॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
ज्योतिरधिकरणम्
ज्योतिश्चरणाभिधानात् (ब्र.सू.1. 1. 27 )छोंदोग्ये तृतीयाध्याये द्वादशखण्डस्योपक्रमे ।।चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणो गायत्रीसादृश्यानुसंधानरूपा विद्याप्रस्तूयते “इन्द्रःशचीपतिः । बलेन पीडितः । दुःश्चयवनो वृषा । समित्सुसासहिः” । इति हि गायत्री चतुष्पदा । एकैकस्य पादस्य षडक्षरात्मकतया षडक्षरपादवत्त्वेन षड्विधा च । एवं ब्रह्मणोऽपि भूतशब्दितात्मवर्ग एकःपादः, कर्मार्जितभोगस्थानरूपः पृथिवीलोक एकः पादः, भोगोपकरणं शरीरमेकःपादः, आत्मस्थित्यनुगुणं प्रदेशविशेषरूपं हृदयमेकः पादः, इति भूतपृथिवीशरीर हृदयानि चत्वारः पादाः । तत्र सर्वभूतलक्षणपादस्य ब्रह्मात्मकवाक्कर्तृकगान कर्मत्वत्राण कर्मत्वलक्षणं विधाद्वयम् । पृथिवीलक्षणस्य पादस्य सर्वभूतप्रतिष्ठात्वसर्व भूतानतिवर्तित्वलक्षणं विधाद्वयम् । शरीरहृदयलक्षणयोः पादयोः प्राणप्रतिष्ठात्वतदनति वर्तित्वलक्षणंविधाद्वयम् । द्वयोरपि विधाद्वययोर्भेदाभावात् । ततश्च ब्रह्मरूपागायत्रीभूतपृथिवीशरीरहृदय रूपपाद चतुष्टवत्तया चतुष्पदा । एवं गानकर्मत्वत्राण कर्मत्वसर्वभूतप्रतिष्ठात्वसर्वभूतानतिवर्तित्वसर्व प्राणप्रतिष्ठात्वसर्व प्राणानतिवर्तित्व लक्षणविधाषट्कयुक्त तया षड्विद्या ।अतश्चतुष्पात्त्व षाड्विध्याभ्यां ब्रह्मणि गायत्री सादृश्यानुसंधानं कर्तव्यमिति प्रतिपादयति ।।गायत्री वा इदं सर्वं भूतं यदिदं किञ्च ।।अत्र गायत्रीशब्देन न प्रसिद्धा गायत्र्यभिधीयते । तस्या भूतादिपादचतुष्टयसंबन्धाभावात्, “एतावानस्य महिमा” इति पुंसूक्तमंत्रप्रतिपाद्यत्वाभावाच्च । अपितु परमात्मा ।यथा कुण्डपायिनामयने “मासमेकमग्निहोत्रं जुहोती”त्यग्निहोत्रशब्दः प्रयुज्यमानःतत्सादृश्यविशिष्टानुष्ठानार्थः, तथा गायत्रीशब्दो ब्रह्मणि प्रयुज्यमानः तत्सादृश्यानुसन्धानार्थः ।ततश्च गायत्री शब्देनब्रह्मैवाभिधीयते । वै शब्दोऽवधारणार्थः । ब्रह्मैव परिदृश्यमानं सर्वभूतात्मकमित्यर्थः । ततश्च ब्रह्मणोभूतलक्षणपादवत्त्वमुक्तम्।। गायत्रीशब्दप्रवृत्ति निमित्तमपि ब्रह्मण्युप पादयन्विधाद्वयमाह ।।वाग्वै गायत्री ।।गायत्रीशब्दितं ब्रह्मैव वाग्रूपविशिष्टं भवतीत्यर्थः । “शब्दमूर्तिधरस्यैतद्रूपं विष्णोर्महात्मनः” (1)इतिपराशरस्मृत्यनुरोधेन ब्रह्मण एव शब्दरूपत्वमितिभावः । ततश्चकिमित्यत्राह ।