॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
सर्वाभेदाधिकरणम्
सर्वाभेदादन्यत्रेमे (ब्र.सू.3.3.10)छान्दोग्ये पंचमप्रपाठकारम्भे प्राणविद्या प्रस्तूयते ।।यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति ।।ज्येष्ठत्वश्रेष्ठत्वगुणकं प्राणं यो वेद स तत्क्रतुन्यायेन स्वयमपि ज्येष्ठश्च श्रेष्ठश्च भवति । ज्येष्ठत्वं वृद्धत्वम् । “वृद्धस्य च” (अष्टा. 5.3.62) इति वृद्धशब्दस्य ज्यादेशविधानात् । श्रेष्ठत्वं प्रशस्ततमत्वम् । “प्रशस्यस्य श्रः” (अष्टा. 5.3.60) इति प्रशस्यशब्दस्य श्रादेशविधानात् ॥ एवं फलदर्शनेन पुरुषमभिमुखीकृत्याह ॥प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥वावशब्दोऽवधारणार्थः । गर्भस्थपुरुषप्राणव्यापारप्रवृत्त्यनंतरभावित्वादिंद्रियप्रवृत्तेः प्राणस्येंद्रियापेक्षया ज्येष्ठत्वम् । इन्द्रियव्यापाराणां सर्वदैतदधीनत्वाच्छ्रैष्ठ्यं च ।।यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति ।।स्वानां ज्ञातीनां मध्ये वसिष्ठो भवतीत्यर्थः । को वसिष्ठ इत्यत्राह ।।वाग्वाव वसिष्ठः ।।अतिशयेन वसुमान्वसिष्ठः । वाग्मी हि लोके अतिशयेन वसुमान् भवति । अतश्च वसुमत्तासंपादकसद्व्यवहारजनकत्वं वाचो वसिष्ठत्वमिति भावः ॥यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिँश्च लोकेऽमुष्मिँश्च ।।ह शब्दः प्रसिद्धौ । अत्र चामुत्र च प्रतितिष्ठतीत्यर्थः । का तर्हि प्रतिष्ठेत्यत्राह ॥चक्षुर्वाव प्रतिष्ठा ।।चक्षुषा हि समे दुर्गे च प्रतितिष्ठतीति बृहदारण्यके समानप्रकरणे श्रवणात्प्रतिष्ठा संपादकसमविषमभूतलप्रदर्शकत्वमेव चक्षुषः प्रतिष्ठात्वम् ।यो ह वै संपदं वेद सँ हास्मै कामाः पद्यंते दैवाश्च मानुषाश्च ॥अस्मै कामाः संपद्यंत इत्यन्वयः । का तर्हि संपदित्यत्राह ।।श्रोत्रं वाव संपदिति ॥श्रोत्रे हि इमे सर्वे वेदा अभिसंपन्ना इति बृहदारण्यके समानप्रकरणे श्रवणात्संपद्धेतुभूतवेदशास्त्रतदर्थश्रवणादिसंपादकत्वमेव श्रोत्रस्य संपत्त्वम् ॥यो ह वा आयतनं वेदायतनँ ह स्वानां भवति मनो ह वा आयतनम् ॥स्रक्चंदनादिविषयकज्ञानस्वरूपभोगायतनत्वमेव मनस आयतनत्वम् ॥ मुख्यप्राणस्य श्रैष्ठ्यसंपादनायाख्यायिकामाह ।अथ ह प्राणा अहँ श्रेयसि व्यूदिरे अहं श्रेयानस्म्यहं श्रेयानस्मीति ॥अथशब्द आख्यायिकोपक्रमार्थः । अहं श्रेयसि स्वस्य श्रेयसि विषये व्यूदिरे अहं श्रेयानस्मि अहं श्रेयानस्मीति विवादं चक्रुरित्यर्थः ॥ते ह प्राणाः प्रजापतिं पितरमेत्योचुः भगवन् को नः श्रेष्ठ इति ॥स्पष्टोऽर्थः ।।तान् होवाच यस्मिन्व उत्क्रांते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठ इति ।।