॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
दहराधिकरणम्
दहर उत्तरेभ्यः (ब्र.सू. 1.3.13)आकाशोऽर्थान्तरत्वादिव्यपदेशात् (ब्र.सू.1.3.42)न च कार्ये प्रत्यभिसंधिः (ब्र.सू.4.3.13)कृत्स्नभावात्तु गृहिणोपसंहारः (ब्र.सू.3.4.47)इत्यादिविषयवाक्यार्थज्ञानाय प्रायशश्छांन्दोग्याष्टमप्रपाठको व्याख्यायते ।अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ।।विद्यांतरारम्भदर्शनार्थोऽयमथशब्दः । उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारवत्त्वादिना च पुरशब्दिते उपासकशरीरे पुण्डरीकाकारमल्पं हृदयाख्यं परस्य ब्रह्मणो वेश्म ।दहरोऽस्मिन्नंतराकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्य मिति ।अस्मिन्वेश्मनि दहरः सूक्ष्मः आकाशः य इति पुल्लिंग यच्छब्दोऽध्याहर्तव्यः । अस्मिन् यो दहराकाशः तस्मिन्यदंतरित्यत्रांतः-शब्दोंऽतरवर्तिपरः । च शब्दश्चाध्याहर्तव्यः । ततश्चायमर्थः अस्मिन् दहरपुण्डरीके यो दहराकाशः तदंतर्वर्ति च यत् तदुभयं श्रवणमननाभ्याम वगंतव्यंध्यातव्यंचेत्यर्थः । तदन्वेष्टव्यमित्यत्रतदितिनपुंसकलिंगनिर्देशोलिंगसामान्यविवक्षयाद्रष्टव्यः ।यद्वा दहरोऽस्मिन्नंतराकाश इत्यत्र न पुल्लिंगो यच्छब्दोऽध्याहर्तव्यः । योऽस्मिन्दहराकाशः तदंतर्वर्ति च यदिति यच्छब्देनैव “नपुंसकमनपुसंकेनैकवच्चास्यान्यतरस्याम् (अष्टा.1.2.69) इति कृत नपुंसकैकशेषवद्भावेनैकेनैव नपुंसकलिंगयच्छब्देन द्वयोरपि परामर्शसंभवात् । तदन्वेष्टव्यमिति वाक्ये तच्छब्देऽपि नपुंसकैकशेषसंभवादेकेनैव तच्छब्देन द्वयोरपि परामर्शः। ततश्चानेन वाक्येन दहराकाशस्तदंतरवर्तिचान्वेष्टव्यमित्युक्तं भवति । उक्तं च भगवता भाष्यकृता यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेत्यनूद्य तस्मिन् दहर पुण्डरीकवेश्मनि यो दहराकाशः यच्च तदंतर्वर्ति तदुभयमन्वेष्टव्यमिति विधीयत इति । अत्र चाकाशशब्दःआसमंतात्काशते प्रकाशते इति व्युत्पत्त्या परमात्मपरः । तत्र हेतुरुत्तरत्र वक्ष्यते । न च तदंतरवर्तिन एवान्वेष्टव्यत्वे प्रतीयमाने दहराकाशस्यान्वेष्टव्यतासिद्ध्यर्थमेतावान् क्लेशः किमर्थमाश्रीयते । किं च “विश्वजित्सर्वपृष्ठोऽतिरात्रो भवती”त्यत्रपृष्ठगतसर्वताविध्याक्षिप्तपृष्ठविधिवद्दहराकाशांतर वर्तित्वेन गुणजातोपासनस्य दहराकाशोपासनमंतरेणासंभवेनाक्षेपादेव दहराकाशोपासनस्यापि सिद्धतया यत्तच्छब्दयोर्नपुंसकैकशेषैकवद्भावचशब्दाध्याहारक्लेशानुभवो व्यर्थ इति वाच्यम् । “अथ य इह आत्मानमनुविद्य व्रजंत्येतांश्च सत्यान्कामान्” इत्यौपसंहारिकोभयोपासनवचनानु सारेणास्य क्लेशस्यानुभोक्तव्यत्वात् । न च तदेव वाक्यं दहराकाशतदंतर्वर्ति लक्षणोभयोपासन विधिपरमस्त्विति वाच्यम् । उपक्रमस्थं विस्पष्टतव्य प्रत्यययुक्तं वाक्यं विहायौपसंहारिकस्य विस्पष्टविधिप्रत्ययशून्यस्य यच्छब्दयुक्तस्य विधित्वकल्पनानौचित्यात् । तस्य विधित्व कल्पनायामप्यनुवादरूपस्याप्यस्य वाक्यस्य तदनुसारेणार्थद्वयोपासनपरत्वस्या श्रयणीयतया नपुंसकैकशेषादिक्लेशस्याश्रयणीयत्वात् । इति शब्दो वाक्यसमाप्तौ । अथ वा इतीत्यस्यानंतर माचार्यो ब्रूयादित्यध्याहारः ।।तं चेदब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नंतराकाशः किं तदत्र विद्यते य दन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ।एवमुक्तवंतमाचार्यं स्वल्पहृदयमध्यवर्तितयातिस्वल्प आकाशे किं वा वर्तितुमर्हति यदन्वेष्टव्यं स्यादिति दहराकाशशब्दितस्य ब्रह्मत्वं तदंतर्वर्तितया निर्दिष्टस्य तद्गुणजातत्वं चा जानाना अंतेवासिनो यदि ब्रूयुरित्यर्थः । किं तदत्र विद्यत इति वाक्यं सर्वांतरस्य परमात्मनः अन्तर्वर्त्यंतरासंभवलक्षणानुपपत्तिगर्भांतर्वर्तिविशेषप्रश्नपरमिति व्यासार्याणामभिप्राय इति यद्यपि प्रतीयते तथापीदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दह्रोऽस्न्निंतराकाश इत्येतावन्मात्रं श्रुतवतां शिष्याणां परमात्मत्वविरोधिन्याकाशशब्दे जागरूके दहरत्वान्वेष्टव्यांतराधारत्वादिविरोधिलिंगे च जाग्रति ब्रह्मलिंगेषु चानुपन्यस्तेषुपरमात्मनिश्चयस्य तदुपजीव्याक्षेपप्रवृत्तेर्वा संभवात् । किं च सर्वांतरस्य परमात्मनोंऽतर्वर्त्यसंभवलक्षणानुपपत्तेरेव शिष्याणां हृदि विपरिवर्तमानत्वे प्रश्नवाक्ये दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नंतराकाश इति दहरपुंडरीकांतरवर्तित्वेनाकाशस्य दहरत्वोपन्यासस्य वा प्रतिवचने यावान्वायमाकाश इति वैपुल्योपन्यासस्य वा असंगत्यापातात् । व्यासार्याणामप्युक्त एवार्थोऽभिप्रेतः । केचित्तु शरीरस्य ब्रह्मपुरत्वेनोपक्रमादेव तदंतर्वर्ति आकाशशब्दनिर्दिष्टं ंब्रह्मेत्यवगत्यैव तदंतर्वर्तिवस्त्वंतरासंभव लक्षणानुपपत्तिमभि प्रयन्त एव अंतर्वर्तिविशेषं पप्रच्छुरित्यपि संभवान्नानुपपत्तिरिति वदन्ति ।स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोंऽतर्हृदय आकाश उभेऽस्मिन्द्यावा पृथिवी अंतरे व समाहिते उभावग्निश्च वायुश्च सूर्याचंद्रमसावुभौ विद्युन्नक्षत्राणि ।।एवमुक्तः स आचार्यः प्रतिब्रूयाद्धृदयपुंडरीकमध्यवर्त्याकाश शब्दनिर्दिष्टः भूताकाशवद्वि पुलः द्यावापृथिव्यादिशब्दोपलक्षितं भोग्यभोगस्थानभोगोपकरणम् । अग्निसूर्यादिशब्दोपलक्षितो भोक्तृवर्गश्च समाश्रित इत्यर्थः । यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति अस्योपासकस्येह लोके यद्भोग्यजातमस्ति यच्च मनोरथमात्रगोचरमिह नास्ति सर्वं तद्भोग्यजातमस्मिन्दहराकाशे समाहितमित्यर्थः । दहराकाशो निरतिशयभोग्य इति यावत् । भगवता भाष्यकृता यावान् वायमाकाशस्तावानेषोंऽतर्हृदय आकाश इति दहराकाशस्यातिमहत्तामभिधाय “उभेऽस्मिन् द्यावापृथिवी अंतरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणीति प्रकृतमेव दहराकाशमस्मिन्निति निर्दिश्य तस्न्त्सिर्वजगदाधारत्वमभिधाय यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्त्समाहितमिति । पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येह लोके यद्भोग्यजातमस्ति यच्च मनोरथमात्रगोचरमिह नास्ति सर्वं तद्भोग्यजातमस्मिन्दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधेयः” इति भाषितम् । न च यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमित्यनेनोपासकभोग्यवस्त्वाधारत्वमात्रं प्रतीयते । न तु दहराकाशस्य निरतिशयभोग्यत्वम् । ततश्च यच्चास्येहास्तीति वाक्येन दहराकाशस्य निरतिशय भोग्यत्वम भिधायेति भाष्यं कथमुपपद्यतामिति वाच्यम् । उपासकस्य ब्रह्मप्राप्त्यैकफलकस्य स्वर्गपश्वादीनां भोग्यत्वाभावात् । “यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहित”मित्यनेन दहराकाशस्यनिरतिशयभोग्यत्यमेव प्रतिपाद्यत इति व्यासार्य्यैरुक्तत्वात् । नास्याशंकाया अवकाश इति द्रष्टव्यम् ।