॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
प्राणाधिकरणम्
अतएवप्राणः (ब्र.सू.1.1.24)छांदोग्ये प्रथमे नवमे-मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ।।चक्रस्य सुतः उषस्तिनामा कश्चन ऋषिः अश्मवृष्टिकृतदुर्भिक्षदूषितेषु कुरुदेशेषु आटिक्या अनुपजातपयोधरादिव्यंजनयाभार्यया सह इभ्यानां गजारोहाणां ग्रामे प्रद्राणकः अनशनेन कुत्सितांगतिमापन्नः ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादं कांक्षन्नुवास ।द्राकुत्सायांगताविति हि धातुः । चक्रस्य गोत्रापत्यमित्यर्थे अश्वादित्वात् “फञि” चाक्रायण इति रूपम् ।।1।।स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ।।सोऽन्नार्थी पर्यटन्कुत्सितान्माषान् खादन्तमिभ्यं याचितवान् । कुल्माषान्खांदन्तमिति निर्देशात्कुत्सितमाषार्थे कुल्माषशब्दस्य साधुत्वम् ।।तँ होवाच नेतोऽन्ये विद्यन्ते यच्च येम इम उपनिहिता इति ।।इतो मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये नविद्यन्ते यद्यस्माद्धेतोः इमे कुल्माषाः मे च ये मदीये भक्ष्यचये उच्छिष्टराशौ उपनिहिताः प्रक्षिप्ताः, अतः किं करोमीत्युषस्तिमिभ्य उवाचेत्यर्थः ।।एतेषां मे देहीति होवाच ।।उछिष्टानामपि मध्ये मह्यमपि किंचिद्देहीति प्रार्थितवानित्यर्थः ।तानस्मै प्रददौ ।।तान्कुल्माषान् उषस्तये दत्तवानित्यर्थः ।हंतानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच ।।समीपस्थमुदकं गृहीत्वा गृहाणानुपानमिति इभ्येनोक्तः तदुदकपाने उछिष्टोदकपानं मे स्यादित्युवाचेत्यर्थः ।।3।।न स्विदेतेप्युच्छिष्टा इति न वा अजीविष्यमि मा न खादन्निति होवाच ।। कामो म उदपानमिति ।।किमेते कुल्माषा अनुच्छिष्ठा इति इभ्येन पर्यनुयुक्तः कुल्माषाखादने स्वस्य जीवनहानिर्भवति तावन्मात्रखादनेन धृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धं स्यादित्युवाचेत्यर्थः ।।4।।स ह खादित्वाऽतिशेषाञ्जाया आजहार ।।उषस्तिस्तान् भक्षयित्वाऽतिशिष्टाञ्जायायै दत्तवानित्यर्थः ।।साग्र एव सुभिक्षा बभूव तान् प्रतिगृह्य निदधौ ।।सा जाया प्रागेव लब्धान्ना बभूव । तथापि स्त्रीस्वभावादनवज्ञाय (ज्ञया) तान्पत्युर्हस्तात्प्रतिगृह्य निक्षिप्तवती ।।5।।स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राम् ।।स होषस्तिः शयनंपरित्यजन्नेव पत्न्यां श्रृण्वन्त्यां यद्यन्नस्य स्तोकमपि लभेमहि तेनप्राणं धृत्वाल्पमपि धनं लभेमहीत्युवाचेत्यर्थः । कथं धनमात्रालभ्यते इत्यत्राह ।।राजाऽसौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ।।राजाऽसौ नातिदूरे यजते स मां दृष्ट्वा सर्वाण्यार्त्विज्यानि त्वया कारयितव्यानीति प्रार्थयेतेत्युवाचेत्यर्थः ।।6।।तं जायोवाच हंत पत इम एव कुल्माषा इति ।।हे पते मद्धस्तनिक्षिप्तास्त्वया कुल्माषास्ते इम एव तान्गृहाणेत्युक्तवतीत्यर्थः ।।तान्खादित्वाऽमुं यज्ञं विततमेयाय ।।तानेवपर्युषितोच्छिष्टान्कुल्माषान् भक्षयित्वा विस्तीर्णं यज्ञवाटं गतवानित्यर्थः ।।7।।तत्रोद्गात्रादीना (द्गातृना) स्तावे स्तोष्यमाणानुपोपविवेश ।।आस्तुवंत्यस्मिन्नित्यास्तावः स्तोत्रस्थानम् । सदसि स्तोतुं प्रवृत्तानामुद्गातृप्रस्तोतृ प्रतिहर्तृणां समीपे उपविष्टवानित्यर्थः ।।स ह प्रस्तोतारमुवाच ।प्रस्तोतर्यादेवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि, मूर्द्धाते विपतिष्यतीति ।।