वाग् वा इदं सर्वं भूतं गायति (च) त्रायते च ।।वाग्रूपमेवब्रह्म सर्वाणि भूतान्यभिधत्ते । हिताहितविधिनिषेधमुखेन त्रायते च । अतो ब्रह्मणो वाग्रूपस्य गानत्राणकर्तृत्वाभ्यां गायत्रीशब्दवाच्यत्वम् । भूतात्मकपादवतो ब्रह्मणो वाक्कर्तृकगानत्राणकर्मत्वाभ्यां द्वैविध्यं चोक्तं भवति ।।1।।उक्तार्थानुवादपूर्वकं द्वितीयं पादं सामानाधिकरण्येनाह ।।या वै सा गायत्री इयं वा व सा येयं पृथिवी ।।उक्तरूपविशिष्टप्रकृतधर्मिपरः यच्छब्दः । या सासर्वभूतरूपैकपादयुतगायत्री गायत्र्याख्यंब्रह्म तदेव प्रसिद्धा पृथिवीत्यर्थः । कथं पृथिव्या ब्रह्मात्मकत्वमित्यत्राह ।।अस्याँ हीदँ सर्वं भूतं प्रतिष्ठितम् ।।ब्रह्मात्मकत्वादेव हि सर्वभूतप्रतिष्ठात्वम् । नहि केवलपृथिव्याः सर्वभूतधारण शक्तिरस्तीत्यर्थः । प्रतिष्ठात्वं च नियतमित्याह ।”एतामेव नातिशीयते” इति ।।पृथिवीं भूतजातं नातिवर्तते । कर्मवश्यात्मनां हि प्रतिष्ठात्वादेव पृथिवीनियमेनाशक्यातिक्रमणेत्यर्थः । पृथिवीमयब्रह्मांडोदरे हि भोक्तृवर्गः परिवर्तते, न ततोऽन्यत्रेति भावः ।एवं द्वितीयः पादो भूतप्रतिष्ठात्वतदनतिवर्तित्वरूपं विधाद्वयं चोक्तं ।।2।।अथ तृतीयं पादमाह ।।या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् ।।पुरुषशब्दः शरीरविशिष्टजीवपरः । पृथिवीरूपपादविशिष्टा या गायत्री गायत्र्याख्यं ब्रह्म सा शरीरं शरीराख्यपादविशिष्टेत्यर्थः । भूतपृथिव्योर्गायत्रीसामानाधिकरण्येन निर्दिष्टतया भूतपृथिवीशब्दयोर्ब्रह्मपर्यंतत्वेन तदुपस्थापनक्षमत्वात् ।अग्र्यप्रायन्यायेनात्र शरीरलक्षण पादान्तरस्य निष्कर्षकशब्दत्वेपि सामानाधिकरण्येन निर्देशोयुक्तः ।।शरीरस्य ब्रह्मात्मकत्वं प्राणप्रतिष्ठात्वतदनतिवर्तित्वाभ्यामुपपादयति ।।अस्मिन्हीमे प्राणाः प्रतिष्ठिताः । एतदेव नातिशीयन्ते ।।नातिवर्तन्त इत्यर्थः ।।3।। चतुर्थंपादमाह ।।यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नंतः पुरुषे हृदयम् ।शरीराख्यपादविशिष्टं यद्गायत्र्याख्यं ब्रह्म तदेव हृदयं हृदयलक्षणपादकमित्यर्थः ।।हृदयस्य ब्रह्मात्मकत्वमुपपादयति ।।अस्मिन्हीमे प्राणाः प्रतिष्ठिताः । एतदेव नातिशीयंते ।प्राणशब्देन प्राणापानादय इंद्रियाणि वा कथ्यन्ते । तेषां हृदयसंबन्धिनाडीद्वाराहृदयप्रतिष्ठितत्वम् ।।4।।एवं तृतीयचतुर्थपादयोः प्राणप्रतिष्ठात्वतदनतिवर्तित्वरूपं विधाद्वयं चोक्तम् ।।एवमुक्तं चतुष्पात्त्वं षाड्विध्यं च निगमयति ।।