युष्माकं मध्ये यस्मिन्नुक्रांते शरीरमतिशयेन पापिष्ठमतिहेयमिव दृश्यते स वः श्रेष्ठ इत्युवाचेत्यर्थः ।।सा ह वागुच्चक्राम ।।सा प्रसिद्धा वाक् परीक्षणाय शरीरादुत्क्रान्तवती ॥सा संवत्सरं प्रोष्य पर्येत्योवाच । कथमशकतर्त्ते मज्जीवितुमिति ।।सा वागेकसंवत्सरं प्रवासं कृत्वा पुनरागत्य मदृते मां विना जीवितुं कथमशकत कथं शक्ता इत्युक्तवती ।।यथाऽकला अवदंतः प्राणंतः प्राणेन पश्यंतश्चक्षुषा शृण्वंतः श्रोत्रेण ध्यायंतो मनसैवमिति ॥यथा कला मूकाः वागिंद्रियव्यापाररहिता अपि इतरैः प्राणैस्तत्तत्कार्यं कुर्वंतो जीवंति एवं वयमप्यजीविष्मेति प्रत्यूचुः ॥प्रविवेश ह वाक् ।।एवमुक्ता वाक् स्वस्य श्रैष्ठ्याभावं निश्चित्य देहं प्रविष्टवती ।।चक्षुर्होच्चक्राम ।।चक्षुरुत्क्रान्तमभूत् । एवमुत्तरत्रापि द्रष्टव्यम् ।।अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशंकून्संखिदेदेवमितरान्प्राणान् समखिदत् ॥स मुख्यः प्राण उच्चिक्रमिषन्क्रमितुमिच्छन् यथा शोभनोऽश्वः परीक्षार्थमश्वारूढेन ताडितः पड्वीशशंकून्पादबंधनकीलकान्संखिदेत् उत्पाटयेदेवमितरान् प्राणान्स्वस्वस्थानेभ्य उत्पाटितवान् ॥तँ हाभिसमेत्योचुः भगवन्नेधि त्वन्नः श्रेष्ठोऽसि मोत्क्रमीरिति ।।हे भगवन् । पूजार्हत्वमेधि स्वामीति शेषः । अस्तेर्लोटि मध्यमपुरुषैकवचनम् । भवेत्यर्थः । अस्माकं त्वमेव श्रेष्ठोऽसि त्वमुत्क्रमणं मा कार्षीरिति इतरे प्राणास्तमागत्योचुरित्यर्थः ॥अथ हैनं वागुवाच यदहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति ।यत्-येन वाग्मिनो वसुमत्तासंपादकत्वलक्षणेन गुणेनाहं वसिष्ठास्मि त्वं तेन गुणेन वसिष्ठोऽसीत्यर्थः । मदीयस्य गुणस्य त्वदधीनत्वात् त्वदीय एव स गुण इति भावः । उक्तं च व्यासार्यैः अहं यत्स्वकार्यकरणसमर्थास्मि तस्य त्वदधीनत्वात्तवैतत्कार्यकरणसामर्थ्यमित्यर्थ इति ।।अथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठाऽसीति । अथ हैनं श्रोत्रमुवाच यदहं संपदस्मि त्वं तत्संपदसीति । अथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति । न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते । प्राणा इत्येवाचक्षते । प्राणो ह्येवैतानि सर्वाणि भवंति ॥लौकिका वा आगमज्ञा वा वागादीनींद्रियाणि सर्वाणि वागाद्येकैकवाचक वागादिशब्दैर्न व्यवहरंति । अपितु प्राणशब्देनैव व्यवहरंति । तत्कस्य हेतोः । प्राणाधीनसत्ताकत्वादितरेषाम् । “यदधीना यस्य सत्ता तत्तदित्येव भण्यते” इत्युक्तेः प्राणाधीनसत्ताकत्वादितरेषामिंद्रियाणां सर्वाणींद्रियाणि प्राण एव भवंतीत्यर्थः ॥