[highlight_content]

विषयवाक्यदीपिका जगद्वाचित्वाधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

जगद्वाचित्वाधिकरणम्

जगद्वाचित्वात् (ब्र.सू.1.4.16)ऋुग्वेदांतर्गतकौषीतकि (की) ब्राह्मणोपनिषदि चतुर्थाध्याये ।।गार्ग्यो ह वै बालाकिरनूचानः सं(सु) स्पष्ट आस ।।बलाकस्यापत्यं बालाकिः गोत्रतो गार्ग्यः । अनूचानः अं (सां) गाध्यायी अं (सां) गाध्याय्यनूचान इति स्मृतेः । संस्पष्टःसम्यग् विद्यया ख्यातः । एवंभूतः सन्नास बभूव ।।स होवासोशीनरेषु सत्त्वमत्स्येषु कुरुपांचालेषु काशीविदेहेष्विति ।।स बालाकिः उशीनरेषु सत्त्वप्रचुरेषु मत्स्यदेशेषु कुरुपांचालेषु काशीविदेहेषु उषितवान् ।इतिशब्दः प्रकारवचनः । एवंजातीयकेष्वन्येष्वपीत्यर्थः ।।स हाजातशत्रुं काश्यमेत्योवाच ।।अजातशत्रुनामानं काशीराजमधिगम्योवाच ।।ब्रह्म ते ब्रवाणीति तं होवाचाजातशत्रुः सहस्रं दद्म एतस्यां वाचि जनको जनक इति हवै जना धावंतीति ।।ब्रह्म ते ब्रवाणीत्येतस्यामेवं वाचि निमित्ते गवां सहस्रं प्रयच्छामः । सर्वेऽपि ब्रह्मविदः जनक एव ब्रह्मशुश्रूषुर्दाता चेतिजनकस्य समीपे धावंति । भवांस्त्वस्मत्समीपमागत्य ब्रह्म ते ब्रवाणीत्युक्तवान् । अनेनैव वाक्येन तोऽषि ता वयं सहस्रं प्रयच्छाम इति भावः ।।स होवाच बालाकिः य एवैष आदित्ये पुरुषः तमेवाहमुपास इति ।।आदित्यमंडलांतर्वर्तिनं पुरुषं ब्रह्मेत्यहमुपासे । अतस्त्वमपि तमेवोपास्स्वेति भावः ।।तँ होवाचाजातशत्रुः मामैतस्मिन्संवादयिष्ठाः बृहन्पांडुरवासा अतिष्ठाः सर्वेषां भूतानां मूर्द्धेति वा अहमेतदुपास इति ।।वै शब्दोऽवधारणे । बृहन्महान् । पांडुराणि किरणरूपाणि वासांसि यस्य सः पांडुरवासाः ।आदित्यकिरणानांनानारूपत्वात् पांडुरवासस्त्वमस्तीति द्रष्टव्यम् । बृहदारण्यके बालाक्यजातशत्रुसंवादे बृहत्त्वपांडरवासस्त्वे चंद्रधर्मतयोक्ते इति विशेषः । अतिष्ठाः । सर्वमपिकार्यजातमतिक्रम्य तिष्ठतीत्यतिष्ठाः । सर्वेषां भूतानां मूर्द्धा श्रेष्ठः । तदुपासनस्यानुरूपफलमाह ।।स यो हैतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्द्धा भवति ।स होवाच बालाकिः य एवैष चंद्रमसि पुरुषस्तमेवाहमुपासे ।।”इत्यादि।।ततो ह बालाकिस्तूष्णीमास ।।उत्तरापरिस्फूर्तेरिति शेषः ।।तँ होवाचाजातशत्रुः एतावन्नु बालाक इति ।।हे बालाके एतावदेव खलु ते विदितमित्यर्थः ।।एतावद्विति होवाच बालाकिः ।।एतावदेव विदितमित्युवाचेत्यर्थः ।।तँ होवाचाजातशत्रुः मृषा वै किल मा संवादयिष्ठाः ।।ब्रह्म ते ब्रवाणीति मृषोक्त्या मां मृषैवं संवादयिष्ठाः संवादं कारितवानित्यर्थः । एतावंतं कालमब्रह्मवाद एव प्रवृत्त इत्यर्थः । तर्हि किं तद्वेदितव्यं ब्रह्मेत्यत्राह ।।