॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
अपशूद्राधिकरणम्
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि (ब्र.सू.1.3.33)छांदोग्ये चतुर्थाध्यायारम्भे ।।जानश्रुतिर्हि पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ।।जनश्रुतस्या (तेर) पत्यं जानश्रुतिः । ह शब्दः प्रसिद्धौ । पुत्रसंज्ञस्य पुत्रःपौत्रः । तस्यापत्यं पौत्रायणः । श्रद्धापुरःसरं देयमस्य सः श्रद्धादेयः । अर्थिभ्यो बहुदातुं शीलमस्य स बहुदायी । बह्वस्य गेहेऽन्नं पक्तव्य स बहुपाक्यः आस।।स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यंतीति ।।स ह जानश्रुतिः सर्वत एत्यातिथयो ममान्नं भोक्ष्यंत इत्यभिप्रायेण सर्वासु दिक्षु ग्रामनगरमार्गारण्यादिषु पांथानामनाथानां शीतवातवर्षातपनिवारकान्नोदकशयनाच्छादनादि पूर्णाः शालाः कारितवानित्यर्थः ।।अथ ह हँसा निशायामतिपेतुः ।।एवं सति कस्यां चिद्रात्रौ केचन महात्मानोऽन्नदानादिगुणैस्तोषिताः हंसस्वरूपाः संतो राज्ञो दर्शनगोचरे आगताः ।।तद्धैवं हँसो हँसमभ्युवाद ।।तत्तस्मिन्काले तेषां हंसानां मध्ये एकः पृष्ठतो गछन्हंसः अग्नेगामिनं कंचनहंसमुवाच ।।भो भो हि भल्लाक्ष भल्लाक्ष । जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिरा ततं तन्माप्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीदिति ।।भो भो इति संबोध्य भल्लाक्ष भल्लाक्षेत्यनेन विपरीतलक्षणायां मंदलोचनेति संभ्रमेण द्विवारं संबोधनम् । समं दिवा स्वर्गेण समं दिवसेन समं वा । एतस्य तेजः प्रसृतम् । तस्मिंस्तेजसि मा सक्तो भूः । तत्तेजस्त्वां मा दहेत् ।।तमु ह परः प्रत्युवाच ।।एतज्जानश्रुतेः प्रशंसारूपं वाक्यमुपश्रुत्य तदसहमानः परो हंसःप्रत्युवाच ।।कम्वर एनमेतत्संतँ सयुग्वानमिव रैक्वमात्थेति ।।उ इत्यनर्थको निपातः ।कं संतं केन माहात्म्येन युक्तमेनं जानश्रुतिं सशकटं रैक्वमिवैतत्प्रशंसावचनं ब्रवीषि । रैक्व एव ब्रह्मज्ञो महाप्रभावः । अब्रह्मज्ञस्यास्य किं तेजः किं वा मां दहेदिति भावः । एवमुक्तः पश्चात्पतन् हंसः पृछति ।।यो नु कथं सयुग्वा रैक्व इति ।।य उक्तः स किंप्रकारक इत्यर्थः । इतर आह ।।यथा कृताय विजिताय अधरेऽयास्संयंत्येवमेनँ सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वंति ।।यथा लोके कृतनामा अयःद्यूतसमयप्रसिद्धश्चतुरंकायः । तत्र विजितं जयो यस्य सः कृताय विजितः पुरुषः अथवा विजितं विजयः तस्मा इत्यर्थः । तदर्थमितरे त्रिद्व्योकांकाः अधरे न्यूनाः अयाः संयंति संगच्छंते अंतर्भवंति । चतुरंके कृताये एकाकं द्यंकं त्र्यंकानां शतं सहस्रे संभवतीति न्यायेन विद्यमानत्वात् तत्रांतर्भवति । कृतांकविजयिनः एकांकादि जयोप्यस्तीति भावः । एवमेव हि लोके प्रजायच्छोभनं कर्मानुतिष्ठंतितत्सर्वमेनंकृतायस्थानीयरैक्वमभिसमेतिसंगच्छते । तत्कर्मणिसकलंशोभनकर्मांतर्गतमितियावत्।