्षत हंताहमिमास्तिस्त्रोदेवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति ।।अत्र संज्ञामूर्तिक्लृप्त्यधिकरणे भगवताभाष्यकृता सेयं देवतेत्यादिवाक्यस्यायमर्थःसेयं सच्छब्दिता परा देवता इमास्तेजोबन्नरूपास्तिस्रोदेवता अनेन जीवेन जीवसमष्टि विशिष्टेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिदेवादिविचित्रसृष्टिं तन्नामधेयानि च करवाणीति तदर्थमन्योन्यसंसर्गमप्राप्तानामेषां तेजोबन्नानां विशेषसृष्ट्य समर्थानां तत्सामथर्यायै कैकां त्रिवृतं त्रिवृतं करवाणीति भाषितम् । “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ (ब्र.सू.2.1.7) इति सूत्रे हंताहमिमास्तिस्रोदेवता इति तेजोबन्नानि देवताशब्देन विशिष्यंत इति भाषितत्वादत्र देवता इत्यभिमानिदेवतापरत्वं वक्तव्यम् । ततश्चेमास्ति स्रोदेवता इत्यस्यायमर्थः । स्वस्वाभिमानिदेवताधिष्ठितानि तेजोबन्नानीति तेजोबन्नाभि मानिदेवतानां परमात्मव्यतिरिक्तत्वे प्रमाणाभावात् परमात्मनः सर्वाभिमानिदेवतात्व संभवाच्च परमात्मरूपदेवताधिष्ठितानीत्यर्थः । परमात्मव्यतिरिक्तदेवताभ्युपगमेपि देवताशब्दस्य तदधिष्ठितत्वमेवार्थः । नच तत्तेजोसृजत तत्तेज ऐक्षतेत्यादौ तेजआदिशब्दानां परमात्मपरत्वात्तेजोबन्नावस्थपरमात्मनां तदुपहितत्वावस्थाधीन बहुत्वाश्रयाणामेव इमास्तिस्रोदेवता इति देवताशब्देन परामर्शोऽस्तु न तु देवताशब्दस्य तदधिष्ठितपरामर्शित्वमिति वाच्यम् ।तत्तदवस्थपरमात्मसु जीवस्य प्रवेशासंभवेन प्रवेशयोग्यतेजोबन्नानामेवाभेदोपचारेण लक्षणया देवताशब्देन निर्देष्टव्यत्वात् । महासिद्धांते तदैक्षतेति सर्वज्ञत्वम् असृजतेति निमितत्वं बहुस्यामित्युपादानत्वं तदुभयानुगुणं सर्वशक्तित्वं सत्यसंकल्पत्वम् अनेनजीवेनात्मनानु प्रविश्येति सर्वांतरत्वं चोक्तं भवति । जीवेनात्मनेति जीवशरीरकेण मयेत्यर्थः, सिंहेन भूत्वा बहवो मयात्ता इतिवत् । सार्वज्ञादिगुणकस्य तद्विपरीताकारजीवैक्यासंभवात् । यस्यात्मा शरीरमित्यादिवचनात्तदनुप्रविश्येत्यचेतन इव जीवेप्यनुप्रवेशश्रवणाच्च शरीरवाचिशब्दस्य शरीरिपर्यंतत्वस्य मुख्यतयोपपन्नत्वाच्चायमेवार्थ इति व्यासार्यैरुक्तम् । ननु जीवशरीरकेण मया प्रविश्य व्याकरवाणीत्यर्थो न संभवति । व्याकरवाणीति तिङा कर्तुरभिहितत्वेनानभिहिताधिकारविहिततृतीयानुपपत्तेः । न च व्याकरणक्रियाकर्तुस्तिङाभिहि तत्वेऽपि प्रवेशक्रियाकर्तुरनभिहितत्वात्तृतीयाभविष्यतीतिवाच्यम् । तर्हि