[highlight_content]

विषयवाक्यदीपिका मसाधिकरणं

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

मसाधिकरणं

मसवदविशेषात् (ब्र.सू.1.4.8)अथमंत्रिकोपनिषत्”विकारजननीमज्ञामष्टरूपामजांघ्रुवाम् ।ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ।।सूयते पुरुषार्थं तेनैवाधिष्ठिता जगत् ।गौरनाद्यंतवती सा जनित्री भूतभाविनी ।।सितासिता रक्ता सर्वकामदुधा विभोः ।पिंबत्येनामविषमामविज्ञाताः कुमारकाः ।।सर्वसाधारणीं दोग्घ्रीं पीड्यमानां तु यज्वभिः ।एकस्तु पिबते देवः स्व्छंदोऽत्रवशानुगाम् ।।ध्यानक्रियाभ्यां सततं भुङ्क्तेऽसौ प्रसभं विभुः ।तुर्विंशतिसंख्याकमव्यक्तं व्यक्तमु्यते ।।” इति ।।विकारजननीमित्यादि । अष्टरूपत्वं भूमिरापोनल इत्युक्त प्रकारेण । अजामुत्पत्तिर हिताम् । ध्यायते परमात्मना संकल्परूपज्ञानेन ज्ञायते । अध्यासिताम् अधिष्ठिताम् । तन्यते विस्तार्यते । स्थूलावस्थं क्रियते । समष्टिभूतरूपेण क्रियते । प्रेर्यते व्यष्टिसृष्ट्यर्थं प्रेर्यते । पुरुषार्थं पुरुषाणामर्थनीयम् । भोग्यभोगोपकरणभोगस्थानरूपम् । जगत्सूयते । जनित्रीभूतभाविनीति समष्टिव्यष्टिरु्यते । सिता सिता रक्ता गौणवृत्त्या सत्त्वरजस्तमोमयी । तेजोबन्नद्वारासिताऽसिता रक्ता । विभोरीश्वरस्य सर्वकामदुधा लीलारसदोग्घ्री । अविषमां भोक्तृकर्मानुगुणपरिणामित्वादपक्षपातिनीम् । अविज्ञाताःदेहादिभ्यो विवि्य स्वात्मभिरज्ञाताः । कर्मवश्यबहुभोक्तृव्यावृत्त्यर्थमेकः स्व्छंद इत्युक्तम् । ध्यानक्रियाभ्यां संकल्पसर्गादिव्यापाराभ्याम् । पीड्यमानान्तु यज्वभिः वत्सा हि मातरं क्षीरक्षरणार्थं पीडयंतो भुंजते तद्वत्कर्मवश्यैरात्मभिः भोग्यफलानुरूपं परिणाम्यमानामित्यर्थ इति व्यासार्यैरेते मंत्रोपनिषन्मंत्रा व्याकृताः । श्वेताश्वतरे आरंभे ।।किं कारणं ब्रह्म कुतस्मजाता जीवाम केन क्व संप्रतिष्ठाः ।अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ।।हे ब्रह्मविदो जगतः कारणं ब्रह्म किं देवतारूपम् । कस्मा ब्रह्मणोऽस्माकं जन्मस्थितिश् ।कुत्र वास्माकं संप्रतिष्ठाशब्दितो लयश् । केन वा ब्रह्मणा अधिष्ठिताः संतो वयं कष्टरूपजन्मसु व्यवस्थामनुसृत्य वर्त्तामहे इत्येवं ब्रह्मविदां संशयः प्रदर्शितः ।।ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् ।।