॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
आसीनाधिकरणम्
अचलत्वंचापेक्ष्य ४ । १ ॥ ९ ॥ छान्दोग्येसप्तमाध्यायेषष्ठखंडेभूमविद्यायाम् ॥
ध्यानंवावचित्ताद्भूयः ध्यायतीवष्टथिवीध्यायतीवांतरिक्षम् ॥
घ्यातुः श्रेष्ठयादेवध्यातारंपृथिव्यादयोप्यनुकुवैति। तस्माद्धयानंश्रेष्ठमित्यर्थः॥
यत्रैकाग्रतातत्राविशेषात् ॥ ४ ॥ १ ॥ ११ ॥
श्वेताश्वतरोपनिषदि ॥
समेशुचौशर्करावह्निवालुकाविवर्जितेशब्दजलाशयादिभिः । मनोनुकूलेनतुचक्षुः पीडने गुहानिवाताश्रयणेप्रयोजयेत् ॥
निम्नोन्नतत्वादिरहितेपरिशुद्धे क्षुद्रपाषाण वह्निवालुकारहिते वाद्यध्वनिजलाशयाद्यत्यंत सामीप्यरहिते मनोनुकूलेचक्षुः पोडनादिहेत्वौष्ण्यादिरहिते गुहादिलक्षणनिवातदेशाश्रयणेन योगमनुतिष्ठेदित्यर्थः ॥ इत्यासीनाधिकरणम् ॥