॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
अक्षराधिकरणम्
अक्षरमंबरांतधृतेः (ब्र.सू. 1.3.9)बृहदारण्यके पंचमाध्यायेऽष्टमे गार्गीब्राह्मणे ।।सा होवाच अहं वै वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वा उग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवंतौ शरौ सपत्नातिव्याधिनौ हस्ते धृत्वोपोत्तिष्ठे देवमेव त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति ।।काशीदेशभवो विदेहदेशभवो हि शूरवंश्यः उत्सृष्टज्यं धनुः पुनरधिज्यं कृत्वा द्वौ बाणवंतौ बाणशब्देन शराग्रे यःसोऽभिधीयते सपत्नातिव्याधिनौ सपत्नात्यन्तव्यथनशीलौ शरौ हस्ते गृहीत्वा सपत्नसमीपं गच्छति । एवमेवाहंद्वाभ्यां प्रश्नाभ्यामुपस्थितास्मि । उपोदस्थाम् लुङि “गातिस्थाधुपाभूभ्यः (अष्टा.2.4.77)” इति सिचो लुक् । तौ मे ब्रूहीत्येवमुक्त आह याज्ञवल्क्यः ।।पृच्छ गार्गीति सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदर्वाक्पृथिव्या यदंतरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ।।दिवो यदूर्ध्वं लोकजातं पृथिव्याश्चाधस्तनं यद्वस्तुजातं द्यावापृथिव्यंतरालवर्तिकालत्रय परिच्छिन्नं यद्वस्तुजातमेतत्सर्वं कुत्र वा दीर्घतंतुवदोतं तिर्यक्तंतुवत्प्रोतं चेति । यदर्वाक् पृथिव्या इति पाठेऽप्ययमेवार्थः ।।स होवाच यदूर्ध्वं गार्गि दिवो यदर्वाक्पृथिव्या यदंतरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ।।आकाशशब्देन न वायुमदंबरं गृह्यते तस्य सर्वविकाराश्रयत्वाभावात् । किंतु अव्या कृताकाशः। एतच्च “अक्षरमंबरांतधृतेः(ब्र.सू. 1.3.9)” इत्यत्र स्थितम् ।।सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः । अपरस्मै धारय स्वेति ।।यस्त्वं म एते प्रश्नं व्यवोच उक्तवानसि तस्मै ते नमोऽस्तु अपरस्मै द्वितीयप्रश्नायावधानं कुरु स होवाच ।पृच्छ गार्गीति । सा होवाच यदूर्द्धं याज्ञवल्क्य दिवो यदर्वाक् पृथिव्य यदंतरा द्यावा पृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं चेति ।।य आकाश उक्त इति शेषः ।कस्मिन्नु खल्वाकाश आेतश्च प्रोतश्चेति ।।सोऽव्याकृताकाशः किमाश्रित इत्यर्थः ।।स होवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनष्व ह्रस्वमदीर्घम लोहितमस्नेहमच्छायम तमोवायुरनाकाशमसंगमरसमचक्षुष्कमश्रोत्रमवागमन अतेजस्कम प्राणममुखममात्रमनंतरमबाह्यं न तदश्नाति किंचन न तदश्नातिकश्चन ।।हे गार्गि तदेतत्सर्वासूपनिषत्सु प्रसिद्धम् । अश्नुत इति वा नक्षरतीति वा अक्षरं ब्रह्मब्राह्मणा ब्रह्मविदःअभिवदन्ति । अत्र ब्राह्मणाभिवदनकथनेन नाहं किंचिद्विप्रतिपन्नं वक्ष्यामीति हृदयम् ।अस्थूलंस्थूलभिन्नम् । तर्हिकिमण्वितितत्राह अनण्विति।