एवं ध्यानयुक्ता मुनयो “अपहतपाप्मा दिव्यो देव एको नारायणः”इति श्रुतिप्रसिद्धदेवशब्दितनारायणात्मिकां कार्योयोग्यपृथक्सिद्धविशेषणतया शक्तिशब्दितां सत्त्वरजस्तमो लक्षणस्वगुणोपेतां ब्रह्मणो जगत्कारणत्वनिर्वाहिकां प्रकृतिं दृष्टवंत इत्यर्थः ।।सर्वाजीवे सर्वसंस्थे बृहंते तस्मिन्हंसो भ्राम्यते ब्रह्मक्रे ।।सर्वजीवनहेतुभूते सर्वलयाधारे तस्मिन्निरतिशयबृहति ब्रह्मक्रे हंति ग्छतीति संसारकांतारपर्यटन शीलतया हंसशब्दवायो जीवोऽयं भ्रमतीत्यर्थः ।।पृथगात्मानं प्रेरितारं मत्वा जुष्टस्ततस्तेनामृतत्वमेति ।।भ्रामयितृत्वेन परमात्मानं तेन भ्राम्यमाणं त्छरीरभूतं स्वात्मानं मत्वा तद्ध्यानप्रीतेन परमात्मना जुष्टः प्रीत्या विषयीकृतः सन्मुक्तिं प्राप्नोतीत्यर्थः ।।संयुक्तमेतत् क्षरमक्षरं व्यक्ताव्यक्तं भरते विश्वमीशः ।अनीशश्ात्मा वध्यते भोक्तृभावाज्ज्ञात्वा देवं मु्यते सर्वपाशैः ।।ईशःपरमात्मा व्यक्तरूपं क्षरमिद्वर्गमव्यक्तमक्षरं िद्वर्गं परस्पर संयुक्तं बिभर्ति न तु बध्यते । अनीशो जीवस्तु बध्यते । नन्वविशिष्टे प्रकृतिसंबन्धे कुत एतद्वैलक्षण्यमित्यत्राह ।। भोक्तृभावादिति । भोक्तृत्वाभिसन्धिलक्षणभावसत्त्वात् । परमात्मन स्तु “न मां कर्माणि लिंपंति न मे कर्मफले स्पृहा” इति कर्मफलस्पृहाऽभावेन कर्मफललेपाभावादित्यर्थः । त्रयाणां परस्परवैलक्षण्यमेवाह ।।ज्ञाज्ञौ द्वावजावीशनीशावजाह्येका भोक्तृभोगार्थयुक्ता ।।ईशानीशौ । ह्रस्वःछांदसः । भोक्तुर्जीवस्य भोगप्रयोजनसाधिकेत्यर्थः । ननु परमात्मनोऽपिजीववत्फलाभिसंधिपूर्वककर्तृत्वं कुतो न भवतीत्याशंक्याह ।।अनंतश्ात्मा विश्वरूपोह्यकर्ता ।।विश्वशरीरकस्य परमात्मनो “नांतं गुणानां ग्छंति तेनानंतोऽयमु्यते” इत्युक्तरीत्या सत्यकामत्वाद्यनंतगुणश्रयतया काम्यमानवस्त्वंतराभावेन फलाभिसन्ध्यभावेन फलाभिसन्धि पूर्वककर्तृत्वं नास्तीत्यर्थः । एतादृशवैलक्षण्यज्ञानस्य फलमाह ।।त्रयं यदा विंदते ब्रह्ममेतत् ।।एतत् त्रयं परस्परवैलक्षण्येन दर्शन समानाकारध्यानेन विषयीकरोति तदा ब्रह्मभवति मुक्तो भवतीत्यर्थः । ब्रह्ममिति छांदसं रूपम् । संयुक्तमिति मंत्रनिर्दिष्टक्षराक्षरशब्दार्थंविवृण्वन्परस्परवैलक्षण्य ज्ञानमात्रेण मुक्ते मनननिदिध्यासनवैयर्थ्यमिति शंकां शमयति ।।क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः ।तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्ांते विश्वमायानिवृत्तिः ।।