हे प्रस्तोतः प्रस्तावभक्तावध्यस्य यादेवतोपास्या तामविदित्वा यदि विदुषो मम समीपे प्रस्तोष्यति मूर्द्धा ते विपतिष्यतीत्यर्थः । यद्यपि ते नोभौकुरुतो यश्चैतदेवंवेद यश्चनवेदेत्यविदुषोप्यार्त्विज्याधिकारोस्ति । तथापि विद्वत्सन्निधावविदुषः कर्माधिकारो नास्तीति भावः ।।9।।एवमेवोद्गातारमुवाच । उद्गातर्यादेवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि । मूर्धा ते विपतिष्यतीति । एवमेव प्रतिहर्तारमुवाच । प्रतिहर्तर्यादेवता प्रतिहारमन्वायत्ता ता ंचेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ।।स्पष्टोऽर्थः ।।ते ह समारतास्तूष्णीमासांचक्रिरे ।।ते ह प्रस्तोत्रादय उपरताः संतः मूर्द्धपातभयात्तूष्णीमेव स्थिता इत्यर्थः ।।इति दशम खण्डःअथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीति ।।को भवानिति भवन्तं ज्ञातुमिच्छामीति उषस्तिं यजमान उक्तवानित्यर्थः ।उषस्तिरस्मि चाक्रायण इति होवाच ।।स्पष्टोर्थः ।।2।।स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवतो वाहमविद्याऽन्यानवृषि भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ।।भगवंतं सर्वगुणोपेतं श्रुत्वा सर्वाण्यार्त्विज्यानि भगवदधीनानि कर्तुं भवतोन्वेषण ंकृतवानस्मि । भगवतः अविद्या विदिर्लाभः नविदिः अविदिः “इक् कृष्यादिभ्यः” (अष्टा.3.3.108) वा” इति इक् । अविद्या अलाभेन, इमानृत्विजोवृतवानस्मि ।।2।।इतः परमपि भगवानेवसर्वैर्ऋत्विक्कर्मभिर्वृत इत्युवाचेत्यर्थः । सर्वार्त्विज्यार्थं वृत इति यावत् ।।तथेति ह्यथ तर्ह्येत एवसमतिसृष्टास्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मे (न्मम) दद्या इति ।तथेत्युपगम्यानंतरं त्वया पूर्वंवृता एत एव मया सम्यक् प्रसन्नेनानुज्ञाता उपदिष्टदेवताः संतस्तुवतां स्तुवंतु । एभ्यो यावद्धनं प्रयच्छसि तावन्मम दद्या इत्युक्तवान् ।।तथेति यजमान उवाच ।।स्पष्टोऽर्थः ।।3।।अथ हैनं प्रस्तोतोपससाद ।उषस्तिवचनं श्रुत्वा प्रस्तोता विनयेन समीपमागतवानित्यर्थः।।प्रस्तोतर्यादेवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ।।भगवान्मां प्रति प्रस्तोतर्यादेवतेत्यादिना यां देवतां पृष्टवान्सा देवता केति पप्रच्छेत्यर्थः ।।4।।प्राण इति होवाच ।अत्र प्राणयितृत्वगुणयोगात् प्राणशब्देन परमात्मैवोच्यते ।। प्राणशब्दस्य मुख्यप्राणपरत्वं व्यावर्तयति ।।सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशंति, प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता ।।प्राणमभिलक्ष्य संविशंति । समित्येकीकारे । ऐक्येन विशंति लीयन्तइत्यर्थः । प्राणमभ्युज्जिहते प्राणादेवोद्गच्छंतीत्यर्थः । सर्वभूतलयोत्पत्तिस्थानत्वेन वेदान्तेषु प्रसिद्धा प्राणरूपा देवता प्रस्तावभक्त्यनुगता प्रस्तावभक्तावध्यस्योपास्येत्यर्थः ।तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ।।तां चेदाविद्वान् प्रस्तोंष्यसि मूर्धा ते विपतिष्यतीति मदुक्त्यनंतरमप्युक्तिमनादृत्य तद्देवतामनभिज्ञाय यदि प्रास्तोष्यस्ततो मूर्धाते व्यपतिष्यदेव । अतस्साधुकृतं त्वया मत्समीपमागत्य विनयेन पृच्छतेतिभावः । अत्र मूर्द्धाते व्यपतिष्यत् तथोक्तस्य मयेत्युक्तस्या विदुषैवमुक्तस्याविदुषः तदनादरेण कर्मकरणे शिरः पातलक्षणः प्रत्यवायः । न तु विदुषानुक्तस्याविदुष इति भावः । व्यासार्यैस्तु मूर्धा ते व्यपतिष्यदित्यस्यऽऽत्मसत्ता न लभ्येतेत्यर्थ इत्यात्मसत्ताहानिपर्यन्तः प्रत्यवायोवर्णितः ।।5।।6।।7।।8।।9।। इत्येकादशः खण्डः ।।