केचित्तु “स यदि पितृलोककामो भवतीत्यादिना प्राचीनानेकजन्मसंबन्धि पित्रादिवर्गदिदृक्षया संकल्पमात्रेण तत्स्रष्ट्टृत्वस्य च प्रतिपादयिष्यमाणत्वात् । सूत्रकृतापि”संकल्पादेवतच्छ्रुतेः” (ब्र.सू.4.4.8) इति सूत्रेण तद्वाक्यस्य विवक्षितार्थत्वाविष्करणात् ।”यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते । अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्नलभते सर्वं तत्र गत्वा विन्दत” इत्यनेन नष्टानां पित्रादीनां मुक्तकामनाविषयत्वप्रतिपादनात् ।”प्रत्यक्षोपदेशान्नेति चेन्नाधिकारिकमंडलस्थोक्तेः ” (ब्र.सू.4.4.18) इति सूत्रोक्त न्यायेन ब्रह्मविभूतितया नष्टपित्राद्युनुभवस्य कामनाविषयत्वसंभवाच्च । अन्यथा “अस्मिन्कामाः समाहिताः एतांश्चसत्यान्कामा”नित्यादावपि कामशब्दस्य निरतिशय भोग्यार्थकत्वं को वारयेत् । तथा जक्षन्क्रीडन्नित्यादावपि भोग्यार्थकत्वमेवस्यादिति परोऽपि विजयेत । अतो यथाश्रुतार्थत्वेऽपि न दोषः । भाष्यमपि भोग्याधारत्वफलितभोग्यत्वपरमेवास्त्विति वदन्ति । अत्र भूताकाशतुल्यवैपुल्यप्रतिपादनेन द्यावापृथिव्यादिजगदाश्रयत्वप्रतिपादनेनोपासकं प्रति निरतिशयभोग्यताप्रतिपादनेन च दहराकाशस्य प्रसिद्धाकाशवैलक्षण्य प्रतिपादनात्स्वल्पे दहराकाशे किमपि मातुं न शक्रोतीत्याक्षेपबीजं परिहृतं भवति ।तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं वा समाहितम् । सर्वाणि च भूतानि सर्वे च कामाः । यदेतज्जरावाप्नोति प्रध्वगं्सते वा किं ततोऽतिशिष्यत इति ।।अल्पत्वरूपमाक्षेपबीजं परिहृत्य किं तत्र विद्यते इति प्रश्नं प्रतिविवक्षत्येव । आचार्ये उक्तेऽर्थे अनुपपत्तिं पश्यंतः शिष्या यद्याचार्यं ब्रूयुः किमिति ब्रह्मपुरशब्दितं शरीरं द्यावापृथिव्यादिशब्दनिर्दिष्टभोग्यभोगोपकरणभोगस्थानमग्निवाद्यादिशब्दनिर्दिष्टो भोक्तृवर्गश्च यद्याश्रयेयुः । तदा शरीरस्य जरानाशादौ सति द्यावापृथिव्यादिकं किमपि नावशिष्येत तदपि नश्येदित्यर्थः । सर्वे च कामा इत्यस्य “यच्चास्येहास्ती”तिवाक्यनिर्दिष्टनिरतिशय भोग्यत्वानु वादित्वात्सर्वे च कामा इत्यस्य निरतिशयभोग्यत्वमर्थ इति व्यासार्यैरुक्तम् ।ननु दहराकाशाश्रितत्वस्यैवोक्ततया ब्रह्मपुरशब्दितशरीराश्रितत्वस्यानुक्ततया तज्जरानाशानुविधायिजरानाशवत्त्वस्य दहराकाशाश्रिते द्यावापृथिव्यादौ कथं प्रसक्तिरिति चेदुच्यते । यथा घटाद्यंतराकाशे निहितस्य दध्यादेर्वस्तुतो घटादिरेव धारकः । आकाशःपरमवकाशात्मनोपकरोत्येवं देहांतर्वर्तिनि दहराकाशे विद्यमानस्य द्यावापृथिव्यादेः देह एव धारकःदहराकाशस्त्ववकाशात्मनोपकरोति । अस्तु वा दहराकाशस्य घटाकाश वैलक्षण्येन स्वतो धारकत्वम् । तथापि तस्य देहजराप्रध्वंसानुपदभाविजराप्रध्वंसवत्त्वाद्यावद्देहस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमिति फलतो देह एव तस्य सर्वस्य धारकः पर्यवस्तीत्याक्षेप्तृणां शिष्याणामभिप्रायः । तत्प्रतिवक्ति ।।नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरम् ।।भोग्यभोगस्थानभोगोपकरणभोक्तृवर्गादिशालितया पुरमिव वर्तमानमेतद्दहराख्यं ब्रह्म ।न तुघटाकाशादिवत्केवलमवकाशात्मनोपकारकम् । यथा पुरं भोग्यभोगस्थानादीनां स्वत एवाधारभूतं न तु दध्यादीनां घटादिवदाकाशात्मनोपकारकं तथेत्यर्थः । ननु स्वतो धारकत्वेऽपि देहांतर्वर्तितया तदंतर्गतहृदयवत्तज्जरानाशानुविधायित्वं स्यादिति शंकाबीजं परिहरति ।।एतत्सत्यमिति ।।सत्यं निर्विकारमित्यर्थः । अत एव देहजरामरणानुविधायि न भवतीत्यर्थः । यद्वा “अथ यत्तत्सत्तदमृत”मित्यस्मिन्प्रकरणे वक्ष्यमाणसत्यशब्दनिर्वचनरीत्या चेतनाचेतननियामकत्वं सत्यत्वम् । यथाकथंचिद्घटादिविलक्षणधारक इत्यर्थः । केचित्त्व”स्मिंश्चेदिदं ब्रह्मपुर” इत्यत्र ब्रह्मपुरशब्देन ब्रह्मरूपपुरत्वाद्दहराकाश एवोच्यते । “यदेतज्जरावाप्नोती”त्येव पाठः । तत्र चैतस्य शरीरस्य जरा एतज्जरा यदा दहराकाशं प्राप्नोति तद्धंसेन ध्वंसते वा तदा द्यावापृथिव्यादिकं नावशिष्येत इत्येवार्थः । न तु ब्रह्मपुरशब्देन शरीरपरामर्शमभिप्रेत्य तदनुगुणो दृशाभिप्रायपरिकल्पनाक्लेशोऽनुसर्तव्य इति वदन्ति ।एवं मध्ये प्रसक्तमाक्षेपं परिहृत्य किं तदत्र विद्यत इत्यंतर्वर्तिविशेषजिज्ञासां शमयति ।।अस्मिन्कामास्समाहिताः ।।काम्यंत इति कामाः कल्याणगुणाः ।।को दहराकाशः स च कैः कामैर्विशिष्ट इत्याकांक्षायामाह ।।एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको(ऽ) विजिघत्सोऽपि पासस्सत्य कामस्सत्यसंकल्पः ।।उक्तं च भगवता भाष्यकृता दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्यात्मत्वं च ।”एष आत्मा अपहतपाप्मेत्यादिना सत्यसंकल्पः” इत्यंतेन स्फुटीकृत्येति । पापजरा मरणशोकबुभुक्षापिपासावर्जितः सत्यकामस्सत्यसंकल्पश्चेत्यर्थः । परमात्मप्रकरणेषु पाप्मशब्दः सुकृतदुष्कृतसाधारणः । “न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तंते” इति सुकृतेऽपि पापशब्दप्रयोगात् । “एते वै निरयास्तातस्थानस्य परमात्मनः” इति स्वर्गादीनामपि मुमुक्षोरनिष्टत्वेन स्वर्गादिसाधनकर्मणां मुमुक्षून्प्रत्यनिष्टसाधनत्वेना”लौकिकत्वेसत्यनिष्टसाधनत्व”लक्षणपापशब्दप्रवृत्तिनिमित्तस्य क्रोडीकृतत्वेन पापशब्दवाच्यत्वावश्यंभावात् ।अपहतपाप्मत्वं च न ध्वस्तपाप्मत्वम् । “नैनं सेतुमहोरात्रे तरतो न सुकृतं दुष्कृत”मिति सुकृतदुष्कृतप्राप्त्यभावश्रवणात् । तरतेः प्राप्ति वचनत्वात् । तस्मादपहतपाप्मत्वमश्लिष्टपाप्मत्वमित्यर्थः ।अतकर्माश्लेषस्य सर्वसाधारणत्वात्कृतेऽपिकर्मणि तत्फलाश्लेष उच्यते । अत ईश्वरेण कृतानि पुण्यपापजातीयानि कर्माणि न शुभाशुभफलजननशक्तानीत्यर्थः । कृतेऽपि पापे तत्फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदीश्वरस्य स्वभावविशेषोऽपहतपाप्मत्वम् । परिशुद्धात्मविषयस्यापहतपाप्मत्वस्यायमेवार्थः । स तु तस्य तिरोधानार्हः प्रतिबंधक निवृत्तावाविर्भवति । ईश्वरस्यतु तिरोधानानर्हो नित्याविर्भूत इति विशेष इति व्यासार्यैः “अंतस्तद्धर्मोपदेशात्” (ब्र.