प्रधानं प्रकृतिस्त्रियामिति प्रधानशब्दिता प्रकृतिः क्षरमित्यु्यते । भोग्यमात्मनो भोगार्थं हरतीति हरो जीवः । अमृतत्वान्मरणधर्मशून्यत्वादक्षरमित्यर्थः । क्षराक्षरशब्दितेतनाेतन वर्गेशिता “अपहतपाप्मा दिव्या ेदेव इति देवत्वेननिर्दिष्टो नारायण एव । तस्यारंभणसंशीलनलक्षणाभिध्यानाद्योजनशब्दिताद्योगात्तत्वाविर्भारूपात्तद्भावा त्रयं यदा विंदते ब्रह्ममेतदिति निर्द्दिष्टोपासनकालीनब्रह्मानुभवरूपमुक्त्यनंतरं रमशरीरवियोगकाले समस्तप्रकृतिसंबंधनिवृत्तिर्भवतीत्यर्थः ।।अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानाँ सरूपाः ।अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ।।तेजोबन्नलक्षणविकारगतलोहितशुक्लकृष्णरूपयुक्तां स्वसमानरूपवि विधभूतभौतिकस्रष्ट्रीम् उत्पत्तिरहितां कांित्कश्िदविद्वान् उत्पत्तिरहिततया तत्समान एव स्वन्तत्राहंबुद्ध्या सेवमानस्तामनुसृत्य शेते तिष्ठति । अपरोविद्वान्कंित्कालं भुक्त्वोत्पन्न वैराग्यस्त्यजतीत्यर्थः । इतरत्सर्वमुपनिषद्भाष्येऽवगंतव्यम् ।।बृहदारण्यके तुर्थाध्याये द्वितीयब्राह्मणे ।।तदेषश्लोकोभवति ।अर्वाग्बिलश्मस ऊर्ध्वबुघ्नस्तस्मिन्यशो निहितं विश्वरूपम् ।तस्यासते ऋुषयस्सप्ततीरे वागष्टमीब्रह्मणा संविदानेति ।।अमुं मंत्रं श्रुतिरेव व्याष्टे ।।अर्वाग्बिलश्मस ऊर्ध्वबुध्न इतीदं त्छिरःएष ह्यर्वाग्बिलश्मस ऊर्ध्वबुघ्नः ।।अर्वाग्बिलश्मस इति मंत्रखंडेनो्यमानमिदं तदेव शिरः-प्रसिद्धमेव शिरः । कंठादुपरिभाग इति यावत् । किं तदित्याशंक्याह । एष ह्यर्वाग्बिलश्मस ऊर्ध्वबुघ्नः-म्यतेनेनेति मसः । भक्षणसाधनमित्यर्थः । एष मुखरूपश्मसः । आस्यस्य बिलरूपत्वादर्वाग्बिलत्वंशिरसः ऊर्ध्वस्थूलभागरूपबुघ्नाकारत्वादूर्ध्वबुध्नत्वम् । लोके हि प्रसिद्धश्मस ऊर्ध्वबिलःतिर्यग्बुघ्नः । अयं तु विलक्षणश्मस इति भावः ।।तस्मिन्यशो निहितं विश्वरूपमित्येतद्वाक्यं पंवृत्तिप्राणानाह ।तत्र हेतुमाह ।।प्राणा वै यशो निहितं विश्वरूपम् ।।प्राणस्य प्राणापानादिरूपबहुरूपतया यशसो विष्वक्प्रसृमरत्वाद्यशस्त्वेन रूपणम् । वृत्तिभेदात् प्राणा इति बहुवनम् ।।तस्यासते ऋुषयः सप्ततीर इति प्राणा वा ऋषयःप्राणानेतदाह ।।नासाक्षिश्रोत्रास्योपाधिसंबंधिनः सप्तशीर्षण्याः प्राणाः तस्य समीपे वर्तंत इत्यर्थः ।।वागष्टमी ब्रह्मणा संविदानेति वाग्ध्यष्टमी ब्रह्मणा संवित्ता ।।ब्रह्मणा वेदेन तुर्मुखेन वा संविदाना संवादं कुर्वती । संवित्ता-समित्येकीकारे-वित्तशब्दो ज्ञानपरः । ब्रह्मणैकप्रत्यया । एकबुद्धिःब्रह्मणैककंठा-वेदवादिनीति यवात् ।।

error: Content is protected !!