स होवाच यो वैबालाके एतेषां पुरुषाणां कर्तायस्य चैतत्कर्म स वै वेदितव्य इति ।।वै शब्दोऽवधारणे । त्वया ब्रह्मत्वेनोपदिष्टा नामादित्यादिपुरुषणां यः कर्ता ते यत्कार्यभूता किं विशिष्याभिधीयते यस्य प्रत्यक्षादि संनिधावपि तं चिदचिद्रूपं समस्तं जगत्कार्यम् । क्रियत इति व्युत्यत्त्या कर्मशब्दःकार्यवचनः । स एव वेदितव्यः । नतु त्वदुपन्यस्ता आदित्यादय इति भावः ।।तत उ ह बालाकिःसमित्पाणिः प्रतिचक्राम उपत्वायानीति ।।उ शब्दोऽवधारणे । ह शब्दः प्रसिद्धौ । एवमजातशत्रुणोक्तो बालाकिर्गताभिमानो “नीचादप्युत्तमां विद्याम् । आपत्काले ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः” इति शास्त्रमनुसृत्य क्षत्रियाप्यजातशत्रोर्विद्यामुपादित्सुर्नानुपसन्नाय ब्रह्मोपदेष्टव्यमिति शास्त्रार्थं जानन्समिद्भार हस्तशिशष्यः सन्नुपगच्छानीति वव्रे ।।तँ होवाचाजातशत्रुः प्रतिलोमरूपमेव स्यात् यत्क्षत्रियो ब्राह्मणमुपनयेदित्येह्येव (येदेहि) त्वा ज्ञापयिष्यमीति ।।क्षत्रियो ब्राह्मणमुपनयेदिति यत्तद्विपरीतमेव स्यात् । अत एव हि त्वामुपनयनमंतरेणैव ब्रह्म विज्ञापयिष्याम्येव ।तँ पाणावभिपद्य प्रवव्राज ।।तं बालाकिं पाणौ गृहीत्वा निर्गत इत्यर्थः ।।तौ ह सुप्तं पुरुषमीयतुः ।।तौ बालाक्यजातशत्रू राजभवने सुप्तं कंचित्पुरुषं प्राप्तवंतावित्यर्थः । बालाक्यधिकरण (ब्र.सू.1.4.16) भाष्ये “तौ ह सुप्तं पुरुषमाजग्मतुः” इत्युदाहृतं वाक्यं बृहदारण्य गतं नैतच्छाखागतम् । अत एव तत्र व्यासार्यैः तौ ह सुप्तं पुरुषमीयतुरिति श्रुतिरित्युक्तम् ।।तँ हाजातशत्रुरामन्त्रयांचक्रे बृहन्पांडुरवासस्सोमराजन्निति ।।प्राणो वाव ज्येष्ठश्चश्रेष्ठति ज्यैष्ठ्यश्रैष्ठ्यगुणेन प्राणस्य बृहत्त्वाद् बृहन्नित्यामंत्रणम् ।पांडुरवासस्त्वं च प्राणधर्म्मः । किं मे वास इति प्राणेन पृष्टे आपो वास इत्यपां प्राणवासस्त्वोक्तेः ।तासां त्वपां शुक्लवर्णाश्रयत्वात् पांडुरवासस्त्वमुक्तम् ।सप्तान्नब्राह्मणे अथैतस्य प्राणस्यापःशरीरं ज्योतीरूपं असौ चंद्र इति प्राणस्य चंद्रसंबन्धप्रतीतेर्लक्षणया सोमेति प्राणस्य संबोधनम् ।प्राणो वै सम्राडिति श्रवमाद्राजन्नित्यामंत्र्यतइति व्यासार्यैरुक्तम् ।।स उ ह तूष्णीमेव शिश्ये ।।अनुत्थित एव यथापूर्वमशयिष्टेत्यर्थः ।।तत उ हैतं यष्ट्या चिक्षेप ।।सुप्तं यष्ट्या ताडितवानित्यर्थः ।।स तत एव समुत्तस्थौ ।।