॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
अन्यथात्वाधिकरणम्
अन्यथात्वं शब्दादिति चेन्नाविशेषात् (ब्र.सू.3.3.6)छान्दोग्ये प्रथमप्रपाठकारम्भे ब्रह्मविद्यौपयिकं कर्माङ्गविषयमादावुपासनमुपदिश्यते ॥ओमित्येतदक्षरमुद्गीथमुपासीत ॥उद्गीथभक्त्यवयवभूतम् ओमित्येतदक्षरमुपासीतेत्यर्थः । उद्गीथावयव ओंकारे उद्गीथ शब्दस्य लक्षणा । स्वयमेव श्रुतिरोंकारस्योद्गीथशब्दप्रतिपाद्यत्वे हेतुमाह ।ओमित्युद्गायति ॥लोके ओमिति ह्यारभ्यैवोद्गायति । अत उद्गीथावयवत्वादुद्गीथशब्दप्रतिपाद्यत्वं युक्तमित्यर्थः ॥तस्योपव्याख्यानम् ॥तस्याक्षरस्यैवमुपासनमेवं विभूतिरेवं फलमित्यादिकथनमुपव्याख्यानं क्रियत इति शेषः ॥एषां भूतानां पृथिवी रसः ॥एषां स्थावरजंगमात्मकभूतानां पृथिवी रसः परायणम् । पृथिव्या धारकत्वादिति भावः ॥पृथिव्या आपो रसः ॥तस्या जलप्रकृतिकत्वादिति भावः ।अपामोषधयो रसः ॥तत्परिणामत्वादिति भावः ॥ओषधीनां पुरुषो रसः ॥अन्नपरिणामत्वाच्छरीरस्येति भावः ॥पुरुषस्य वाग्रसः ॥वाचोऽत्युपकारकत्वादिति भावः ॥वाच ऋग्रसः ॥ऋचां गंभीरार्थकत्वादिति भावः ॥ऋचः साम रसः ॥गीतिसारत्वात्साम्नामिति भावः ॥साम्न उद्गीथो रसः ॥श्राव्यत्वात्सार इत्यर्थः । अत्रोद्गीथशब्देनोद्गीथावयव ओंकार उच्यते ॥स एष रसानाँ रसतमः परमः ॥स एष ओंकारः भूतादीनामुत्तरोत्तररसानामतिशयितरसः ॥परार्द्ध्योऽष्टमो यदुद्गीथः ॥परार्द्ध्यः परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्ध्यः । “छंदसि च (अष्टा.5.1.67)” इति यत् । ब्रह्मवदोंकारस्याप्युपास्यत्वादिति भावः । अष्टमोऽयमुद्गीथः पृथिव्या आपो रस इति परिगणनायामष्टम इत्यर्थः । यदुद्गीथः य उद्गीथ इत्यर्थः । वाचः ऋग्रस ऋचः साम रसः साम्नः उद्गीथो रस इति ऋक्सामोद्गीथानां प्रस्तुतत्वात्तान्विमृशति विचारयतीत्यर्थः ॥कतमा कतमर्क् इति ॥वीप्साऽऽदरार्था । का ऋगित्यर्थः । एवमुत्तरत्रापि ॥कतमत्कतमत्साम कतमःकतम उद्गीथ इति विमृष्टं भवति ॥विमर्शः पूर्वैः कृतो भवतीत्यर्थः । विमर्शान्निष्पन्नमर्थमाह ॥वागेवर्क् प्राणः सामोमित्येतदक्षरमुद्गीथः ।।स्पष्टोऽर्थः ।।तद्वा एतन्मिथुनं यद्वाक् च प्राणश्च ।।स्त्रीलिंगशब्दवाच्यतया वाचः स्त्रीत्वं प्राणस्य पुँल्लिंगशब्दवाच्यतया पुंस्त्वमिति भावः ॥ऋक् च साम च तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥वाक्प्राणयोर्मिथुनत्वेन तदभिन्नत्वेन ऋक्सामयोरपि मिथुनत्वाद् ऋक्सामात्मकं तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे उद्गीथावयवभूते संसृज्यते । उद्गीथस्य ऋगारूढसामभक्तिरूपत्वेन ऋक्सामरूपतयोद्गीथावयवप्रणवस्य ऋक्सामाभ्यां संसृष्टत्वात् तदात्मकमिथुनेन संसृष्टत्वमित्यर्थः ।वाक्प्राणात्मकमिथुनाध्यासविशिष्टऋक्सामसंसृष्टतयोद्गीथावयवप्रणवोपासनं कर्तव्यमित्यर्थः ॥यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥यदा दंपती मिथुनीभूतौ ग्राम्यधर्माय संसृज्येयातां तदान्योन्यकामप्रापकत्वं प्रसिद्धमित्यर्थः । मिथुनाविति पुंस्त्वद्विवचने छांदसे । ततश्चोंकारोऽपि स्वात्मसंसृष्टमिथुनेन यजमानस्य कामप्रापक इति भावः । तदुपासकोऽप्युद्गाता स्वोपास्योंकारवद्यजमानकामप्रापक इत्याह ॥आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥कामाप्त्यादिविशिष्टोद्गीथावयवोपासनस्य यजमानगतकामाप्तिरेव फलमित्यर्थः ॥तद्वा एतदनुज्ञाक्षरम् ॥ओंकारोऽनुज्ञाक्षरमित्यर्थः । तदेवोपपादयति ।यद्धि किंचानुजानात्योमित्येव तदाह ॥लोके ह्यनुज्ञां प्रयच्छन्पुरुष ओमित्यनुजानाति ॥एष उ एव समृद्धिः यदनुज्ञा ॥उ शब्दः प्रसिद्धौ । लोके समृद्धौ हि ओमित्यनुज्ञां प्रयच्छति । अतोऽनुज्ञारूपस्योंकारस्य समृद्धिमूलकत्वादनुज्ञारूप ओंकार एव समृद्धिरित्यर्थः । एवं समृद्धिगुणविशिष्टोंकारोपासनस्य फलमाह ॥समर्द्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥यजमानस्य कामसमृद्धिं करोतीत्यर्थः । उपास्योंकारं प्ररोचनार्थं स्तौति ॥तेनेयं त्रयी विद्या वर्तते ॥तेन प्रकृतेनोपास्येनोंकारेण त्रयी विद्या त्रयीविहितं कर्म प्रवर्त्तत इत्यर्थः । तदेवोपपादयति ।ओमित्याश्रावयत्योमिति शँसत्योमित्युद्गायति ॥ओंकारपूर्वकत्वादाश्रवणशंसनोद्गानानामित्यर्थः । किमित्योंकारपूर्वकमेवाश्रवणादिकं क्रियत इत्यत्राह ॥एतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ।।रसेन सारभूतेन महिम्ना माहात्म्येन युक्तस्यैतस्योंकारलक्षणस्याक्षरस्यापचित्यै पूजार्थमित्यर्थः ।।नन्वनेवंविद्भिरपि कर्मणोऽनुष्ठीयमानत्वदर्शनाद्विद्याया वैयर्थ्यमित्याशंक्य सत्यं, विद्वद्भिरविद्वद्भिरपि लोके ओंकारेण कर्मानुष्ठीयते । अथापि विद्याविद्ये विलक्षणफले । विद्यया क्रियमाणं हि कर्म वीर्यवत्तरं भवत्यतादृशं तु न तथेत्याह ॥तेनोभौ कुरुतः । यश्चैतदेवं वेद यश्च न वेद, नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ॥विद्या उपासनम् । श्रद्धा आस्तिक्यबुद्धिः । उपनिषच्छब्देनोपनिषज्जन्यं ब्रह्मात्मकत्वज्ञानमुच्यते । कर्मणो वीर्यवत्तरत्वं नाम प्रबलकर्मान्तराप्रतिबद्धफलकत्वम् ॥इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥रसतमत्व-कामावाप्ति-समृद्धिगुणकत्वादिभिरुक्तप्रकारैर्विशिष्टमभिहितमुपासनं सर्वमेतदक्षरविषयकमेवेत्यर्थः । ततश्च उपास्यभेदशंका न कार्येत्यर्थः ॥देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्याः ॥द्विविधाः प्रजापतिसुताः देवासुरा यस्मिन्काले परस्परं युद्धं कृतवंत इत्यर्थः । प्राजापत्या इत्यपत्यार्थे “दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः (अष्टा.4.1.25)” इति ण्यः ॥तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्याम इति ॥तदा देवा अनेनोद्गीथावयवेनोंकारेणोपासितेनासुराञ्जेष्याम इत्यभिसंधायोद्गीथं प्रणवमुपायत्वेन स्वीकृतवंत इत्यर्थः ॥ते ह नासिक्यं प्राणमुद्गीथमुपासां चक्रिरे ॥ते देवा घ्राणेंद्रियत्वेन उद्गीथमुपासितवंत इत्यर्थः । नासिकायां भवं नासिक्यम् । “शरीरावयवाच्च” (अष्टा.4.3.55) इति यत् ॥