मया भुक्त्वा व्रजामीत्यादिप्रयोगः साधुः स्यात् । व्रजिक्रियाकर्तुरभिहितत्वेपि भुजिक्रियाकर्तुरनभि हितत्वात् “स्वादुमिणमुल्” (अष्टा.3.4.26)” इति सूत्रे कैयटेन क्त्वाप्रत्ययस्य भावार्थत्वात् पक्त्वौदनं भुङ्क्ते देवदत्तः पक्त्वौदनो भुज्यते देवदत्तेनेत्यत्रापि क्त्वाप्रत्ययेन पाकक्रियाकर्तृकर्मणोरनभिधानात् तृतीयाद्वितीये कुतो न प्राप्नुत इत्याशंक्याख्यातपद वाच्याक्रियाविशेष्यत्वात्प्रधानम्, इतरा तु विशेषणत्वादप्रधानं, तत्क्रियासाध्ययोरपि शक्तयोः तद्वारको गुणप्रधानभावः तत्र प्रधानशक्त्यभिधाने गुणक्रियाशक्तिरभि हितवत्प्रकाशते प्रधानानुरोधात् गुणानां पृथक्तद्विरुद्धस्वकार्यारंभा योगाच्चेत्युक्तत्वादिति चेत् । सत्यम् मयेत्यस्य स्वरूपेणेत्यर्थः । आत्मशब्दः स्वरूप परः । यद्यपि जीवशरीरकं स्वरूपं व्याकरणकर्तुर्नभिद्यते । तथापि “व्यपदेशिवदेकस्मिन्बुद्ध्यानानात्वकल्पना” इतिन्यायेन कल्पितभेदमादा यानभिहिताधिकारविहिततृतीयोपपत्तेः । घटः स्वेनरूपेण इतरव्यावृत्तिं करोतीत्यादि प्रयोगदर्शनात् । करोतीति तिङा कर्तुरभिहितत्वात् । ननु तत्र करणार्थे तृतीया । करणं च न तिङाभिहितमिति चेत् । तर्हि प्रकृतेपि तथास्तु । “तेनशस्तद्विशिष्टः स्वकरणतयानुप्रवेशेपि कर्त्ते”त्यधिकरणसारावल्यु क्तेश्चायमेवार्थः । यद्वा आरंभणाधिकरणे अनेन जीवेनात्मना मदात्मकजीवेनात्मतयानुप्रविश्यै तद्विचित्रनामरूपभाक्करवाणीति भाषितत्वेन जीवशब्दस्य परमात्मपर्यंतत्वाभावस्यापि दर्शितत्वात्तदनुसारेण जीवेनेत्यस्य जीव एवार्थः । आत्मशब्दस्य शरीरमर्थः । शरीरभूतेनानेन जीवेनानुप्रविश्य नामरूपे व्याकरवाणीत्यर्थः । आत्मशब्दस्य शरीरवाचित्वमभिप्रेत्यैव मदात्मकजीवेनेति भाषितम् । आत्मतयानुप्रविश्येति भाष्यस्यायमर्थः आत्मतयेति हेतौ तृतीया । हेतुत्वं च प्रयोजनत्वेन विवक्षितम् । आत्मत्वार्थमनुप्रविश्येत्यर्थः । प्रविश्यनियन्तृत्वाभावे आत्मत्वासंभवात् । चारेणानुप्रविश्य परबलं संकलयानीतिवदिति । यद्वा “अनेन जीवेनात्मनानुप्रभूतः पेपीयमानोमोदमानस्तिष्ठति” इत्यत्रेवानेन जीवेनात्मनानुप्रविश्येत्यत्रापि जीवेनेति जीवात्मनेत्येवार्थः ।अस्मिन्पक्षेऽनेनेतिशब्दस्य प्रमाणप्रतिपन्नपुरोवर्तिना मच्छरीरभूतेनेत्यर्थः । अनयोः पक्षयोश्चारेणानुप्रविश्य परसैन्यं संकलयानि देवदत्तेन पक्त्वौदनं चैत्रो भुङ्क्ते इत्यत्रेव प्रविशितिक्रियाप्रयोजककर्त्रा परमात्मनाव्याप्रियमाणस्य जीवात्मनः करणतया तृतीयासंभवात्तृतीयाया नानुपपत्तिः । इयांस्तुविशेषः ।