सू.1.1.21) इत्यधिकरणे वर्णितः । अत्र सत्यकामशब्दो न कामनायाः सत्यत्वपरः । अमोधाशयत्वस्य सत्यसंकल्पशब्देन सिद्धत्वात् । नापि काम्यंत इति व्युत्पत्त्या गुणमात्रपरः । कतिपयगुणांतराणां पृथगुक्तेः । अतो भोग्यभोगोपकरण भोगस्थानरूपा नित्याः कामा अस्य संतीत्युच्यते ।। “तदक्षरे परमे व्योमन्नि”त्युक्तरीत्या नित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थ इति व्यासार्यैरुक्तम् । वेदार्थसंग्रहे भाष्यकृताप्युक्तं “सत्यसंकल्पःअप्रतितसंकल्पः” इति ।यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् । यं यमन्तमभिकामा भवन्ति ।यं यमन्तं यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ।।इह लोके प्रजा यथानुशासनं राजशासनाननुल्लंघनेन राजानमन्वाविशंति अनुसरन्तीत्यर्थः ।।अनुसृत्य किं कुर्वंतीत्यत्राह । यं यमंतमभिकामा भवन्ति । कर्मणः फलापवर्गि कत्वात्फलमेव कर्मणोंऽतः । यं यमंतं यद्यत्फलमभिकामा अभ्यर्थिनो भवन्ति जनपदं क्षेत्रादिकं तत्तत्फलं यथानुशासनमेवोपजीवंति । राजशासनानुरोधेनैवेह लोकेयथोपजीवंति तथा परलोकेऽपि परतंत्रा भवंतीति भावः । यद्वा यं यमंतमभिकामा भवंति तमिह लोके यथा प्रजा अन्वाविशंति राजानमनुसृत्य लभंते तथा परलोकेऽप्युपजीवन्तीत्यर्थः । अयमेवाऽर्थो व्यासार्यैर्वर्णितः । एवं कर्मसाध्ये परलोके पारतंत्र्यमुक्त्वा क्षयिष्णुत्वमप्याह ।।तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्रपुण्य चितो लोकः क्षीयते ।।राजसेवादिकर्मणार्जितो लोको यथा क्षीयते एवमेवामुत्र परलोके पुण्यसंपादितो लोकः क्षीयते ।तद्य इहात्मानमननुविद्य व्रजंत्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्व कामचारो भवति । अथ य इहात्मानमनुविद्य व्रजंत्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ।।यस्मात्सुकृतसाध्येषु परलोकेषु पारतंत्र्यक्षयिष्णुत्वादिकं तस्माद्य उक्तमात्मान मेतानपहतपाप्मत्वादीनेतांश्च सत्यान्नित्यान्काम्यमानान्कल्याण गुणांश्चाननुविद्यानुपास्य परलोकं व्रजन्ति तेषां सर्वेषु लोकेषु अकामचारो भवति । पारतंत्र्यमिति यावत् । ये त्वात्मानमपहतपाप्मत्वादींश्च कल्याणगुणानुपास्य परलोकं व्रजन्ति ते ब्रह्मविभूति भूतान्विकारिलोकाननुभूय यथाकामं तृप्ता न पारतंत्र्यमनुभवन्तीत्यर्थः । नन्वपहतपाप्मेत्यादिवाक्येषु अपहतपाप्मत्वादिधर्माणां स्वातंत्र्येणानुपस्थितानां कथमेतानित्यनेन परामर्शः ।न च गत्यभावात्तेषामेव परामर्श इति वाच्यम् । “यच्चास्येहास्ती”ति वाक्यनिर्दिष्टस्य सर्वाणि भूतानि सर्वे च कामा इति बहुवचनांतकामशब्देनानूदितस्य निरतिशयभोग्यत्वस्यैवास्न्किमारः समाहिताः एतांश्च सत्यान्कामानित्यत्रापि निर्देशोऽस्त्विति चेन्न । तथासत्यपहतपाप्मा विजर इत्याद्युपन्यासवैयर्थ्यप्रसंगात्कामानित्यस्य भोग्यत्वपरत्वे बहुवचनासंगतेश्चापहतपाप्मत्वादय एव एतांश्च सत्यान्कामानिति कामशब्देन निर्देश्याः । भोग्यत्वहेतुपितृलोकादिविषयपरत्वे सत्यानिति काम्यमानानां नित्यत्वकथनस्यासंभवादिति सिद्धम् । ततश्च दहरोऽस्मिन्नंतर आकाश इत्याकाशशब्दनिर्दिष्टः परमात्मा न भूताकाशः तस्मिन्यदंतरिति निर्दिष्टमपहतपाप्मत्वादिगुण जातमितीयता संदर्भेणोपदिष्टं भवति ।स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति । तेन पितृलोकेन संपन्नो महीयते ।स मुक्तः सन्यदि प्राचीनानेकजन्मसंबन्धिपितृवर्गं दिदृक्षेत तदा स पितृवर्ग एतस्य संकल्पमात्रसमुत्थितो भवति । तेन सहितः पूज्यते ।त इमे सत्याः कामा अनृतापिधानाः तेषां सत्यानां सतामनृतमपिधानम् ।।परमात्मनिष्ठा इमे सत्याः अपहतपाप्मत्वादयः कामाः अनृतमपिधानं येषां ते अनृतापिधाना अनृताच्छादिताः । ऋुतेतरविषयो ह्यनृतशब्दः । ऋतमिति कर्मवाची “ऋतं पिबंता”विति वचनात् । ऋुतं कर्मफलाभिसन्धिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । अत्र तद्व्यतिरिक्तफलं सांसारिकफलं कर्म अनृतं ब्रह्मप्राप्तिविरोधीति महासिद्धांते भाषितम् । तेषां सत्यानां सतां विद्यमानानामेव कर्माच्छादकम् । ततश्च स्वात्मभूतपरमात्मगतापहतपाप्मत्वादयो धर्माः कर्मरूपाविद्यातिरोहितत्वान्न प्रकाशन्ते इत्यर्थः ।।यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते । अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिछ्न्न लभते सर्वं तदत्र गत्वा विन्दते ।अस्योपासकस्य यो बंधुवर्गः इतः प्रैति न स इह दृष्टुं शक्यः । अन्येतु ये जीवंतः नष्टाश्च बंधवः अलभ्याश्च मनोरथाः तत्सर्वं दहराकाशं परमात्मानं प्राप्य लभते । अत्र यच्चेहास्ति यच्च नास्तीति वाक्यसमानार्थत्वादस्य वाक्यस्य मुक्तस्य सर्वतो विरक्तस्य प्राप्यांतरा संभवान्निरतिशयभोग्यत्वमेवार्थः ।।अत्र ह्यस्यैते सत्याः कामाः ।।यत् उपासकस्य काम्यमाना भोग्यभूतापहतपाप्मत्वादयः एतन्निष्ठा अतो निरतिशयभोग्यत्वमित्यर्थः । हि शब्दो हेतुत्वपरः ।।तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विदेयुरेवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छंत्य एतं ब्रह्मलोकं न विंदंत्यनृतेन हि प्रत्यूढाः ।।यथाऽधस्तान्निक्षिप्तं हिरण्यनिधिं निधिमत्क्षेत्रस्वभावविज्ञानहीना निधेरुपर्युपरि संचरंतोऽपि न लभन्ते एवमेवेमाः सर्वाः प्रजाः सुषुप्तिकाले अहरहर्गच्छंत्यः सुषुप्तौ “सति संपद्य न विदु”रित्युक्तरीत्याऽविभागं गच्छंत्यः एतं दहराकाशाख्यं ब्रह्मरूपं लोकं न विन्दन्ति न लभंते न जानंतीत्यर्थः । ब्रह्मलोकशब्दो निषादस्थपत्यधिकरणन्यायेन समानाधिकरणौ । तत्र हेतुमाहअनृतेनहि प्रत्यूढाः । प्रतीपं नीताः स्वभावान्तरं नीताः प्राप्ताः आच्छादिता इति यावत् । यद्वाऽहरहर्गच्छंत्य इति न सुषुप्तिकालीनं गमनमुच्यते । अपि त्वंतरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत्परमपुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छंत्यः सर्वस्मिन्काले वर्तमानास्तमजानंत्यस्तं न विदंति न लभंत इत्यर्थः । अर्थद्वयमपि भाष्यकृता वर्णितम् । अत्र व्यासार्यैरंतर्यामिविषयतया व्याख्यायनेंऽतर्यामिण्यहरहर्गमनस्य दहराकाशस्य परब्रह्मत्वसाधकत्वमयुक्तम् । उपासकानुग्रहायावस्थितो हि दहराकाशः अंतरात्मतयावस्थितो ह्याधारः । तयोःरूपभेदादित्याशंक्य धर्म्यैक्याभिप्रायेणैक्यमुक्तमिति परिहृतम् । पूर्वोक्तस्य हृदयांतर्वर्तित्वं स्मारयति ।।