[highlight_content]

विषयवाक्यदीपिका अदृश्यत्वादिगुणकाधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

अदृश्यत्वादिगुणकाधिकरणम्

मुंडकोपनिषदि प्रथमखण्डे ।।शौनको ह वै महाशालोंऽगिरिसं विधिवदुपसन्नः प्रप्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।।सर्वोपादानं किमिति प्रश्नार्थः । विस्तरस्तु मुंडकोपनिषत्प्रकाशिकायां द्रष्टव्यः ।।तस्मै स होवा ।।स्पष्टोऽर्थः ।।द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदंति ।।अत्र प्राप्तमित्यध्याहारः । यद्वस्तु प्राप्तं द्वे ज्ञाने उपादेये इति ह तदभिज्ञाः पराशरादयः । “तत्प्राप्तिहेतुर्ज्ञानं कर्मोक्तं महामुने । आगमोत्थंविवेका द्विधाज्ञानंतथो्यते । शब्दब्रह्मागममयं परं ब्रह्मविवेकजम्”। इति यद्वदंति तज्ज्ञाने सर्वविज्ञातं भवतीत्यर्थः । एतत्सर्वमभिप्रेत्य भगवता भाष्यकृता द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा ैवापरा ेति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये ब्रह्मविषये परोक्षापरोक्षरूपे द्वे ज्ञाने उपादेये इत्यर्थः इति भाषितम् । एतेन परविद्याया ब्रह्मप्रेप्सूपादेयत्वेप्यपरविद्यायास्तथात्वाप्रतीतेः । प्रत्युता “अथ परा यया तदक्षरमधिगम्यत” इति वाक्यपर्यालोनायामपर विद्याया ब्रह्मप्रेप्सूपादेयत्वाभावस्यैव प्रतीतेर्ब्रह्मप्रेप्सूनां द्वे विद्ये उपादेये इति भाष्यं कथमिति शंकापि निरस्ता ।। प्राप्तुमिति पदाध्याहारेणास्यार्थस्य प्रतीतेरितरथा यत्पदवैयर्थ्यात् । किं कस्मिन् भगव इति सर्वोपादाने पृष्टे विद्याद्वयकथनं “आम्रान्पृष्टः कोविदारानाष्टे” इति न्यायमनुसरादतो यथोक्त एवार्थः । आेदनपाकं पतीतिवत् द्वे विद्ये वेदितव्ये इति निर्देशः । के ते विद्ये इत्यत्राह ।।परा ैवापरा ेति ।।परमपरमिति ज्ञानं द्विविधमित्यर्थः । तत्र सूीकटाहन्यायेना परज्ञानस्वरूपमाह ।।तत्रापरा ऋुग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराणन्यायमीमांसा धर्मशास्त्रणीति ।।षडंगोपेतसशिरस्कसोपबृंहणवेदश्रवणजन्यपरोक्षज्ञानमित्यर्थः । अपरविद्यामुक्त्वापर विद्यामाह ।।अथ परा यथा तदक्षरमधिगम्यते ।।अत्र त्छब्दःइति ह स्म यद् ब्रह्मविद इति य्छब्दप्रतिनिर्देशकः । येन ज्ञानेन इति ह स्म यद् ब्र्रह्मविद इति वाक्ये प्राप्यतया निर्दिष्टम् । तदक्षरमधिगम्यतेआधिक्येन गम्यते । अपरोक्षी क्रियत इत्यर्थः । विवेकादिसाधनसप्तकजन्यं श्रवणजन्यज्ञानानंतर्भाविदर्शनसमानाकारं परज्ञानमित्यर्थः । एतेनाधिगम्यत इत्यस्य ज्ञायत इति वा प्राप्यत इति वा अर्थस्याश्रयणीयतया परविद्याया एव ब्रह्मविषयत्वब्रह्मप्राप्तिहेतुत्वयोः सिध्याऽपरविद्याया ब्रह्मविषयत्व ब्रह्मप्राप्तिहेतुत्वयोरभावेनापरविद्याया अपि ब्रह्मप्राप्तिहेतुत्वप्रतिपादकभाष्यासंगतिः । किं परविद्याया अपरोक्षज्ञानरूपत्वे प्रमाणानुपलंभादपरोक्षत्वप्रतिपादकभाष्यस्याप्यसंगतिरिति दूषणं परास्तम् । अधिगम्यत इत्यस्यापरोक्षीक्रियत इत्यर्थकत्वात् । नन्वेतदुपबृंहणे श्रीविष्णुपुराणे “द्वे विद्ये वेदितव्ये वै” (विष्णु पु.6.7.67) इति ाथर्वणी श्रुतिः परयात्वक्षर प्राप्तिऋग्वेदादिमयाऽपरेति । अधिगम्यत इत्यस्य प्राप्त्यर्थतपोपबृंहितत्वात् कथमिदमु्यत इति ेन्न । यद्युपबृंहणानुसारेण प्राप्त्यर्थकतया व्याख्यातव्यमिति निर्बंधः । तर्हीति ह स्म तद्ब्रह्मविदो वदंतीति पूर्ववाक्ये परापरविद्ययोर्द्वयोरपि ब्रह्मप्राप्तिहेतुत्वस्य कथितत्वेन यया तदक्षरमधिगम्यते । ते इत्यस्यापरविद्याव्यावर्तकत्वाभावप्रसंगेन तद्व््यावर्तकत्वार्थं साक्षादिति पदमध्याहृत्य यया साक्षादक्षरमधिगम्यते प्राप्यते सा पराविद्येत्यस्तु । अपरोक्षत्वं तु अर्थाल्लभ्यते । श्रुत्यंतरे “निाय्य तन्मृत्युमुखात्प्रमु्यते” “तस्मिन्दृष्टे परावरे” इत्यादिदर्शनादिति दृष्टव्यम् । ननु “स्वाध्यायस्य तथात्वेहि” (ब्र.सू.3.3.3) इतिसूत्रे तेषामेवैतां ब्रह्मविद्यां वदेतेत्युपसंहारगत ब्रह्मविद्याशब्दस्य ब्रह्मविद्यां वेदविद्यामित्युपनिषत्परतया भाष्यकृता व्याख्यातत्वात् “येनाक्षरं पुरुषं वेद सत्यं प्रोवा तां तत्वतो ब्रह्मविद्या”मिति द्वितीयखण्डगतब्रह्मविद्याशब्दस्यापि तत्परत्वौित्यादुपक्रमे ब्रह्मविद्यां सर्वविद्याप्रतिष्ठा मथर्वायज्येष्ठपुत्राय प्राहेत्युक्तिकर्मतया श्रूयमाणाया ब्रह्मविद्याया उपनिषद्ग्रंथरूपत्वस्यैवौ ित्यात् । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः इत्यत्र ऋग्वेदादिशब्दानां तज्जन्यज्ञान लक्षणाया अयुक्तत्वेन विद्याशब्दस्यैव ग्रंथपरत्वाश्रयणस्य युक्तत्वात्परविद्या शब्देनापि साक्षाद्ब्रह्म प्रापकोपनिषद्भाग एवाभिध्यातुमुितः । ततश् परोक्षापरोक्षरूपज्ञान परत्वेन युक्तिं पश्याम इति ेत् । अत्रो्यते । यदि परविद्याशब्देनोपनिषद्ग्रंथसंदर्भविशेषः प्रतिपाद्यः ऋुग्वेदादिशब्दैर्मुख्यया वृत्त्या ऋुग्वेदादय एव प्रतिपाद्यास्तर्हि ब्रह्मप्रतिपादकोपनिषदां ऋुग्वेदादिबहिर्भावप्रसंगेन “या वेदबाह्याः स्मृतयः” इत्युक्तरीत्या सदर्थत्वमेव स्यात् । ऋुग्वेदादिशब्दानां मुख्यार्थत्व माश्रितवद्भिरपि पैररुपनिषदां वेदबाह्यत्वप्रसंगात्परवद्या शब्दो ज्ञानवाीति व्याख्यातम् । इयांस्तु विशेषः । परमते द्वे विद्ये वेदितव्ये इत्यत्र सकृत्प्रयुक्त एव विद्याशब्दो सत्यपि साधारणे प्रवृत्तिनिमित्ते ऋग्वेदादिग्रंथसंदर्भलक्षणमपरविद्यां ब्रह्मज्ञानलक्षणां परविद्यां व्यनक्ततिदोषोऽस्ति । अस्मन्मते स नास्ति । किं परव्याख्याने ऋुग्वेदादिवेद्यविलक्षणत्वाद्ब्रह्मणो “वेदैश्सर्वै रहमेववेद्य”इति स्मृतिः पीड्येत । अत ऋग्वेदादिजन्यज्ञानं ब्रह्मविषयकमेवेत्येव युक्तम् ।