नाम रूपव्याकरणस्य त्रिवृत्करणसमानकर्तृत्वावगमान्नामरूपव्याकरणांशे साक्षात्कर्तृत्व मप्यस्ति । प्रवेशे तु सर्वव्यापकस्य परमात्मनः साक्षात्कर्तृत्वमप्यस्ति । एवं च प्रवेशनाम रूपव्याकरणयोः समानकर्तृकत्वसंभवात् क्त्वाप्रत्ययस्यापि नानुपपत्तिरिति द्रष्टव्यम् । एतेनांतः करणविशिष्टस्याहमर्थत्वं वदंतः परे प्रत्युक्ताः । बहुस्यां हंताहमिमा इतिसंकल्पसमये तस्याभावादित्यास्तां तावत् ।सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ।तासां त्रिवृतां त्रिवृतमेकैकामकरोत् ।।अत्र त्रिवृत्करणाधीनत्वान्नामरूपव्याकरणस्यार्थक्रमानुरोधेन पाठक्रमो बाध्यते ।अत्र तेजोबन्नदेवतासु एकैकां त्रिवृतं कृत्वा नामरूपव्याकरणमकरोदित्यर्थः । अत्र व्यापकस्य परमात्मनः स्वरूपेण स्वाऽपृथक्सिद्धसर्ववस्तुप्रवेशस्य सर्वदा सत्त्वेऽपि स्वशरीरभूत जीवेनानुप्रवेशस्य सर्वदासत्त्वेपि स्वशरीरभूतजीवेनानुप्रवेशस्य पूर्वमभावात् जीवेनानु प्रविश्य नामरूपे व्याकरोदित्यर्थस्य नानुपपत्तिः । चारस्य च राजशरीरत्वा भावान्नचारेणानुप्रविश्येति वाक्यसाम्यं च ।।यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवन्ति तन्मे विजानी हीति ।।देवताधिष्ठितानां तेजोबन्नानां त्रिवृत्करणप्रकारं मे निगदतः श्रृणिवत्यर्थः । व्यासाचार्य्यैरानन्दमयाधिकरणे अनुप्रविश्य नामरूपे व्याकरवाणीत्यत्र नामरूप व्याकरणस्यानुप्रवेशपूर्वकत्वमवगम्यते । “तत्सृष्ट्वा तदेवानुप्राविश”दित्यत्रानुप्रवेशस्य सृष्टिपूर्वकत्वं गम्यते । तत्समानकर्तृकत्वमेव विवक्षितम् । न पौर्वापर्यमपि । अत एव हि “तस्य त्वष्टाविदधद्रूपमेति” (1) इति सृष्ट्यनुप्रवेशयोः समानकालीनत्वमेव प्रतीयते । अथवा “तत्सृष्ट्वा तदेवानुप्राविशदि”ति सृष्ट्यनन्तरत्वेन श्रूयमाणोनुऽप्रवेशः स्थित्त्यर्थोऽन्य एवेत्युक्तम् । अत्र व्यापकस्यापि परमात्मनोंऽतर्यामिविग्रहद्वारानुप्रवेश उपपद्यत इति केचित् । जीवद्वारैवानुप्रवेशो न स्वत इति केचित् । प्रतिवस्तु तत्तद्वस्तुमात्रपूर्णपरमात्मनः कार्यकारित्वात् तत्र प्रविष्ट इव इत्युक्तिरितिकेचित् ।।यदग्ने रोहितँ रूपं तेजसस्तद्रूपम् ।।अग्नेर्यद्रोहितस्वरूपंरोहितो भागो दृश्यते तदत्रिवृत्कृतस्य तेजसः स्वरूपम् ।यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य ।।