यस्तद्वेद यत्स वेद ।।स रैक्वः यद्वेद तदेवान्योऽपि । यःकश्चिद्वेद तज्ज्ञातमेवान्ये जानंति । तज्ज्ञाने सर्वज्ञानमंतर्गतमित्यर्थः ।।स मयैतदुक्तः ।।स तादृशो रैक्वो मयैतेन सयुग्वानमिव रैक्वमात्थेत्यनेनोक्त इत्यर्थः । वेदांताचार्यैस्तत्त्वटीकायामस्यार्थस्य प्रतिपादितत्वात् ।उक्तं च भगवता भाष्यकृता लोके यत्किंचित्साध्वनुष्ठितं कर्म यच्च सर्वचेतनगतं विज्ञानं तदुभयं यदीयज्ञानकर्मांतर्गतं स रैक्वइत्याहेति । यद्यपि व्यासार्यैर्लघुसिद्धांते “आवृत्तिरसकृदुपदेशात्” (ब्र.सू.4.1.1) इत्यत्र च यस्तद्वेद यो वदिता यत्स वेद यद्वेद्यं स मयैतदुक्तः । स वेदिता रैक्वस्तद्वेद्यं ब्रह्म चोभयं मयोक्तमित्यर्थ इत्युक्तम् । तदप्येतत्परमेव द्रष्टव्यम् । न तु प्रतीयमानार्थपरम् । यस्तद्वेद यत्स वेदेति वाक्यात्प्राचीने यथाकृताय विजितायाथरेयाःसंयंति एवमेनं सर्वं तदभिसमेति यत्किंच प्रजाः साधुकुर्वंतीति वाक्ये ब्रह्मप्रसक्तेरेवाभावेन वेदिता वेद्यं च तवोपदिष्टमित्यर्थस्यासंभवेन यस्तद्वेद यत्सवेदेति वाक्येन प्रतिपादनासंभवाद्भाष्यविरोधाच्चेति द्रष्टव्यम् ।।तदु हजानश्रुतिः पौत्रायण उपशुश्राव ।।तद्ब्रह्मज्ञानरहिततयाऽऽत्मनिन्दागर्भं तद्वत्तया च रैक्वप्रशंसारूपं वाक्यं शुश्राव ।।स ह संजिहान एव क्षत्तारमुवाच ।।स ह कथमपि निशामतिवाह्य तल्पं त्यजन्नेव क्षत्तारमुक्तवान् । “वैश्याद्ब्राह्मणकन्यायां क्षत्तानाम प्रजायते । जीविकावृत्तिरेतस्य राजांतःपुररक्षणम्” इत्युक्तरीत्या राजांतः पुररक्षकः प्रतिलोमजातिविशेषःक्षत्ता ।।अंगारे ह सयुग्वानमिव रैक्वमात्थेति ।। योऽनु कथं स युग्वा रैक्व इति यथाकृताय विजितायाधरेयाःसंयंति । एवमेनँ सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वंति यस्तद्वेद यत्स वेद स मयैदुक्त इति ।।अंग वत्सेति क्षत्तारं राजा संबोध्य रात्रावेवं हंसयोः सल्लापः समजनि इति रैक्वस्य चिह्नमुक्तवानित्यर्थः ।।स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय ।।सचक्षत्ताशकटलक्षणरैक्वचिह्नंस्मरन्ग्रामनगरादिकमन्विष्यनाज्ञासिषमितिप्रत्यागतवान् ।।तँ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छेति ।।ब्राह्मणस्य ब्रह्मविदो यत्र विविक्तेषु नदीपुलिनारामादिषु मार्गणं युक्तं तत्र गत्वा मार्गणं कुर्वित्युवाचेत्यर्थः ।।सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश ।।विजने कस्मिंश्चिद्देशे शकटस्याधस्तात्पामानं कंडूयमानं रैक्वमेत्य दृष्ट्वा समीपे गत्वा विनयेनोपविष्टवान् ।।तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा 3 इति ह प्रतिजज्ञे स ह क्षत्ताऽविदमिति प्रत्येयाथ ।।