अतः परापरज्ञानशब्दितपरोक्षापरोक्ष ज्ञानविषयत्वं ब्रह्मण एवेति भाष्यकारीयारीतिरेव साधीयसी ।।यत्तदद्रेश्यमग्नाह्यमगोत्रमवर्णमक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यंति धीराः ।।अद्रेश्यम् -अदृश्यम् । ज्ञानेंद्रियाविषयम् । अग्राह्यंपाण्यादिकार्य्यहानोपादानद्यविषयम् ।अगोत्रंकुलरहितम् । अवर्णमपेतब्रह्मक्षत्रादिकम् । अक्षुःश्रोत्रं -ज्ञानेंद्रियरहितम् । तत्प्रसिद्धम् ।अपाणिपादं -कर्मेन्द्रियरहितम् । नित्यंकालापरि्छिन्नम् । विभुं देशापरि्छिन्नं ।सर्वगतंसर्वेष्वंतः प्रविश्यावस्थितम् । तत्र हेतुमाह । सुसूक्ष्ममित्युक्तविशेषणविशिष्टं यत्तदव्ययम् ।अथ परा यया तदक्षरमित्यत्राक्षरशब्दनिर्दिष्टमित्यर्थः । यद्भूतयो निं परिपश्यंति धीराः – प्रज्ञाशालिनः । यत्सर्वंभूतोपादानतया पश्यन्तीत्यर्थः । योनिशब्दस्योपादानवनत्वम् । “यथोर्णनाभिः सृजते गृह्णते ” (मुण्ड.1.1.7) इति वाक्यशेषादवगम्यत इति प्रकृत्यधि करणे (ब्र.सू.1.4.23) भाषितम् । ननु भूतयोनिशब्दनिर्दिष्टं सर्वोपादानत्वं ब्रह्मणो न संभवति । घटादिषु मृदादेरेवोपादानत्वदर्शनेन ब्रह्मण उपादानत्वासंभवादित्याशङ्क्य मृदादिष्वपि ब्रह्मण आत्मतया व्याप्तत्वान्मृदादिरूपस्य ब्रह्मण उपादानत्वेनानुपपत्तिरित्यभि प्रयन्नाह ।यस्मात्परं नापरमस्ति किं ित् ।।अत्र पराशब्द उत्कृष्टवनः । अपरशब्दोऽन्यवनः । यस्मादन्यदुत्कृष्टं नास्तीत्यर्थः । नात्र परापरयोर्द्वयोरपि निषेधः । तथासति नञः सकृ्छ्रुतस्यावृत्तिप्रसंगात् ।।यस्मान्नाणीयो न ज्यायोऽस्ति कश्ित् ।।अणोरणीयान्महतो महीयानिति भावः । अणीयस्त्वं सूक्ष्मत्वं व्यापित्वमिति फलति । ज्यायस्त्वं सर्वेश्वरत्वं सर्वव्यापित्वात् । सर्वेश्वरत्वादस्यैवैतद्वयतिरिक्तस्य कस्याप्यणीयस्त्वं ज्यायस्त्वं नास्तीत्यर्थ इतिवेदार्थसंग्रहव्याख्यातम् । कश्िदिति लिंगव्यत्ययश्छादंसः ।।वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः ।।नंतव्यवस्त्वभावाद्वृक्ष इवाप्रणतस्वभावः सन् यः प्रधानभूतः परमपद आस्त इत्यर्थः ।।तेनेदं पूर्णं पुरुषेण सर्वम् ।।नियमनाद्यर्थमंतःप्रविष्टेन सर्वमिदं व्याप्तमित्यर्थः । अतश् मृदादिशरीरकस्य ब्रह्मणो घटादावप्युपादानत्वसंभवाद्भूतयोनित्वं नानुपपन्नमिति भावः । अयं मंत्रः केषुित्कोषेषु दृष्टः कैश्िदव्याकृतस्तथापि व्यासार्यैरक्षरपुरुषस्य यस्मात्परं नापरमस्तीति समाभ्यधिक निषेधश्ोप क्रमादवगत इत्यभिहितत्वात् न प्रक्षेपशंकार्ह इति द्रष्टव्यम् । ननु लोके उपादानस्य स्वभिन्ननिमित्तकारणसापेक्षत्वदर्शनादेकविज्ञानेन सर्वविज्ञानमनुपपन्नम् । किं एकस्य ब्रह्मणः परस्परविरुद्धानन्तप्रपंोपादानत्वमपि न संभवति किं । घटाद्युत्पत्तावु पादानरूपमृत्पिंडादिषु पूर्वावस्थोपमर्दो दृश्यते । प्राकारोपादानभूतास्विष्टकासु तुरस्रत्वादिलक्षणपूर्वाकारतिरोधानं दृश्यते । अक्षरशब्दितस्य निर्विकारस्य ब्रह्मणः पूर्वाकारोपमर्दतिरोधानयोरसंभवेनोपादानत्वं न संभवतीत्याशङ्क्याह ।।