अग्नेर्यच्छुक्लं रूपं तदपामेवयदग्नेः कृष्णं तत्पृथिव्या इत्यर्थः ।।अग्नेस्तेजोबन्नसमुदायरूपत्वेयावत्तेजोबन्नावस्थानमग्निरूपेणोपलंभं प्राप्नोतीत्यत्राह ।।अपागादग्नेरग्नित्वम् ।।तेष्वेव तेजोबन्नेष्वग्न्याद्यवस्थानाशकसामग्रीसन्निधाने अग्नित्वावस्था अपेता भवति अवस्थांतरं प्रादुर्भवति ।वाचारंभणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।अत्सतेजोबन्नैरेवाग्नित्वाद्यवस्थालक्षणो विकारोऽग्न्यादिनामधेयं च वाक्पूर्वकव्यवहारसिद्धये तेजोबन्नैरेवस्पृश्येते । अतस्तेजोबन्नस्वरूपाण्येवाग्निरिति सत्यमित्यर्थः ।यदादित्यस्य रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णंतदन्नस्यापागादादित्यादादित्यत्वं।। वाचारंभणं विकारोनामधेयं त्रीणिरूपाणीत्येवसत्यम् ।यच्चंद्रमसो रोहितंरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाच्चंद्राच्चद्रत्वं।।वाचारंभणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् । यद्विद्युतो रोहितँ रूपम् तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापा गाद्विद्युतो विद्युत्त्वं वाचारंभणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।पूर्ववदर्थः ।।2।।3।।4।।5।।6।।एवं सर्वस्यापि प्रपंचस्य त्रिवृत्कृततेजोबन्नरूपत्वेन तदभेदं प्रसाध्या ध्यात्ममांसलोहितमज्जास्थिलक्षणस्य देहस्येन्द्रियमनःप्राणानां च त्रिवृत्कृततेजोबन्नाभेदं प्रदर्शयितुं प्रस्तौति ।यथा खलु सोम्येमास्तिस्रोदेवताः पुरुषं प्राप्य त्रिवृत्रिवृदेकैका भवति तन्मे विजानीहीति ।।तेजोबन्नानि पुरुषेण भुज्यमानानि पुरुषं प्राप्य यथा परिणमंति तं परिणामप्रकारं श्रृण्वित्यर्थः । इति चतुर्थः खण्डः ।।4।।अन्नमशितं त्रेधा विधीयते ।पुरुषेण भुक्तंजाठराग्निना पच्यमानं स्थविष्ठमध्यमाणिष्ठरूपेण त्रेधा विभक्तं भवति ।तस्ययः स्थविष्ठोधातुस्तत्पुरीषं भवति । योमध्यमस्तन्मांसम् । योऽणिष्ठस्तन्मनः ।।स्थूलांशः पुरीषतामापद्यते । मध्यमांशस्तु मांसताम् । अणिष्ठांशस्तु मनस आप्यायकतामापद्यते । मनस आहंकारिकत्वेनान्नविकारत्वाभावादिति भावः ।।1।।2।।आपः पीतास्त्रेधा विधीयंते ।। तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ।। योमध्यमस्तल्लोहितम् ।। योऽणिष्ठः स प्राणः ।। तेजोऽशितं त्रेधा विधीयते ।।तस्य यः स्थविष्ठो धातुस्तदस्थि भवति ।। यो मध्यमः स मज्जा । योऽणिष्ठः सा वाक् ।।