हे भगवस्त्वं वा रैक्व इति पृष्टो रैक्वोऽहमेवेति प्रत्युवाच । तच्छ्रुत्वाऽऽज्ञासिषमिति प्रत्यागतः ।।तदु ह जानश्रुतिः पौत्रायणः षट्छतानि गवां निष्कमश्चतरीरथं तदादाय प्रतिचक्रमे ।।ततो जानश्रुतिः गवां षट्छतानि निष्कं कंठाभरणम् । अश्वतरीयुक्तं रथंतदादाय गृहीत्वा रैक्वं प्रतिगतवान् ।।तँ हाभ्युवाद रैक्वेमानि षट्छतानि गवामयं निष्कोयमश्वतरीरथोऽनु म एतां भगवो देवताँ शाधि यां देवतामुपास्से इति ।।हे रैक्व एतत्सर्वमानीतं तद्बृहण । त्वं यां देवतामुपास्से तां देवतां मे अनुशाधि विविच्य ज्ञापयेति प्रार्थयामास ।।तमुह परः प्रत्युवाचाह हारे त्वा शूद्र तवैव सह गोभिरस्त्विति ।।अह इत्याश्चर्ये । स्वयोगमहिमविदितलोकत्रयो जानश्रुतेर्ब्रह्मज्ञान विधुरता निमित्तानादर गर्भहंसवाक्यश्रवणेन शोकाविष्टतां तदनंतरमेव ब्रह्मजिज्ञासयोद्योगं च विदित्वाऽस्य ब्रह्मविद्यायोग्यतामभिज्ञायसत्यामपि योग्यतायां चिरकालसेवां विनाऽर्थप्रदानेन शुश्रूष माणस्यास्य यावच्छक्ति प्रदानेन ब्रह्मविद्याप्रतिष्ठिताभवतीति मत्वा तमनुगृह्णन्तस्य शोकाविष्टतामुपदेशयोग्यताख्यापिवां ब्रह्मजिज्ञासादार्ढ्यसिद्ध्यर्थं स्वयोगमहिम साक्षात्कृत सकलवृत्तांतत्वलक्षण स्वमहिमानं च शोचितृत्वप्रवृत्तिनिमित्तशूद्रशब्दमंत्रणेन ख्यापयन् हारसहितरथः तवैव गोभिः सहास्तु । कलत्रहीनस्य ग्रामगृहादिशून्यस्य ममगोरथादिरक्षणेका शक्तिः, मत्प्रयोजनापर्यवसाय्यल्पधनदानेन कथं तव ब्रह्मविद्या प्रतिष्ठिता भवेदित्युवाचेत्यर्थः ।स्फायितं चि0।2।170।। इत्यादिना रक्प्रकरणपठितेन “शुचेर्दश्च ” (उण.2.176) इत्युणादि सूत्रेण रक्प्रत्यये कृते शुचेश्चकारस्यदकारे अमितम्योर्दीघश्चेति पूर्वसूत्रानुवृत्तेन धातोरुकारस्य दीर्घादेशेन च शूद्रशब्दो निष्पन्नो भवति ।।तदुह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे तँ हाभ्युवाद रैक्वेदं सहस ्रंगवामयं निष्कोऽयमश्वतरीरथ इयं च जाया अयं ग्रामोऽयस्मिन्नास्से अन्वेव मा भगवः शाधीति ।।तदभिप्रायं जानन् रैक्वस्य परिणयार्थं स्वकन्यामावासार्थं तत्रत्यं ग्रामं चोपहृत्य प्रार्थयामासेत्यर्थः ।।तस्या ह मुखमुपोद्गृह्णन्नुवाच ।।तस्य मुखमुपायनरूपोपायमंगीकुर्वन्नुक्तवानित्यर्थः ।।आजहारेमाःशूद्रानेनैव मुखेनालापयिष्यथा इति ।।इमा दक्षिणा आजहर्थ । अनेनैवोपायेन मां ब्रह्मोपदेशरूपं वाक्यमालापयिष्यसे ब्रह्मविद्योपदेष्टारं करिष्यसीत्यर्थः । “थासःसे इत्येतदभावश्छांदसः । पुनरपि” शूद्रेति संबोधनस्य पूर्ववत्प्रयोजनम् । अत्र शूद्रशब्दस्य न रूढ्या वर्णविशेषोर्थः । चतुर्थवर्णस्य ब्रह्मविद्यायामनधिकारादिति द्रष्टव्यम् ।।ते हैते रैक्वपर्णानाम महावृक्षेषु यत्रास्मा उवास ।।