दंडताडनादेव समुत्तस्थौ । न तु प्राणानामामंत्रणादिनेत्यर्थः । प्राणनामभिरा मंत्रणेप्यनुत्थानप्रदर्शनं प्राणान्यत्वज्ञापनार्थम् । सुषुप्तिदशायामुपरतव्यापारेभ्यः शरीरेंद्रियेभ्योऽन्यत्वं सुज्ञानमिति तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वं ज्ञापनीयमिति प्राणनामभिरामंत्रणेऽप्यनुत्थानेन दंडताडनोत्थानेन च जीवस्य प्राणव्यतिरेकःप्रदर्शितः । एवं देहेंद्रिय मनः प्राण व्यतिरिक्तं जीवं प्रदर्श्य ततोऽतिरिक्तं परमात्मानं बोधयितुमाह ।।तँ होवाचाजातशत्रुः क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्वा वा एतदभूत्कुत एतदागादिति ।।हे बालाके एष पुरुषः अशयिष्टेत्येतत् क्वेति स्वप्नस्थानप्रश्नः । यद्वैतच्छब्दः स्वप्नपरः । अशयिष्टेत्येतत्प्रत्ययार्थमात्रपरम् । क्वैतत्स्वप्नमकृतेत्यर्थः । सर्वथा स्वप्नस्थानप्रश्नः । क्व वा एतदभूदिति सुषुप्तिस्थानप्रश्नः । एतच्छब्दस्य नपुंसकलिंगत्वेऽपि प्रकृतवाचि प्रकृतिस्वारस्यात्प्रकृतपुरुषशब्दित जीवपरः । जीवः क्व सुप्तोऽभूदित्यर्थः । कुत एतदागादित्यत्राप्येतच्छब्दो जीवपर एव । प्रबोधकालीनजीवोद्गमनापादानं किमित्यर्थः । ततश्च जीवस्य स्वप्नस्थानसुषुप्तिस्थानोद्गमनापादनानि पृष्टानि भवंति । यद्वात्रत्रिष्वपि प्रश्नेष्वेतच्छब्दः सप्तम्यंतः । एतस्मिन्काल इत्यर्थः । सुपांससुलुगिति सुपो लुक् । एतस्मिन्काले क्व स्वप्नमनुभूतवान्, एतस्मिन्काले कुतो निर्गतः । एवं च त्रयाणामप्येतच्छब्दानामैक रूप्यं च सिद्ध्यति ।।तदुह बालाकिर्न विजज्ञौ ।।उत्तरं बालाकिर्नज्ञातवानित्यर्थः ।।तँ होवाचाजातशत्रुः यत्रैष एतद्बालाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदागात् ।।यत्रैष एतद्बालाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत्रैतदागात् तदुच्यत इति शेषः । स्वप्नस्थानप्रश्नं प्रतिवक्ति ।।हितानाम हृदयस्य नाड्यो हृदयात्पुरीततमभिप्रतिष्ठंति यथा सहस्रधा केशस्यापि पातः तावदण्व्यः पिंगलस्याणिम्ना पूर्णास्तिष्ठंते शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति तासु तदा भवति ।।आत्मनो हितावहत्वाद्धिता इति प्रसिद्धा हृदयसंबंधिन्यो नाड्यः हृदयात्पुरीततं पुरीतदाख्यं हृदयांतर्वर्तिमांसपिंडविशेषम् । अभिप्रस्थिता भवंति-हृदयपुरीतति नद्धा भवंति । ततश्च यथाकेशस्यापि सहस्रधापातः अतिसूक्ष्मास्तावदण्व्यः सूक्ष्माः पिंगलस्य कृष्णस्य पीतस्यलोहितस्यान्नपीतादिरसस्याणिम्नालेशेन पूणार्स्तिष्ठंति अतिसूक्ष्मत्वाल्लेशेनापि पूर्णा भवंति ।तासु नाडीषु तदा स्वप्नकाले आश्रितो भवतीत्यर्थः । सुषुप्तिस्थानप्रश्नस्योत्तरमाह ।।यदा सुप्तः स्वपन्न कंचन पश्यति अथास्मिन्प्राण एवैकधाभवति ।