तैलघृतादिकं तेजश्शब्देनोच्यते । मज्जा अस्थ्यंतर्गतः स्नेहः धातुविशेषः । धृततैलादेः पीतस्य सूक्ष्मांशो वागाप्यायक इत्यर्थः । शिष्टं पूर्ववत् ।।3।।अन्नमयँ हि सोम्य मनः अपोमयः प्राणस्तेजोमयी वागिति ।उक्तरीत्या मनःप्राणवाचामन्नजलतेजस्सूक्ष्मांशाप्यायितत्वान्मनोऽन्नमयं प्राणो जलमयस्तेजोमयी वागित्यर्थः ।। 4।।4।।2।।1।।एकविज्ञानेन सर्वविज्ञानसिद्ध्यर्थं ब्रह्मव्यति रिक्तस्य तदुपादेयत्वं वक्तुं प्रवृत्तः तेजोबन्नात्मकसकलाचेतनवर्गस्य तदुपादेयत्वमुक्त्वा चेतनवर्गस्यापि तदुपादेयतां प्रतिपादयितुं प्रस्तौति ।उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच । स्वप्नांतं मे सोम्य विजानीहीति ।स्वप्नांतं सुषुप्तिं प्रतिपादयतो मम वाक्याद्विजानीहीत्यर्थः । एवं शिष्यावधानाय प्रतिज्ञायाह ।यत्रैतत्पुरुषः स्वपिति नाम ।।यत्र यदा नामशब्दः प्रसिद्धौ एतत्पुरुषःएष पुरुष इत्यर्थः ।सता सोम्य तदा सम्पन्नो भवति ।।सदेव सोम्येति प्रकृतेन सता संगतो भवति । तस्या एकसत्संपत्तेः सति लयरूपत्वं स्वपितिनामनिवर्चनानुगुणं विवृणोति ।स्वमपीतो भवतीति ।अत्र स्वशब्दस्तावन्नजीवमात्रपरः । सता सोम्य तदा संपन्नो भवति स्वमपीतो भवतीति स्थानप्रमाणेन सच्छब्दस्वशब्दयोरेकविषयत्वावश्यंभावात् । सच्छब्दस्य चास्मिन्प्रकरणे परमात्मविषयत्वात् । स्वशब्दोऽपि तत्पर एव । ननु जीवभिन्नत्वात्परमात्मनः तस्य कथं जीवं प्रति स्वत्वमिति चेत् उच्यते । देवमनुष्यादिनाम रूपाभिमानरागलो भाद्यनुगुमबहिर्दुःखज्ञानप्रसरवज्जागरितावस्थजीवविशिष्टः परमात्मा देवमनुष्यादिनामरूपरागद्वेषलोभमोहाद्यौपाधिकबाह्यभ्यंतराभिमान कालुष्यरहितः जीवशरीरकः सन्नात्मन्यंतर्भूत इत्यर्थ इति “स्वाप्ययात् (ब्र.सू.4.1.10)” इतिसूत्रे । व्यासार्यैर्व्याख्यातत्वान्नानुपपत्तिः । अत्रत्वपि पूर्वस्येतेर्लयार्थस्य सकर्मकत्वात् स्वमपीतइति द्वितीया ।तस्मादेनँ स्वपितीत्याचक्षते स्वँ ह्यपीतो भवति ।।यस्मात्स्वस्मिल्लींनो भवति तस्मात्स्वपितीति लौकिका आचक्षते इत्यर्थः । अत्र यद्यपि “ञिष्व प्शय” इति धातोर्निष्पन्नः स्वपितिशब्दो न तु स्वशब्दोपपदादपीतेः । तथापि अशनायादिनिर्वचनवदर्थवादरूपमुपपद्यत इति द्रष्टव्यम् । तत्र जीवस्य परमात्मनि लयप्रतिपादनात्तेजोबन्नादिवज्जीवस्यापि तदुपादेयत्वात्तज्ज्ञानेन ज्ञातत्वमुपपादितं भवति । अत्र वक्तव्यमुपनिषत्प्रकाशिकायामुक्तं तत्रैव द्रष्टव्यम् ।।1।।2।।3।।अन्नेन सोम्य शुंगेनाऽपोमूलमन्विच्छाद्भिस्सोम्य शुंगेन तेजोमूलमन्विच्छ ।