॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
पूर्वविकल्पाधिकरणम्
पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् (ब्र.सू.3.3.44)बृहदारण्यके वाजसनेयके अग्निरहस्ये ।।तत् षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः ॥तन्मन एव षट्त्रिंशत्सहस्रदिनात्मकपुरुषायुषान्तर्गतैकैकदिनप्रभवमानसवृत्तिसङ्धानग्नित्व-दृष्ट्योपास्यमानान्मनश्चितः आत्मनःसंबंधिनः । अत एव अर्कान् अर्चनीयान्मनोमयान्मनोनिष्पाद्यानपश्यदित्यर्थः । कर्मण्यग्न्याख्यायामिति मनश्चीयत इत्यर्थे श्येनचिदादिशब्दवदसौ क्विबन्तो निष्पन्नः मनश्चितो नामाग्नीनित्यर्थः ॥तेषु मनसैवाऽऽधीयन्त मनसाऽचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसाऽस्तुवन्मनसाऽशंसन् ॥एषु मनश्चिदाद्यग्निषु उपयुक्तान्याधानचयनग्रहणस्तोत्रशस्त्राण्यपि मनोनिष्पाद्यान्येवेत्यर्थः । न च सर्वेषां मनोव्यापाराणामग्नित्वदृष्ट्या क्रोडीकृतत्वादाधानचयनग्रहणस्तोत्र शस्त्रादिदृष्टिविषयो व्यापारो नास्तीति शंक्यम् । केषांचिद्व्यापाराणामग्नित्वदृष्ट्या क्रोडीकारस्य केषांचित्तदुपयोग्याधानचयनस्तोत्रादिव्यापारत्वेन क्रोडीकारत्वसंभवान्नानुपपत्तिः ॥यत्किंच यज्ञे कर्म क्रियते यत्किंच यज्ञीयं कर्म मनसैव ।।तेषु मनोमयेषु मनश्चित्सु मनसैव मनोमयमक्रियतेत्यर्थः ।।तद्यत्किंचेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः ॥तत्तस्माल्लोके सर्वैर्भूतैः क्रियमाणा मनोव्यापारास्सर्वेप्येतन्निष्पाद्यमानानां विद्यामयानां मनश्चितां निष्पादकव्यापारा इत्यर्थः । मनोव्यापारत्वावच्छिन्नेषु सर्वेषु क्रियमाणाया अग्नित्वदृष्टेः सकलमनोव्यापाराश्रिततया सर्वेषां मनोव्यापाराणां स्वाध्यस्ताग्निनिष्पादकत्वादिति भावः । तदेतदाह ॥तान्येवादधति तां श्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शंसन्ति ॥सर्वाणि भूतानि विदुषा संपाद्येषु मनश्चित्स्वग्निषूपयुक्तान्याधानचयनग्रहणस्तोत्रशस्त्राणि निष्पादयन्तीत्यर्थः ॥एतावती वै मनसो विभूतिरेतावती सृष्टिरेतावन्मनो मनस एतेऽग्नयः ॥तदधीनास्तत्कार्यभूताः । एतादृशमाहात्म्यशालि मन इत्यर्थः ।।षट्त्रिंशत्सहस्राणि ह्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः ।।षट्त्रिंशत्सहस्रसंख्याकानामर्चनीयानामग्नीनामेषां मध्ये एकैकोऽप्यग्निः पूर्वोक्तेष्टकचिताग्निसदृश इत्यर्थः । इष्टकचितस्याग्नेः स्वाङ्गिभूतक्रतुद्वारेण यत्फलं तदेव मनश्चिदादीनामपि विद्यामयक्रतुद्वारेण फलमित्यर्थः । एवमुत्तरत्रापि । वाक्चितो वागिन्द्रियव्यापाराः । कर्मचितः वागिंद्रियातिरिक्तकर्मेन्द्रियव्यापाराः । अग्निचितो जाठराग्निव्यापाराः ॥ते हैते विद्याचित एव ।।