तर्हिकिंह्रस्वमित्यतआह अह्रस्वमिति ।तर्हि किमदीर्घमित्यत्राह -अदीर्घमिति । एवमुत्तरत्रापि द्रष्टव्यम् । अमात्रम् ।मात्रा इन्द्रियाणि यद्वा मात्रा परिच्छेदस्तद्रहितमित्यर्थः । अनंतरमवाह्यं स्वाव्याप्तदेशशून्यमित्यर्थः ।नतदश्नातिकिंचन तदक्षरंकर्तृकिंचिदपिनाश्नाति । अवाप्तसमस्तकामतयाभक्ष्यनिरपेक्षमित्यर्थः ।स्वयं कस्यापि न भक्ष्यमित्याह न तदश्नाति कश्चनेति तद्ब्रह्मन अशनकर्म ।।एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचंद्रमसौ विधृतौ तिष्ठतः ।।वै शब्दोऽवधारणे प्रशासने आज्ञाचक्रेसूर्याचंद्रमसौ देवताद्वंद्वेच (अष्टा.6.3.25) इति पूर्वपदस्यानङ् । विधृतौ विशेषेण धृतौ तिष्ठतः प्रकृष्टं शासनं प्रशासनम् । क्वचिदप्यप्रतिहतत्व मेव शासनस्य प्रकर्षः । ततश्च सर्वविषयकं शासनमिति फलति “प्रशासितारं सर्वेषा”मिति प्रमाणानुसारात् । ततश्च सर्वविषयकशासनाधीनद्यावापृथिव्यादिधारणत्वमर्थ इति पर्यवस्यति । अत्र प्रधानस्य जगद्धारकत्वेऽपि प्रशासनाधीनधारकत्वाभावात् । जीवस्य प्रशासनाधीन यत्किंचिद्धारकत्वपि प्रशासनशब्दितसर्वविषयकशासनाधीन सर्वधारकत्वासंभवाच्च नात्र जीवो वा प्रधानं वा प्रतिपाद्यते । इदंच “सा च प्रशासनात् (ब्र.सू.1.3.10) इति सूत्रे स्पष्टम् ।।एतस्यावाक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्द्धमासा मासाऋुतवः संवत्सरा इति विधृतास्तिष्ठं तीति ।।इतिशब्दः प्रकारपरः संवत्सरा इत्येवं जातीयकाः कालविशेषा इत्यर्थः ।।एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यःस्यंदन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्याः यां यां च दिशमनु ।प्रशासन इति निमित्ते सति सप्तमी । प्राच्यः-प्राक्प्रवाहाः प्रसिद्धा गंगा द्यानद्यः श्वेतेभ्यो हिमवदादिभ्यः पर्वतेभ्यो लोकोपकाराय स्यन्दन्ते । तत्प्रशासनाभावे ताः स्यंदनाय न प्रभवन्तीति भावः । प्रतीच्यःप्रत्यङ्मुखाः । अन्या उदीच्यश्च नद्यः यां या दिशमनु ंप्रस्थितास्ताः सर्वा एतस्य प्रशासने सति स्यन्दन्ते ।।एतस्यवा अक्षरस्यप्रशासनेगार्गिददतोमनुष्याः प्रशंसन्तियजमानंदेवादर्वीपितरोऽन्वायत्ताः ।।एतस्य वा अक्षरस्य प्रशासने निमित्ते ददतस्तदाज्ञया दानं कुर्वतः आज्ञाकैंकर्यबुद्ध्या दानं कुर्वतो जनान् अन्वायत्ता अनुवशास्संतो मनुष्याः प्रशंसन्ति प्रशासन इत्येतद्यजमानं देवा दर्वी पितर इत्यत्रापि संबध्यते । अन्वायत्ता इति पदं देवमनुष्यपितृसाधारणम् । द्वितीयान्तपदानां प्रशंसन्तीत्यनेनान्वयः । परमात्माज्ञया यागं कुर्वतामन्वायत्ताः संतो देवाः प्रशंसन्ति । परमात्माज्ञया यागं कुर्वतामन्वायत्ताः संतो देवाः प्रशंसन्ति । परमात्माज्ञया प्रवृत्तां दर्वीहोममन्वायत्तास्संतः पितरः प्रशंसन्ति । एवमेव व्याख्यातं व्यासार्यैः ।।