॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
द्युभ्वाद्यधिकरणम्
द्युभ्वाद्यायतनं स्वशब्दात् । (ब्र.सू.1.3.1) ॥मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयखण्डे ॥यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः ॥ ५ ॥यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनःप्राणादिकं समवेतं, तमेकमेव स्वेतरसमस्तनियन्तृत्वेन व्यापकतयात्मानं जानीत; अनात्मविषया वाचः त्यजत । अमृतस्यैष सेतुः । नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः । संसारार्णवपारभूतस्यामृतस्य एष प्रतिलम्भक इत्यर्थः ॥ ५ ॥अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ॥’सन्ततं सिराभिस्तु लम्बत्याकोशसन्निभम्’ (तैत्ति.नारायणनुवाक.) इत्युक्तरीत्या यत्र हृदये, रथनाभौ समर्पिता अरा इव नाड्यः संगताः । तत्र मध्ये स एष प्रकृत आत्मा ॥ ‘अजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिम्’ (तै.आ. पुरुषसूक्तम्) इति । देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयस्वरूपसंस्थानगुणकर्मसमन्वितः । स्वस्वभावमजहदेव स्वेच्छया बहुधा जायमानः सन् चरते वर्तत इत्यर्थः ॥ओमित्येवं ध्यायथ आत्मानम् ॥स्पष्टोऽर्थः ॥स्वस्ति वः, पाराय तमसः परस्तात् ॥ ६ ॥तमसः पारे वर्तमानाय वः पाराय परतीराय । ‘पारावारे परार्वाची तीरे’ इति नैघण्टुकाः । प्राप्यभूतायेति यावत् । तत्प्राप्तये ओमित्येवमात्मानं ध्यायथेत्यन्वयः । एवं ध्यानाय प्रवृत्तेभ्यो युष्मभ्यं स्वस्ति भवतु ॥ ६ ॥यः सर्वज्ञः सर्ववित् ॥उक्तोऽर्थः ॥यस्यैष महिमा भुवि ॥भूलोकसंसारतन्त्रप्रवर्तनरूप एष महिमा यदीयः ॥दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः ॥ ७ ॥’यस्यैष महिमा भुवीति लीलाविभूत्यन्वय उक्तः । दिव्ये व्योम्नीति त्रिपाद्विभूतिरुक्ता’ इति व्यासार्यैरुक्तत्वात् वैकुण्ठाख्ये ब्रह्मपुरे परमे व्योम्नि अयमात्मा प्रतिष्ठित इत्यर्थः ॥भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ७ ॥हृदयस्यान्तःकरणस्य ग्रन्थयः ग्रन्थिवद्दुर्मोचाः रागद्वेषादयः । हृत्स्थानमयत इति व्युत्पत्त्या हृदयशब्दितो जीवो वा ब्रह्मज्ञानेन सार्वज्ञसिद्धेः सर्वविषयकाः संशयाः नश्यन्ति । अस्य प्रारब्धव्यतिरिक्तानि पूर्वाण्यनेकभवार्जितानि कर्माणि च नश्यन्ति । नाशो नाम कर्मणां फलजननशक्तिविनाशः । ‘तदधिगम उत्तरपूर्वाघयोः….’ इति (ब्र.सू. 4.1.13) सूत्रे अघस्य विनाशकरणमुत्पन्नायास्तच्छक्तेर्विनाशकरणम् । शक्तिर्हि परमपुरुषाप्रीतिरेव’ इति भाषितम् । एतत्सर्वं कदेत्यत्राह । तस्मिन्दृष्टे परावरे । परे अवरे यस्मात् स परावरः । सर्वोत्कृष्टा अपि ब्रह्मादयो यस्मान्निकृष्टा इत्यर्थः । अथवा परावरे परावरशरीरके सर्वात्मभूत इत्यर्थः । तादृशे तस्मिन् दृष्टे – दर्शनसमानाकारज्ञानविषयीकृत इत्यर्थः ॥
इति द्वितीयखण्डदीपिका ॥द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ॥युज्यत इति युक् । युक्शब्दो गुणपरः । ‘समानगुणकः सयुक्’ इति व्यासार्यैर्विवृतत्वात् । सयुजौ समानगुणकौ । अपहतपाप्मत्वादिगुणैः परस्परसमानौ सखायौ सहचरौ । द्वौ सुपर्णौ द्वौ पक्षिसदृशौ । समानमेकम् । वृक्षवच्छेदनार्हं शरीरं समाश्रितावित्यर्थः ॥तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्योऽभिचाकशीति ॥ १ ॥तयोर्मध्ये अन्यतरो जीवः स्वादु परिपक्वं पिप्पलं कर्मफलं भुङ्क्ते । अन्यस्तु परमात्मा अभुञ्जान एव प्रकाशते । अत्र शरीरतदाश्रयजीवपरादिविषयवाचकशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिशब्दैर्वृक्षत्वाद्यध्यवसानं विषयनिगरणेन विषय्यध्यवसानलक्षणरूपकातिशयोक्तिविशेषायेति दृष्टव्यम् ॥समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ॥अनीशया भोग्यभूतया प्रकृत्या मुह्यमानः – ‘पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ’ (ब्र.सू. 3.3.4), ‘देहयोगाद्वा सोऽपि’ (ब्र.सू. 3.2.5) इत्युक्तन्यायेन तिरोहितपरमात्मशेषत्वज्ञानानन्दलक्षणस्वरूपः सन् वृक्ष इव च्छेदनार्हे एकस्मिन् शरीरे जीवः ‘स्थूलोऽहं’, ‘कृशोऽहम्’ इत्यादितादात्म्यबुद्ध्या पांसूदकवत् तदेकतामापन्नः सन् तत्संसर्गकृतानि दुःखान्यनुभवतीत्यर्थः ॥जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥इति शब्दो बुद्धिस्थप्रकारवचनः । चशब्दश्चाध्याहर्तव्यः । असौ जीवो निमग्नात्स्वस्माद्धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं स्वकर्मभिः प्रीतं परमात्मानमखिलजगदीशनलक्षणमस्य महिमानं च यदा पश्यति, तदा वीतशोको भवतीत्यर्थः ॥ २ ॥यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥पश्यतीति पश्यः । ‘पाघ्राध्माधेट्दृशः शः’ (पा.सू. 3.1.137) इति शप्रत्यये शित्त्वात् पश्यादेशः । यस्मिन् काले पश्यः । ब्रह्मदर्शी । रुक्मवर्णम् – ‘आदित्यवर्णं तमसः परस्तात्’ (तै.आ. 3. पुरुषसूक्तम्), ‘हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्’ इत्युक्तरीत्या देदीप्यमानदिव्यमङ्गलविग्रहयुक्तं जगत्कर्तारं जगदीशितारं ‘तस्मादेतद्ब्रह्म’ इति निर्दिष्टाव्याकृतब्रह्मोपादानभूतम् । ‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥’ (पाद्मोत्तरखण्डम् 6.274-66) इत्युक्तरीत्या निरुपाधिकपुरुषशब्दनिर्दिष्टं वासुदेवं यदा पश्यति, तदा पुण्यपापे निरस्य निरस्तप्रकृतिलेपः सन् अपहतपाप्मत्वादिगुणाष्टकलक्षणेन ब्राह्मेण रूपेण परमं साम्यमुपैतीत्यर्थः । व्यासार्यैस्तु षष्ठीतत्पुरुषे लक्षणाप्रसङ्गात् योनिं ब्रह्मेति योनिब्रह्मशब्दयोः सामानाधिकरण्यं युक्तमित्युक्तं, तदतिसुन्दरम् ॥प्राणो ह्येष सर्वभूतैर्विभाति ॥’सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति’ इत्यादाविव प्राणशब्दः परमात्मपरः । एष परमात्मा सर्वभूतैराश्रितो विभातीत्यर्थः ॥विजानन् विद्वान् भव तेनातिवादी ॥भवेति लोण्मध्यमैकवचनम् । विजानन् श्रवणमननाभ्यां विजानन् विद्वान् तमुपासीनः तेन परमात्मना अतिवादी भवेति शिष्यं प्रत्युपदेशः । अतीत्य सर्वान् वदितुं शीलमस्य सोऽतिवादी । यस्तु स्वोपास्यदेवतायाः सर्वातिशायित्वं वदति, सोऽतिवादीत्युच्यते ॥आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥यस्य क्रीडा आत्मन्येव, नोद्यानादौ स आत्मक्रीडः । यस्य रतिः आत्मन्येव न स्रक्चन्दनादौ स आत्मरतिः । ‘रतिः – स्रक्चन्दनादिजन्या प्रीतिः । क्रीडा – उद्यानादिजन्या’ इति भूमाधिकरणे (ब्र.सू. 1.3.7)व्यासार्यैरुक्तत्वात् । क्रियावान् – अननुसंहितफलक्रियानुष्ठानशाली च भवेति पूर्वेणान्वयः । क्रियावत्वं किमर्थमित्यत्राह । एष ब्रह्मविदां वरिष्ठः – क्रियया ह्यन्तःकरणेफलक्रियानुष्ठानशाली च भवेति पूर्वेणान्वयः । क्रियावत्वं किमर्थमित्यत्राह । एषः ब्रह्मविदां वरिष्ठः क्रियया ह्यंतःकरणेपरिशुद्धे ब्रह्मविद्यानिष्पत्तिशैघ्र्यात् ब्रह्मविदां वरिष्ठ इत्यर्थः ॥ ४ ॥सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।अन्तः शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥रागादिदोषशून्याः जितेन्द्रियाः यं पश्यन्ति सशरीरान्तर्वर्ति ज्ञानमयो निर्दोष आत्मा ‘मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः’ इत्युक्तबाह्याभ्यन्तरैरिन्द्रियैकाग्र्यलक्षणतपसा, आगमोत्थज्ञानेन च स्त्रीसङ्गादिराहित्यलक्षणनित्यब्रह्मचर्येण सत्येन भूतहितवचनेन च लभ्यः साक्षात्कर्तव्यः । उपासनद्वारा प्राप्य इति वार्थः ॥