स वा एष आत्मा हृदि ।।हृदयनामनिर्वचनादप्यात्मनो हृद्गतत्वं सिद्ध्यतीत्याह ।।तस्यैतदेव निरुक्तं हृदयमिति । तस्माद्धृदयमिति ।।तस्यैतस्य हृदयस्य । हृदि अयमात्मा वर्तत इति हृदयशब्दनिरुक्तिरिति भावः ।।अहरहर्वा एवंवित्स्वर्गं लोकमेति ।।अहरहः प्रत्यहमाप्रयाणम् । एवंविदे तादृशदहरोपासननिष्ठः सुखरूपं लोक्यमानं ब्रह्म प्राप्नोतीत्यर्थः । ब्रह्मोपासननिष्ठस्य तत्क्रतुन्यायेन ब्रह्मप्राप्तेरेव वक्तव्यतया प्रसिद्धस्वर्गलोक प्राप्त्यसंभवादिति द्रष्टव्यम् । कथं ब्रह्मप्राप्तिः प्राप्तस्य वा ततःकिं भवतीत्यत आह ।।अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते ।।अथशब्दः प्रकृतार्थत्वद्योतकः । संप्रसादशब्दः सुषुप्तिस्थानवचनस्सन् तत्संबन्धाज्जीवं लक्षयति । अहरहर्वा एवंविदिति पूर्ववाक्यनिदिष्ट उपासको जीवो अस्माद्धेयतया परिदृश्य मानाच्छरीरादुत्क्रम्य देशविशेषनिष्ठं परमात्मानं प्राप्य स्वेन रूपेणाभिनिष्पद्यते । अस्य वाक्यस्यार्थः प्रजापतिविद्यायां विशिष्य वक्ष्यते ।एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति ।एष आत्मा एतदमृतमित्यत्र एतच्छब्दौ पूर्ववाक्ये परंज्योतिरूपसंपद्येति प्राप्यतया निर्दिष्टपरंज्योतिश्शब्दितब्रह्मपरौ । प्राप्यतया प्राधान्यादव्यवहितत्वाच्च ।अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय ।उक्तलक्षण आत्मा सेतुरिव धारकः । किमर्थं स सेतुर्विधृतिरित्यत्राह एषां लोकानाम संभेदाय असंभेदोऽसंकरः । यद्ययं परमात्मा स्वशासनेन जगन्नधारयेत् सर्वधर्माणां सांकर्यमेव स्यात् । पृथिव्या गंधवत्त्वं जलस्य शैत्यं तेजस आैष्ण्यमित्यादयो धर्माः परमात्माज्ञया व्यवस्थिता भवन्ति । सिनोति बध्नाति स्वस्मिंश्चिचिद्वस्तुजातमसंकीर्णमिति सेतुरुच्यते इति “सामान्यात्तु” (ब्र.सू.3.2.31) इति सूत्रे भाषितम् ।नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम् ।तरतिः प्राप्तिवचनः । वेदांतं तरतीतिवदिति तत्रैव भाषितत्वात् । एनं परमात्मानं सेतुमहोरात्रे परिच्छेदकत्वेन न प्राप्नुतः । जरादिकमपि न प्राप्नोति । उक्तमर्थं निगमयति ।।सर्वे पाप्मानोऽतो निवर्तन्ते ।शोकादिषु पाप्मशब्दस्यामुख्यत्वेऽपि सुकृतदुष्कृतयोरलौकिकमुमुक्ष्वनिष्ट साधनत्व लक्षणपापशब्दप्रवृत्तिनिमित्तसद्भावात्पाप्मशब्दो मुख्य इति व्यासार्यैर्लघुसिद्धांते उक्तम् । तत्र हेतुमाह ।।अपहतपाप्मा ह्येष ब्रह्मलोकः।।इति।।ब्रह्मरूपो लोकः एष अपहतपाप्मा हि । हिर्हेतौ । यस्मादपहतपाप्मा तस्मात्सर्वेपाप्मानोऽतोनिवर्तन्त इत्यर्थः । पापहेतुकर्माचरणेऽपि तदुत्पत्तिप्रतिबंन्धक शक्तियोगित्वमेव ह्यपहतपाप्मत्वम् ।तस्मान्नपापशब्दमुख्यार्थसुकृतदुष्कृतयोस्तत्फल भूतजरारोगादीनां प्रसक्तिरित्यर्थः ।।तस्माद्वा एतं सेतुं तीर्त्वा अंधस्सन्ननंधो भवति । विद्धस्सन्नविद्धो भवति ।उपतापी सन्ननुपतापी भवति ।एतं परमात्मलक्षणं सेतुं प्राप्य पूर्वमांध्यायुधवेधज्वरादियुक्तदेहोऽपिसन्दद्दोषरहित दिव्यदेहयुक्तो भवतीत्यर्थः ।तस्माद्वा एतं सेतुं तीर्त्वा अपिनक्तमहरेवाभिनिष्पद्यते । सकृद्विभातो ह्येष ब्रह्मलोकः ।परमात्मानं प्राप्तस्य तमिस्रारात्रिरपि दिवैव । तस्याऽज्ञानप्रसक्तेरभावात् । अहस्सदृशी सा रात्रिः । अहोरात्रयोर्न विशेषः ।अत्र हेतुः सकृद्विभातः । सर्वदा ब्रह्मस्वरूपप्रकाशस्या संवृततया भासमानत्वादित्यर्थः ।तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति । तेषामेवैषः ब्रह्मलोकः तेषाँ सर्वेषु लोकेषु कामचारो भवति ।तत्तत्र । एवं सति एतमेव परमात्मानं स्त्रीविषयतृष्णात्यागपूर्वकशास्त्राचार्योपदेशादिना जानंति तेषामेवेदृशब्रह्मप्राप्तिः सर्वलोकानुभवश्च । न ब्रह्मचर्यहीनानामित्यर्थः ।।ह वै ण्यश्चार्णवौ ब्रह्मलोके ।।ण्यसंज्ञकश्च द्वौ समुद्रौ ब्रह्मलोक इत्यर्थः । प्रसिद्धं चतुर्मुखलोकं व्यावर्तयति ।तृतीयस्यामितो दिवि ।।प्रथमो द्युलोकःस्वर्गलोकः।द्वितीयस्तु चतुर्मुखलोकः।तृतीयस्तु वैकुंठलोक इति भावः ।तदैरंमदीयं सरः तदश्वत्थः सोमसवनः ।तत्तत्रैरंमदीयनामकं सरः । इरयाऽमृतेन माद्यंते यस्मिन्तदैरंमदीयममृतमयं सर इत्यर्थः । सोमसवननामाश्वत्थः चंद्रवदाह्लादकत्वात्सोमसवनत्वम् ।तदपराजिता पूर्ब्रह्मणः ।।तत्तत्र अब्रह्मविद्भिः प्राप्तुमशक्यत्वेनापराजितानाम पुरी ।।प्रभुविमितग्ँ हिरण्यमयम् ।।मंडपमिति शेषः । प्रभुणा भगवता परमपुरुषेण विशेषेण मितं स्वभोग्यभूमित्वेन विशेषतः परिगृहीतमित्यर्थः । भगवतो व्याप्तत्वेऽपि नित्यविग्रहविशिष्टतया सन्निधानाद्विमितत्वम् । अतश्च तद्देश विशिष्टब्रह्मप्राप्तिरेव ब्रह्मप्राप्तिरितिभावः ।।तद्य एवैतावरं चाण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः तेषां सर्वेषु लोकेषु कामचारो भवति ।ब्रह्मप्राप्तिसाधनीभूतारण्यशब्दितार्णवद्वयप्राप्तेः ब्रह्मचर्याधीनत्वाद्ब्रह्मचर्यमेव सर्वसाधनोत्कृष्टमिति भावः ।।उक्तब्रह्मलोकप्राप्तिसाधनतया मूर्धन्यनाडीगमनं प्रस्तौति ।।अथ या एता हृदयस्य नाड्यस्ताः पिंगलस्य अणिम्नस्तिष्ठंति शुक्लस्य नीलस्य पीतस्य लोहितस्येति ।।हृदयसंबंधिन्यो नाड्यो नानारूपसूक्ष्मान्नरसपूर्णास्तिष्ठंतीत्यर्थः।असौ वा आदित्यः पिंगलः एष शुक्ल एष नील एष पीत एष लोहितः ।आदित्यस्य नानारूपत्वं च मधुविद्यायं प्रसिद्धं प्रत्यक्षसिद्धं च । ततश्चैतद्रश्मि संबंधादेवान्नरसस्य नानारूपत्वं चेति भावः ।।तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च एवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गछंतीमं चामुं च ।।यथा विस्तीर्णो महापथो ग्रामद्वयप्रतिष्ठितो भवति तथादित्यस्य रश्मयो लोकद्वयानुप्रविष्टा इत्यर्थः । लोकद्वयानुप्रवेशक्रममाह ।अमुष्मादादित्यात्प्रतायंते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायंते तेऽमुष्मिन्नादित्ये सृप्ताः प्रतायन्ते सन्ततास्सृप्ताः ।प्रतायंतेसंतताः सृप्ताः प्रविष्टाः । रश्मीनामुभयलिंगत्वादेता इतिच निर्देशः । शिष्टंस्पष्टम् ।तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नस्स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति ।तत् तस्मात् यत्र यदा समस्त उपसंहृतकरणमंडलः अत एवं संप्रसन्नःबाह्यविषयसंपर्कजनितकालुष्यशून्यः स्वप्नं न पश्यतीति । एतत्स्वप्नादर्शनं सुषुप्तिरिति यावत् ।तदा आसु नाडीषु प्रविष्टो भवति पुरीतद्गतब्रह्मगमनाय नाडीषु प्रविष्टो भवति । नाड्यो वा द्विसप्ततितहस्राणि हृदयात्पुरीततमभिप्रतिष्ठंते । “आभिः प्रत्यवसृप्य पुरीतति शेत” इतिश्रुत्यंतरात् नाडीपुरीतद्ब्रह्मणां समुच्चयेन सुषुप्तिस्थानत्वस्य “तदभावोनाडीषु तच्छुतेरात्मनिच” (ब्र.सू.3.2.7) इत्यत्र स्थितत्वात्तासामपि सुषुप्तिस्थानत्वं द्रष्टव्यम् ।तन्न कश्चन पाप्मा स्पृशति ।।सुषुप्तौ सतोऽपि कर्मणः फलजननसामर्थ्यं नास्तीत्यर्थः । तन्न कश्चन पाप्मा स्पृशतीत्यस्मिन्वाक्येऽनुष्ठानाशक्तिर्विवक्षितेति व्यासार्यवचनस्याप्ययमेवार्थः ।तत्र हेतुमाह ।तेजसा हि तदा संपन्नो भवति ।”सता सोम्य तदा संपन्नो भवती”ति श्रुतेः । तेजश्शब्दः प्रकाशगुणयोगाद्ब्रह्मपरः । ब्रह्मणि संपत्तिर्नामदेहेंद्रियाधिष्ठातृत्वराहित्येन ब्रह्मण्यवस्थानम् । संपत्त्यधिकरणस्य करणत्वविवक्षया तृतीया निर्देशः ।अथ यत्रैतदबलिमानं नीतो भवति ।।अथ शब्दोऽर्थांतरप्रस्तावार्थः । अबलस्य भावः अबलिमाऽबलत्वम् । विरोधिकृतदौर्बल्यं नीतो भवतीत्येतद्यत्र यदेत्यर्थः । तदा दौर्बल्यं प्राप्तवानित्यर्थः ।तमभित आसीना आहुर्जानासि मां जानासि मामिति ।।तादृश दृशा विशिष्टं परितो वर्तमाना बांधवाः मां जानासि मां जानासि किमित्याहुः । यदा एतासु नाडीषु स्थित इत्यर्थः ।स यावदस्माच्छरीरादनुत्क्रांतो भवति तावज्जानाति । अथ यत्रैतच्छरीरादु त्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते ।।स्पष्टोऽर्थः । (तद्यथ महापथा आतत उभौ ग्रामौ गच्छतीमं चामुं च एवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गच्छंतीमं चामुं च अमुष्मादादित्यात्प्रतायंते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायंते अमुष्मिन्नादित्ये सृप्ता इतीति) ।स आेमिति वा होद्वामीयते ।।स विद्वान् “ऊँ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः”तस्योदितिनामेति च प्रमाणप्रसिद्धं परमात्मनम आह कीर्तयति । कीर्तयन्नेव मीयते प्रमीयते च । मरणकाले तस्यभगवतो नामस्मरणं संभवति । यद्वा एतैरश्मिभिरुन्मीयते उन्नीयते । एको वा शब्दोऽवधारणार्थः ।।स यावत् क्षिपेन्मनस्तावदादित्यं गच्छति ।।मनोवेगेनैव गच्छतीत्यर्थः । न च यावत् क्षिपेन्मनस्तावदादित्यं गच्छतीति त्वरावचनेन रश्म्यनुसारिणः मार्गस्य मार्गांतरवैलक्षण्य प्रतीतेर्मार्गभेदः शङ्क्यः । “अर्चिरादिना तत्प्रथितेः” (ब्र.सू.4.3.1) इत्यधिकरणे नानाशाखासु तस्यैव मार्गस्य प्रथितेः प्रत्यभि ज्ञानादर्चिरादिरेक एव मार्गः । अतोऽर्चिरादिनैष मार्गेण विद्वान् गच्छतीति समर्थितत्वात् । स यावत् क्षिपेदिति त्वरावचनस्य काश्मीरापेक्षया मगधान् क्षिप्रं गच्छंतीतिवत् गंतव्यस्वर्गाद्यपेक्षयादित्यगमनस्य शैघ्र्येणाप्युपपत्तेर्न दोषः ।।एतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ।।विदुषां ब्रह्मलोकस्य प्रपदनं द्वारम् । प्रपद्यतेऽनेनेति प्रपदनं प्राप्तिसाधनम् । य आदित्यः अविदुषां च निरोधकः । अविद्वांसो हि सूर्यमंडलभेदासामर्थ्यान्नगंतुं शक्नुवन्तीत्यर्थः ।।तदेष श्लोकः ।।तस्मिन्विषयेएषवक्ष्यमाणश्लोकः प्रवर्ततेइत्यर्थः ।।शतं चैका च हृदयस्य नाड्यः तासां मूर्द्धानमभिनिस्सृतैका ।तयोर्ध्व मायन्नमृतत्वमेति विष्वङ्ङन्या उक्रमणे भवंति ।।मूर्धन्यनाड्या गच्छन्मुक्तिं प्राप्नोति । विष्वग्गतय इतरनाड्यस्तूत्क्रमणमात्रे भवन्ति, नत्वमृतसाधनीभूतोर्ध्वगतावित्यर्थः । यद्वा विष्वगुत्क्रमणे अन्या उपयुज्यंत इत्यर्थः । एवं दहरविद्यां समाप्य तदंगभूतां प्रत्यगात्मविद्यां प्रस्तौति ।।य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको(ऽ)विजिघथसोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश्च लोकानाप्नोति सर्वांश्चकामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ।अनुविद्येति वाक्यार्थज्ञानमुच्यते । विजानातीति ध्यानमिति लघुसिद्धांते भाषितम् ।।तद्धोभये देवा असुरा अनुबुबुधिरे ।।प्रजापतिवचनमैतिह्यरूपेण देवा असुरा उभयेऽपि श्रुतवन्त इत्यर्थः ।।ते होचुर्हंत तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्चकामानिति ।तमन्विच्छामः श्रवणमननाभ्यामवगच्छाम इत्यर्थः ।।इंद्रो ह वै देवानमभिप्रवव्राज विरोचनोऽसुराणाम् ।देवानां मध्ये इंद्रश्चासुराणां मध्ये विरोचनश्च प्रजापतिसमीपं गंतुं प्रस्थितौ ।तौ हासंविदानावेव समित्पाणी प्रजापतिसमीप (सकाश) माजग्मतुः ।।असंविदानौपरस्परासूयया परस्परसंमंत्रणमकुर्वंतावित्यर्थः । शिष्टंस्पष्टम् ।तौ ह द्वात्रिंशतग्ं वर्षाणि ब्रह्मचर्यमूषतुः ।।द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यं चेरतुः ।तौ ह प्रजापतिरुवाच किमिच्छंताववास्तमिति ।।किं प्रयोजनमुद्दिश्योषितवंतावित्यर्थः ।।तौ होचतुः य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको(ऽ)विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सो न्वेष्टव्यः सविजिज्ञासितव्यः ।स सर्वांश्चलोकानाप्नोति सर्वांश्चकामान्यस्तमात्मानमनुविद्य विजानातीतिह भगवतो वचो वेदयंतेतदिच्छंताववास्तमिति ।।य आत्मेत्यादि । भगवतः पूज्यस्य तववचनमैतिह्यरूपेण वेदयन्ते जनाः तमिच्छन्ताऽवास्तां ।तद्ज्ञानमिच्छंतावावामुषितवंतावित्यर्थः । अवास्तमिति पुरुषव्यत्ययश्छांदसः ।।तौ ह प्रजापतिरुवाच । य एषोऽक्षिणि पुरुषो दृश्यतेएष आत्मेति होवाच ।एतदमृतमभयमेतद्ब्रह्मेति ।।अत्र एषोऽक्षिणिपुरुषो दृश्यत इति नेहाक्षिपुरुषः परमात्मा । “एतं त्वेव तेभूयोऽनुव्याख्यास्यामीत्युपक्रम्य स्वप्नाद्यवस्थाविधानात् । नचेह जीवस्याक्षिणि स्थिति रुपदिश्यते ।अपित्वक्षिविकाराज्जीवस्य स्थितिगती निश्चीयेते । अतोऽक्ष्णोर्जीवस्थितिगति सूचकत्वादक्षिणि दृश्यत इत्युक्तं । कर्मणः सामर्थ्यसूचकत्वाभिप्रायेणास्यास्मिन्कर्मणि सामर्थ्यं दृष्टमितिवत् । ततश्च गृहे स्थित्वा निर्गच्छन्पुरुषः यथा गृहादन्यः एवं शरीरे स्थितिगतिमानात्मा शरीरादन्य इत्युक्तं भवति । अमृतमिति निरतिशयसुखरूपत्वम् अभयमिति दुःखासंभिन्नत्वं ब्रह्मेत्यसंकुचित ज्ञानतया ब्रह्मत्वं चोक्तमिति व्यासार्यैरुक्तम् ।।अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इति ।।एवं प्रत्यगात्मनि प्रजापतिनोपदिष्टे छायापुरुष आत्मेत्युपदिष्ट इति भ्रान्त्या स्वग्रहीत छाया पुरुषात्मत्वदृढीकरणाया जलादर्शादिप्रतिबिम्बोप्यथि प्रतिबिम्बाभिन्नात्मैव उत तद्भिन्नो नात्मेत्यभिप्रायेण पप्रच्छतुरित्यर्थंः एवं ताभ्यां पृष्ठः तर्योभ्रान्तिमनिराकुर्वन्तेवाह ।एष उ एवैषु सर्वेष्वंतेषुपरिख्यायत इति होवाच ।।यश्चक्षुषि दृश्यत्वेन मयोक्तः स आत्मा सर्वांतरो जलादिष्वपि न भिद्यत इत्युत्तरं ददावित्यर्थः । शिष्यभ्रांतिमनिराकृत्य तद्भ्रान्तिदृढीकरणायेत्थमुत्तरं ददत आचार्यस्यायमभिप्रायः ।सुरा सुरेन्द्राविन्द्रविरोचनौ स्वात्मन्यध्यारोपितपांडित्यमहत्वातिशयौ । “तथैव जगति प्रसिद्धौ”च तद्यदि युवां भ्रांताविति ब्रूयां तदा चित्तावसादात्पुनः प्रश्नग्रहणधारणेषु भग्नोत्साहौ स्याताम् । अतो यथाश्रुतप्रश्नमात्रस्योत्तरमिदानीं वक्तव्यम् । अनेन चोत्तरेण पूर्वोत्पन्न प्रतिबिंबात्मभ्रमो दृढीभवति चेद्भवतु । दृढीभूतोऽपिभ्रमः उदशराव निरीक्षण नियोजनोपायेनापनेष्यत इति । अत एव तद्भ्रमापनयनार्थमेवोदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे ब्रूतमिति उदशरावापेक्षणे तौ नियुयोज । अत्र व्यासार्यैरेतादृशाभिप्रायपरिकल्पनस्यातिक्लिष्टत्वाद्योऽयं भगवोऽप्सुपरिख्यायते यश्चायमादर्शे कतम एष इति एष उ एवैषु सर्वेष्वंतेषु परिख्यायत इत्येतावानपि प्रश्न एव । प्रश्नमध्यगत इति शब्दः प्रश्नांते निवेशयितव्यः । इति होवाचेत्येतदुत्तरस्यास्यो दशराववाक्यस्य शेषभूतम् । उदशरावे आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे ब्रूतमिति होवाचेत्युत्तरेणान्वयः । तत्र एक इतिशब्दःसमाप्तिद्योतकः अन्यस्तुप्रकारवचनः । अथवा कतम एष इतीत्यत्र इति शब्दोवक्ष्यमाणवचनः ।अन्यस्तु प्रकारवचनः इत्येवं नेतिशब्दद्वयवैयर्थ्यमभि प्रेत्य प्रजापति हृदयानभिज्ञानाच्छाया पुरुष उपदिष्ट इति मत्वा पुनःपप्रच्छतुः । योऽयंभगवोऽप्सुपरिख्यायत इत्यादिना सर्वेष्वंतेषु नेत्रादिस्थानेषु परिख्यायते कतम एष इत्यर्थ इत्युक्तम् । चक्षुरादिप्रतिबिंब एवात्मेति दार्ढ्यार्थं पुनरपि पप्रच्छतुरिति भावः । जलादिस्थानेषु दृश्यते स नेत्रे दृश्यमान एष एव किमुतान्यः कतम एष इति व्यासार्याणामभिप्रायः ।।उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथः तन्मे प्रब्रूतमिति ।।उदकपूर्णे शरावे आत्मानं दृष्ट्वा आत्मसंबंधिनमनुपपन्नतया भासमानं सम्यगनवगतमंशं युवां वदतमित्युक्तवान् ।।तौ होदशरावे अवेक्षांचक्राते ।तौह प्रतिबिंबमवलोकितवंतौ । अवलोक्यापि दोषास्फुरणात्तूष्णीमुषितवंतौ । तयोरनुपपत्तिस्फूर्तिं ज्ञात्वा किंपश्यथइतिस्वयमेवप्रजापतिरुवाचेत्याह ।तौ ह प्रजापतिरुवाच किंपश्यथेइति ।तौ होचतुः । सर्वमेवेदमावां भगव आत्मानं पश्याव आलोमभ्य आनखेभ्यःप्रतिरूपमिति ।।इदं प्रतिरूपमात्मानं पश्याव इति प्रतिबिंबात्मभ्रममेवोद्धाटितवंतौ ।।तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वा उदशरावेऽवेक्षेथामिति । तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे अवेक्षां चक्राते । तौ ह प्रजापतिरुवाच । किं पश्यथे इति । तौ हो चतुः । यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृताविति ।।आवां साध्वलंकृतौ सुवसनौ परिष्कृतौ स्वः भवाव इतीदं यथैव तथैव इमावपि प्रतिबिंबौ साध्वलंकारादियुक्ताविति प्रत्यूचतुरित्यर्थः । अत्रोदशरावावेक्षणालंकृत देहप्रतिबिंब निरीक्षणयोर्नियुंजानस्य प्रजापतेरययमभिसन्धिः । आगमापायशाला द्वात्रिंशद्वर्षब्रह्मचर्यदीर्घी भूतकेशनखवस्त्रा लंकारादिलक्षणदोषगुणयुक्त व्यवस्थितदेहानुकारिदोषगुणवत्त्वाद्देह वत्तत्प्रतिबिंबोप्यनात्मा निरतिशय सुखत्वदुःखासांभिन्नत्वलक्षणामृतत्वाभयत्वशून्य इति जानीयातामिति । एवं द्विविधनियोजनेऽप्यप्रक्षीणकल्मषतया दोषादर्शनेन प्रतिबिंबात्म भ्रमोऽनापनीतः । ततःप्रजापतिर्भ्रांतिनिवारणार्थं मया कृतस्य द्विविधप्रतिबिंबदर्शनस्याभि प्रायमिमावप्रक्षीणकल्मषत्वान्नावगच्छतः । प्रत्यक्षं च युवां भ्रांताविति वक्तुमप्यनर्हौ । तदिदानीमेतदीय हृदयानुरोधेन प्रतिबिंबमेव निर्दिश्य सर्वांतरं परमात्मानं मनसि निधाय एषआत्मेत्युपदेशेन तयोराकांक्षां निवर्तयिष्यामि । कालेन कल्मषे प्रक्षीणे मद्वचनसंदर्भस्यसर्वस्याप्यभिप्रायं स्वयमेवावगमिष्यतः । विचिकित्समानौ वा मत्समीपमागमिष्यत इति मत्वा ।एष आत्मेति होवाच । एतदमृतमभयमेतद्ब्रह्मेति ।।स्पष्टोऽर्थः ।।तौ ह शांतहृदयौ प्रवव्रजतुः ।।शांतहृदयौ निवृत्ताकांक्षावित्यर्थः ।तौ हान्वीक्ष्य प्रजापतिरुवाच ।।एवं प्रतिनिवृत्तयोः प्रजापतिर्भ्रांतिगृहीतार्थश्रद्धयेमौ विनष्टौ मा भूतामिदमपि मद्वचनं य आत्मेति पूर्ववचनवत्कर्णाकर्णिकया गिरा श्रृणुतामित्यभिप्रेत्योवाचेत्यर्थः ।।अनुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यंति देवा वा असुरा वा ते परा भविष्यंतीति ।।एताविंद्रविरोचनावात्मस्वरूपं श्रवणमननाभ्यामज्ञात्वा गच्छतः यतरे ये देवा वा असुरा वा एतदुपनिषदो भविष्यंति । उपनिषच्छब्द उपदेशपरः । अनयोरुपदेशाद्भ्रांतिगृहीतार्थ विषयकनिश्चयायेहि भविष्यंति ते पराभविष्यंति । नित्य संसारिणो भविष्यंतीत्यर्थः ।।स ह शांतहृदय एव विरोचनोऽसुरानाः (न्) जगाम तेभ्यो हैतामुपनिषदं प्रोवाच ।।विरोचनस्तुप्राजापत्यस्य द्विविधदेहच्छायादर्शन नियोगस्य देहानुकारित्वाच्छायाया देह एवात्मेति सूचने तात्पर्यम् । अलंकृतदेहच्छायां निर्दिश्यैष आत्मेत्युपदेशस्य नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्घमिति वचनस्य च्छायानिमित्ते वाससीवालंकृत देहेतात्पर्यमिति मन्वानो देह एवात्मालंकारादिभिः परिचरणीय इति निश्चित्य राज्यं प्राप्यासुरेभ्यस्तथैवोपादिशदित्यर्थः ।आत्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुंचेति ।।आत्मैव देह एव महय्यः पूज्य इत्यर्थः । उभौ लोकाविति सर्वलोकसुखानुभवोऽपि शरीरगत एवेति भावः । स संप्रदायोऽद्याप्यनुवर्तत इत्याह ।।तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुः आसुरो बतेति असुराणाँ ह्येषोपनिषत् ।।