यथोर्णनाभिः सृजते गृह्णते ।।”यथोर्णनाभिर्हृदयादूर्णां संतत्यवक्रतः । तया विहृत्य भूयस्तां ग्रसत्येवं जनार्दनः।। ”इत्युक्तरीत्या यथालूताख्यकीटविशेषस्य स्वांतः स्थिततंतुनिस्सारणतत्प्रवेशनयोर्निरपेक्षकर्तृत्वम् ।।यथा पृतिव्यामोषधयः संभवन्ति ।।यथैकस्यामेव पृथिव्यां पूर्वावस्थोपमर्दतिरोधानाभावेऽपि विलक्षणानन्तौषध्यु पादानत्वम् ।।यथा सतः पुरुषात्केशलेमानि ।।यथा जीवतः पुरुषस्याेतनकेशलोमाद्युपादानत्वम् ।।तथाक्षरात्संभवतीह विश्वम् ।।एवमेवनिमित्तांतरनिरपेक्षादुपादेयविलक्षणान्निर्विकारात्परमात्मनः परस्परविलक्षण ेतनाेतनात्मकं निखिलं जगत्संभवतीत्यर्थः । ब्रह्मणो विश्वोत्पत्तिप्रकार उ्यते ।।तपसा ीयते ब्रह्म ।।तपसा ज्ञानेन “यस्य ज्ञानमयं तप इति वक्ष्यमाणत्वात् । ीयते उपीयते । बहुस्यामिति संकल्परूपेण ज्ञानेन ब्रह्म सृष्ट्युन्मुकं भवतीत्यर्थः ।ततोऽन्नमभिजायते ।।”अद्यतेऽत्ति भूतानि” इति भोग्यभोक्तृरूपेतनाेतनसंघात लक्षणमव्याकृतं पर स्माद्ब्रह्मणो जायत इत्यर्थः ।अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु ामृतम् ।।तस्मात्मसमष्टिरूपिदित्संघातात्मकादन्नशब्दितादव्याकृतात् मुख्यप्राणः अंतःकरणंसत्यशब्दितो भोक्तृवर्गः स्वर्गादयो लोकाः कर्मसु श्रायतममृतं ामृतत्वसाधनं कर्मेति यावत् ।अथवा कर्मस्विति निर्धारणे सप्तमी । कर्ममध्ये मोक्षार्थं कर्मेत्यर्थः । तद्वारा एतत्सर्वमभिजायते इति पूर्वेणान्वयः । एतत्सर्वं भाष्यश्रुतप्रकाशिकयोः स्पष्टम् । पूर्वमंत्रोक्ततपः शब्दं विवृण्वन् भूतयोनिभूतस्य ब्रह्मणः सृष्ट्युपकरणसार्वज्ञ्यं दर्शयति ।।यस्सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।।सर्वज्ञःसर्वविषयकज्ञानवान् । सर्ववित्-तद्वस्तुगतसर्वप्रकारज्ञानवान् । स्वरूपतः प्रकारतश्सर्वविषयकज्ञानवत्वमस्मिन्मंत्रे भूतयोनेर्विधेयम् । अप्राप्तत्वात् “यस्य ज्ञानमयं तपः” इत्यनेनांशेन पूर्वमंत्रोक्ततपश्शब्दविवरणम् । यस्य ब्रह्मणः संकल्परूपज्ञानव्यतिरेकेण जगत्सृष्ट्युपयुक्तं कर्मान्तरं नास्तीत्यर्थः । ततोऽन्नमभिजायत इत्यादिकमनुवदति ।।तस्मादेतद्ब्रह्म नामरूपमन्नं जायते ।।