तेजसा सोम्य शुंगेन सन्मूलमन्विच्छ ।।शुंगेन कार्येण कारणं जानीहीत्यर्थः ।सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनास्सत्प्रतिष्ठाः ।अत्र प्रजाशब्देन सजीवं जगन्निर्दिश्यते “सन्मूलाः सत्प्रतिष्ठा” इति पदद्वयं सच्छब्दवाच्यब्रह्माधीनोत्पत्तिलयपरम् । प्रतिष्ठा निष्ठापर्यवसानं लय इति यावत् ।सदायतनाइति सदाधारत्वमुच्यते । अनेन जगतःशरीरत्वं फलितम् । तत्कथमितिचेत्इत्थम् । उत्पत्तिलयहेतुत्ववाचिपदद्वयमध्यगतेन स्थितिहेतुत्ववाचिना “सदायतना ” इतिपदेन स्थितिहेतुत्वरूपधारकत्वं सिध्यति ।।4।। “एतस्या वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवीविधृते तिष्ठत इति” (बृह.7.8.9) तिष्ठतीतिस्थाधातूक्तस्थितेः प्रशासनेन धारणाधीनत्वावगमात्तस्य च प्रशासनेन धारमाधीनत्वावगमात्तस्य च प्रशासनेन धारणाधीनत्वावगमात्तस्य च प्रशासनस्य “अंतः प्रविष्टः शास्ता जनानाम्”(तै.आ.3) इत्यंतः प्रवेशपूर्वकत्वावगमात्सर्वशाखाप्रत्ययन्यायेनांतः प्रवेशशासनधारणाना मन्यतमस्योक्तावपि इतरयोः फलितत्वात् ।”सदायतना” इत्यनेन धारकत्वोक्तावप्यन्तः प्रविश्य शासनेन धारकत्वलक्षणात्मकत्वस्य फलितत्वाज्जगतः शरीरत्वं फलितम् । “सन्मूलाः सोम्येमाः सर्वाः प्रजाः सत्प्रतिष्ठा” इति द्वाभ्यां सदुपादानकत्वम् । “सदायतना” इत्यनेन सदंतर्यामिकत्वम् । उपादानोपादेयभावस्याभिन्ननिष्ठत्वात् । प्रजाशब्देनाचित्संसृष्टजीवमात्र परामर्शे तस्य सदुपादानकत्वा संभवात् ।प्रजाशब्देनापि प्रजाशरीरकं ब्रह्मैवोच्यते । सदायतना इत्यत्र सदंतर्यामिकत्वस्य शरीरभूतचिदचिन्मात्रनिष्ठत्वेन चिदचिच्छरीरकब्रह्मनिष्ठत्वाभावात् । “सदायतना” इति वाक्यानुषक्तप्रजाशब्देन शरीरभूतचेतनाचेतनमात्रमेवाभिधीयते । तथा सन्मूलाः सत्प्रतिष्ठाःइत्युपादानत्वप्रतिपादकवाक्ये विशिष्टस्यैवोपादानत्वात् सच्छब्देन सूक्ष्मचिदचिद्विशिष्टमेवोच्यते ।”सदायतना” इत्यत्र विशिष्टस्य सतोंऽतर्यामित्वा संभवात् सच्छब्देन विशेष्यमात्रमेवाभिधीयते ।।4।। एवम् एवं सुषुप्तौ सत्संपत्तिं जीवस्य प्रदर्श्य प्रयाणकालेपि सत्संपत्तिं दर्शयति ।अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनःप्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ।।प्रयतःम्रियमामस्येत्यर्थः । अत्र वाचःमनः प्रकृतिकत्वासंभवात्व्यापारोपरमहेतुभूतसंश्लेषविशेष एव वाचो मनसि लयः । मनः प्राणयोरपितादृश एव ।”