॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
अध्यक्षाधिकरणम्
सोऽध्यक्षे तदुपगमादिभ्यः (ब्र.सू.4.2.4)प्रश्नोपनिषदि षष्ठप्रश्ने ।।स ईक्षांचक्रे कस्मिन्नहमुत्क्रांते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति ।।मदुत्क्रांतिप्रतिष्ठासहभूतोत्क्रांतिप्रतिष्ठः को वा स्यादिति विचिंत्य प्राणं जीवोऽसृजदित्यर्थः । अत्र जीवस्य प्राणस्रष्टृत्वमदृष्टद्वारा द्रष्टव्यम् ।।इति अध्यक्षाधिकरणं