तस्मात्संकल्पेन सृष्ट्युन्मुखात् ब्रह्मणः “ततोऽन्नमभिजायते” इत्यत्रान्नशब्दनिर्दिष्टमेतदव्याकृताख्यं ब्रह्म साक्षाज्जायते । तद्वारा नामरूपवत् । अद्यतेऽत्ति भूतानीत्यन्नशब्द निर्दिष्टभोग्यभोक्तृरूपं जायत इत्यर्थः । यद्यप्यस्मिन्मंत्रेसर्वज्ञत्वाद्यनुवादेन ब्रह्मशब्दिता व्यक्तादिहेतुत्वं विधीयत इति प्रतिभाति । तथापि तस्य पूर्वमंत्रप्राप्तस्य विधेयत्वासंभवादप्राप्तस्य सर्वज्ञत्वस्यैव विधेयत्वमिति द्रष्टव्यम् । ननु सर्वज्ञसर्ववि्छब्दयोरपौनरुक्त्याय सर्वज्ञशब्दस्य रूढिरभ्युपगंतव्या “कृशानुरेताः सर्वज्ञः” इति निघंटुपाठे सर्वज्ञशब्दस्योमापतौ रूढत्वात् । तस्मात्सर्वविदो देवतांतरान्निमित्तभूतात्तपसा ीयते ब्रह्मेति पूर्वमंत्रनिर्दिष्टमेतत् ब्रह्म नामरूपमन्नं जायत इत्युपादानभूताद्ब्रह्मणो निमित्तस्येश्वरस्य भेद एव प्रतीयत इतिेन्न “यःसर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः” इति तपसा ीयमानतया पूर्वमंत्रनिर्द्दिष्टस्याक्षर ब्रह्मण एव सर्वज्ञत्वसर्ववित्त्वयोः प्रतीत्या तयोर्भेदासंभवान्निमित्तोपादानभेदविवक्षायामेक विज्ञानेन सर्वविज्ञानासंभवेन “कस्मिन्नु भगवोविज्ञाते सर्वमिदं विज्ञातं भवती”ति प्रश्नस्य प्रतिवानासंभवेन प्रतिपिपादयिषित प्रधानार्थविरोधप्रसंगादित्यलमतिप्रसङ्गेन । प्रथमखंडः ।तदेतत्सत्यम् ।।नित्यम् -उत्पत्तिविनाशादिषड्भावविकारशून्यमित्यर्थः ।।मंत्रेषु कर्माणि कवयो यान्यपश्यन् ।।अतीन्द्रियार्थसाक्षात्कारसमर्थावेदेषु यान्यग्निहोत्रादिकर्माणि दृष्टवंतः ।।तानि त्रेतायां बहुधा सन्ततानि ।।गार्हपत्यादिवैतानिकाग्निषु यावज्जीवं कर्तव्यतयाधिकारिमंत्रफलभेदेन बहुधा विहितानि ।।तान्यारत नियतं सत्यकामाः ।।स्वतःसत्यं परंब्रह्मैव कामयमानाः । फलभिसन्धिरहितास्संत इत्यर्थः । तानि कर्माण्यारत ।अनुष्ठितकर्मणां ब्रह्मप्राप्तिहेतुत्वं ज्ञानद्वारेतिद्रष्टव्यम् । अमुमुक्षून् प्रत्याह ।।एष वः पंथाः सुकृतस्य लोके ।।पुण्यफलभूते लोके तु वक्षमाणो मार्ग इत्यर्थः ।।यदा लेलायते ह्यर्िःसमिद्धे हव्यवाहने ।।यथेंधनादिभिर्दीपिते अग्नौ यस्मिन्काले ज्वाला लति ।।तदाज्यभागावंतरेणाहुतीः प्रतिपादयेत् ।।तस्मिन्काल आज्यभागयोर्मध्ये आहुतीः प्रक्षिपे्छद्धया तत्सुहुतं भवेदित्यर्थः ।।यस्याग्निहोत्रमदर्शपौर्णमासमनाग्रयणमत्तिथिवर्ज्जितं ाहुतमवैश्वदेवम श्रद्धया अविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ।।दर्शाख्यपौर्णमासाख्येष्ट्यननुष्ठाने नवान्नस्वीकारार्थं शरत्कालकर्तव्याग्रयणाख्येष्टि विशेषाननुष्ठानेऽतिथिसत्कारोपासनहोमवैश्वदेवाननुष्ठाने श्रद्धावैधुर्य्येण यथाशास्त्रमननुष्ठानेऽथ वानुष्ठितमप्यग्निहोत्रकर्म तस्य सुकृतफलं सर्वं सप्तपुरुषपर्यंतं नाशयतीत्यर्थः । यद्यप्यग्निहोत्रस्य न दर्शपौर्णमासादिकमंगं तेषां पृथक्फलकत्वात् । तथापि नित्यनैमित्तिकं सकलं कर्मानुष्ठेय मित्यत्र तात्पर्यम् । अत एव भगवता भाष्यकृता श्रुतिस्मृतिोदितेषु कर्मसु एकतरवैधुर्येऽपीतरेषा मनुष्ठितानामपि निष्फलत्वमयथानुष्ठितस्याननुष्ठितसमत्वं ाभिधायेति मंत्रार्थो विवृतः ।।काली कराली मनोजवा सुलोहिता या सुधूम्रवर्ण ।स्फुलिंगिनी विश्वरु देवी लोलायमाना इति सप्तजिह्वाः ।।