मनसि करणग्रामं प्राणे मनः पुरुषे च तं झटिति घटयन्भूतेष्वेनं परे चतमात्मनी”त्युक्तरीत्या प्राणो जीवे संपन्नो जीवेन सह तेजश्शब्दोपलक्षितेषु सर्वेषु भूतेषु संपन्नो भवति । ततः परं सुखदुः खोपभोगायासविश्रमाय सजीवानां भूतसूक्ष्मणां परमात्मनि संपत्तिर्भवतीत्यर्थः ।।स य एषोऽणिमा ।।तादृशःसच्छब्दितः एषोऽणिमा अणुः दुर्विज्ञेयः मानांतरागोचर इत्यर्थः ।ऐतदात्म्यमिदँ सर्वम् ।।एष आत्मा यस्य ऐतदात्म्यं स्वार्थे ष्यञ् ।तत्सत्यम् ।।सजीवस्य जगतः सदात्मकत्वमेवा सत्यं प्रामाणिकम् ।स आत्मा ।।प्रमाणप्रतिपन्नत्वात्सच्छब्दितः स एतस्यात्मेत्यर्थः ।तत्त्वमसि श्वेतकेतो इति ।अत्र त्वंशब्देनाभिमुखश्वेतकेतुवाचिना अपर्यवसानवृत्त्या तदंतर्यामिपरमात्मा भिधीयते ।शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्याकृत्यधिकरणन्यायसिद्धत्वात्संसारिणः श्वेतकेतोः नित्यमुक्तेन तच्छब्दार्थेन सच्छब्दितब्रह्मणाभेदासंभवात् ।अत्र वक्तव्यमुपनिषत्प्रकाशिकायामुक्तं तत्रैव द्रष्टव्यम् । एवमुक्तः श्वेतकेतुः सुषुप्तिदशायां परमात्मनि संपन्नः स्वापानन्तरं तत उत्थायाग तश्चेत् प्रातर्गृहादुत्थायागतस्य गृहे स्थितोऽस्मि गृहादागतोऽस्मीति प्रतिसंधानवत् सतिसंपन्नोऽस्मि तत आगतोऽस्मीति प्रतिसंधानप्रसंगात् नैतद्विश्रम्भणीयमिति मन्यमान आह ।।भूय एव मा भगवान् विज्ञापयत्विति ।सम्यङ् मामनुशाधीत्यर्थः । एवं प्रार्थितः पिता ।तथा सोम्येति होवाच ।इति षष्ठप्रपाठके अष्टमखंड दीपिका ।।8।।9।।यथा सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्र मेवापियंति समुद्र एव भवंति ताः यथा तत्र न विदुरियमहमस्मीयमहमस्मीति एवमेव खलु सोम्येमाः सर्वाः प्रजाःसत आगत्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिँहो वा वृको वा वराहो वा कीटो वा पतंगो वा दँशो वा मशको वा यद्यद्यद्भवंति तत्तदा भवन्ति इति स एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।।यथा गंगाद्या नद्यः पूर्वदिक्प्रस्थिताः प्राङ्मुखतया समुद्रं यान्ति पश्चाद्देशेप्रवृत्ताः सिन्ध्वाद्यः नद्यः प्रत्त्यङ्मुखतया समुद्रं यान्ति पुनश्चताः समुद्रात्समुद्रं गछन्ति समुद्रपर्यंतदेशात् समुद्रमध्यं गत्वा समुद्रेणैकभूतास्सत्य इयं गङ्गाहमस्मीयं यमुनाहमस्मीत्येवं प्रत्यभिज्ञातुमसमर्थाभवन्ति ।।1।। तथा सुप्तोत्थिता अपि सत उत्थिता आगता इति न प्रत्यभिज्ञातुं समर्थाः । अपि तु प्राचीनव्याघ्रादिमात्रभावमनुसंदधते ।