यो ह वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्ष सहस्राण्यंतवदेवास्य तद्भवति । यो वा एतदक्षरं गार्ग्यविदित्वास्माँल्लोकात् प्रैति स कृपणः ।।ब्रह्मज्ञानमंतरेण क्रियमाणं होमयज्ञतपादिकं बहुकालमपि साध्यं सर्वं नश्वरफलसाधनंभवति । तद्ज्ञानमंतरेण लोकान्तर्गतस्यापि शोच्यताभवति । तदज्ञानात्संसारोभवतीतियावत् ।।यो वा एतदक्षरं गार्गि विदित्वास्माँल्लोकात्प्रैति स ब्राह्मणः ।।ब्रह्मज्ञानवान् म्रियते स ब्रह्मवित् ब्रह्मानुभविता मुक्त इति यावत् । उक्तं च भगवता भाष्यकृता यो वा एतदक्षरं गार्गीत्येतद्व्याकुर्वता यदज्ञानात्संसारप्राप्तिः यज्ज्ञानाच्चामृतत्व प्राप्तिस्तदक्षरं परं ब्रह्मेति ।।तद्वा एतदक्षरं गार्ग्यदृष्ट्रं दृष्टश्रुतं श्रोत्रमतं मंत्रविज्ञातं विज्ञातृ ।।अयोगिभिरदृष्टं सत् द्रष्ट्टरूपादिसाक्षात्कर्तृ श्रोतृशब्दसाक्षात्कारकर्तृ । मंतृमंतव्य साक्षात्कर्तृ विज्ञातृ अध्यवसायसाक्षात्कर्तृ ।।नान्यदतोऽस्ति द्रष्ट्ट नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मंतृ नान्यदतोऽस्ति विज्ञातृ ।।अंतर्यामि ब्राह्मणोक्तरीत्यात्राप्यन्यपदस्य तत्सदृशपरत्वमेव । यथा चोल एव भूपतिर्नान्य इत्युक्तेस्तत्सदृशभूपतिनिषेधपरत्वमेवमिहाप्यद्रष्ट्टुत्वादिविशेषितनिरुपाधिकद्रष्ट्टुत्वाश्रयस्य परमात्मनः सदृशं किमपि नास्तीत्येवार्थः । यद्वैतदक्षरमन्यैरदृष्टं सत् स्वव्यतिरिक्तसमस्त साक्षिभूतम् । एवमनेनाक्षरेणादृष्टमेतस्याक्षरस्याधारभूतमेतस्य द्रष्ट्ट नास्तीत्यर्थः। पूर्वव्याख्याने समनिषेधः अस्मिंश्च व्याख्यानेऽधिकनिषेधश्च फलति । न च “नेह नानास्ती”तिवन्नान्य दतोऽस्ति द्रष्ट्रितिवाक्यस्याप्यब्रह्मात्मकवस्तुनिषेधपरत्वोपपत्तौ समाभ्यधिकनिषेधतया व्याख्यानं किमर्थमिति वाच्यम् । तद्वदत्रैक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैव युक्तत्वात् । उपसंहरति ।एतस्मिन्नु खल्वक्षरे गार्गि आकाश आेतश्च प्रोतश्चेति सा होवाच ब्राह्मणा भगवंतस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वम् ।।हे भगवंतो ब्राह्मणा यूयं तदेव बहुमन्येध्वं यदस्माद्याज्ञवल्क्यान्नमस्कारं कृत्वा मुच्येध्वमिति यन्मुक्ता भवतेति यदस्तीत्यर्थः । न कदाचिदस्य पराभवः शंकनीयः नमस्कारं कृत्वा मुक्ताभवतेत्यर्थः । मन्येध्वमिति लिङ्मध्यमबहुवचनम् ।।न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।।युष्माकं मध्य इमं याज्ञवल्क्यं कश्चिदपि ब्रह्मवादं प्रति जेता नास्तीत्यर्थः ।ततो ह वाचक्नव्युपरराम ।।वचक्नोरपत्यं वाचक्रवी गार्ग्युपररामेत्यर्थः ।।