यस्मादसुरेभ्य इयमुपनिषत् प्रवृत्ता तस्माद्यागदानश्रद्धावैघुर्य हेतुभूतनास्तिक्य बुद्धिरसुराणामेव हि । अत एतादृशं पुरुषं जना असुरमाहुः ।।प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वंति एतेन ह्यमुं लोकं जेष्यंतो मन्यंते ।।यत एव देहस्यैवात्मतया परिचरणीयत्वम् अत एव प्रेतस्य मृतस्य शरीरं भिक्षित्वा वस्त्रालंकारादिभिः पूजयंति । कुणपसंस्कारेणैव परलोकजयं मन्यमाना इत्यर्थः । ततः प्रतिबिंबस्य बिंबदोषानुविधायित्वदोष दर्शनेन प्रत्यागताय पुनरपि द्वात्रिंशद्वर्षाण्युषितवते मघवते ।य एष स्वप्ने महीयमानश्चरति एष आत्मेति होवाचेति ।।स्वप्नावस्थस्य जीवस्योपदेशः । अनन्तरम् ।घ्नंतित्वेवैनं विच्छादयंतीवा प्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ।।हन्यमानत्वद्राव्यमाणत्व बन्धुमरणाद्यप्रियद्रष्टृत्वादिदोषदर्शनेन प्रतिनिवृत्ताय द्वात्रिंशर्द्वाण्युषितवते ।।तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच इति ।।सुषुप्त्यवस्थजीवस्योपदेशः ।।नाहखल्वयमेवँ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ।।सुषुप्तौ स्वपरज्ञानशून्यतया मरणतुल्यतादोषं दृष्ट्वा प्रतिनिवृत्ता य पंचवर्षाण्युषितवते उपदेशयोग्याय जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयातीतं मुक्तात्मस्वरूपमाह ।।मघवन्मर्त्यं वा इदँ शरीरमात्तं मृत्युना तदस्यामृतस्या शरीर स्यात्मनोऽधिष्ठानम् ।।हे मघवन् इदं शरीरमेव हि मरणधर्मि न केवलं मरणधर्मित्वमात्रम् । अपि तु तद्व््याप्तं च । सततविनाशशीलमितियावत् । इदं च शरीरे हेयत्वानुसंधानार्थमुक्तम् । एवं भूतं तदिदं शरीरंकर्मकृतशरीरं कर्मकृतशरीरराहित्यलक्षणामृतत्वस्वरूपस्यात्मनो भोगाधिष्ठानम् । कर्मवशेन जीवेन भोगार्थं परिगृहीतमित्यर्थः । ततश्चाशरीरत्वमेव स्वरूपम् । सैवामृतत्वलक्षणामुक्तिः ।सशरीरत्वमेव तदभाव इत्युक्तं भवति ।।ननु पुरुषार्थस्य हि मुक्तिरूपत्वं वक्तव्यम् । नह्यशरीरत्वं पुरुषार्थः अपि तु दुःखाभावः । ततश्च तस्यैवामृतत्वरूपत्वमुचितं नत्वशरीरत्वस्येत्यत्राह ।न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ।।कर्मारब्धशरीरयोगिनः तदनुगुण सुखदुःखयोगस्यावश्यंभावित्वात्कर्मारब्ध देहसंबंधाभावस्य पुरुषार्थतया मुक्तिरूपत्वमुपपद्यत इति भावः । व्यतिरेकं दर्शयति ।।अशरीरं वा व संतं न प्रियाप्रिये स्पृशतः ।।वावशब्दः प्रसिद्धाववधारणे वा । ततश्चावस्थात्रयराहित्यलक्षणस्वरूपमेव मुक्तिरित्यर्थः । शिष्टंस्पष्टम् ।।अशरीरो वायुः ।।शिरः पाण्यादिलक्षणशरीरशून्यो वायुरित्यर्थः ।।अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि ।।अभ्रादीनि चाशरीराणीत्यर्थः । अब्भ्रं भूत्वा मेघो भवतीत्यादिवत् । अब्भ्रस्तनयित्न्वोरवस्थाभेदेन भेदो द्रष्टव्यः । अशरीराणां च प्रियाप्रियानन्वयो दृष्ट इति भावः ।।तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यंते । एवमेवैषसंप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुप संपद्य स्वेनरूपेणाभिनिष्पद्यते ।।अत्र व्यासार्यैस्तु वाय्वादीनामाकाशात्समुत्थानं नाम स्वकार्यकरणायोर्ध्वदेशे अभिवृद्धिः ।परशब्दो वाय्वादीनां कारणावस्थावाची । ज्योतिश्शब्दःः स्वकारणानां कार्योत्पादनद्वारेण तदभिव्यक्तिहेतुतया प्रयुक्तः । वाय्वादीमनिच कारणद्रव्यमुपगत्य कार्यावस्थां हित्वा कारणसदृशेन रूपेण विशिष्टानि भवन्ति । वायुर्हि आवहप्रवहादिरूपेण सप्तविधत्वं हित्वा वायुत्व मात्रेणावतिष्ठते । विद्युच्च विद्युत्त्वं हित्वा तेजस्त्वेन अभ्रस्तनयित्नू चाभ्रत्वादिप्रहाणेनस्वकारणरूपेण । एवं जीवोऽपि मार्गविशेषेण देशविशेषविशिष्टं परं ब्रह्म प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेणाविर्भवतीत्यर्थः । एवं सत्येव दृष्टांते दार्ष्टांतिकवाक्यसामंजस्यं भवतीति वर्णितम् ।स उत्तमः पुरुषः स तत्र पर्येति ।।स उपसंपदनीय उत्तमः पुरुष इत्यर्थः । उत्तमः पुरुषस्त्वन्य इति भगवत एवोत्तम पुरुषत्वेनोपसंपदनकर्त्तर्युत्तमपुरुषत्वस्य बाधितत्वात् । स तत्र पर्येतीत्युत्तरवाक्यस्वारस्य भंगप्रसंगाच्च । स उपसंपत्ता परमात्मनि पर्येति तं परितोनुभवति । यद्वानुसंचरति “कामरूप्यनुसंचरन् यत्र यत्र धाता गच्छति” इति श्रुत्यंतरात् ।।जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा ।।यथेष्टं भोगानवाप्नोतीत्यर्थः ।।नोपजनं स्मरन्निदँ शरीरम् ।।स्त्रीपुंसयोरन्योन्योपगमेन जातमित्युपजनत्वं शरीरस्य । तेन चापुरुषार्थत्वमुच्यते । अथवोपजनं जनानां बंधुजनानां समीपे शयितं कुणपमित्यर्थः । यद्यपि मुक्तस्स सर्वज्ञत्वात् त्यक्तमपि शरीरमनुभवत्येव । तथाप्यब्रह्मात्मकतया दुःखस्वरूपत्वेनानुभूतं शरीरं तत्र मुक्तदशायां तथा नानुभवतीत्यर्थः । आत्मनोऽशरीरस्वभावत्वे प्राक्छरीरसंबंधः किंनिबंधन इत्यत्राह ।।स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिच्छरीरे प्राणो युक्तः ।।यथा आचरणे शकटे प्रयोग्यो युग्यः अश्वो बलीवर्दो वा पाशेन युक्तो भवति एवमेवायं प्राणसहचारी प्रत्यगात्मा संसारदशायां कर्मपाशवशेन युक्तो भवति । अनेन युग्यशकटदृष्टांतेन देहात्मनोर्व्यतिरेको दृढीकृतो भवति ।।अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः ।।आकाशं प्रकाशमानालोकादि अथवा प्रकाश्यमानत्वाद्वा आकाशंरूपम् । ततश्चायमर्थः ।यत्र यस्मिन्नुपकरणत्वेनानुविषण्णं निबद्धं चक्षुः आकाशमालोकं रूपं वा प्रकाशयतीति शेषः । यद्वा आकाशं रूपादिप्रकाशकं चक्षुरित्यर्थः । स चाक्षुषः चक्षुरुपकरणकः पुरुष आत्मेत्यर्थः ।चक्षुरुपकरणकमुद्दिश्य पुरुषशब्देनात्मत्वं विधीयते । चक्षुस्तुदर्शनकरणमात्रम् । ततश्चक्षुरादीनां रूपादीनामात्मनश्च करणत्वज्ञेयत्वज्ञातृत्वप्रदर्शनमुखेन शरीरें द्रियेभ्यो व्यतिरेक उपपादितो भवति ।।अथ यो वेदेदं जिघ्राणीति स आत्मा गंधाय घ्राणम् ।।गंधग्रहणकरणं घ्राणम् । ज्ञातात्वात्मेत्यर्थः । अनेन घ्राणेंद्रियव्यतिरेकयुक्तो भवति ।।अथ योवेदेदमभिव्याहराणीति स आत्मा । अभिव्याहाराय वाक् । अथ यो वेदेदं श्रृणवानीति स आत्मा । श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा । मनोऽस्य दिव्यंचक्षुः । स वा एष एतेन दिव्येन चक्षुषा मनसैतान्कामान्पश्यन् रमते य एते ब्रह्मलोके ।।