यद्यद्यद्भवन्ति प्रजाः जाग्रद्दशायां यद्यद्यद्धाघ्रादित्वं प्राप्नुवन्ति तत्तद्याघ्रादित्वमाभवन्ति ।आगत्य भवन्ति । सुषुप्ति स्थानात्परमात्मन आगत्य यथा पूर्वं व्याघ्रादिभावमनुसन्धधत इत्यर्थः ।।2।।3।। दशमः खण्डः अनन्तरं प्रयाणदशायां जीवस्य नाशाभावः “अस्यसोम्यमहतो वृक्षस्यस्रयो मूलेभ्याहन्याज्जीवन् स्रवेत् यो मध्येऽभ्याहन्याज्जीवन् स्रवेत् योऽग्रेऽभ्याहन्याज्जीवन् स्रवेत् जीवापेतं वा व किलेदं म्रियते न जीवो म्रियते” इति खण्डेन वर्णितः ।। इत्येकादश खण्डः ।।यथा सोम्य पुरुषं गन्धारेभ्योऽभिन्द्धाक्षमानीय तं ततो विजने विसृजेत् स यथा तत्र प्राङ्वोदङ् वा धराङ् वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ।।हे सोम्य यथालोके गन्धारेभ्यो जनपदेभ्यो निबद्धचक्षुषं कञ्चित्पुरुषं चोरो गृहीत्वा विजने विसृजेत्स दिग्भ्रमोपेतः प्राङ्मुखो वा उदङ्मुखो वा अधोमुखो वा पिनद्धाक्ष एव तस्करैरानीत अभिनद्धाक्ष एव विसृष्ट इति विक्रोशेत् ।।1।।तस्य यथा अभिनहनं प्रमुच्य प्रब्रूयात् एतां दिशं गन्धारा एतां दिश ंव्रजेति सग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवाभिसंपद्यते ।।यथा कश्चित्कारुणिकस्तस्य बन्धनं मुक्त्वा उत्तरतो गन्धाराः एतां दिशं व्रजेत्युक्तो ग्रामाद्ग्रामान्तरं गच्छन् तैरुपदिष्टमार्गो मेधावी उक्तार्थाविस्मरणशीलः पण्डितः ऊहापोहक्षमधीयुक्तः यथा गन्धारानेव पुनरभिसंपद्यत इत्यर्थः ।एवमेवेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ।एवमाचार्येण ब्रह्मात्मकस्त्वमसि । अतस्तदात्मकतया स्वात्मानमनु संघत्स्वेत्युपदिष्टस्सतदात्मकत्वमनुसन्धत्ते । एतादृशानुसन्धाननिष्ठस्य तस्य तावानेव विलंबः यावत्प्रारब्धकर्मारब्धशरीरन्नविमोक्ष्यते । तदनंतरं तु सद्रूपं ब्रह्म संपत्स्यते न विमोक्ष्येऽथसंपत्स्य इति पुरुषव्यत्ययश्छांदसः । केचित्तु तस्य तावदेवचिरमित्यत्र मे इत्यध्याहारः । तस्य मे तावानेव विलंबः, यावत्कर्मभिर्नविमोक्ष्ये अतः परं ब्रह्म संयत्स्ये इत्युपासकस्यानुसंधानप्रकारोऽनेन वाक्येनोच्यते इति वदंति ।।2।।3।। इति चतुर्दशः खण्डः ।तद्धास्य विजज्ञाविति विजज्ञाविति ।।एवं नवकृत्वो बोधितः श्वेतकेतुरस्योद्दालकस्य वाक्यात्तद्ब्रह्मस्वरूपं विजज्ञौज्ञातवानित्यर्थः । व्यासार्योक्तरीत्योपासितवानित्यर्थः । द्विरुक्तिः सद्विद्या समाप्त्यर्था ।इति षोडशः खण्डः ।।।। इति सद्विद्या समाप्ता ।।