अथैनं वाक्सर्वैर्नामभिः सहाप्येति । चक्षुः सर्वैरूपैः सहाप्येति ।श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैर्ध्यानैः सहाप्येतीति ।।सुप्त इति वर्तमाने क्तः । स्वपन्यदोपरत स्वप्रदर्शनो भवति । अथ स्वप्नानंतरमस्मिन् प्राणे प्राण शरीरके परमात्मनि एकधा भवति । एकधाभावो नाम जाग्रदाद्यवस्थाजनित देहात्माभि मानकृतरागद्वेषादिलक्षणकालुष्यराहित्येनावस्थानम् । “सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशंती”त्यादौ प्राणशब्दस्य परमात्मनि प्रचुरप्रयोगात् । वाजसनेयके समानप्रकरणे य एषोंऽतर्हृदय आकाशस्तस्मिन् शेत इति आकाशशब्दितस्य सुषुप्त्याधारत्व श्रवणादाकाशप्राणशब्दयोः परमात्मपरत्वमंतरेणा विरोधासंभवात् । सता सोम्य तदा संपन्नो भवति । “सति संपद्य न विदुः । प्राज्ञेनात्मना संपरिष्वक्तः” इति परमात्मनः सुषुप्त्या धारत्वस्य श्रुत्यंतरश्रवणाच्च प्राणशब्दो योगेन वा पर्यवसानवृत्त्या वा ब्रह्मपरः । परमात्मनोबुद्धिस्थत्वादस्मिन्निति निर्देशोप्युपद्यते । तत्तत्-तदा एनं परमात्मानं अपियंतं जीवं वागादीद्रींयाण्यपियन्ति।स्वकार्येण सहापियंतीत्यर्थः नामशब्दो नामाभिलपनपरः । रूपशब्द शब्दौ तज्ज्ञानौपयिकव्यापारपरौ । रूपशब्दादीनां सुषुप्तौ लयासंभवात् । इंद्रियव्यापारोपरतेरेव सुषुप्तिशब्दार्थत्वात् । उद्गमनापादनप्रश्नस्योत्तर माह ।।स यदा प्रतिबुध्यते यथाग्नेर्विष्फुलिंगा एवमेतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठंते प्राणेभ्यो देवाः देवेभ्यो लोकाः ।।अग्नेर्विष्फुलिंगाश्चैतस्मात्परमात्मनः प्राणशब्दिता जीवा यथास्थानं प्रस्थिता भवंति तेभ्यश्च देवशब्दितानींद्रियाण्येतेभ्यश्च लोकशब्दितानि ज्ञानानि भवंतीत्यर्थः ।।तद्यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञ आत्मा इदं शरीरमात्मानमनुप्रविष्ट आ लोमभ्य आ नखेभ्यः ।।क्षुरो धीयते अस्मिन्निति क्षुरधानं क्षुरकोशः तस्मिन्यथा क्षुरः अवहितः प्रविष्टः विश्व ंबिभर्ति वैश्वानराग्न्यादिरूपेणेतिविश्वंभरो ग्निः तस्य कुलाये नीडे दारुणीति यावत् । एवमेवैष परमात्मा इदं पुरोवर्तिशरीरमालोमभ्य आनखेभ्यः । व्याप्तमित्यध्याहारः । व्याप्तमात्मानं जीवात्मानमनुप्रविष्टः । अंतर्यामितया अनुप्रविष्ट इत्यर्थः । तादृशस्य सुषुप्त्या धारत्वोद्गमनापादनत्वे संभवत इति भावः । यद्वा । इदं वाक्यं जीवशरीरकपरमेव व्याख्येयम् । आत्मानमिदं शरीर आत्मत्वेनाभिमन्यमानमिदं शरीरमालोमभ्य आनखेभ्यो जीवरूपेण प्रविष्ट इत्यर्थः ।।तमेतमात्मानमेते आत्मानोऽन्ववस्यंति ।।