यत्रग्रामेषु रैक्व उवास तेषु महावृक्षाख्यदेशेषु रैक्वपर्णा इति प्रसिद्धास्तान् ग्रामांश्चास्मै ददावित्यर्थः ।।स तस्मै होवाच ।।तत्सर्वं दत्तवते जानश्रुतये रैक्वः स्वोपास्यांदेवतामुपदिदेशेत्यर्थः ।।वायुर्वाव संवर्गः ।।संवर्जनं सम्यग्ग्रहणम् । एकीकृत्यग्रहणमित्यर्थः । संवर्गत्वगुणको वायुर्ध्येय इति यावत् ।संवर्गत्वमेवोपपादयति ।।यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चंद्रोऽस्तमेति वायुमेवाप्येति यदा आप उच्छुष्यंति वायुमेवापियंति वायुर्ह्येवैतान्सर्वान् संवृंक्ते इत्यधिदैवतम् ।।प्रक्रमे हि एनं सर्वं तदभिसमेतीत्यादिब्रह्मविद्याप्रशंसावगमात् वक्ष्यमाणलिंगानुपपत्तेश्च वायुशब्देन वायुशरीरकः परमात्मोच्यते । संवंृक्ते एकीकृत्य गृह्णातीत्यर्थः । इत्यधिदैवतम् । एवं देवेषु संवर्गोऽयमित्यर्थः । अध्यात्मं प्राणः संवर्ग इत्याह ।।अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति ।।स पुरुषो यस्मिन्काले स्वपितीत्यर्थः ।।प्राणमेव वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो ह्येवै तान्सर्वान्संवृङ्क्ते इति ।।अत्रापि प्राणशब्दस्तच्छरीरकपरमात्मपरो द्रष्टव्यः । उक्तमर्थमुपसंहरति ।।तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ।।स्पष्टोऽर्थः ।।संवर्गविद्यास्तुत्यर्थमाख्यायिकेयमारभ्यते ।।अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे ।।कपिगोत्रं शुनकसुतं कक्षसेनसुतमभिप्रतारिनामानंचतौद्वौसूपकारैः परिविष्यमाणौ भोजनायोपविष्टौ कश्चित्संवर्गोपासको ब्रह्मचारी भिक्षितवान् ।।तस्मा उ ह न ददतुः ।।अयं ब्रह्मचारी संवर्गविद्यानिष्ठो दुरभिमानी यद्वक्ष्यति तच्छ्रोष्याव इति बुद्ध्या भिक्षां न दत्तवंतौ ।।स होवाच ।।स ब्रह्मचार्युवाच ।।महात्मनश्चतुरो देव एकः कःसो जगार भुवनस्य गोपाः ।तं कापेय नाभिपश्यंति मर्त्याः अभिप्रतारिन्बहुधा वसंतम् ।।अधिदैवतम् महात्मनः अग्न्यादित्यचंद्रजलरूपान् अध्यात्मम् वाक्चक्षुश्श्रोत्र मनो रूपान् चतुस्संख्याकान्देवान्सर्वलोकस्य गोप्ता सः एक एव वायुः प्राणरूपी कःप्रजापतिः जगार संहृतवान् । हे कापेयाभिप्रतारिणौ एवं भूतं प्रजापतिं बहुरूपतया वसंतं मर्त्या मरणधर्माणः अविद्यामोहिताः संतो न जानन्तीत्यर्थः । गोपाः गुपू रक्षणे असुन्प्रत्ययांतः ।।यस्मै वा एतदन्नं तस्मा एतन्नदत्तमिति ।।जगत्सर्वं यस्य संवर्गस्य प्रजापतेरन्नं तस्मै भिक्षमाणाय मह्यमन्नं न दत्तम् । अतः केऽपि न जानंतीत्युक्तोपासदार्ढ्यायोक्तोपास्यैक्यबुद्ध्या भिक्षमाणाय स्वस्मै अं प्रदानमेव स्वोपास्य देवताया अप्रदानं मत्वा तस्मै एतन्नदत्त मिति तौ निंदितवानित्यर्थः ।।तदुह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय ।।