तँ हासुराः पाप्मना विविधुः ॥तन्नासिक्यं प्राणमसुराः स्वकीयेन पाप्मना संयोजितवंतः । पापहेतुभूतवृत्त्या संयोजितवंत इति यावत् । तत्र युक्तिं वक्ति ॥तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥तस्मात्पाप्मसंसर्गाद्धेतोः पुरुषः घ्राणेन सुरभि च दुर्गन्धि चोभयं जिघ्रति । तस्मान्नासिक्यः प्राणः पापविद्ध एवेत्यर्थः ॥अथ ह वाचमुद्गीथमुपासांचक्रिरे तँ हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥अदर्शनीयममेध्यादिकमित्यर्थः ॥अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥अश्रवणीयं पापवचनमित्यर्थः ॥अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयँ संकल्पयते संकल्पनीयं चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥
व्या॥ असंकल्पनीयं पापमित्यर्थः ।अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे ॥उद्गीथावयवमोंकारं मुख्यप्राणत्वेनोपासितवंत इत्यर्थः ॥तँ हासुरा ऋत्वा विदध्वंसुः ॥तं मुख्यप्राणं पाप्मना वेद्धुं प्रवृत्ता असुराः तं प्राप्य स्वयमेव विध्वस्ता अभवन्नित्यर्थः । तत्र दृष्टांतमाह ॥यथाऽश्मानमाखणमृत्वा विध्वँसेतैवम् ॥आखन्यत इत्याखणं मृत्पिण्डः । यथा मृत्पिण्डोऽश्मानं प्राप्य विध्वस्तो भवत्येवमिति व्यासार्यैर्व्याख्यातम् । आखणमिति छांदसं णत्वं नपुंसकत्वं च ।एतद्विद्यायाः फलमाह ॥यथाश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश्चैनमभिदासति ॥य एवंविदि एतद्विद्यानिष्ठे यः पापं कर्तुं कामयते यश्चैनं अभिदासति हिनस्ति सोऽश्मप्राप्तलोष्टवद्ध्वस्तो भवतीत्यर्थः । दाप् लवने, दो अवखंडने इत्यतो वा लेट् “सिब्बहुलं लेटि” (अष्टा.3.1.34) इति सिपि दासतीति रूपम् ॥स एषोऽश्माखणः ॥स एषः एतद्विद्यानिष्ठे (सदृश)पापकामः अश्मप्राप्ताखण इत्यर्थः । “खनो घ च” (अष्टा. 3.3.25) इत्यत्र करणाधिकरणयोरित्यनुवृत्तावपि बहुलग्रहणात्कर्मणि घ प्रत्ययः । अत्र च वक्तव्यमुपनिषद्भाष्य एवोक्तं तत्रैव द्रष्टव्यम् ॥बृहदारण्यके तृतीयाध्याये तृतीयब्राह्मणारंभे कर्मांगभूतोद्गातरि मुख्यप्राणदृष्टिं विधातुमाख्यायिकामाह ॥द्वया ह वै प्राजापत्या देवाश्चासुराश्च ॥हशब्दो वृत्तार्थस्मरणे । प्रजापतेरपत्यानि प्राजापत्याः दित्येत्यादिना अपत्यार्थे ण्यप्रत्ययः । द्वयाः – द्विविधा द्विप्रकारा इत्यर्थः । “द्वित्रिभ्यां तयस्यायज्वा” (पा.सू. 5.2.43) इत्ययच् आदेशः (प्रत्ययः) । के ते । देवाश्चासुराश्च ॥ततः कानीयसा एव देवाः ज्यायसा असुराः ॥ततः तत्रेत्यर्थः । देवाः कनीयांसः अल्पीयांसः । कानीयसा इति स्वार्थे अण् । ज्यायसा असुराः ज्यायांसः भूयांसः ‘भूयांसोऽसुरा’ इति श्रुत्यंतरात् ॥त एषु लोकेष्वस्पर्द्धंत ॥परस्परविजिगीषां कृतवन्तः ॥ते ह देवा ऊचुः ॥स्पष्टोऽर्थः ॥हन्ताऽसुरान्यज्ञ उद्गीथेनात्ययामेति ॥हंतेत्यसुरविजयोपायदर्शनजहर्षे । अत्रोद्गीथशब्द उद्गातृपरः । उत्तरत्रोद्गातुरेवाध्यस्त प्राणभावस्योपास्यत्वप्रतीतेः । त्वं न उद्गाय । उद्गात्रा अत्येष्यंतीत्युत्तरत्र बहुकृत्व उद्गातृशब्दस्याभ्यसिष्यमाणतया तदनुरोधेनोपक्रमस्थस्याप्युद्गीथशब्दस्य लक्षणयोद्गातृपरता ।