एतादृशं परमात्मानमितरे जीवा अन्ववस्यंति अनुवर्त्तंते । तत्र दृष्टान्तमाह ।।यथा श्रेष्ठिनं स्वाः ।।यथा श्रैष्ट्यवंतं स्वाः ज्ञातयः अनुवर्तन्ते ।।तद्यथा श्रेष्ठी स्वैर्भुंक्ते यथा वा श्रेष्ठिनं स्वा भुंजंते एवमेवैष प्राज्ञ आत्मा एतरात्मभिर्भंुक्ते ।।यथा श्रेष्ठी स्वैरेवं वा एतमात्मानमात्मानोऽन्ववस्यंति । यथा श्रेष्ठिनं स्वाः ।यथा कश्चित्प्रभुः भोगोपकरणभूतैः स्वैर्ज्ञातिभिः यथा भोगान् भुंक्ते । यथा स्वाश्च बंधवः तंं प्रभुमैश्वर्यादिसमग्रमनुभूयतद्दत्तानि वित्तादीनि चोपजीव्य हृष्यंति । एवमेवायं परमात्मा स्वोपकरणभूतैर्जीवात्मभिर्लीलारसं भुंक्ते । ते चात्मानः परमात्मदत्तभोगोपकरणाः सर्वैश्वर्यादिविशिष्टं तमनुभूय हृष्टा भवंतीत्यर्थः । यथा वा स्वाः श्रेष्ठिनं भुंजंतीति पाठे यथाप्रधानपुरुषः स्वकीयैर्भृत्यादिभिर्भोगसाधनान्युपहरद्भिः भोगान्भुंक्ते यथा च भोगसाधनान्युपहरंतःप्रधानपुरुषं पालयंत्येवमित्यर्थः । “भुजोनवने (अष्टा.1.3.36) इतिभुजेः पालने परस्मैपदित्वादिति” ध्येयम् । ईदृशं भोक्तृत्वं जीवद्वारा वा परमात्मनि योजनीयम् ।।स यावद्धवा इंद्र एतमात्मानं न विजज्ञौ तावदेनमसुरा अभिबभूवुः स यदा विजज्ञौ अथ हत्वाऽसुरान्विजित्य सर्वेषां देवानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति तथो यो वैवं विद्वान् सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद य एवं वेद ।।इंद्रो ब्रह्मविद्याऽलाभात् प्रागसुरैः पीडितः इमां ब्रह्मविद्यां लब्ध्वा असुरहननेन विजयी सर्वदेवाधिपत्यं सर्वदेवश्रैष्ठ्यं स्वाराज्यशब्दिताकर्म्मवश्यत्वलक्षणं मोक्षं च प्राप । अतोऽन्योप्येव ंवित्सर्वभूताधिपत्यं सर्वभूतश्रैष्ठ्यं पापापहतिपूर्वकाकर्मवश्यत्वलक्षणस्वाराज्यशब्दितं मोक्षंच प्राप्नोतीत्यर्थः । व्यासार्यैस्तु सर्वान् पाप्मनोऽपहत्येत्यनेनापहतपाप्मत्वादिगुणाष्टकमुक्तम् ।जरादीनामपि पाप्मांतर्गतत्वात् । उक्तं हि वाक्यकारैः । “स्युः पाप्मानः कालजरामृत्युशोकादयः संख्यातत्वात्” इति । स्वाराज्यं स्वाधीनत्वम् । अनेन सत्यसंकल्पत्वं चोक्तं भवति ।तत्स्वाराज्यं संसारिभ्योऽस्य श्रैष्ठ्यरूपम् । आधिपत्यम् । अधिपतिः परमात्मासर्वस्याधिपरिरिति श्रुतेः । तत्संबंधि आधिपत्यं गुणाष्टकं हि ब्रह्मसंबंधितया ब्राह्म मुच्यते “ब्राह्मेण जैमिनिः” (ब्र.सू.4.4.5) इति । अतो ब्रह्मसंबंधितया तत्साधर्म्मरूपं संसारिभ्यः श्रेष्ठतारूपं यत्स्वाराज्यं तदेतीति श्रुतेरर्थ इत्युक्तम् । अन्योऽपि य एतामुपनिषदं वेद सोऽपीदृशं फलमाप्नोतीत्यर्थः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.