कापेयः शौनकः तत्प्रतिमन्वानः मनसाऽऽलोचयन् तत्समीपं प्रत्यागत्योवाच ।।आत्मा देवानां जनिता प्रजानाँ हिरण्यदंष्ट्रो बभसोऽनसूरिः ।महांतमस्यमहिमानमाहुरनद्यमानोयदनन्नमत्तीतिवैवयंब्रह्मचारिन्नेदमुपास्महेदत्तास्मैभिक्षामिति ।।देवानां नियंता प्रजानामुत्पादकः । कमनीयदंष्ट्रायुक्तः हिरण्यविदारकदंष्ट्रायुक्त इति वा ।वभसो भक्षणशीलः । असुरसंहारक इति यावत् । अनसूरिरविपश्चिन्न भवतीत्यनसूरिः । विपश्चिदिति यावत् । अस्य च “श्रीनृसिंहस्य”परमात्मनः महिमानं महांतमाहुः । यत्स्वय मन्यैरनाश्यमानः अनन्नं वागादिकमत्ति नाशयति एवं भूतः परमात्मैव संवर्गः न त्वदुक्तः प्रजापतिरित्यर्थः । अतो वयं न त्वदुक्तप्रजापतिरूपं संवर्गमुपास्महे । अपि तु परमात्मानमेव । अतस्त्वं संवर्गं नयथावज्जानासीत्युक्त्वा तस्मै भिक्षां प्रयच्छतेति परिचारकानाहतुरित्यर्थः । अनेन संवर्गविद्यायाः वायुप्राणशरीरकपरमात्मपरत्वमाविष्कृतं भवतीति ।।तस्मा उ ह ददुः ।।तस्मै ब्रह्मचारिणे परिचारका भिक्षां ददुरित्यर्थः । संवर्गविद्यास्तुतये तत्संबंधिपदार्थान् कृतायत्वेन विराट्त्वेनान्नत्वेनान्नादित्वेन च स्तौति ।।ते वा एते पंचान्ये पंचान्ये दशसंतस्तत्कृतम् ।।अधिदैवतमग्न्यादित्यचन्द्रजलरूपाः पदार्थाः अपियंत श्चत्वारः । अपीयमानो वायुरेक इति पंच । अध्यात्मं वागाद्या अपीयंत श्चत्वारः । अपीयमानः प्राण एक इति पंच । आहत्य दशत्वसंख्यां प्राप्ताः संतः कृतायतां भजंते । कृतसंज्ञके तस्मिन्नये चतुरंकाय त्र्यंकायद्यंकायैकां कायानामनुप्रविष्टतया दशांकत्वमेकस्य द्वयोस्त्रयाणां चतुर्णां च समावेशे दशत्वसंख्या संभवादितिभावः ।।तस्मात्सर्वासु दिक्ष्वन्नमेव दशकृतम् ।।तस्माद्धेतोः संवर्गविद्योपास्यं दशत्वसंख्यायुक्ततया कृताय रूपं सद् दशसु दिक्षु विद्यमानमन्नमेव भवति । दशाक्षराविराडन्नं विराडिति श्रुतेः ।।सैषा विराडन्नादी ।।दशत्वसंख्याश्रयत्वाद्दशाक्षरा विराडिति विराट्छंदो भवति । अन्नमत्तीत्यन्नादी । कृतसंज्ञिके अये दशसंख्याया भक्ष्यवदंतर्भूतत्वाद्दशत्वसंख्याया श्चविराट्त्वाद्वि राजश्चान्नत्वाद्द शत्वसंख्यागर्भकृतायस्थानीयसंवर्गविद्योपास्यान्नादित्वमप्यस्तीत्यर्थः ।।तयेदँ सर्वं दृष्टम् ।।तया विराजा उपासितया इदं सर्वं दशदिग्वर्तिंपदार्थजातं दशत्वसंख्यासाम्याद्दृष्टं भवति । उपासितं भवतीत्यर्थः । तदुपासनस्य फलमाह ।।सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेदय एवं वेद ।।एतदुपासकस्य सार्वज्ञं ब्रह्मलक्षणान्नानुभवश्च भवतीत्यर्थः । विद्यासमाप्तिद्योतकं द्विर्वचनम् ।व्यासार्यैस्तु “छन्दोभिधानान्नेति”(ब्र.सू.1.1.25) इति सूत्रे अन्नादिति पाठमाश्रित्यान्नं च तदत्ति चेत्यन्नादिति भोक्तृत्वभोग्यत्वाश्रय परमात्मापरतया व्याख्यातम् ।।