सैषा चतुष्पदा षड्विधा गायत्री ।।नन्वेवं चतुष्पात्त्वे ब्रह्मणः परिच्छिन्नत्वं स्यादिति शङ्कायामुक्तस्य महिम्न एतावत्त्वप्रतिषेधिकामृचमुदाहरति ।।तदेतदृचाभ्यनूक्तम् ।।तदेतद्गायत्र्याख्यं ब्रह्माभिमुखीकृत्यऋचाप्युक्तम् ।।4।।तामेवर्चं पठति ।।तावानस्य महिमा ।।पूर्वोक्तः सर्वोऽपि एतस्य महिमा नियाम्यवर्गः ।ततो ज्यायाँ श्च पुरुषः ।।पूर्वोक्तमहिमापेक्षया पुरुषःपरमात्मा ज्यायान् । ततोऽधिकमहिमशालीत्यर्थः ।।पादोऽस्य सर्वा भूतानि ।।अत्र सर्वाभूतानीति कार्यजगदंतर्गताऽचित्संसृष्टाश्चेतना उच्यंते । सर्वा सर्वाणि पादः अंशमात्रमित्यर्थः । सर्वशब्दात्परस्य शेः “सुपांसुलुक्” (अष्टा.7.1.39) इति लुकि नलोपे रूपम् ।त्रिपादस्यामृतं दिवि ।।अत्र द्युशब्दः समष्टिव्यष्टितत्त्वबहिर्भूताऽप्राकृतस्थानविशेषपरः ।अप्राकृतस्थानविशेषेऽस्य परमात्मन अमृतं पादत्रयमित्यर्थः । त्रिपात्त्वंचाऽप्राकृतैर्भोग्यभोगस्थानभोगोपकरणविशेषैर्वा भूषणास्त्रादिरूपेण जगदन्तर्गतवस्त्वभिमानिभिर्नित्यैर्भगवदनु भवमात्रपरैर्नित्यसिद्धैश्च मुक्तैश्चात्मभिर्वा संभवति ।।6।। इति द्वादशः खण्डः ।।अथ चतुर्थपादत्वेनोक्तस्योपास्यतया वक्ष्यमाणस्य हृदयस्य स्तुत्यर्थं तत्स्थाकाशस्य बाह्याकाशाभेदेन महत्त्वं वक्तुं बाह्याकाशस्य ब्रह्मतुल्यत्वं सामानाधिकरण्येनाह ।यद्वै तद्ब्रह्मेति वा व तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादकाशो यं वा व स योऽयमंतः पुरुष आकाशः ।।स्वकार्यव्याप्तत्वामूर्तत्वाचलत्वादिभिर्ब्रह्मतुल्यबाह्याकाशाभिन्नः पुरुषांतर्वर्त्याकाश इत्यर्थः । बाह्यान्तराकाशयोर्भेदसत्त्वेऽपि धर्मैक्याभिप्रायेणाभेदनिर्देशः ।यो वै सोंऽतः पुरुष आकाशोऽयं वा व स योऽयमंतर्हृदय आकाशः ।एवं ब्रह्मतुल्यबाह्याकाशाभिन्नपुरुषांतर्गताकाशाभेदं हृदयाकाशस्योक्त्वै तादृशमहिमशाली हृदयाकाश इति स्तौति ।।यो वै सोंऽतर्हृदय आकाशः ।।अन्तर्हृदये वर्तमानो य आकाशः अयं स एतादृशमहिमशालीत्यर्थः । अनया च हृदयाकाशस्तुत्या चतुर्थपादत्वेनोक्तं हृदयं स्तुतं भवति ।।एवं चतुष्पदः षड्विधस्य ब्रह्मणः प्रपञ्चान्तर्भावेनपरिच्छिन्नत्वास्थिरत्वशंकाव्यावृत्यर्थंपूर्णत्वाप्रवर्तित्वगुणकतयोपासनं मोक्षफलंविदधाति ।।तदेतत्पूर्णमप्रवर्ति ।।पूर्णत्वमपरिच्छिन्नत्वमप्रवर्तित्वमचलत्वं स्थिरत्वम् ।।पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेद ।।