ते एते मनश्चिदादयः सर्वेऽपि विद्याचितः विद्यार्थाश्चित इत्यर्थः । नतु मनश्चिदादीनामेव विद्यारूपचित्त्वं बोध्यते । तस्य सिद्धत्वेन विद्याचित एवेत्यवधारणवैयर्थ्यप्रसंगात् । अतो विद्याचित एवेत्यस्य विद्यामयमानसग्रहादेः क्रियामयद्वादशाहादिक्रत्वर्थत्ववद्विद्यामयस्य मनश्चिदादेः प्रसक्तस्य क्रियामयक्रत्वर्थत्वस्य प्रतिषेधार्थत्वमेव ॥तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपते ।।एवंविदे विद्यामयक्रतुमते जाग्रते स्वपते च सर्वदा तानेतानग्नीन्विचिन्वंतीत्यर्थः । सार्वकालिकसर्वभूतकर्तृकमनोव्यापाराः अग्नित्वदृष्टिविशिष्टविद्यावत्पुरुषशेषभूताश्चयनरूपा एवासन्नित्यर्थः । अत्र सर्वभूतकर्तृकसर्वकालव्यापिमनोव्यापाररूपाग्नेः परिमितकालकर्तृक क्रियामयक्रत्वनुप्रवेशासामर्थ्यान्मनश्चिद्रूपोऽग्निर्मानसग्रहवन्नक्रियामयक्रत्वनुप्रवेशी । अपितु विद्यामयक्रत्वनुप्रवेशीति द्रष्टव्यम् । ते हैते विद्याचित एवेत्येतद्वाक्यं विवृणोति ॥विद्यया हैवैते एवंविदश्चिता भवन्ति ॥एवंविदः पुरुषस्य विद्यया विद्यामयेन क्रतुना संबद्धा मनश्चिदादयः चिता भवंतीत्यर्थ इति भगवता भाष्यकृतोक्तम् । अत्र विद्ययेति प्रयोजनतया हेतौ । विद्यार्थं चिता इत्यर्थ इति व्यासार्यैर्व्याख्यातं च । अत्र विद्यया हैवैत इति वाक्यस्य ते हैते विद्याचित एवेति वाक्यविवरणरूपत्वस्य भाष्य एवाविष्कृतत्वाद्विद्याचित एवेत्यस्यापि विद्यार्था इति पूर्वोक्त एवार्थ इति ।इत्यग्निरहस्यप्रकाशिकायां प्रथमं ब्राह्मणम् ॥अग्निलोकंपृणाविषयाण्युपासनान्युपदिश्यन्ते ।।अयं वाव लोक एषोऽग्निश्चितः ।।अस्मिँल्लोके चित्यग्निदृष्टिः कर्तव्या ॥तस्याप एव परिश्रिताः ।।समुद्रजले अश्मन्नूर्जमिति परिषिंचतीति विहिताग्निपरिषेचनबुद्धिः कर्तव्या ।।मनुष्या यजुष्मत्य इष्टकाः ॥मनुष्येषु यजुर्मंत्रोपधेये इष्टकाबुद्धिः कार्या ।।पशवः सूददोहाः ।।पशुषु सूददोहमंत्रोपधेये इष्टकाबुद्धिः कार्या ।।ओषधयश्च वनस्पतयश्च पुरीषम् ॥ओषधिवनस्पतिष्विष्टकासन्धिच्छादनार्थगोमयबुद्धिः कार्या ॥आहुतयः समिधः ।।स्पष्टोऽर्थः ।।अग्निर्लोकंपृणा ॥भूततृतीयाग्नौ लोकं पृण छिद्रं पृणेति मंत्रोपधेयशर्कराबुद्धिः कार्या । पृण प्रीणन इत्यस्मात्तौदादिकाल्लोकं पृणतीत्यर्थे मूलविभुजादित्वात्कप्रत्यये लोकस्य पृणे मुम्वक्तव्य इति मुमागमे स्त्रीत्वाट्टापि लोकंपृणेति रूपसिद्धिः ॥स यो हैतदेव वेद लोकंपृणाम् ॥एवमग्नौ लोकं पृणादृष्टिं यः करोति ।।एनं भूतमेतत्सर्वमभिसंपद्यते ।।एनं विद्वांसं सर्वाणि भूतान्याश्रयंतीत्यर्थः ।।तद्वा एतत्सर्वमग्निमेवाभिसंपद्यते स यो है तदेवं वेद लोकंपृणाम् ।।एवमुक्तप्रकारेणैतदग्निमेतमग्निम् । लिंगव्यत्ययच्छांदसः । लोकं पृणां यो वेद ।एनं भूतमेतत्सर्वमभिसंपद्यते ।।एनं विद्वांसमेतत्सर्वमभिसंपद्यते । शेषभूततयाऽऽश्रयतीत्यर्थः ।।