॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
सम्बन्धाधिकरणम्
सबंधादेवमन्यत्रापि (ब्र.सू.3.3.20)बृहदारण्यके सप्तमाध्याये चतुर्थब्राह्मणादौ ।।हृदयस्य प्रजापतित्वेनोपासनमुक्त्वा सत्यत्वेनोपासनमाह -य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्मेति ॥प्रस्तुत्य व्याहृतिशरीरकब्रह्मविद्या श्रूयते ॥तद्यत्सत्यमसौ स आदित्यः य एष एतस्मिन्मंडले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः ।।यत्प्रसिद्धं सत्यमसौ स आदित्यः स क इत्यत्राह । य एष एतस्मिन्मंडले पुरुष इति । य एषोंऽतरादित्ये हिरण्मयः पुरुषो दृश्यते य एषोंऽतरक्षिणि पुरुषो दृश्यत इति श्रुतिप्रसिद्ध इत्यर्थः ॥तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् ॥अधिदैवतमध्यात्मं चावस्थितौ आदित्यचाक्षुषपुरुषौ परस्परोपकारकौ भवतः । रश्मिद्वारा आदित्यपुरुषश्चाक्षुषस्य पुरुषस्योपकारकः । आदित्यरश्मिसंबंधाभावे चाक्षुषपुरुषस्य परमात्मनः स्वकार्यासमर्थत्वात् । चाक्षुषश्च पुरुषः प्राणनद्वारा आदित्यपुरुषस्योपकारकः । प्राणनाभावे आदित्यपुरुषस्य परमात्मनः प्रकाशकत्वाभावात् ॥स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मंडलं पश्यति नैनमेते रश्मयः प्रत्याययंति ।।एवं विद्वानुत्क्रांतिवेलायां द्वारभूतमादित्यमंडलं द्रष्टुं शुक्रोति । सूर्यरश्मयः एनं प्रति प्रतिकूलं नायंति । अस्योपासकस्य चक्षुःप्रतिघाताय न प्रभवंति, चक्षुरादित्यमंडलस्थयोः परस्परोपकार्योपकारकभावज्ञानवैभवादिति भावः ॥य एष एतस्मिन्मंडले पुरुषः तस्य भूरिति शिरः ।।आदित्यमंडले वर्त्तमानस्य सत्यपुरुषस्य भूरिति व्याहृतिः शिर इत्यर्थः । तच्छिरस्कत्वेन ध्यानं कर्त्तव्यमिति भावः । तत्रोपपत्तिमाह ।।एकँ हि शिर एकमेतदक्षरम् ।।एकत्वसंख्यासाम्यादिति भावः ।।भुव इति बाहू ।।तत्रोपपत्तिमाह ।।द्वौ बाहू द्वे एते अक्षरे ।।द्वित्वसाम्यादिति भावः ।।सुवरिति प्रतिष्ठा ।।प्रतिष्ठा पादावित्यर्थः । तत्रोपपत्तिमाह ॥द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति ।।तस्यादिमंडलांतर्वर्त्तिनः अहरित्युपनिषद्रहस्यनामेत्यर्थः । उक्तं च व्यासार्यैः संबंधादेवमन्यत्रापीत्यत्रोषनिषदौ रहस्यनामनी इत्यर्थः इति ॥हंति पाप्मानं जहाति च य एवं वेद ।।अहरित्यस्य हंतेर्जहातेश्च रूपसंभवमभिप्रेत्य तदनुसारेण फलमाह – स पाप्मानं हंति जहाति च । एवमुत्तरत्रापि द्रष्टव्यम् ॥योऽयं दक्षिणेऽक्षन् पुरुषः – तस्योपनिषदहमिति (अध्यात्मं) हंति पाप्मानं जहाति च एवं वेद ॥पूर्ववदर्थः ॥