“अन्यथात्वं शब्दात्” (ब्र.सू. 3.3.6) इत्यधिकरणे चोद्गातुरुपास्यत्वे उद्गीथेनेत्युपक्रमविरोधो न शंकनीयः । उद्गीथस्योद्गानकर्मभूतस्यावश्यापेक्षितत्वात् तस्यापि परपरिभवाख्यफलं प्रति हेतुत्वादिति भाषितत्वात् । श्रुतप्रकाशिकायां बृहदारण्यके अध्यस्तप्राणभावस्योद्गातुरुपास्यत्वे उपक्रमविरोध इत्याशंक्य न ह्युपक्रमाधिकरणे उपक्रमानवगतमुपसंहारावगतं त्याज्यमित्युक्तम् ।किंतूपक्रमावगतस्य भंगो न कार्य इति । अत्र तूपक्रमावगतमधिकं च स्वीक्रियते । उद्गीथेनात्ययामेत्युद्गातृगीयमानोद्गीथे तात्पर्यमित्युक्तत्वाच्च नोद्गीथशब्दस्योद्गातृलक्षकत्वम् । अपि तूद्गीथशब्द उद्गातृविशेषणभूतोद्गीथपरः । न तु तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति च्छांदोग्यगतोद्गीथशब्दवत् स्वतंत्रोद्गीथपरः इति वदन्ति ॥ते ह वाचमूचुस्त्वन्न उद्गायेति ॥त्वन्न उद्गाता भवेति वागभिमानिनीं देवतां प्रार्थितवंतः ॥तथेति तेभ्यो वागुदगायत ॥तथेत्यंगीकृत्य तेभ्यो देवेभ्यो वागुद्गानं कृतवती । दृष्टिविधिप्रकरणत्वात् । “आदित्यादिमतयश्चांग उपपत्तेः” (ब्र.सू. 4.1.6) इति न्यायेन क्रत्वंगभूतोद्गातरि वाग्दृष्टिं कृतवंत इत्यर्थः ॥यो वाचि भोगस्तं देवेभ्य आगायत् यत् कल्याणं वदति तदात्मने ॥वाचि निमित्ते यो भोगः गानादिजन्यो यः सुखानुभवः तं भोगं देवेभ्यः आगायत् देवानां भोगमुद्दिश्याऽऽगायत् गानं कृतवती । गानेन देवानां भोगं संपादितवतीति यावत् । कल्याणवार्ताभिलपनरूपं वागिंद्रियकार्यं तदप्यात्मने वाक् संपादितवती ॥ते विदुरनेन वै न उद्गात्रात्येष्यंतीति ॥ते असुरा विदुः ज्ञातवंत इत्यर्थः ॥तमभिद्रुत्य पाप्मनाऽविध्यन् ॥तमुद्गातारमभिद्रुत्य शीघ्रं प्राप्य पाप्मना अविध्यन्पापेन संयोजितवंतः ।।स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ।।यः पाप्मा तद्वेधनसाधनभूतः स तु यदेवेदमप्रतिरूपमनुचितमश्लीलानृतपैशुन्यादि वदति स एव तद्रूप एव स पाप्मेत्यर्थः । अयं भावः । असुराः वागिंद्रियं क्रोधाद्युत्पादनद्वारा परुषातिवादपैशुन्यादिदूषितं कुर्वन्तीत्यर्थः । असुरबुद्धिकार्यत्वादिंद्रियाणां पापप्रवृत्तेरिति भावः ॥अथ ह प्राणमूचुस्त्वन्न उद्गायेति तथेति तेभ्यः प्राण उदगायत् । यः प्राणेन भोगस्तं देवेभ्य आगायद्यत् कल्याणं जिघ्रति तदात्मने ते विदुरनेन वै न उद्गात्रात्येष्यंतीति तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा । अथ ह चक्षुरूचुस्त्वन्न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायत् । यश्चक्षुषि भोगस्तं देवेभ्य आगायत् । यत् कल्याणं पश्यति तदात्मने ते विदुरनेन वै न उद्गात्रात्येष्यंतीति तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा । अथ ह श्रोत्रमूचुस्त्वन्न