॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
समन्वयाधिकरणम्
तत्तु समन्वयात् ।। (ब्र.सू.1.1.4 ) सपर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम् ।कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदघाच्छा श्वतीभ्यस् समाभ्यः (ई.श.उ.मं)
पर्यगात्-परितोव्याप्तवान् । शुक्रमित्यादौलिंगव्यत्त्ययश्छांदसः । शुक्रं-(तेजिष्ठः ) ।अकायं कर्मफलभोगार्थशरीररहितः । अव्रणं कायाभावादेव व्रणरहितः । अत एवअस्नाविरं-स्नायुशून्यः । शुद्धः-अविद्यारागद्वेषादिशून्यः । अपापविद्धश्च । कविः-क्रान्तदर्शी ।मनीषी-मनीषा स्रष्टव्यालोचनरूपज्ञानं तद्वान् । परिभूः-सर्वदेशव्यापनशीलः । स्वयम्भूः -उत्पादकशून्यः । एवंभूतः परमात्मा याथातथ्यतः -यथातथं यथापूर्वं सत्यत्वेनेति वार्थः । शाश्वतीभ्यस्समाभ्यः -चिरकालस्थायितया स्वाप्नपदार्थ विसदृशान्पदार्थान्व्यदधात् अकार्षीदित्यर्थः । इदं वाक्यमीशावास्यगतम् ।
अन्यदेव तद्विदितादथो अविदितादधि ।इति शुश्रुम पूर्वेषां ये नस्तब्द्याचचक्षिरे ।।ये अस्माकं पूर्वे गुरवः उपादिशंस्तद्ब्रह्म सर्वात्मना विदितादपि विलक्षणं सर्वात्मना अविदितादपि विलक्षणमिति तेषां वाचं श्रुतवंतो वयमित्यर्थः ।
एतदेव प्रपंचयति ।
यद्वाचानभ्युदितं येन वागभ्युद्यते ।तदेव ब्रह्मत्वं विद्वि नेदं यदिदमुपासते ।।
वागादिभिर्यदप्रकाश्यं स्वयं वागादींद्रियप्रकाशकं च यत् तदेव ब्रह्मेति जानीहि । यद्वस्तु इदमिति इदंकारगोचरतया हस्तामलकवत्सुविदिततयोपासते जनाः तत् ब्रह्म नभवति । प्राकृतजनोपास्यजगद्विलक्षणं ब्रह्मेत्यर्थः । इदं च वाक्यं तलवकारोपनिषद्गतम् ।।