॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
आवृत्त्यधिकरणम्
आवृत्तिरसकृदुपदेशात् (ब्र.सू.4.1.1)मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डे ।।ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ।।ज्ञानहेतुभूतपरमात्मप्रसादेन विशुद्धांतःकरणः सन्निरवयवं परमात्मानं ध्यायमानो ध्यायन्ध्यानेन दर्शनसमानाकारज्ञानविशेषेण परमात्मानं साक्षात्करोतीत्यर्थः । कठवल्ली मंत्रोयम् ॥इत्यावृत्त्यधिकरणम् ।।