देवीत्येतद्विश्वरु्यादिविशेषणम् । इति लोलायमानाःसप्तजिह्वा इत्यन्वयः ।।एतेषु यश्रते भ्राजमानेषु यथाकालं ाहुतीराददायन् ।।एतेषु दीप्यमानेषु अग्निजिह्वाभेदेषु विहितकालानतिलंघनेन होमद्रव्यं गृहीत्वा योऽग्निहोत्रादिकर्मारति ।।तं नयंत्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ।।अधिवसतीत्यधिवासः यस्मिन्सत्यलोके देवानां पतिरनवधिकः समानो हिरण्यगर्भ आस्ते तत्राहुतयः सूर्यरश्मयो भूत्वा तं यजमानं प्रापयन्तीत्यर्थः ।।एह्येहीति तमाहुतयः सुवर्सः सूर्य्यस्य रश्मिभिर्यजमानं वहंति ।प्रियांवामभिवदंत्योर्यंत्यः एष वःपुण्यः सुकृतो ब्रह्मलोकः ।।सूर्यस्यरश्मिसंपृक्ता अत एव सुवर्सः आहुतयस्तं यजमानमर्यंत्यः सुकृतसाध्यः पावन एष तुर्मुखलोको भवदीयःभवत्स्वामिकः । ईदृशीं प्रियां वां वदन्त्य एहि एहीत्याह्वयंत्यस्तं यजमानं बह्मलोकं प्रापयन्तीत्यर्थः । एवं ब्रह्मलोकपर्यन्तसाधनान्यपि कर्माणि क्षयिफलतया निंद्यंते ।।प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।।षोडशर्त्विक्पत्नीयजमानरूपाष्टादशकर्त्राश्रितत्वेनोक्तमवरफलाभिसन्धिमत्तयाऽश्रेष्ठं कर्म येषु यजमानेषु वर्तते । ते यज्ञप्रधानाः पुरुषाः जीर्णनौका इव संसारार्णवसंतरणा समर्था इत्यर्थः । यद्वा अष्टादशस्मृत्युक्तं स्मार्त्तं कर्म येषु श्रौतकर्मसु तदधिकारसंपादकत्वेना वरमंगभूतंभवति । तान्यपि श्रौतानि यज्ञात्मकानि कर्माणि शोकांबुधितरणे साधनानि न भवंतीत्यर्थः ।।एत्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापियन्ति ।।एतत्कर्म श्रेयःसाधनं मत्वा ये दृष्यंति । ते जरां मृत्यु भूयो भूयो्छंति ।।अविद्यायामंतरे वर्तमानाः स्वयं धीराः पंडितं मन्यमानाः ।।अविवेकप्रधानाः स्वयमेव धीमंत ऊहापोहक्षमा धीशालिन इति मन्यमनाः ।।जंघन्यमानाः परियंति मूढाः ।।जरारोगाद्यनेकानर्थव्रातैः भृशं हन्यमाना मूढाः परिभ्रमंति ।।अन्धेनैव नीयमाना यथान्धाः ।।स्पष्टोऽर्थः । एतदेव विशदयति ।।अविद्यायां बहुधा वर्तमानाः ।।प्रकृतिमंडले देवमनुष्यादि बहुधाभिमानितया वर्तमानाः अज्ञानिनः ।।वयं कृतार्था इत्यभिमन्यन्ति बालाः ।।वयमेव कृतार्था इत्यभिमानं कुर्वंति ।।यत्कर्मिणो न प्रवेदयंति रागात् ।।कर्मफलस्वर्गादि रागात् कर्ममूढास्तत्वं यतो न जानंति ।।तेनातुराः क्षीणलोकाश््यवन्ते ।।तत्वज्ञानाभावादेव हेतोः क्षीणे पुण्ये मर्त्यलोकं विशन्तीत्यर्थः ।।इष्टापूर्तं मन्यमाना वरिष्ठम् ।।इष्टं -यागादि पूर्तं खातादि एतदेवाखिलपुरुषार्थसाधनं मन्यमानाः ।।नान्य्छ्रेयो वेदयंते प्रमूढाः ।।श्रेयोन्तरं न जानंतीत्यर्थः ।।नाकस्य पृष्ठे सुकृतेन भूत्वा इमं लोकं हीनतरं वा विंशति ।।ते सुकृतसाध्ये स्वर्गलोकोर्ध्वलोके कर्मफलमनुभूय इमं लोकं ततोप्यवरतरं वा नरकादिलक्षणं विशन्ति ।।