अनन्तस्थिरा श्रीर्मुक्तैश्वर्यमेव । तदुपासीनो मुक्तिं भजतीत्यर्थः ।। एवं गायत्रीविद्या प्रकृतस्य द्युसंबन्धिनः सकलफलप्रदस्य ब्रह्मणः आभिरूप्यकीर्तिमत्त्व रूपफलविशेषार्थं कौक्षेयज्योतीरूपत्वेनोपासनविधानायाह ।।अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु ।।”तथाक्षरात्संभवतीहविश्वम्” (मुण्ड.1.1.7) इत्यत्र जगदर्न्तर्वतिव्यष्टिजाते विश्वशब्द प्रयोगाद्विश्वशब्दो व्यष्टिपर; सर्वशब्दः परिशेषात्समष्टितत्त्वपर इति व्यासार्यैरुक्तम् । ततश्च दिवोऽप्राकृतस्थानविशेषस्योपरिष्टात्समष्टिव्यष्टिबहिर्भूतेषु स्वावधिकोत्तमरहितोत्तम स्थानविशेषेषु “तस्य भासा सर्वमिदं विभाति” (कठ.2.7.17) इत्यवभासकतया ज्योतिश्शब्दितः परमात्मा यो दीप्यत इत्यर्थः । अत्र यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शितया प्रकृतं त्रिपाद्ब्रह्म परामृश्यते ।।इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ।।तद्दिवः परस्ताद्दीप्यमानं त्रिपाद्ब्रह्म कौक्षेयज्योतिरेव । कौक्षेय ज्योतिश्शरीरकमेवेत्यर्थः ।”अह ंवैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्” (श्री.भा.गी.17.14) इति स्मरणात् । ततश्च तदात्मकत्वानुसंधानं कंर्तव्यमित्यर्थः ।।तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे संस्पर्शेनोष्णिमानं विजानाति ।।तस्य परमात्मशरीरभूतस्य जाठराग्नेरेषा दृष्टिः दर्शनमित्यर्थः । यत्र यदा अस्मिच्छरीरे हस्तस्पर्शेनोष्णिमानं विजानातीति यत्तदौष्ण्योपलंभनमित्यर्थः । उपलभ्यमानोष्णस्पर्शस्य जाठराग्निसंबन्धित्वात्तत्स्पर्शसाक्षात्कार एव तत्साक्षात्कार इत्यर्थः ।।तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपश्रृणोति ।।यत्र यदाकर्णावंगुलिभ्यां पिधाय निनदमिव रथघोषमिव नदथुरिव नदथुमिव ऋषभकूजितमिव बहिर्ज्वलतोग्नेः शब्दमिवश्रृणोतीति यत्तदेव जाठराग्निश्रवणम् । आन्तरस्य शब्दस्य जाठराग्नि संबन्धित्वात् । तच्छब्दश्रवणमेव तच्छ्रवणमित्यर्थः ।।तदेतद्दृष्टं च श्रुतं चेत्युपासीत ।।तदेतत्परमात्मशरीरभूतं कौक्षेयज्योतिरुक्तरीत्या दृष्टत्वश्रुतत्वाभ्यामुपासीतेत्यर्थः ।।तस्य फलमाह ।चक्षुष्यः श्रुतो भवति ।। य एवं वेद य एवं वेद ।चक्षुष्यत्वमाभिरूप्यम् । चक्षुषे हित इत्यर्थे “शरीरावयवाद्यत्” (अष्टा. 5.1.6)” इतियत् । श्रुतत्वांकीर्तिमत्त्वमिति ।द्विरुक्तिर्विद्यासमाप्त्यर्था ।। इति त्रयोदश खण्डः ।।