विधूतकर्मनिमित्तशरीरेंद्रियः पुरुषः मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वान्कामाननुभवन्मोदत इत्यर्थः । शिष्टं स्पष्टम् ।।तं वा एतं देवा आत्मानमुपासते तेषां सर्वे च लोका आत्ताः सर्वे च कामाः ।।एतादृशात्मस्वरूपस्य मघवते उपदिष्टत्वाद्देवाः सर्वे मघवत एतमात्मानमुपश्रुत्य तमेवोपासते । अतस्तेषां सर्वलोकसर्वकामावाप्त्युपलक्षितब्रह्मानुभवो भवति । असुराणां तु न तथेति भावः । अद्यत्वेऽपि तमुपासीनानां तत्प्राप्तिर्भवतीत्याह ।।सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति ।।अद्यत्वेऽपि मनुष्याणामपि तमात्मानमुपासीनानां सर्वलोकसर्वकामावाप्तिर्भवतीत्यर्थः ।अत्र किं प्रमाणमित्यत्राह ।।इति ह प्रजापतिरुवाचेति ।।द्विरुक्तिर्विद्यासमाप्त्यर्था । अत्र प्रत्यगात्मविद्याया ब्रह्मविद्यांगत्वेनांगीभूतब्रह्मविद्या फलमेव तदंगप्रत्यगात्मविद्यायास्तुत्यर्थं निर्दिश्यत इति द्रष्टव्यम् । उक्तं च भगवताभाष्यकृता प्रजापतिवाक्ये मुक्तात्मस्वरूपयाथात्म्यविज्ञानंहरविद्योप योगितयोक्तं ब्रह्मप्रेप्सोर्हि जीवात्मनः स्वस्वरूपं च ज्ञातव्यमेव स्वयमपि कल्याण गुण एव सन्ननवधिकातिशया संख्येयकल्याण गुणगणं परंब्रह्मानुभविष्यतीति ब्रह्मोपासनफलांतर्गतत्वात् ।सर्वांश्लोकानाप्नोति सर्वांश्च कामानिति प्रजापति वाक्ये कीर्त्यमानं फलं दहरविद्याफलमेवेति ।ननु प्रजापतिविद्याया दहर विद्यांगत्वे दहरब्रह्मविद्याधिकृतायैवोपदेष्टव्यास्यात् । उपकोसलविद्यांगभूताग्निविद्यावत्-प्रकृते च ब्रह्मविद्याविधुरायेन्द्रायोपदिश्यमानायाः प्रत्यगात्म विषयकप्रजापतिविद्यायाः कथं विद्यान्तरशेषत्वमिति चेन्न । प्रजापतिवाक्यस्यैष संप्रसाद इति दहरविद्यावाक्यांतर्गत संप्रसादशब्दार्थशोधनार्थं प्रवृत्ततया तदेकवाक्यत्वेन तादर्थ्ये सिद्धेइन्द्रस्यापि पश्चाद्दहर विद्योपदिष्टेत्येवावगंतव्यत्वेनादोषात् ।। ननु प्रजापतिविद्यायाः प्रकरणाद्दहरविद्याशेषत्वे सर्व ब्रह्मविद्याशेषत्वं न स्यात् । विद्यांतरशेषत्वे प्रमाणाभावात् । नचेष्टापत्तिः । “आत्मेतितूपा गच्छन्ति ग्राहयंति च” (ब्र.सू.4.1.3.)प्रजापतिवाक्योदितापहत पाप्मत्वादिलक्षणःसांसारिकरूपव्यतिरेक एवानुसंधेयः । तथोपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपरूपफलप्राप्तेर्भावादित्यादिना “व्यतिरेकस्तद्भाव भावित्वान्नतूपलब्धिवत्” (ब्र.सू.3.3.54) इतिसूत्रेण सिद्धांतितत्वा दिति चेन्न ।। यथाविद्या विशेषप्रकरणश्रुतानांसत्यत्वज्ञानत्वादिस्वरूपनिरूपकधर्माणाम्”आनन्दादयःप्रधानस्य” (ब्र.सू.3.3.19) इत्यधिकरणोक्तन्यायेन सर्वब्रह्मविद्यापेक्षित ब्रह्मस्वरूपप्रतीत्युपयोगितया सामर्थ्यरूपाल्लिंगात्प्रकरणभंगेन दहरविद्यांगत्वेऽपि सर्वब्रह्मविद्यासाधारण्यमाश्रीयते । यथा वा “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति” इति विद्याविशेषप्रकरणश्रुतानां वेदानुवचनादीनां सर्वविद्यापेक्षितचित्तनैर्मल्योपयोगित्व लक्षणसामर्थ्यरूपलिंगवशेन सर्वविद्यासाधारण्यमवमिहापि ब्रह्मप्राप्तिपूर्वकापहतपाप्मत्वादि गुणाष्टकविशिष्टस्वात्माविर्भालक्षणमोक्षरूपफलस्य तत्क्रतुन्यायेन तादृशस्वात्मोपासनसाध्यत्वेन प्रजापतिवाक्योदितप्रत्यगात्मविद्यायाः सर्वविद्यापेक्षितत्वात् ।।प्रजापतेः सभांवेश्मप्रपद्ये ।।प्रजापतेः परमात्मनः सभास्थानं वेश्म प्रपद्ये । प्रभुविमितं हिरण्मयमिति दहरविद्यायां ंनिर्दिष्टं वेश्म प्रपद्य इत्यर्थः । न चात्र प्रजापतिशब्दः कार्यभूतहिरण्यगर्भविषयः । “नच कार्ये प्रत्यभिसंधिः” (ब्र.सू.4.3.14) इति सूत्रकृतैव निरस्तत्वात् । भाष्यकृता च नच कार्ये प्रत्यभिसंधिः कार्ये हिरण्यगर्भे । अपि तु परस्मिन्नेब ब्रह्मणि यशोऽहं भवामि ब्राह्ममानामिति तस्याभिसंधातुः सर्वाविद्याविमोकपूर्वकसर्वात्मभावाभिसंधानात् । अश्व इव रोमाणि विधूय पापं चंद्र इवराहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्माब्रह्मलोकमभि संभवामीत्यभिसंभाव्य ब्रह्मलोकस्याकृतत्वश्रवणात् । सर्वबंधविनिर्मोकस्य च साक्षाच्छ्रवणा दिति भाषितम् ।।यशोऽहंभवामि ब्राह्मणानाम् । यशो राज्ञाम् । यशो विशाम् ।।अत्र यशश्शब्देन तत्साधनमात्मोच्यते । ब्राह्मामादीनामात्मास्मीत्यर्थः । अत्राहमिति शब्दः स्वांतर्यामिपरमात्मपरः ।।तद्धैतद्ब्रह्मा प्रजापतय उवाच।। इत्यादिएतद्ब्रह्मज्ञानम् । ब्रह्मा हिरण्यगर्भः । प्रजापतये काश्यपाय । शिष्टं स्वष्टम् । विद्यांग भूततया कर्मानुष्ठातव्यमित्येतत्प्रस्तौति ।।आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेण ।।यथाविधानं विधिमनतिक्रम्य गुरोः कर्मातिशेषेण कर्माविशिष्टकालेन गुरुशुश्रूषानवरुद्धेन कालेनाधीत्येति योजना । “व्यासार्यैस्तु पुरुषार्थाधिकरणे” (ब्र.सू.3.4.1) अतिशेषेण निःशेषमित्यर्थ इति व्याख्यातम् । तेषामयमाशयः । ब्रह्मचारीवेदमधीत्योपायनान्याहृत्यगुर्वनु ज्ञातो दारान्कुर्वीत । विद्यांते गुरुरर्थे निमंत्र्यस्ततः कृतानुज्ञानस्य वा स्नानमित्यादिस्मृत्यनु सारादाचार्याय प्रियं धनमाहृत्य प्रजातंतुं मा व्यवच्छेत्सीरित्यादिश्रुत्यनुसाराच्च गुरोर्यथा विधानमाचार्यस्य नियमनमनतिलंघ्य कर्तव्यं कर्मातिशेषेण । अतिमर्यादमित्यादावतेर्मर्यादा भावे वृत्तेर्दर्शनादतिरर्थाभावे वर्तते । ततश्चातिशेषेणाभिसमावृत्त्य निर्वर्त्येत्येवान्वयः ।नत्वतिशेषेणेत्यस्याधीत्येति पूर्वेणान्वयः । तस्य व्यवहितत्वान्निराकांक्षत्वाच्च । न च गुरोः कर्मशेषेण जपेदिति गौतमस्मृत्यैकरूप्यात् कर्मातिशेषशब्दस्यापि कर्मातिशिष्टकालपरत्वं वक्तव्यमिति वाच्यम् । शेषातिशेषशब्दयोर्भिन्नार्थत्वेन तत्प्रत्यभिज्ञाभावादिति ।।अभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः ।अभिसमावृत्त्य समावर्तनं कृत्वा गुरुकुलान्निवृत्येत्यर्थः । न्यायतो दारानाहृत्य कुटुंबे स्थित्वा गार्हस्थ्यविहिते कर्मणि निष्ठित इत्यर्थः । शुचौ देशे स्वाध्यायमधीयानः । स्वाध्यायमिति नित्यकर्मणामप्युपलक्षणम् ।।धार्मिकान्विदधत् ।।पुत्रशिष्यादीन्धर्मे नियुंजानः ।।आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः ।।अनात्मविषयेभ्यः इन्द्रियाणि निगृह्य शास्त्रीयहिंसाव्यतिरिक्तां हिंसामकुर्वाण इत्यर्थः ।।स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते । न च पुनरावर्तते न च पुनरावर्तते ।।स्पष्टोऽर्थः ।।