॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
कार्याख्यानाधिकरणम्
कार्याख्यानादपूर्वम् (ब्र.सू.3.3.18)छान्दोग्ये पंचमप्रपाठके द्वितीयखण्डे ।।स होवाच किं मेऽन्नं भविष्यतीति ।।वागादीन् किंमेऽन्नं भविष्यतीति प्राणः पप्रच्छेत्यर्थः ।।यत्किंचिददमाश्वभ्य आशकुनिभ्य इति होचुः ।।सर्वप्राणिनां यदन्नजातं तत्सर्वं तवेति वागादयः प्रत्यूचुः । श्रुतिः स्वेन रूपेणाह ॥तद्वा एतदनस्यान्नम् ।।यत् किंचिल्लोके प्राणिभिरद्यते तदेतदनस्य प्राणस्यान्नम् । प्राणेनैव तददद्यत इत्यर्थः ।।अनो ह वै नाम प्रत्यक्षम् ।।अदनं हि चेष्टा सर्वविधाऽदनचेष्टायुक्तत्वात् प्राणस्यान इति प्रत्यक्षं नाम । देवानां परोक्षप्रियत्वात् प्रत्यक्षमन इति नाम परित्यज्य प्राण इति परोक्षेण नाम्ना व्यवहारः । ततश्च अदनचेष्टाया अपि तदीयत्वात्सर्वप्राणिजातेनाद्यमानमन्नं सर्वंतेनैवाद्यत इति प्राणस्य सर्वमन्नमित्यर्थः । यद्वा अन इत्यस्य नकारांतरयुक्तस्यैवान्नत्वाद् अन इत्यस्य प्राणनामत्वस्य प्रत्यक्षत्वादन्नं तत्संबंध्येवेत्यर्थः । अत्र प्राणविद्यानिष्ठेन सर्वप्राण्यन्नादनस्य कर्तुमशक्यत्वान्नास्य वाक्यस्य सर्वप्राण्यन्नादनकर्तव्यत्वमर्थः । अपि तु सर्वप्राणिजातान्ने प्राणान्नत्वचिंतनं कर्तव्यमित्यर्थः । सर्वप्राणिजातान्ने प्राणान्नत्वं चिन्तनं स्तौति ॥न ह वा एवंविदि किंचनानन्नं भवतीति ॥प्राणविद्यानिष्ठस्याभक्ष्यभक्षणदोषो नास्तीत्यर्थः ।।स होवाच किं मे वासो भविष्यतीति आप इति होचुः ।।आपो वासस्त्वेन चिंतनीया इति होचुरित्यर्थः ।।तस्माद्वा एतदशिष्यंतः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति, लंभुको ह वासो भवत्यनग्नो ह भवति ॥तस्मादपां वासस्त्वादेव । एतदेतस्मिन्नपि काले भोक्ष्यमाणाः भोजनात्प्राक्पश्चाच्चाचमनीयाभिरद्भिर्वासोभिः परिहितं प्राणमनग्नं कुर्वंतीत्यर्थः ।
आचमनीयास्वप्सु वासस्त्वचिंतनेन वासोभूताभिरद्भिः प्राणस्य परिहितत्वादिति भावः । अनग्नत्वचिंतनेन च स्वयमपि वासो लंभुको भवति वासो लब्धा भवति अत एवानग्नश्च भवति । तत्क्रतुन्यायेन इति भावः ।
वाजसनेयके काण्वशाखायां तस्यैतं मे किमन्नं किं वास इति यदिदं किं चाश्वभ्य आक्रिमिभ्यः आकीटपतंगेभ्यस्तत्तेऽन्नमापो वास इति, न ह वा अस्यानन्नञ्जग्धं भवति नानन्नं प्रतिगृहीतं भवति य एवमेतदन्नस्यान्नत्वं वेद तद्विद्वांसः श्रोत्रिया अशिष्यंत आचामंत्यशित्वा चाचामंति । एतमेव तदनमनग्नं कुर्वंतो मन्यंत इति पाठः ।
माध्यंदिनशाखायां तु तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुत इति पाठः ॥