उद्गायेति तथेति तेभ्यः श्रोत्रमुदगायत् । यः श्रोत्रे भोगस्तं देवेभ्य आगायत् । यत्कल्याणं शृणोति तदात्मने ते विदुरनेन वै न उद्गात्रात्येष्यंतीति तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव स पाप्मा । अथ ह मन ऊचुस्त्वन्न उद्गायेति तथेति तेभ्यो मन उदगायत् । यो मनसि भोगस्तं देवेभ्य आगायत् । यत्कल्याणं संकल्पयति तदात्मने ते विदुरनेन वै न उद्गात्रात्येष्यंतीति तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं संकल्पयति स एव स पाप्मा ॥पूर्ववदर्थः ।।उक्तमर्थं निगमयति ।।एवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेताः पाप्मनाऽविध्यन् ।।उ शब्दोऽवधारणे । एवमेव खलूक्तया रीत्यैता देवताः वागाद्या उक्ता अनुक्ताश्च पाप्मभिरनृतवदनादिलक्षणैरुपासृजन् । उपगतवत्य इत्यर्थः ॥एवमेनाः पाप्मनाऽविध्यन् ।।असुराः एनाः वागादिदेवताः अनृतादिपाप्मना वेधनं कृतवन्तः ।।अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति ।।आसन्यमासन्नं मुख्यमित्यर्थः । यद्वा आस्ये भव आसन्यः । आस्यशब्दस्य “पद्दन्” (अष्टा. 6.1.63) इत्यादिना आसन्नादेशः । मुख्यमिति यावत् । तं प्राणं देवा उक्तवंतः त्वन्न उद्गायेति । स्पष्टोऽर्थः ॥तेभ्य एष प्राण उदगायत् ।।उद्गातरि मुख्यप्राणदृष्टिं कृतवंत इत्यर्थः । तथैव हि व्याख्यातं व्यासार्यैः “अन्यथात्वं शब्दात्” (ब्र.सू.3.6.3) इत्यधिकरणे ।।ते विदुरनेन वै न उद्गात्रात्येष्यंतीति तमभिद्रुत्य पाप्मना अविव्यत्सन् ।।वेद्धुमैच्छन् । व्यध ताडने । तस्मात्सनि नेट् । अकित्त्वान्न सम्प्रसारणम् । शिष्टं स्पष्टम् ॥स यथाश्मानमृत्वा लोष्टो विध्वंसेत एवं हैव ते विध्वंसमाना विष्वंचो विनेशुः ॥यथाश्मचूर्णनाय क्षिप्तो लोष्टः पांसुपिंडः अश्मानं पाषाणमृत्वा प्राप्य विध्वंसेत चूर्णीभवेत्स दृष्टांतो यथा तथाऽध्यस्तमुख्यप्राणभावोद्गात्रुपासननिष्ठान्देवान्प्राप्य विध्वंसमाना चूर्णीभवंतः विष्वंचः नानागतयः विनष्टा अभवन्नित्यर्थः ॥ततो देवा अभवन्परासुराः ।।ततः परं देवा जाता द्योतमाना अभवन्नित्यर्थः । यद्वा देवाः अभवन् सत्तामालभंतेत्यर्थः । विजयिनोऽभवन्निति वार्थः । असुरास्तु पराभवन्पराभूता अभवन्नित्यर्थः ॥भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ।।य उद्गातारमध्यस्तप्राणभावमुपास्ते स आत्मना भवति उत्तरो भवतीत्यर्थः । यद्वा आत्मना मनसा समीचीनेन युक्तो भवतीत्यर्थः । अस्य द्विषन् “द्विषः शतुर्वा वचनम्” इति कर्मणि षष्ठी । एनं प्रति द्वेषं कुर्वञ्छत्रुः पाप्मा च पराभवति पराभूतो भवतीत्यर्थः । भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति एवं वेदेति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिर्विहितेति भाष्यस्योपलक्षणतया पाप्मपराभवस्य आत्मना भवनस्य च फलत्वप्रतिपादनस्य न विरोध इति द्रष्टव्यम् । यद्वा अस्य द्विषन्भ्रातृव्यः आत्मना स्वत एव पराभवति पाप्मा च निन्दायुक्तश्च भवतीत्यर्थः ॥