॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
यथाश्रयभावाधिकरणम्
समाहारात् (ब्र.सू.3.3.61)छान्दोग्ये प्रथमप्रपाठके पंचमखण्डे ।।अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति ॥अपि दुरुद्गीथं वेदनहीनमप्युद्गीथमित्यर्थः । होतृषदनात् होतृकर्तृकोद्गीथ प्रणवैक्यज्ञानादित्यर्थः । होतृषदनेत्यत्र पूर्वपदादिति षत्वम् । अयं भावः । उद्गीथप्रणवैकत्वविज्ञानं होत्रापि कर्त्तव्यमुद्गात्रापि कर्तव्यं, प्रणवे होतुरुद्गीथ उद्गातुश्च कर्तृत्वात् । तत्रोद्गातुरेतादृशैकत्वविज्ञानाभावेन दोषयुक्तमप्युद्गात्रा प्रयुज्यमानमुद्गीथं होता स्वीयोद्गीथप्रणवैकत्वविज्ञानमाहात्म्यादनुसमाहरति समादधात्यदुष्टं करोतीत्यर्थः ॥