न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ॥देवा इन्द्रियाणि । शिष्टं स्पष्टम् ॥ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥’स नो देवः शुभया स्मृत्या संयुनक्तु’ इति ज्ञानहेतुतया ज्ञानशब्देन परमात्मोच्यते । निष्कलं परमात्मानं ध्यायन् उपासीनः पुमान् तत्प्रसादेन विशुद्धान्तःकरणः तदनन्तरं दर्शनसमानाकारज्ञानेन तं विषयीकरोतीत्यर्थः ।
तृतीयमुण्डकप्रथमखण्डदीपिका ॥
‘नायमात्मा प्रवचनेन’ (कठ. 1.2.23) इति मन्त्रः कठवल्यामेव व्याकृतः ॥नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् ॥अयमात्मा अवसन्नमनसा न लभ्यः । अवसादो नाम देशकालवैगुण्यादिजन्यं दैन्यम् । तदभावो हि बलम् । प्रमादः – अनवहितचित्तता । तपःशब्दः तपःप्रधानसंन्यासाश्रमपरः । ‘तप एव द्वितीयः’ इतिवत् । तस्य च लिङ्गं शिखायज्ञोपवीतादि । तद्रहितात्संन्यासादपि न लभ्यः इत्यर्थः । इदम् आश्रमान्तराणामप्युपलक्षणम् । सर्वाश्रमाणामपि ब्रह्मविद्याधिकारात् । आश्रमलिङ्गान्यपेक्षितानीत्यर्थः ॥एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशति ब्रह्म धाम ॥उक्तैर्बलाप्रमादसलिङ्गाश्रमैः यो विद्वान् ब्रह्मप्राप्तये यतते तस्यैष आत्मा तादृशोपायसंस्कृत आत्मा स्वरूपं धामभूतं प्राप्यभूतं ब्रह्म विशति प्राप्नोतीत्यर्थः ॥यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ॥यथा गङ्गायमुनासरस्वत्यादिनद्यः स्वोत्पत्तिस्थानेभ्यः प्रसृता गङ्गायमुनादीनि नामानि शुक्लकृष्णादीनि च रूपाणि विहाय एकतामेव भजन्ते ।तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥तद्वदेव भेदकनामरूपादिविमुक्तः सन्, ‘अक्षरात्परतः परः’ इति पूर्वमन्त्रनिर्दिष्टं पुरुषं प्राप्नोतीत्यर्थः । यथा नदीसमुद्रजलयोर्भेदकाकारप्रहाणमेव न तु स्वरूपैक्यम् एवं इहापि । ‘शुद्धे शुद्धमासिक्तं तादृगेव भवति’ इत्यादिश्रुत्यनुरोधात् भेदकाकारप्रहाणकृतसादृश्यमेव न त्वैक्यमिति द्रष्टव्यम् ॥स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति ॥आविर्भूतब्रह्मस्वरूपो भवतीत्यर्थः । आनुषङ्गिकप्रयोजनमाह ।नास्याब्रह्मवित्कुले भवति ॥ब्रह्मभावमेवाह ॥तरति शोकं तरति पाप्मानम् । गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥त्रिगुणात्मकप्रकृतिरूपगुहाकारितरागादिग्रन्थिभ्यो मुक्तः सन् अमृतशब्दितब्रह्मभूतो भवतीत्यर्थः ॥तदेतदृचाऽभ्युक्तम् ॥एतद्विद्यासंप्रदानमभिमुखीकृत्य ऋङ्मन्त्रेणोक्तम् ।क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।नित्यनैमित्तिकक्रियायुक्ता अधीतवेदा ब्रह्म बुभुत्सवः अग्निहोत्रं स्वयमेव कुर्वन्तः एकर्षिं मुख्यम् ऋषिं परमात्मानं श्रद्धयन्तः तत्र रक्षकत्वविश्वासशालिनो ये ।तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥अत्र विद्याशब्दो ग्रन्थसन्दर्भे वर्तते । यैः शिरस्यङ्गारपात्रधारणलक्षणम् आथर्वणिकानुष्ठेयं शिरोव्रतनामकं व्रतं चीर्णं तेषामेवेमामुपनिषदमध्यापयेदित्यर्थः ॥तदेतत्सत्यमृषिरङ्गिराः प्रोवाच ॥एतत्सत्यमक्षरमङ्गिरा ऋषिः शौनकाय प्रोवाच ॥नैतदचीर्णव्रतोऽधीते ॥अचीर्णशिरोव्रतेनैतन्नाध्येतव्यमित्यर्थः ।इदमचीर्णव्रतस्याध्ययननिषेधपरम् । पूर्वमध्यापननिषेधपरम् । अतो न पौनरुक्त्यम् । एतत्सर्वं ‘स्वाध्यायस्य तथात्वे हि’ (ब्र.सू. 3.3.3) इति सूत्रभाष्ये स्पष्टम् । अत्रावगन्तव्यं सर्वं मुण्डकप्रकाशिकायामवगन्तव्यम् ॥
इति तृतीयमुण्डकद्वितीयखण्डदीपिका ॥