तपः श्रद्धेये ह्युपवसन्त्यरण्ये शांता विद्वांसो भैक्षर्यां रन्ति ।सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ।।ये संन्यासिनः कृतश्रवणमनना वने स्थित्वोपरतकरणग्रामास्तपःशब्दितं ब्रह्म तदादरातिशयरूपां श्रद्धां ये सेवंते ते अवधूतपापाः सूर्यमंडलं भित्त्वा “सहस्रस्थूणे विमिते दृढउग्रे यत्र देवानामधिदेव आस्ते” इति पर्यंकविद्यादिप्रमाणप्रतिपन्नो हेयप्रत्यनीकः । सदैकरूपरूपायेति प्रमाणप्रतिपन्ननित्यविग्रहयुक्तो यत्रास्ते तत्र यान्तीत्यर्थः । ये ेमेऽरण्ये श्रद्धातप इत्युपासते” (छां.1.10.1) इत्यत्र तपः-शब्देन ब्रह्मो्यते । बृहदारण्यके “श्रद्धां सत्य”मित्युपासत इति तपश्शब्दस्थाने सत्यशब्दप्रयोगात् सत्यशब्दस्य ब्रह्मपरत्वादिति व्यासार्यै रुक्तत्वात्तपः शब्दो ब्रह्मपरः । विरक्तस्य परब्रह्मप्राप्तिसाधनज्ञाने्छोर्गुरूपसदनं विधीयते ।।परीक्ष्य लोकान् कर्मितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।तद्विज्ञानार्थं स गुरुमेवाभिग्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।तस्मै विद्वानुपसन्नाय सम्यक्प्रशांतित्ताय शमान्विताय ।येनाक्षरं पुरुषं वेद सत्यं प्रोवातां तत्वतो ब्रह्मविद्याम् ।।अस्मिन्वाक्ये न्यायसिद्धार्थानुवादेन गुरूपसत्तिर्विधीयते कर्मितान्कर्मसंपाद्यान् लोकान् परीक्ष्य मीमांसान्यायैर्निरूप्य ब्राह्मणोऽधीत सांगसशिरस्कवेदः य इत्यध्याहार्यं स इत्युत्तरत्र श्रवणात् । अतो नित्यः अत्र पुरुषो विशेष्यः लिंगवशादक्षरं पुरुषमित्यनंतरोक्तेश् । कृतेन कर्मणा नास्ति न सिध्यति न लभ्यत इतीतिकरणं द्रष्टव्यमिति यो निर्वेदमायासतद्विज्ञानार्थं गुरुमेवाभिग्छेत् । एवकारेण नियमविधित्वमवगम्यते । समित्पाणिः न रिक्तपाणिः “रिक्तपाणिस्तु नोपेयाद्राजानं “दवतं गुरुमि”तिस्मर्यते । श्रोत्रियं -श्रुतवेदांतम् । ब्रह्मनिष्ठं ब्रह्मसाक्षात्कारवंतम् । श्रुतवेदांतोपि रुिभेदादब्रह्मनिष्ठोनोपगंतव्य इति भावः । अभिग्छेदित्यन्वयः । शमो-बाह्येंद्रियनियमनरूपः । प्रशान्तित्तायेत्यंतः करणनिय मनस्योक्ततयापारिशेष्यात् । एतेन श्रवणोपयुक्तमवधानं विवक्षितं न तूपासनोपयुक्तात्यंतेंद्रिय जयादि स तस्मै विद्वान् प्रोवाेत्वन्वयः । येनेति निर्देशो विज्ञानाभिप्रायः । तद्विज्ञानार्थमिति प्रकृतं सामान्यंतः करणाभिप्रायेण वा लिंगव्यत्ययेन वा अक्षरम् -स्वरूपेणाविकारं सत्यं -गुणतोप्यविकारम् । आभ्यामिज्जीवव्यावृत्तिः तां ब्रह्मविद्यां प्रोवा प्रब्रूयादित्यर्थः इति वेदांतसारे व्याख्यातम् ।।तदेतत्सत्यम् ।पूर्ववत् ।।यथा सुदीप्तात्पावकाद्विस्फुलिंगाः सहस्रशः प्रभवंते सरूपाः ।।अयोगोलकादिगताद्धन्यमानाद्वा वेश्मादिषु सुदीप्ताद्वा पावकादनेकशः स्वरूपा विस्फुलिंगा यथोत्पद्यंते ।।तथाक्षराद्विविधाः सोम्य भावाः प्रजायंते तत्र ैवापियन्ति ।।एवमेव िदि्छरीरादक्षराद्ब्रह्मणः तत्स्वरूपा नानाविधस्थूलिदिद्रूपा भवंतीति भावः । कार्यवर्गा उत्पद्यंते तत्रैव लीयन्ते ।।दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यंतरो ह्यजः ।अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ।।पूर्वत्र वृक्ष इवस्तब्धो दिवितिष्ठत्येक इति द्युसंबन्धित्वेन तदपाणिपादमिति वा नित्यं विभुमिति वा अमूर्तत्वेन तेनेदं पूर्णं पुरुषेण सर्वमिति बाह्याभ्यंतरसर्वस्त्वात्मतया अक्षुः श्रोत्रमित्यनिंद्रियत्वेन प्राणमनः शून्यतया येनाक्षरं पुरुषं वेद सत्यमिति विकाररूपदोषशून्यतयाशुभ्रशब्दितश् यः स अव्याकृतादक्षराद्यःपरः समष्टिरूपः पुरुषस्तस्मादपि कारणत्वेन पर इत्यर्थः ।प्रधानपुरुषयोस्तज्जन्यत्वादिति भावः । अक्षरात्परत इत्यत्राक्षरशब्दः अश्नुते इति वा न क्षरतीति वा व्युत्पत्त्या स्वविकारव्यापके नामांतराभिलापयोग्यक्षरणाभाववत्यव्याकृते वर्तते न तुभूतयोन्यक्षरे भूतयोन्यक्षरस्य स बाह्याभ्यंतर इत्यत्र त्छब्दनिर्दिष्टस्य तस्मादेव परत्वासंभवात् ।न हि तस्यैव ततः परतः परत्वं संभवति विरोधात् । न ाक्षरात्परत इति पंम्योः सामानाधिकरण्यमेवास्तु । ततः स्वविकारापेक्षया परभूतादव्याकृतात्पर इत्येवास्तु । न तु अव्याकृतादक्षरात्परभूतात्समष्टिभूतात्पर इति वा्यम् । परशब्दस्य प्रतियोगिसापेक्षत्वेनाक्षर शब्दस्य परत्वावधिसमर्पकत्वस्यैव युक्तत्वान्न हि देवदत्तादुत्पन्नाद्भयमित्यत्र पंम्योःसामानाधिकरण्यप्रतीतिरस्ति । अतो यथोक्त एवार्थः विश्वसृष्टिमेव प्रपञ्यति ।।एतस्माज्जायते प्राणो मनः सर्वेंद्रियाणि ।।स्पष्टोऽर्थः ।।खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारणी ।।खमाकाशो ज्योतिस्तेजो विश्वस्य कृत्स्नस्य धारिणीति पृथिवी विशेषणम् ।।अग्निर्मूर्द्धा क्षुषी ंद्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश् वेदाः ।वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवीह्येषसर्वभूतान्तरात्मा ।।अमुं मंत्रं प्रस्तुत्य “स्मर्यमाणमनुमानं स्यात् (ब्र.सू.1.2.16) इत्यत्राग्निरिह द्युलोकः “असौवाव लोकोग्नि”रितिश्रुतेः । स्मरंति मुनयः “द्यांमूर्द्धानं यस्य विप्रावदन्ति खं”वैनाभिं ंद्रसूर्यौ नेत्रे दिशः श्रोत्रे विध्दिपादौ क्षितिं सोऽिंत्यात्मा सर्वभूतप्रणेतेतिभाषितम् ।वाग्विवृता वागिंद्रियव्यापारा एव वेदा वायुः प्राणः महावायुरेव देहधारकः प्राणःजगत्सर्वमस्य देहांतर्वर्तिहृदयाख्यं मांसविशेषः । पद्भ्यांपृथिवी पादावेव पृथिवीत्यर्थः । “प्रकृत्यादिभ्यउप संख्यानम्” (अष्टा.2.3.8.वार्ति) इतितृतीया । सर्वभूतानां त्छरीरत्वात् सर्वेषामं तरात्मेत्यर्थः ।।तस्मादग्निः समिद्धो यस्य ।।इत्यादि ।।

error: Content is protected !!